________________
स्वसमय वक्तव्यताधिकारः चैतन्य गुणोपलब्धेरस्तीत्यनुमीयते, चैतन्यं च तस्यासाधारणगुणइत्येतत् पृथिव्यादिभूतसमुदाये चैतन्यस्यनिराकृतत्वादवसेयम् । तथाऽस्त्यात्मा, समस्तेन्द्रियोपलब्धार्थसङ्कलनाप्रत्ययसद्भावात्, पञ्चगवाक्षाऽन्याऽन्योपलब्धार्थसंकलनाविधाय्येक देवदत्तवत् । तथाऽऽत्मा, अर्थद्रष्टानेन्द्रियाणि, तद्विगमेऽपि तदुपलब्धार्थस्मरणात्, गवाक्षोपरमेऽपि तद्द्वारोपलब्धार्थस्मृर्तृदेवदत्तवत् । तथा अर्थापत्त्याऽप्यात्माऽस्तीत्यवसीयते । तथाहि-सत्यपिपृथिव्यादिभूत समुदाये लेप्यकर्मादौ न सुखदुःखेच्छाद्वेषप्रयत्नादि क्रियाणां सद्भाव इति, अतःसामर्थ्यादवसीयते-अस्तिभूतातिरिक्तः कश्चित्सुख, दुःखेच्छादीनांक्रियाणां समवायिकारणं पदार्थः, सचाऽऽत्मेति, तदेवं प्रत्यक्षानुमानादि पूर्विकाऽन्याऽप्यर्थापत्तिरभ्यूह्या, तस्यास्तिवदं लक्षणम् -
प्रमाणषट्कविज्ञानो, यत्राऽर्थो नान्यथा भवन् । अदृष्टं कल्पयेदन्यं, सार्थापत्तिरुदाहृता ॥१॥
तथाऽऽगमादप्यस्तित्वमवसेयं, सचायमागमः "अत्थिमे आणा उववाइए" इत्यादि । यदिवा किमत्रापरप्रमाणचिन्तया ? सकल प्रमाणज्येष्ठेन प्रत्यक्षेणैवात्माऽस्तीत्यवसीयते, तद्गुणान्य ज्ञानस्य प्रत्यक्षत्वात्, ज्ञानगुणस्यच गुणिनोऽनन्यत्वात् प्रत्यक्षएवात्मा,रूपादिगुणप्रत्यक्षत्वेनपटादिप्रत्यक्षवत्, तथाहि-अहं सुख्यहंदुःख्येवमाद्यहं प्रत्यक्षग्राह्यश्चात्माप्रत्यक्षः, अहं प्रत्यक्षाय स्वसंविद्रूपत्वादिति । ममेदंशरीरं पुराणकर्मेति च शरीराद्भेदेन निर्दिश्यमानत्वाद् इत्यादीन्यन्यान्यपि प्रमाणानि जीवसिद्धावभ्यूह्यानीति । तथा यदुक्तं-'न भूतव्यतिरिक्तं चैतन्यं तत्कार्य्यत्वात् घटादिवदि' ति, एतदप्यसमीचीनं, हेतो रसिद्धत्वात्, तथाहि-न भूतानां चैतन्यं कार्यं तेषामतद्गुणत्वात्, भूतकार्यचैतन्ये संकलनाप्रत्यायासंभवाच्च, इत्यादिनोक्तप्रायम्, अतोऽस्त्यात्मा भूतव्यतिरिक्तो ज्ञानाधार इतिस्थितम् । ननुच किं ज्ञानाधारमूतेनात्मना ज्ञानाद्भिन्नेनाश्रितेन, यावता ज्ञानादेव सर्वसंकलनाप्रत्ययादिकं सेत्स्यति, किमात्मानान्तर्गडुकल्पेनेति, तथाहि-ज्ञानस्यैवचिद्रूपत्वाद् भूतैरचेतनैः कायाकारपरिणतैः सहसम्बन्धे सतिसुखदुःखेच्छाद्वेषप्रयत्नक्रिया:प्रादुष्यंति, तथासंकलनाप्रत्ययो भवान्तर गमनं चेति तदेवं व्यवस्थिते किमात्मना कल्पिते नेति ? अत्रोच्यते, नह्यात्मानमेकमाधारभूतमन्तरेणसंकलनाप्रत्ययो घटते । तथाहि-प्रत्येकमिन्द्रियैः स्वविषयग्रहणे सति परविषये चा प्रवृत्तेरेकस्य च परिच्छेतुरभावान्मयापञ्चाऽपिविषयाः परिच्छिन्ना इत्यात्मकस्य संकलनाप्रत्ययस्याभावइति । आलयविज्ञानमेक मस्तीति चेदेवं सत्यात्मनएवमानान्तरंभवता कृतस्यात् । न च ज्ञानाख्यो गुणो गुणिनमन्तरेण भवतीत्यवश्यमात्मना गुणिनाभाव्यमीति । स च सर्वव्यापी तद्गुणस्य सर्वत्रानुपलभ्ययानत्वात् घटवत् । नाऽपिश्यामाकतन्दुलमात्रोऽङ्गष्ठपर्वमात्रो वा, तावन्मात्रस्योपात्तशरीरा व्यापित्वात् । त्वक्पयंतशरीर व्यापित्वेन चोपालभ्यमान गुणत्वात् । तस्मात्स्थितभिदम्-उपात्तशरीरत्वक् पर्यन्तव्याप्यात्मेति । तस्य चानादिकर्म सम्बद्धस्य कदाचिदपि सांसारिकास्यात्मनः स्वरूपेऽनवस्थानात् सत्यप्यमूर्त्तत्वे मूर्तेन कर्मणा सम्बन्धो न विरुध्यते । कर्म सम्बन्धाच्च सूक्ष्मवादरैकेन्द्रियद्वित्रिचतुष्पञ्चेन्द्रियपर्याप्तापर्याप्ताद्यवस्था बहुविधाः प्रादुर्भवन्ति । तस्यचैकान्तेन क्षणिकत्वे ध्यानाध्ययन श्रमप्रत्यभिज्ञानाधभावः । एकान्तनित्यत्वे च नारकतियङ्मनुष्यामरगति परिणामाभावः स्थात्, तस्मातस्याद नित्यः स्यान्नित्य आत्मेत्यलमतिप्रसंगेन ॥८॥
टीकार्थ - चार्वाक मत का सूत्रकार "एएपंचमहब्भूया' इस पद को लेते हुए विवेचन करते है-पहले पृथ्वीआदि इन पांच महाभूतों की चर्चा की है, वे जब मिलकर शरीर के रूप में परिणत हो जाते है तो उन पंचमहाभूतों से अभिन्न एक चिद् रूप-ज्ञानस्वरूप आत्मा की उत्पत्ति होती है । उनका कथन है कि इन पांच भूतों के अतिरिक्त दूसरा कोई जीव या आत्मा नामक, पदार्थ, जिसकी दूसरे मतवादी कल्पना करते हैं, परलोक नहीं जाता-मरकर नया जन्म नहीं पाता, सुखदु:ख नहीं भोगता । वे इसे इस प्रकार सिद्ध करते हैं-पृथ्वीआदि भूतों के अतिरिक्त-उनके पृथक् आत्मा नामक कोई पदार्थ नहीं है, क्योंकि ऐसा कोई प्रमाण नहीं हैं जो उसका
( 13