Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 926
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे दिग्भागे अपकर्मान्ति अपक्रम्य वैक्रियसमुदघातेन समवनन्ति समवहत्य संख्येयानि योजनानि दण्डं निसृजन्ति तद्यथा रत्नानां यावत् रिष्टानां यथा बादरान् पुद्गलान् परिशातयन्ति परिशात्य यथा सूक्ष्मान् पुद्गलान् पर्यादस्ते पर्यादाय द्वितीयमपि वैक्रियसमुद्घातेन यावत् समबन्धन्ति समवहत्य बहुसमरमणीयं भूमिभागं विकुर्वन्ति तद्यथानामकः आलिंग्यपुष्करः इति वा, तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यरेशभागे अत्र खलु एक महान्तम् अभिभषेकमण्डपं विकुर्वन्ति, अनेकस्तम्भतसन्निविष्टं यावद् गन्धवत्तिभूतं प्रेक्षागृह मण्डपवर्णकः इति, तस्य खलु अभिषेकमण्डपस्य बहुमध्यदेश भागे अत्र खलु महान्तमेकम् अभिषेकपीठं त्रिकुर्वन्ति अच्छे श्लक्ष्णम्, तस्य खलु अभिषेकपीठस्य त्रिदिशं त्रीन् त्रिसोपानप्रतिरूपकान् षिकु तेषां स्वलु त्रिलोपान प्रतिरूप हाणाम् अयमेतद्रूपो वर्ण व्याः प्रज्ञप्तः यावत् तोरणम् तस्य खलु अभिषेकपीठस्य बहुसमरमणीयो भूमिभागः प्रज्ञप्तः तस्य खलु बहुसमरमजीयस्थ भूमिभागस्य बहुमध्यदेशभागे अत्र खलु पकं सिंहासनं विकुर्वन्ति तस्य बलु सिंहासनस्य अयमेतद्रूपो वर्णकव्यासः प्रज्ञप्तो यावदामवार्णकं समाप्तमिति । ततः चलु ते देवा अभिषेकमण्ड विकुर्वन्ति विकुर्व्य यत्रैव भरतोराजा यावत् प्रत्यर्पयन्ति । ततः खलु स भरतो राजा अभियोग्यानां देवानामन्तिके पतम श्रुत्वा निशम्य इष्टतुष्टयावत् पौषधशालातः प्रतिनिष्क्रामति प्रतिनिष्क्रम्य कौटुम्बिकपुरुषान् शब्दयति शयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! अभिषेक्यं हस्तिरत्नं प्रतिकल्पयत प्रतिकल्प्य हयगज यावत् सन्नाहयत एतामाज्ञसिकां प्रत्यर्पयत यावत्प्रत्यर्पयन्ति । ततः खलु स भरतो राजा मज्जनगृहम् अनुप्रविशति यावद् अञ्जनगिरिकूटसन्निभं गजपति नरपति: दूरूढः । ततः खलु तस्य भरतस्य राज्ञ आभिषेक्यं हस्तिरत्नं दुरूढस्य सतः इमानि अष्टावष्टौ मङ्गलकानि य एव गमो विनीतां प्रविशतः स एव निष्क्रामतोऽपि यावत् प्रतिबुध्यन् २ विनातां राजधानीं मध्यंमध्येन निर्गच्छति निर्गत्य यत्रैव विनीता या राजधान्या उतरपौरस्त्ये दिग्भागे अभिषेकपण्डपस्तत्रैव उपागच्छति उपागत्य अभिषेकमण्डपद्वारे अभिषेक हस्तिरत्नं स्थापयति स्थापयित्वा अभिषेक्वात् हस्तिरत्नात् प्रत्यवरोहति पत्यवरुय स्त्रीरत्नेन द्वात्रशिता ऋतुकल्याणिकासहस्रैः द्वात्रिंशता जनपदकल्याणिकासहस्रैः द्वात्रिंशता द्वात्रिंशद् बद्वै र्नाटकसहस्रैः साद्ध संपरिवृतोऽभिषेकमण्डपम् अनुप्रविशति अनुप्रविश्यत्रैव अभिषेकपीठं तत्रैव उपागच्छति उपागस्य अभिषेकपीठमनुप्रदक्षिणी कुर्वन् अनुप्रदक्षिणी कुर्वन् पौरस्त्येनत्रि सोपानकप्रतिरूपकेन दूरोहति दूरुह्य यत्रैव सिंहासनं तत्रैव उपागच्छति उपागत्य पौरस्त्याभिमुखः सन्निषण्णः इति । ततः खलु तस्य भरतस्य द्वात्रिंशद्राज नह स्त्राणि यत्रैत्र अभिषेकमण्डपः तत्रैव उपागच्छन्ति उपागत्य अभिषेकमण्डपम् अनुप्रविशन्ति अनुप्रविश्य अभिषेकपोठम् अनुप्रदक्षिणो कुर्वन्तः अनुप्रदक्षिणीकुर्वन्तः उत्तरेण त्रिसोपान प्रतिरूपकेण यत्रैव भरता राजा तत्रैव उपागच्छन्ति उपागत्य करतल यावद् अञ्जलिं कृत्वा भरतं राजानं जयेन विजयेन वर्द्धयन्ति वर्द्धयित्वा भरतस्य राशो नात्यासन्ने नातिदूरे शुश्रूषमाणाः यावत् पर्युपासते ततः खलु तस्य भरतस्य राशः सेनापतिरत्नं यावत्सार्थवाह प्रभृतयस्तेऽपि तथैव नवरं दाक्षिणात्येन त्रिसोपानप्रतिरूपकेण बाबत पर्युपास्ते ||सू० ३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994