Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
Catalog link: https://jainqq.org/explore/020150/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।। ।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।। ।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।। आचार्य श्री कैलाससागरसूरिज्ञानमंदिर पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक:१ आराधना वीर जैन श्री महावी कोबा. अमृतं अमृत तु विद्या तु श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355 For Private And Personal Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीहेमचन्द्राचार्य ग्रन्थावली न० २० ॐ अर्हम् श्री राजशेखरसूरिविरचितः चतुर्विंशतिप्रबन्धः आचार्य महाराजश्रीविजयनीतिमूरीश्वरसमुपदिष्टचाणस्माचा स्तव्य श्राद्धवर्य 44 शाह पूनमचन्द नगीनदास " इत्येतत्साहाय्येन पटनस्थश्री हेमचन्द्राचार्यसभायाः सेक्रेटरी " शा. जगजीवनदास उत्तमचन्द " इत्यनेन प्रकाशितः श्रावक पण्डित वीरचन्द्रप्रभुदासाभ्यांच संशोधितः मुद्रितस्तु पट्टस्थ " केशव " जैन मुद्रालयाधिपतिदोलत चन्द्रात्मज केशवलालेन प्रकाशककृते ता. २०-१०-१९२१ संवत १९७७ प्रतय. ३०० मूल्यं रूप्यकमात्रम् For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir विषयः प्रवन्धानुक्रमणिका पृष्ठाङ्कः - ८ हरिभद्रमरिमबन्धः.... २६-२८ १७ विक्रमादित्यप्रवन्धः..... ८६-९१ ९ बप्पभट्टमरिप्रबन्धः..... २८-५१] १८ नागार्जुनप्रबन्धः.... ९१-९३ १ भद्रबाहुवराहप्रवन्धः.... १-४ १० हेमचन्द्रमरिमवन्धः.... ५१-६० १९ वत्सराजोदयनप्रबन्धः.... ९३-९५ २ आर्यनन्दिलप्रबन्धः.... ५-७ | ११ हर्षकविप्रवन्धः.... ६०-६४ २० लक्ष्मणसेनकुमारदेवप्रबन्ध..९६-९७ ३ जीवदेवमूरिप्रबन्धः.... ७-११ १२ हरिहरप्रबन्धः.... . ६४-६७ २१ मदनवर्मप्रबन्धः.... ९७-९९ ४ आर्यखपटाचार्यप्रबन्धः.... १०-१२ १३ अमरसुरिप्रबन्धः..... ६८-७० २२ रत्नश्रावकप्रबन्धः.... १००-१०४ ५ पादलिप्ताचार्यप्रवन्धः... १३-१६ १४ मदनकीर्तिप्रबन्धः..... ७०-७३ २३ आभडप्रबन्धः...... १०४-१०७ ६ वृद्धवादिसिद्धसेनमरिभवन्धः १६-२३| १५ सातवाहनप्रबन्धः.... ७३-८२ २४ वस्तुपालप्रबन्धः...... १०७-१३८ ७ मल्लवादिप्रबन्धः..... २३-२५/ १६ वङ्कचूलपबन्धः..... ८२-८६ For Private And Personal Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashesgarsuri Gyanmandit श्रीहेमचन्द्राचार्यग्रन्थावली न० २० ॐ अहम् श्री गजशेखरमृतिविरचितः चतुर्विशतिप्रबन्धः आचार्यमहाराजश्रीविजयनीतिमूरीश्वरसमुपदिष्टचाणम्माषास्तव्यभावपर्य "शाह पूनमचन्द नगीनदास" इत्येतत्साहाय्येन पटनस्थश्रीहेमचन्द्राचार्यसभायाः सेक्रेटरी "शा. जगजीवनदास उत्तमचन्द" इत्यनेन प्रकाशितः श्रावकपण्डितवीरचन्द्रप्रभुदासाभ्यांच संशोधितः मुद्रितस्तु पट्टनस्थ " केशव" जैन मुद्रालयाधिपतिदोलनचन्द्रात्मजकेशवलालेन प्रकाशककृते संवत १९७७ प्रतय. ३.. ता. २०-१०-१९२१ मूल्यं रुप्यकमात्रम् For Private And Personal Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धानुक्रमणिका विषयः पृष्ठाङ्कः | ८ हारभद्रमूरिभवन्धः.... २६-२८| १७ विक्रमादित्यप्रवन्धः..... ८६-९१ ९ बप्पभट्टमरिमबन्धः.... २८-५१ १८ नागार्जुनप्रबन्धः.... ९१-९३ १ भद्रबाहुवराहप्रवन्धः.... १-४ | | १० हमेचन्द्रमरिप्रबन्धः.... ५१-६० १९ वत्सराजोदयनप्रवन्धः.... ९३-९५ २ आर्यनन्दिलप्रवन्धः..... ५-७ | ११ हर्पकविप्रवन्धः..... ६०-६४ २० लक्ष्यणसेनकुमारदेवप्रबन्ध..९६-९७ ३ जीवदेवमूरिप्रवन्धः..... ७-१० १२ हरिहरप्रवन्धः..... ६४-६७ २१ मदनवर्मप्रबन्धः...... ९७-९९ ४ आर्यग्वपटाचार्यप्रबन्धः.... १०-१२ ६८-७० २२ रत्नश्रावकपबन्धः.... १००-१०४ ५ पादलिप्ताचार्यप्रवन्धः... १३-१६ १४ मदनकीर्तिप्रबन्धः..... ७०-७२ २३ आभडप्रवन्धः...... १०४-१०७ ६ वृद्धवादिसिद्धसेनमारिभवन्धः १६-२३ १५ सातवाहनप्रबन्धः.... ७३-८२ २४ वस्तपालप्रवन्धः...... १०७-१३८ ७ मलुवादिप्रबन्धः..... २३-२५ १६ वङ्कचूलप्रवन्धः.... For Private And Personal Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वंशति यत्ताऽऽगमशुद्धधीजकबलादद्यापि तत्वाभिधाः लभ्यन्ते निधयो बुधैर्भरतभुव्यस्यां स वीरः श्रिये ॥४॥ देयासुर्वाङ्मयं मे जिनपगणभृतो भारती सारतीबा भारत्याः सौम्यदृष्ट्या विलसतु मम सा सन्तु सन्तः प्रसन्नाः। मरिमें सदगुरुः श्रीतिलक इति कलाः स्फोरयत्वस्तविघ्नः शिष्याः स्फूर्जन्तु गर्जन्त्वविरलसुकृतश्रेणयः श्रावकौघाः ॥५॥ इह किल शिष्येण विनीतविनयेन श्रुतजलधिपारङ्गमस्य क्रियापरस्य गुरोः समीपे विधिना सर्वमध्येसव्यम् । ततो भव्योपकाराय देशना क्लेशनाशिनी विस्तार्या । तद्विधिश्चायम्-अस्खलितम् , अमिलितम् , | अहीनाक्षरं सूत्रम् , अग्राम्यललितभङ्गयार्थः कथ्यः, कायगुप्तेन परितः सभ्येषु दत्तदृष्टिना यावदर्थयोधं वक्तव्यम् । वक्तुः प्रायेण चरितैः प्रबन्धैश्च कार्यम् । तत्र श्री ऋषभादिवर्धमानान्तानां जिनानाम् , चबधादीनां राज्ञाम् , ऋषीणां चार्यरक्षितान्तानां वृत्तानि चरितानि उच्यन्ते । तत्पश्चात्कालभाविनां तु नराणां वृत्तानि प्रबन्धा इति। इदानी वयं गुरुमुखश्रुतानां विस्तीर्णानां रसाख्यानां प्रबन्धानां सङ्घहं कुर्वाणाः स्म । तत्र सूरिप्रवन्धा For Private And Personal Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ अहम् श्रीहेमचन्द्राचार्यप्रन्धाधली में० २० श्रीराजशेखरसूरिविरचित चतुर्विंशतिप्रबन्धः॥ राज्याभिषेके कनकासनस्थः सर्वाङ्गदिव्याभरणेऽभिरामः। श्रियेऽस्तु वो मेरुशिरोऽवतंसः कल्पद्रुकल्पः प्रथमो जिनेन्द्रः॥१॥ विवेकसुच्चैस्तरमारोह यस्ततोऽद्रिशङ्गं चरणं ततस्तपः। ततःपरं ज्ञानमयोत्तरं पदं श्रियं स नेमिर्दिशतृत्तरोत्तराम् ॥२॥ यस्मै स्वयंवरसमागतसप्ततत्त्वलक्ष्मीकरग्रहणमाचरतेति भक्त्या। साव्यधात्फणिपतिः फणमण्डपान्कि वामानभूः स भगवान्भवतान्मुदेवः ।।३॥ अर्थेन प्रथमं कृतार्थमकरोद्यो वीरसंवत्सरे । दाने च व्रतपर्वजेऽथ परमार्थेनापि विष्वग जनम् । For Private And Personal Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | दश, कविप्रयन्धाश्चत्वारः, राजप्रबन्धाः सप्त, राजाङ्गश्रावकप्रबन्धात्रयः, एवं चतुर्विंशतिः।१ भद्रबाहुवराहयोः, २ आर्यनन्दिलक्षपणकस्य, ३ श्रीजीवदेवमरीणाम् , ४ आर्यखपटाचार्याणाम् , ५ पादलिप्तप्रभूणाम् , ६ वृद्धवादिसिद्धसेनयोः, ७ मल्लवादिनः, ८ हरिभद्रमरीणाम् , ९ बप्पभटिसूरीणाम् , १० हेममरीणाम् , ११ श्रीहर्षकवेः, १२ हरिहरकवेः, १३ अमरचन्द्रकवेः, १४ दिगम्बरमदनकीर्तिकवेः, १५ सातवाहन-१६ वङ्कचूल-१७ विक्रमादित्य-१८ नागार्जुन-१९ उदयन-२० लक्षणसेन-२१ मदनवर्मणाम् , २२ रत्न-२३ आभड-२४ वस्तुपालानां चेति । तेषु प्रथमं भद्रबाहुवराहप्रबन्धःदक्षिणापथे प्रतिष्ठानपुरे भद्रबाहु-वराहाह्रौ द्वौ द्विजौ कुमारी निर्धनी निराश्रयी प्राज्ञो वसतः । तत्र यशोभद्रो नाम चतुर्दशपूर्वी समागतः । भद्रबाहुवराही तद्देशनां शुश्रुवतुः। यथा-भीगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवः, तत्त्वस्येह कृते परिभ्रमत रे! लोकाः! मृतं चेष्टितैः। आशापाशशतोपशान्तिविशदं चेतः समाधीयताम् , काप्यात्यन्तिकसौख्यधामनि यदि श्रद्धेयमस्मद्वचः॥१॥ For Private And Personal Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रबन्धः ॥२॥ एतच्छ्रवणमात्रत एव प्रतिवुद्धौ गृहं गत्वा तौ मन्त्रयेते स्म-"जन्म कथं वृथा नीयते ? तावद्भोगसामग्री नास्ति, तर्हि योगः साध्यते। अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः पृष्टे लीलावलयरणितं चामरग्राहिणीनाम् । यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥१॥" इति विमृश्य द्वावपि बान्धवौ प्रवव्रजतुः । भद्रबाहुश्चतुर्दशपूर्वी षट्त्रिंशद्गुणसम्पूर्णः सूरिरासीत् । दर्शवकालिक-उतराध्ययन-दशाश्रुतस्कन्धकल्प- व्यवहार- आवश्यक- सूर्यप्रज्ञप्ति -सूत्रकृत-आचाराङ्ग -ऋषिभाषिताख्यग्रन्थदशकप्रतिबद्धदशनियुक्तिकारतया प्रपथे, भद्रबाहवीं नाम संहितां च व्यरचयत् । तदा आर्यसंभूतिविजयोऽपि चतुर्दशपूर्वी वर्तते । श्रीयशोभद्रसूरीणां स्वर्गगमनं जातम् । भद्रबाहुसंभूतिविजयौ स्नेहपरौ परस्परं भव्याम्भोरुहभास्करी विहरतो भरते पृथक् पृथक । वराहोऽपि विद्वानासीत् , केवलमखर्वगर्वपर्वतारूढः सरिपदं याचते भद्रबाह्वाह्वसहोदरपार्धात् । भद्रबाहुना भाषितः सः-" वत्स! विद्वानसि, क्रियावानसि, परं सगर्वोऽसि, सगर्वस्य सूरिपदं न दद्मः" एतत्सत्यमपि तस्मै न सस्वदे। यतो गुरुवचनममलमपि महदुपजनयति श्रवणस्थितं शूलमभव्यस्य । ततो व्रत तत्याज । मिथ्यात्त गत: पुनजिवेषं जग्राह। For Private And Personal Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandir व्रतावस्थाधीतशास्त्रार्थज्ञतया वाराहसंहितादिनवानशास्त्ररचनायां प्रगल्भे, लोकेषु च जगाद-"अहं बाल्ये लग्नमभ्यस्यामि स्म । तद्विचार एव लीनस्तिष्ठामि स्म । एकदा प्रतिष्ठानाहहिः शिलायामकस्यां लग्नं | मण्डयामि स्म । सायममृष्ट एव तस्मिन्स्वस्थानमागत्य स्वपिमि स्म । सुप्तोऽहं तल्लग्नममृष्टं स्मरामि स्म । ततो माटुं तत्र यामि स्म । तत्र लग्नाधिष्ठिते शिलातले पञ्चानन उपविष्टोऽभूत् । तथापि तदुदरदेशे करं निक्षिप्य मया तल्लग्नं मृष्टम् । तावता पञ्चाननः साक्षागास्कर एवाभूत् । तेनाहं भाषितः-'वत्स ! तव दृढनिश्चयतया लग्नग्रहभक्त्या च तुष्टोऽस्मि, रविरहम् , वरं वृणीष्व ।' अथ मयोक्तम्-स्वामिन् ! यदि प्रसन्नोऽसि, तदा निजविमाने चिरं मामवस्थापय, सकलमपि ज्योतिश्चक्र मे दर्शय । अथाहं मिहरेण चिरं स्वविमानस्थः खे भ्रामितोऽस्मि । सूर्यसंक्रमितामृतसंतर्पितेन च मया क्षुत्तृषादिदुःखं न किश्चिदनुभूतम् । कृतकृत्यश्च सूर्यमापृच्छय ज्ञानेन च जगदुपकर्तुं महीलोकं भ्रमन्नस्मि । अहं 'वराहमिहरः' इति वाच्यः।" इत्यादि स्वैरं प्रख्यापयामास । संभाव्यत्वात् लोके पूजां परमामाप्य प्रतिष्ठानपुरे शत्रुजितं भूपालं कलाकलापेन रञ्जयामास । तेन निजपुरोहितः कृतः। यतः गौरवाय गुणा एव न तु ज्ञातेयडम्बरः। वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः॥१॥ - For Private And Personal Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्धः अथ श्वेताम्यरान्निन्दति-"किममी वराकाः काका विदन्ति ? मक्षिकावद्भिणिहणायमानाः कारास्था इव कुचेलाः कालं क्षपयन्ति, क्षपयन्तु।” तच्छृण्वतां श्रावकाणां शिरःशूलमुत्पेई । धिगिदमस्माकं जीवितम् । येन गुर्ववज्ञां सहामहे । किं कुर्मः ? अयं कलावानिति नरपतिना पूज्यते । राजभिः पूज्यते यश्च सर्वैरपि स पूज्यते । भवतु । तथापि भद्रबाहुमायामस्तावत् । इति संमन्त्र्य तथैव चक्षुः । आगताः श्रीभद्रबाहवः ।। कारितः श्रावकैः सस्पर्द्धप्रवेशमहः । स्थापिता गुरवः सुस्थाने । नित्यं व्याख्यारमानास्वादयामासुः सभ्याः । भद्रबाबागमे वराहो बाद मम्लौ । तथापि तेभ्यो नापकर्तुमशकदसौ। । अत्रान्तरे वराहमिहरगृहे पुत्रो जातः । तज्जन्मतुष्टः प्रभूतं धनं व्ययति स्म । लोकाच पूजामाप्नोति स्म । 'पुत्रस्य वर्षशतमायुः' इति तेन नरेन्द्रादिलोकाग्रसभासमक्षं प्रख्यापितम् । गृहे उत्सवोदयस्तस्य । एकदा सदसि वराहः प्राह स्म-"अहो ! सहोदरोऽपि भद्रबाहुमें पुत्रजन्मोत्सवे नागात् , इति बाह्या एते" एतदाकर्ण्य श्रावकैर्भद्रबाहुर्विज्ञप्तः । एवं एवं असौ वदन्नास्ते। गम्यतां भवद्भिरेकदा तद्गृहम् । मावृधन्मुधा क्रोधः। भद्रबाहुनाऽऽदिष्टम्-"द्वौ क्लेशो कथं कारयध्वे ? अयं बालः सप्तमे दिने निशीथे बिडालिकया घानिष्यते। तस्मिन्मने शोकविमर्जनायापि गन्तव्यमेव तावत् ।" श्रावकैरूचे-" तेन विप्रेणोपराजमर्भस्य समाशतपायुरुक्तम् । भवद्भिः पुनरिदमादिश्यते । किमेतत् ? " | - ----- - - ||३॥ For Private And Personal Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcharth.org Acharya Shri Kailashsagarsuri Gyanmand श्रीभद्रबाहुस्वामिना भणितम्-"ज्ञानस्य प्रत्ययः सारम् , म चासन्न एवास्त"। स्थितास्तूष्णी श्रावकाः । आगतं सप्तमं दिनम् । तत्रैव द्विप्रहरमात्रायां रात्री घालं स्तन्यं पाययितुं धात्र्युपविष्टा । द्वारशाखाग्रन्यस्ताऽर्गला बालमस्तके पतिता जनान्तरसञ्चारात् । प्रमृतो बालः । रुद्यते वराहगृहे मिलितो लोकः । भद्रबाहुनाऽपि श्रावका उक्ताः-शोकापनोदो धर्माचार्यः, इति तत्रास्माभिरधुना गन्तव्यम् । " श्रावकशतवृता गतास्तत्राचार्याः । वराहशोकसङ्कलोऽप्यभ्युत्थाधुचितमकरोत् । अभ्यद्धाच्च-"आचार्याः ! भवतां ज्ञानं मिलितम् , केवलं बिडालीतो मृत्युन, किन्त्वर्गलातः" भद्रबाहुना निजगदे-" तस्या अर्गलाया लोहमय्या | अग्रभागे रेखामयी बिडाल्यस्ति, नासत्यं ब्रूमः।” आनीताऽवलोकितागला तथैवास्ते । अधोवाच बराहः| " तथा पुत्रशोकेन न खिद्येऽहम् , यथा राजविदिताख्यातपुत्रशतायुस्त्ववैफल्येन खिये । धिगमीषां निजपुस्तकानां प्रत्ययेनास्माभिर्ज्ञानं प्राकाशि, एतान्यसत्यानि तस्मात्तु मृज्मः।" इत्युक्त्वा कुण्डानि जलैरपूपुरत्। पुस्तकानि माष्टुं स यावदारभते, तावद्भद्रबाहुना बाहौ धृत्वा वारितः, "आत्मप्रमादेन ज्ञानं विनाश्य कथं पुस्तकेभ्यः कुप्यसि ? एते पुस्तकाः सर्वज्ञोक्तमेव भाषन्ते, ज्ञाता तु दुर्लभः । अमुकस्मिन्स्थाने त्वं विपर्यस्तमतिर्जातः, आत्मानमेव निन्द । प्रभुप्रसादस्तारुण्यं विभवो रूपमन्वयः। शौर्य पाण्डित्यमित्येतदमयं मदकारणम् ॥ १॥ For Private And Personal Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandit चतुर्विंशति । मत्तस्य कुतो विचारमूक्ष्मक्षिकाः तस्मान्माभाडीः पुस्तकान ।” इति निषिद्धः विलभीभव वराहः । तत्रान्तर पूर्व तत्कृताहन्मतगहीपीडितमनमा केनापि श्रावकेण पठितम् "युष्मादृशाः कृपणकाः कृमयोऽपि यस्यां भान्ति स्म संतमसमय्यगमन्निशाऽसौ। सूर्याशुदीप्तदशदिग्दिवसोऽधुनाऽयं भात्यत्र नेन्दुरपि कीटमणे ! किमु त्वम् ॥१॥ इति वदन्नेव नष्टः सः।" या पीडितो वराहः । अत्रान्तरे स्वयमागतो राजा। राज्ञोक्तम्-" मा स्म शोचीः, भवस्थितिरियं विद्वन् !" तदा जिनभक्तेन राजमन्त्रिणैकेन भणितम्-"ते आचार्या नवा याताः सन्ति, यैर्डिम्भस्य सप्ताहमात्रमायुरभाणि ते सातवाचो महात्मानः" केनापि दर्शिता भद्रबाहवः, "एते ते" तदा द्विजस्तथा दूनः, यथा स एव विवेद । गतो राजाऽपि, भद्रबाहुरपि, लोकोऽपि स्वस्थानम् । राजा श्राधकधर्म प्रतिपेदे । वराहोऽपमानाद्भागवती दीक्षां गृहीत्वाऽज्ञानकष्टानि महान्ति कृत्वा जैनधर्मद्वेषी दुष्टो व्यन्तरोऽभूत् । ऋषिषु द्वेषवानपि न प्रबभूव । सपो हि वज्रपञ्चरप्रायं महामुनीनां परप्रेरितप्रत्यूहपृषत्कदुर्भेदतरम् । अतः श्रावकानुपद्रोतुमारेभे | गृहे गृहे रोगानुत्पादयामास । श्रावकैः पीडातर्भद्रबाहुरादरेण विज्ञस:" भगवन् ! भवति सत्यपि यद्वयं कम्भिः पीड्यामहे, तत्सत्यमिदम्-कुञ्जरस्कन्धाधिरूढोऽपि भषणैर्भक्ष्यते" इति । गुरुभिरमाणि-"मा भैष्ट, मोऽयं वराहमिहरः पूर्ववैरागवड्यो दुधक्षति। रक्षामि पाणेरपि बज्रपाणेः।" N ॥४ ॥ For Private And Personal Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |नतः पूर्वेभ्य उद्धृत्य ' उवमगहरं पामम ' इत्यादि स्तवनं गाथापनकमयं संदरभं गुरुभिः, पठितं च तल्लाकः, सद्य शान्तिं गताःलेशाः । अद्यापि कष्टापहारार्थिभिस्तत्पश्यमानमास्ते, अचिन्त्यचिन्तामणिप्रनिमं च तत् । श्रीभद्रबाहुनां विद्योपजीवी चतुर्दशपूर्वी श्रीस्थूलभद्रः परमतान्यचुचूर्णविति । ॥ श्रीभद्रबाहुवराहप्रबन्धः प्रथमः ।। अथार्यनन्दिलप्रवन्धःपद्मिनीखण्डपत्तने पापभनामा राजा । तस्य भार्या पद्मावती । तस्मिन पुरे पद्मदत्तनामा श्रेष्ठी वमति । तस्य कान्ता पायशानामा । तयोः सुप्तः पद्मनामाऽभूत् । वरदत्तेन सार्थवाहेन स्वकीया वैरोट्या नाम पुत्री तस्य दत्ता । सतां व्यवायत् । अन्यदा वरदत्तो वैरोख्याजनकः मपरिवारो देशान्तरं गच्छन् वनदवेन दग्धः । वैरोव्यां श्वश्रः शुभ्रष्यमाणाऽपि निपितृकां भणित्यापमानयति । यतः "रूप रहो धनं नेजः मौभाग्यं प्रनविष्णुना । प्रभावात्पैतृकादेव नारीणां जायते ध्वम् ॥१॥" For Private And Personal Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रवन्धः मा श्ववचनैः कुकुलानलकर्कशः पीडिताऽपि देवमुपालभते, न श्वश्रं निन्दति, चिन्तयति च " सम्वो पुवकयाणं कम्माणं पावा फलविवागं । अबराहेमु गुणेसु य निमित्तमित्तं परो होड ॥१॥" अन्यदा वैरोट्या भोगीन्द्रस्वप्नभूचितं गर्भ बभार । पायसभोजनदोहद उत्पन्नः । तदाऽऽचार्यनन्दिलनामा मरिझद्याने समवासार्षीत, सार्द्धनवपूर्वधरआर्यरक्षितस्वामिवत् । वैरोट्यायाः श्वश्रुरिति वक्ति-“ अस्या वध्वाः सुता भविष्यति, न तु सुतः, ” इति कर्णक्रकचकर्कशतद्वचःपीडिता मती सा सती वधूः मृरिवन्द| नार्थ गता । मरयो वन्दिताः । ततः स्वस्य श्वश्वा सह विरोधोऽकथि। मृरिभिरक्तम-" पूर्वकर्मदोषोऽयम् , | क्रोधो न वर्द्धनीयः भवहेतुत्वात् , वत्से! इह लोए चिय कोवो मरीरसंतावकलहवेराई । कुणइ पुणो परलोए नरगाइसुदारुणं दुकानं ॥१॥ पुत्रं च लप्स्यसे । पायसदोहदस्ने जातोऽस्ति । सोऽपि यथातथा पूरयिष्यते ।" इति सा मृरिवचसाऽऽ नन्दितचित्ता निजगृहमागच्छत् , अचिन्तयच्च"अस्माभिश्चतुरम्बुराशिरसनाविच्छेदिनी मेदिनी, भ्राम्यद्भिः स न कोऽपि निस्तुषगुणो दृष्टो विशिष्टो जनः। यस्याग्रे चिरसश्चितानि हृदये दु:ग्वानि सौख्यानि वा, व्याख्याय क्षणमेकमर्द्धमथवा निःश्वस्य विश्रम्यते ॥१॥ For Private And Personal Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पते तु गुरवस्तादृशाः मन्ति ।" पद्मयशा अपि चैत्रपूर्णिमायामुपोषिता पुण्डरीकतपसि क्रियमाणे उद्यापनमारेभे। तहिने पायसपूर्णः प्रतिग्रहो यतिभ्यो दीयते, साधर्मिकवात्सल्यं च क्रियते । तया सर्व कृतम् । वध्वाः पुनर्वैरभावात्कुलत्यादि कदशनं दत्तम् । वधू पुनः स्थाल्यामुद्धृतं पायसं प्रच्छन्नं कृत्वा वस्त्रे बद्धवा घटे क्षिप्त्वा जलाशयं जलाय गता । वृक्षमूले कुम्भं मुक्त्वा यदा हस्तपादप्रक्षालनार्थ गता, तावताऽलिञ्जरनामा नागः पातालेऽस्ति, तस्य कान्तायाः पायसदोहदः समजनि, पृथिव्यामायाता क्षीरान्नं गवेषयति, तत्र तरोमले घटमध्ये क्षीरान्नं दृष्टम् , भुक्तं च । येन मार्गेणागता, तेनैव गना नागपत्नी । यदा वैरोट्या पादशौचं कृत्वा समायाति, तावत् क्षीरानं न पश्यति । तथापि न चुकोप । न विरूपं बभाषे । किन्त्वेवं बभाण-"येनेदं भक्षितं भक्ष्यं, पूर्यतां तन्मनोरथः " इत्याशिषं ददौ । इतश्चालिचरपत्न्या तर्वन्तरितस्थितया तस्यास्तदाशीर्वचनं श्रुतम् । स्वस्थानमेत्य स्वनडे निवेदितं च । वैरोट्या स्वगृहमागता । ततो रात्री वैरोट्यापातिवेश्मिक्याः स्त्रियाः स्वप्ने नागपत्न्या कथितम्-" भद्रे ! अहं अलिञ्जरनागपत्नी । मदीया तनया वैरोट्या । तस्याः पायसदोहदोऽस्ति । स तस्या| स्त्वया पूरणीयः । तथा तस्याग्रे कथनीयम्-" तवपितृकुलं नास्ति, परमहं पितृसमानोपकारं करिष्यामि, श्वश्रपराभवाग्नितापमुपशमयिष्यामि ।" तया प्रातिवेश्मिक्या प्रातर्वैरोट्या क्षीरान्नं भाजिता, सम्पूर्णदोहदा | For Private And Personal Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति | सूतमजीजनत् । नागकान्तयापि सुतशतमयत । वैरीव्यापुत्रनामकरण दिन पन्नगंन उत्सवः कारितः । | यत्र पितृगृहं पूर्व स्थितम् । तत्र धयलगृह कारयित्वा पातालवासिभि गैरलकृतम् । गजाऽश्ववरवाहनपदा तिवर्गसहिता नागलोकाः समाययुः । तस्या गृहं लक्षम्या संकीर्ण चक्रुः । अलिञ्जरपत्नी पतिना पुत्रैश्च युता दिव्यवस्नपद्दकूलस्वर्णरत्नखचितसर्वाङ्गाभरणादिकं सर्व मनोज्ञं वस्तुसमुहं बैरोव्यायाः प्रतिपन्नसुतारधेन पूरयति । वैरांट्या अलिञ्जरपत्नीगृहे नित्यं यात्यायाति च । अलिञरपत्न्यातीव मान्यते, पूज्यते वैराव्या। श्वश्रूस्तथाविधं पितृगृहं मेलापकमिव दृष्ट्वा तां वैरोट्यां वधू सत्कर्तुमारेभे । 'लोकः पूजितपूजकः । वैरोव्याया रक्षार्थ नागवध्वा स्वकीयलघवः शतं पुत्राः सर्पकाः समर्पिताः । तया सर्पा घटे भिताः । मन्त्र कयापि कर्मकर्या अग्नितप्तस्थालीमुखे मर्पघटी दत्तः । तत्क्षणमेव वैरांट्ययोत्तारितः । पानीयनाभिषिक्तास्ते ततः स्वस्थाः सम्पन्नाः । एकस्तु शिशुर्विपुच्छो जातः । यदा स स्खलति क्षिनौ, तदा वरोदया ब्रने- "बण्डो जीवतु" वैरोट्या जातकस्य स्नेहेन मोहितास्ते मर्वे बान्धवरूपाः मर्पाः क्षोमरत्नस्वर्णादि दत्वा नामकरणं च | | कारयित्वा यथास्थानं ययुः । वैरोट्या नागप्रभावात् गौरवपात्रं जाता। अन्यदालिञ्चरः स्वपुत्रं पुच्छरहितं दृष्टवा चुक्रोध । मम पुत्रः केन दुरात्मना विपुलः कृतः । ततो वैरोट्यया कृतो विपुच्छो मे पुत्रः । ' इत्यवधिना ज्ञात्वा वैरोट्याया उपरि पूर्व मुप्रसन्नोऽपि चुकाप।। For Private And Personal Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmande कुपितः सन् विरूपं कर्तुं वैरोट्याग्रहमगमत् । अलिञ्जरी गूढतनुहमध्ये स्थितः । यदा वैरोट्या ध्वान्तभरे सति गृहापवरकनध्ये प्रविष्टा , तदा लयोक्तम्-" रण्डो जीवतु चिरम्" तच्छुत्वा नागराजः सन्तुष्टस्तस्यै नुयूरे ददौ । “अद्य प्रभृति वत्से ! त्वचा पाताले आगन्तव्यम् , नागाश्च त्वद्यमेष्यन्ति” इति प्रसादः कृतः । सा वैरोट्या पाताले गमनागमनं करोति । नागवरात् 'नागदत्तः' इति नाम दत्तं पुत्रस्य । तदा पद्मदत्तो वैरोट्यान्वशुरः श्रीआर्यनन्दिलक्षपकैरेवमुक्तः- त्वया स्क्वध्वाऽग्रे कथनीयस्-नागाश्रयं गतया | त्वया नागा वक्तव्याः-" भवद्भिर्लोकस्यानुग्रहः कर्नव्यः । कोऽपि न दंष्टव्यः । तत्परिवचनं श्वशुरेण तस्यै, तया च नागेभ्यः कथितम् । तत्र गता च वैरोट्या एवमुच्चैर्जगो-“सालिञ्जरपत्नी जीयात् । सोलिञ्जरो | जीयात् । येनाहमपितृगृहाऽपि सपितृगृहा कृता । अनाथाऽपि सनाथा सञ्चाता। भो भो नागकुमारा! आर्यनन्दिलेन महात्मना एवमादिष्टम्-लोको न पीडयितव्यः, लोकस्यानुग्रहः कार्यः।' वैरोट्या पुनरपि स्वगृहं गता । गुरुणा वैरोख्यास्तदो नबो विरचितः । यो वैरोट्यास्तवं पठति, तस्य पन्नगभयं नास्ति । पन्नगाः सर्वे वैरोठ्यया गुरोः पार्श्वमानीताः। उपदेशं श्राविता उपशान्तचित्ताः संवृत्ताः। नागदत्तनामा वैरोव्यापुत्रः सौभाग्यरङ्गभूरभूत् । पादत्तेन प्रियासहितेन व्रतं गृहीतम् । तपस्तप्त्वा स्वर्ग गतः। पद्मयशा अपि तस्य देवत्वं प्राप्तस्य इच्छासिद्धियुजो देवी सनाता । वैरोट्या च फणीन्द्राणां ध्यानान्मृत्वा धरणेन्द्रपत्नी| त्वेनोत्पन्ना । तत्रापि वैरोट्या' इति नामाऽस्याः । ॥ इति आर्यनन्दिलप्रबन्धः ॥ For Private And Personal Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kebatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रबन्धः ॥७॥ अथ श्रीजीवदेवमृरिप्रबन्धःगूजरधरायां वायुदेवतास्थापितं वायट नाम महास्थानम् । तत्र धर्मदेवनामा श्रेष्ठी धनवान् । तस्य | शीलवती नामा गेहीनी गेहश्रीरिव देहिनी । तयोः सुतौ महीधरमहीपाली । महीपालः क्रिडाप्रियो न कला | भ्यासं करोति । ततः पित्रा हकितो रुष्टो देशान्तरमसरत् । धर्मदेवश्रेष्ठी परलोकं प्राप्तः। महीधरोऽपि श्रीजिनदतसूरीणां वायटगच्छीयानां पादमूले प्रवव्राज | स राशिल्लसरि म सूरीन्द्रो बभूव । महीपालोऽपि पूर्वस्यां दिशि राजगृहे पुरे दिगम्बराचार्यदीक्षां प्राप्याचार्यपदमवाप । 'सुवर्णकीर्तिः' इति नाम पप्रथे । श्रुतकीर्तिना गुरुणा तस्मै द्वे विद्ये प्रदत्ते चक्रेश्वरीविद्या परकायप्रवेशविद्या च | धर्मदेवे दिवंगते शीलवती |दुःखिन्यासीत् । यतः यथा नदी विनाऽम्भोदाद्यामिनी शशिनं विना । अम्भोजिनी विना भानु भा कुलवधूस्तथा ॥१॥ राजगृहागतपरिचितमनुष्यमुखेन स्वपुत्रं स्वर्णकीर्ति तत्रस्थं ज्ञात्वा तमिलनाय गता । मिलितः सुवर्णकीर्तिस्तस्याः । उन्मीलितो मातापुत्रस्नेहः । एकदा तया सुवर्णकीर्तिभाषित:-" तव पिता दिवमगमत् । ॥ ७ ॥ For Private And Personal Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir त्वमत्र सूरिः । महीधरस्तु राशिल्लसूरि म श्वेताम्बरसरिपदे वर्तते । वायटप्रदेशे विहरति । युवां द्वावेकमतीभूय एकं धर्ममाचरतम् ।” वायटमानीतस्तया सः । द्वौ वान्धवावेकत्रमीलितो । सुवर्णकीर्तिर्भाषितो |मात्रा, वत्स ! त्वं श्वेताम्बर एधि । सुवर्णकीर्तिर्वदति-"राशिल्लसूरिर्दिगम्बराचार्यो भवतु मदनुसरणात्।" एवं वर्तमाने मात्रा द्वे रसवत्यौ कारिते । एका विशिष्टा । द्वितीया मध्यमा कुटुम्बार्था । दिग्वासाः पूर्वमाकारितः । स विशिष्टां रसवती भुते स्वैरम् , कुरसवतीं पश्यत्यपि न । राशिल्लसरिशिष्यो द्वावागतौ । ताभ्यां निर्जरार्थिभ्यां कुरसवतीं विजडू । मात्रा भोजनादनु दिगम्बरः प्रोक्तः-" वत्स ! एते श्वेताम्बराः शुद्धाः, त्वमाधाकर्मचिन्तां न करोषि । एते तु वदन्तिभुजह आहाकम्मं सम्मं न य जो पडिकम्मइ लुद्धो । सव्वजिणाणाविमुहस्स तस्स आराहणा नत्थि ॥१॥ तथैव च पालयन्ति । तस्मादेतेषां मिल, मोक्षमिच्छसि चेत् ।" सुवर्णकीर्तिर्मातृवचसा प्रबुद्धः श्वेताम्बरदीक्षामाददे।' जीवदेवमूरिः' इति नाम तस्य दशसु दिक्षु विस्तृतम् । यतिपश्चशतीसहचरो विहरन भव्यानां मिथ्यात्वादिरोगान् सुदेशनापीयुषप्रवाहेण निर्दलयति। श्रीसरेरेकदा देशनायां योगी कश्चिदागतः। स त्रैलोक्यजयिनी विद्या साधयितुं द्वात्रिंशल्लक्षणभूषितं नरं विलोकयति । तस्मिन्समये ते त्रय एव । एको विक्रमादित्यः, द्वितीयो जीवसूरिः, तृतीयः स एव योगी, नान्यः । राजाऽवध्यः । नरकपाले एकपुटी षण्मासी For Private And Personal Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir & चतुर्विशति ग्रवन्धः ॥८॥ यावद्भिक्षा याच्यते भुज्यते च, लतः सिद्धयति । तेन सरि छलयितुमायातः। सूरीणां मृरिमन्नप्रभावाद्वस्त्राण्येव नीलीभूतानि न पुनर्वपुः । ततो गुरुसमीपस्थवाचकजिह्वा स्तम्भिता । श्रीजीवदेवमारिदृष्टौ स्वजिह्वाया | योगपट्टपर्यस्तिकां बबन्ध । सभ्यलोको विभाय । प्रभुभिः स कोलितः । ततस्तेन खटिकया भूभी लिखितम् "उदयारह उवयारडउ सबउ लोउ करेइ । अवगुणि फियइ जु गुणु करइ विरलउ जणणी जणेइ ॥१॥ ___ अहं तव उछलनार्थमागतोऽभूवम् । त्वया ज्ञातः, स्तम्भितः, प्रसीद, मुश्च, कृपां कुरु,” इत्यादि । ततः | | प्रभुभिर्मुक्तोऽसौ वायटनगरे बहिर्मठी गत्वा तस्थौ । प्रभुभिः स्वगच्छः समाकार्योक्त:-"योगी दुष्टो बहिमंठेऽस्ति अमुकदिशि । तस्यां दिशि केनापि साधुना साध्या या न गन्तव्यमेव"तथेति तन्मे सर्वैः । साध्व्यौ तु द्वे ऋजुतया कुतूहलेन नामेव दिशं गने। योगिना समेत्य चूर्णशक्त्या वशीकृते तत्पार्च न मुश्चतः । प्रभुभिः स्ववसतौ दर्भपुत्रकः कृतः । तत्करच्छेदे योगिनोऽपि करच्छेदः । मुक्त साध्व्यौ । मस्तकक्षालनात्परविद्याविदलनेन सुस्थीभूते ते।। अथान्यदोजयिन्यां विक्रमादित्येन संवत्सरः प्रवर्तयितुमारेभे । तत्र देशानामनृणीकरणाय मन्त्री निम्बो गुर्जरधरादिशि प्रहितो विक्रमेण । स निम्बो वायटे श्रीमहावीरप्रासादमचीकरत् । तत्र देवं श्रीजीवदेवसूरीन्द्रः प्रत्यतिष्टिपत्। अन्ये द्यायटे लल्हो नाम श्रेष्ठी महामिथ्याहा । तेन होमः कारथितुमारब्धः। विप्रा मिलिताः। ॥८ ॥ For Private And Personal Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आसन्नादाचाम्लिका द्रनाद्धमाकुलोहिः झुण्डासनोपजत् । निजैविप्रैः स बराक उत्पाट्य वह्रौ जुहुवे ।। लल्लस्तदृदृष्टवा विरक्तो विशेषु उवाच च-" अहो ! निष्ठुरत्वमेतेषाम् । एवं जीवहिंसारता ये तस्मादलमेभिर्गुरुभिः।” एवं बदन विधार विज्य स्वगृहनगमत् । सर्वदर्शनानामाचाराग्विलोकते । एकदा मध्याह्ने श्रीजीवदेवसूरीणां साधुसवाटकस्लद्गृहे भिक्षार्थं गतः। तयोः शुद्धभिक्षाग्रहणात्तुष्टः। लल्लेन तो मुनी आलापितौ । युवयोः के गुरवः । ताभ्यां श्रीजीवदेवसूरयः कथिताः लल्लस्तत्र गतः । श्रावकद्वादशवती ससम्यक्त्वां ललौ । अन्यदा लल्लेनोक्तम्-"सूर्यपर्वणि मया द्रव्यलक्षं दाने कथितम् । तस्यार्द्ध व्ययितम् , शेषमई गृहीत ।" न गृह्णन्ति ते निर्लोभाः । लल्लो बाढं प्रीतः । गुरुभिरुक्तम्-" अद्य सायं प्रक्षालितक| पादस्य तव यत्प्राभृतमायाति तदस्मत्पाचे आनेयम्"। इति श्रुत्वा गृहं गतो लल्लः । सायं केनापि द्वे वृषभौ प्राभृतीकृतौ । लल्लेन गुरुपार्श्वभानीतौ । गुरुणोक्तम्-" यत्रैतौ स्वयं यात्वा तिष्ठतः। तत्रैतद्रव्यव्ययेन चैत्यं काराप्यम् ।" तच्छुत्या तेन वृषौ स्वच्छन्दं मुक्तौ पिप्पलानकग्रामे गतौ क्वचित् स्थितौ । तत्र भूमौ लल्लेन चैत्यमारब्धम् । निष्पन्नम् । तत्रावधूतः कोऽप्यायातः । तेनोक्तम्-" अत्र प्रासादे दोषोऽस्ति ।” जनरुक्तम्-"को दोषः " तेनोक्तम्-" स्त्रीशल्यमास्ते " । लल्लेन तच्छुत्वा गुरवो विज्ञप्ताः । गुरुभिरुक्तम्-" निःशल्यां भूमिं कृत्वा पुनः प्रासादः कार्यते । लल्ल ! त्वया द्रव्यचिन्ता न कार्या । तदधिष्ठाभ्यो धनं पूरयिष्यन्ति ।” प्रसाद उत्कीलयितुभारेभे । शब्द उत्पन्न:, 'चैत्यं नोत्कीलनीयम् ।' गुरवो विज्ञप्ताः। - - - For Private And Personal Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्धः । लल्ला अचिन्त्यत प्रारिभिस्ते सैानं दः। अधिष्ठात्री देव्याययौ। तयोक्तम्-"कन्यकुब्जराजसुताऽहं महणी नाम्नी पूर्व गूर्जरदेशे वसन्ती म्लेच्छसैन्ये समागते पलायमाना तेषु प्रष्टापतितेषु भियाऽत्र कूपेऽपतम् । मृत्वा व्यन्तरी जाता। अतः स्वाङ्गास्थिशल्याकर्षणं नानुमन्ये । प्रतोया मामधिष्ठात्री त्वं कुरु । यथा ऋद्धिं वृद्धिं कुर्वे ।" गुरुभिः प्रतिपन्नं तत् । तहत्तभूमौ तयोग्या देवकुलिका कारिता। तत्र चामितं धनं लब्धम् । लल्लो निष्पतिमल्लसुखभाजनमभवत्। सङ्घश्व तुष्टः। लल्लद्वेषाद्विजैर्मुमूर्षुर्गोंश्चैत्ये क्षिप्ता। सातत्र मृता। श्रावकैविज्ञप्तं तद् गुरवे । गुरुणा विद्याचलाद्गौमभषने क्षिप्ता । 'यचिन्त्यते परस्य तदायाति संमुखमेव'। ब्राह्मणैरनन्योपायत्वाजीवदेवसूरयोऽनुनीताः । जीवदेवसूरे ! तारय नः । श्रीसूरिभिस्ते तर्जिताः, उक्ताश्च-" यदि मच्चैत्ये मत्पट्टसूरेश्च श्रावकवत् सर्वां भक्तिं कुरुध्वे,. मत्सूरेः सूरिपदप्रस्तावे हेममययज्ञोपवीतं दत्थ, तत्सुखासनं स्वयं वहथ, तदा गामिमां ब्रह्मालयादाकृषामि अन्यथा तु न"। तैरपि कार्यातुरैः सर्वमङ्गीकृतम् । अक्षरादिभिः स्थैर्यमुत्पादितम् । ततो गौराकृष्याचाबहिः क्षिप्ता । तुष्टं चातुर्वर्ण्यम् । कालान्तरे मरणासत्तौ सूरिभिस्तस्माद्योगिनो बिभ्यद्भिः स्वकीयाखण्डकपालस्य सर्वसिद्धिहेतोञ्जनं श्रावकाग्रे कथितम् । अन्यथा विद्यासिद्धौ सङ्गोपद्रवं करिष्यति । तथैव तैस्तदा चक्रे । योगी निराशश्चिरमरोदीत् ॥ ॥ इति श्रीजीवदेवमरिप्रबन्धः ॥ For Private And Personal Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अधार्यखपटाचार्यप्रवन्धःक्वापि गच्छेऽनेकातिशयलब्धिसम्पन्नाः श्रीआर्यखपटा नाम आचार्यसम्राजः । तेषां शिष्यो भागिनेयो भुवनो नाम । ते सूरयो भृगुकच्छं विजहुः । तत्र बलमित्रो नाम बौद्धभक्तो राजा, बौद्धाश्च महाप्रामाणिकास्तादृग्यजमानगर्विताश्च दुर्दान्ताः । 'एक वानरी, अपरं वृश्चिकेन जग्धा' इति न्यायात् श्वेताम्बराणां धर्मस्थानेषु तृणपूलकान्निक्षेपयन्ति, 'यूयं पशवः' इति भावः। अनयाऽवज्ञया खपटाचार्या न चुकुधुः, गुरुत्वात्। यतः उपद्रवत्सु क्षुद्रेषु न क्रुध्यन्ति महाशयाः । उत्फालैः शरैः किं स्याल्लोलः कल्लोलिनीपतिः॥१॥ भुवनस्तु चुकोप । श्रावकशतसहस्रसङ्कलो राज्ञः पार्च ययौ । श्रीसङ्घगुर्वनुज्ञां गृहीत्वा तत्रोच्चैरुवाचतावडिण्डिमघोषणां विदधतां तावत्प्रशंसन्तु च, स्वात्मानं प्रथयन्तु तावदतुलां रीढां च पूज्ये खलाः। यावत्प्राज्यघृतपतर्पितवृहद्भानुप्ररोहत्पृथुज्वालाजालकरालजल्पनिवहेर्नोत्तिष्ठतेऽयं जनः ॥१॥ राज्ञा बलमित्रेणोक्तम्-" साधो ! किं किमात्थ ?" भुवनो बभाण-"तव गुरवस्तार्किकंमन्या गेहेनर्दिनः For Private And Personal Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्धः श्वेताम्बरान्निन्दन्ति । ततो वयं बादाय त्वत्सदः संप्राप्ताः । आस्फालय तान्मया सह, एकदा भवतु श्रोतृणां कर्णकौतुकम्"। ततो राज्ञा ते आइताः। चतुरङ्गसभायां वादं कारिताः। भुवनमुनिपश्चाननतर्कचपेटाताडिताः फेरण्डा इव तूष्णीकाः समजनिषत । राजादिभिर्घोषितः-जयः श्वेताम्बरशासनस्य । वर्तन्ते चैत्येषु महोत्सवाः । बौद्धास्तु हिमहतपद्मवनाभा जाताः । तं बौद्धापमानं श्रुत्वा बौद्धाचार्यों गुडशस्त्रपुरा वृद्धकराख्यो महातार्किको भृगुपुरमगात् । राजानमवोचत्-" श्वेताम्बरैः सह वादं कारापय" राज्ञा भुवनप्रज्ञास्फूर्तिज्ञेन पारितोऽपि नास्थात्। बादेजित एव सोऽपि भुवनेन जितः। न खलु यमो भूतानां धीयते। सभ्याः प्रभाषिताः भो ! भो ! शृणुतयदृड्को दृषदो यदुष्णकिरणो ध्वान्तस्य यच्छीतगुः, शेफालिकुसुमोत्करस्य च दशा कर्षः पतङ्गस्य यत् । अद्रेर्यत्कुलिशः प्रचण्डपवनो मेघस्य यद्यत्तरोः, पर्यत्करिणो हरिः प्रकुरुते तद्वादिनोऽसावहम् ॥ १॥ सभ्याश्च चमत्कृता उज्जुघुषुः-" जयति धवलाम्बरशासनम्"। वृद्धकरोऽपमानाशनितप्तोऽनशनं कृत्वा गुडशस्त्रपुरे वृद्धकराख्यो यक्ष उत्पन्नः। प्राग्वैरेण जैनानुपद्रवति, व्याधिवर्द्धनमापनधनहरणादिप्रकारैः। | गुडशस्त्रपुरसङ्घन आर्यखपटास्तद्विज्ञप्ताः, तत्र गताः। तत्र च यक्षायतनं प्रविश्य यक्षस्य कर्णयोरुपानही | प्रबन्धुः । वक्षसि पादौ ददुः। लोको मिलितः। राजा तत्रत्यस्तत्रागतः। राज्ञि तत्रागते आचार्याः श्वेत For Private And Personal Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वस्त्रेण स्वं सर्वमङ्गमावृत्य तस्थुः । राजा यत्र यत्रोद्घाटयति, तत्र तत्र स्फिजावेव दृश्यते । ततः क्रुद्धो राजा घातान्दापयति खपटाचार्यस्याने। ते घाताः शिरीषकोषादपि कोमलेवन्तःपुरीणामङ्गषु लेगुः । उच्छलितोऽन्तःपुरे स्त्रीणां कोलाहल:-" हा नाथ ! रक्ष रक्ष, हा! हन्यामहे केनाप्यदृष्टेन, कथं जीविष्यामः ।" राजा सूरिशक्तिचमत्कृतमनाः सूरीणां पादौ लमः, “प्रसय मम सपरिजनस्य जीवितभिक्षां देहि, कृपालुस्त्वम्" इस्यागुवाच । यक्षस्तु स्वस्थानादुत्थायोपसरि समागतो विनीतः पादसंवाहनां कुरुते।"मम किटिकामात्रस्योपरि वः कः कटकारम्भ" इति ब्रूते। मिलितो लोकः। आर्यखपटैर्यक्ष उचे-"रे अधम ! अस्मथान्पराबभूषसि ? पराभव, यद्यस्ति प्राभवम्" । यक्षः प्राह स्म-" हनूमति रक्षति सति शोकिन्यः पात्राणि कथं असन्ते । तव भृत्योऽस्मि । मा मां पीडय। तव सङ्घ बान्धववद्रक्षितास्मि" राजादयः सर्वे चमत्कृताः सरिभक्ता बभूवुः । सूरयः प्रासादानिर्गत्य यदा बहिर्गतास्तदा यक्षः पाषाणमूर्तिः सहायातः। द्वे दृषदो, दू दार्षदकुण्डिके, सूक्ष्मयक्षाः सहागुः । नगरप्राकारद्वारायातेन सूरीन्द्रेण यक्षाचा विसृष्टाः स्वस्थानमगुः ।। कुण्डिके तु पुरद्वारे सूरिणा स्थापिते, लोके ख्यातिनिमितम् । राजा प्रबोध्य सद्यः श्रावकः कृतः स्वसौधं गतः। "प्रभावनानर्तकी रङ्गाचार्यः' इति सूरीन्द्रस्तत्र चातुर्वर्ण्यन वर्णयामासे । तदैव भृगुपुरात्साधू द्वावागतो, साभ्यां प्रभवः प्रोक्ताः-"भगवन् ! भृगुपुरादत्रागच्छद्भिर्भवद्भिर्या कपरिका गूढमधारि । सा क्षुल्लकेनैकेनावाच्यत । वाचयता आकृष्टिलन्धिर्लन्धा । तदशादिभ्यानां गृहेषु निष्पन्नां रसवतीमाकृष्यानीय भुले स्म । For Private And Personal Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विंशति ॥११॥ तथा कुर्षन् गच्छेन ज्ञातो निषिद्धो न निवर्तते, रसनेन्द्रियपरवशत्वात् । ततः सङ्घन हक्कितः । क्रुद्धवा गत्वा बौद्धानां मिलितः । तदाचार्य इव जातः । बोद्धानां पात्राणि मठात्वेन गृहमेधिनां गृहेषु नयति । ततो भक्त| पूर्णानि तानि खेनैव मठमायान्ति । तथा दृष्ट्वा लोको बौद्धभक्तोभवन्नास्ते । यदुचितं तत्कुरुध्वम् । तदवधाफर्यखपटदेवा भृगुपुरमगुः । प्रच्छन्नाः स्थिताः । बौद्धानां पान्नाणि अन्नपूर्णान्यागच्छन्ति । शिलाविकुर्वणेन खे बभञ्जः। पतन्ति पात्रेभ्यः शालिमण्डकमोदकाचंशाच लोकस्य मस्तकेषु । चेलकः सूरीणां समागमनं संभाव्य भीतो नष्टो वराकः । सूरयः ससङ्घा बौद्धानां प्रासादमगमन् । वुद्ध उपलमूर्तिः सम्मुख उत्थितः 'जय जय महर्षिकुलशेखरः' इत्यादि स्तुतीरतनिष्ट । पुनर्जिनपतिशासनस्य प्रभावः प्रदिदीपे । आर्यखपटा अन्यत्र विजहुः। इतश्च पाटलीपुत्रपत्तने दाहडो नाम नृपो विप्रभक्तो जैनयतीनाह्वयत् , अवोचच्च-"विप्रान्नमस्कुरुत, इति ।” जैनरुक्तम्-" राजन् ! नेदं युक्तम् , गृहिणोऽमी, वयं च यतयो वन्द्याः "। दाहडेनोक्तम्"न वन्दध्वे चेच्छिरांसि वः कृन्तामि । " जैनयतिभिः सप्तदिनी याचिता। राज्ञा दत्ता। दैवादार्यखपट-| शिष्य उपाध्यायो महेन्द्रनामा भृगुकच्छात्तत्रायातः । तद्ने यतिभिः स्वदुःखं कथितम् । तेन संधीरितास्ते । प्रातः करवीरकम्बे द्वे रक्तश्वेते लात्वा माहेन्द्र उपदाइडमगात् । तदाऽष्टमदिनप्रत्यूषं वर्तते । राज्ञोक्तम् For Private And Personal Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailashsagarsuri Gyanmandir " श्वेताम्बरा विप्रप्रणामायाहयन्ताम् । " आहताः, अग्रे उर्दास्तस्थुः। महेन्द्रेण रक्तां कम्बां वाहयित्वा राजा भाषितः-" किं प्रथममितो नमामः? किंवा इतो नमामः ? इति" एतद्भणनसमकालमेव विप्राणां मस्तकास्त्रुटित्वा ताडफलवङ्गमौ पेतुः । तदृष्टवा भीतो राजा चाटूनि करोति स्म, “ पुनर्नैवमविनयमाचरिव्यामि,” इति उवाच । तदा महेन्द्रेणोक्तम् कः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यहिणा? कः कुन्तेन शितेन नेत्रकुहरे कण्डयनं काङ्क्षति ? । कः संनयति पन्नगेश्वरशिरोरत्नावतंसश्रिये? यः श्वेताम्बरशासनस्य कुरुते वन्द्यस्य निन्दामिमाम् ॥१॥ विशेषतो भीतो नृपो दर्शनस्य पादेष्वलगीत् । तदा महेन्द्रेण धवला करवीरकम्बा दिग्द्वयेऽपि वाहिता। पुनर्विप्राणां मस्तकाः स्वस्थानेषु ससञ्जः । प्रतिबोधितो राजा विप्रलोकश्च । एवं प्रभावनाऽभूत् । भुवनोऽपि | बौद्धान्परिहत्य स्वगुरूणां मीलितः। तेन स्वगुरवः क्षामिताः। तैर्गुरुभिस्तस्य भुवनस्य वहुमानं दत्तम् । | पश्चागुवनो गुणवान् , विनयवान् , चारित्रवान् , भ्रतवान् , जातः । तत आर्यखपटाः सूरिपदं भुवनाय दुत्त्वाऽनशनेन द्यामारुरुहुः। For Private And Personal Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥। १२ ।। www.kobatirth.org जीवितव्यं च मृत्युं च द्वयमाराधयन्ति ये । त एव पुरुषाः शेषः पशुरेष जनः पुनः ॥ १ ॥ ॥ इति महाप्रभावक श्री खपटाचार्यप्रबन्धः ॥ (५) ॥ अथ पादलिप्ताचार्य प्रबन्धः ॥ Acharya Shri Kailashsagarsuri Gyanmandir कौशलानाम नगरी, तत्र विजयवर्मा राजा नयविक्रमसागरः । फुल्लनामा श्रेष्ठी जैनः प्राज्ञो दानभटः । तस्य प्रतिमाष्ा नाम पत्नी रूपशीलसत्यनिधिवसुधा । सा निष्पुत्रत्वेन विद्यते । केनाप्युक्तम् - " वैरोट्यां देवीमाराधय " तपोनियमसंयमैस्तयाऽऽराधिता सा प्रत्यक्षीबभूव, अभिदधौ च - " वत्से ! किमर्थं स्मृताहम् ? " श्रेष्ठिन्योक्तम् — “ पुत्रार्थम् " वैरोट्योक्तं " वत्से ! शृणु, विद्याधरवंशे श्रीकालिकाचार्योऽभूत् । तस्य विद्याधरो नाम गच्छः । तत्र आर्यनागहस्ती नाम सूरिरास्ते, स सम्प्रति इमां नगरीमागतोऽस्ति क्रियाज्ञानार्णवः, तस्य पादोदकं पिब ! ” तत्र श्रेष्ठिनी भावनाभरभरिता गता । करस्थगुरुपदप्रक्षालनजलपात्रः शिष्यकः सम्मुखमागच्छन् दृष्टः । श्रेष्ठिन्या पृष्टम् — “ तपोधन ! किमेतत् ?” शिष्यकेणोक्तम् - " गुरूणां पादोदकम् " । तया पीतम् । For Private And Personal प्रबन्धः ॥ १२ ॥ Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir " अथ गुरवोऽवन्दिषत । गुरवो प्राहुः- “ यन्मन्तो दशकरान्तरस्थया त्वयाऽम्भः पीतं तत्ते पुत्रस्त्वत्तो दशयोजनान्तरितः स्थाता । पश्चादन्ये नवपुत्रा भवितारः सारश्रियः । " सा चम्पकमकरन्दपानमत्तमधुपध्वनिकोमलया गिरा बभाषे - " आद्य पुत्रो युष्मभ्यं दातव्यो मया' इत्युक्त्वा निजसदनमगमत् । भर्त्रे गुरुक्तं स्वोक्तं चाकथयत् । तुष्टः सः । श्रेष्ठिनी काले नागेन्द्रस्वप्नसप्रभावं पुत्रं प्रासूत । माङ्गल्योत्सवाः प्रसरन्ति स्म । गुरुसत्कः सन् वर्द्धते । नागेन्द्र इति नाम तस्य । शरीरावयवैर्गुणैश्च सकललोककमनीयैर्ववृधे । गुरुभिरागत्याष्टमे वर्षे दीक्षितः । मण्डनाभिधस्य मुनेः पार्श्वे पाठितः । बालोऽपि सर्वविद्यो जातः । एकदा गुरुणा जलार्थ प्रस्थापितो विहृत्यागत आलोचयति अंब तंबच्छीए अपुष्फियं पुप्फदंतपंतीए । नवसालिकं जियं नववहह कुडएण मे दिन्नम् ॥ १ ॥ इति गाथया गुरुभिर्भणितम् – “ पलित्तओ " शृङ्गारगर्भभणितिश्रवणात् । ' किल त्वं विनेयक ! रागाग्निना प्रदीप्तः ' इति भावः । नागेन्द्रेणाचचक्षे – “ भगवन् ! मात्रया एकया प्रसादः क्रियताम्, यथा ' पालित्तओ ' इति रूपं भवति । " अत्र को भावः १, गगनगमनोपायभूतां पादलेपविद्यां मे दत्त, येनाहं ' पादलिप्तक ' इत्यभिधीये । ' ततो गुरुभिः पादलेपविद्या दत्ता । तद्वशात्खे भ्रमति । दशवर्षदेशीयः For Private And Personal Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति । प्रवन्धः ॥ १३॥ सन्सूरिपदे स्थापितः । बहुशिष्यपरिकरितो भ्रमति । नित्यं शत्रुञ्जयोजयन्तादिपञ्चतीर्थी वन्दित्वारसविरस-1 मश्नाति । तपस्तप्यते। यहरं यद्दराराधं यच्च दूरे प्रतिष्ठितम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ १॥ ततः सर्वसिद्धयः। एकदा पाटलीपुत्रं गताः। तत्र मुरण्डो नाम खण्डितचण्डारिमुण्डो राजा । तस्य षण्मासान् यावच्छिरो. तिरुत्पन्नाऽऽस्ते । मन्त्रतन्त्रौषधैर्न निवृत्ता। विशेषविदुरान्सूरीनागतान् श्रुत्वा राज्ञा मन्त्रिणः प्रहिताःप्रोचुः" भगवन् ! राजराजेन्द्रस्य शिरोऽर्तिनिवर्त्यताम् , कीर्तिधौं संवीयेताम् ।" ततः सुरीन्द्रो राजकुलं गत्वा मन्त्रशक्त्या क्षणमात्रेण शिरोतिमपहरति स्म । ततोऽद्यापि पठ्यतेजह जह पएसिणिं जाणुयंमि पालित्तओ भमाडेइ । तह तह से सिरवियणा पणस्सइ मुरंडरायस्स ॥१॥ प्रीतो राजा । संवृत्ता उत्सवाः । पादलिप्तमूरिणा यशसा पवित्रितानि सप्तभुवनानि । राजा स्तौतिचेतः सार्द्रतरं वचः सुमधुरं दृष्टिः प्रसन्नोज्ज्वला शक्तिः क्षान्तियुता श्रुतं हृतमदं श्रीर्दीनदैन्यापहा । रूपं शीलयुतं मतिः श्रितनया स्वामित्वमुत्सेकिता निर्मुक्तं प्रकटान्यहो नवसुधाकुण्डान्यमून्युत्तमे ॥१॥ For Private And Personal Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एकदा सभायां नृपेणोक्तम्-"राजकुले महान्विनयः।" आचारभिहितम्-“गुरुकुले महीयान्वि-1 नयः।" तत आचार्याः प्राहु:-“यो वः परमभक्तो राजपुत्रोऽस्ति । स आहृयताम् , इदं च तस्मै कथ्यताम्'गत्वा विलोकय गङ्गा कि पूर्ववाहिनी? किंवा पश्चिमवाहिनी ? इति,' आहूतो राजपुत्रः, प्रहितश्च विलोकनाय, यत्र तत्र भ्रमित्वा समागतः, भाषितो भूपालेन-"विलोकिता गङ्गा, किं पूर्ववाहिनी ? पश्चिमवाहिनी? इति वा" । अथ राजपुत्रः प्रचख्यो-“किमत्र विलोकनीयम् ? बाला अपि विदन्ति, 'गङ्गा पूर्ववाहिनी' गत्वा च विलोकिता मया, पूर्ववाहिन्येवास्ते।" राजा श्रुत्वाऽस्थात् । सूरिभिः साधुः स्वस्तस्मै कर्मणे प्रहितस्तत्र गतः । दण्डकं प्रवाह्य व्यलोकत, पूर्ववाहिनी सुरवाहिनी । उपसूरि समागतः, अभाषत-"अहं गङ्गा पूर्ववाहिनीं पूर्वमश्रौषम् , गत्वाऽपश्यंश्च तथैवाज्ञासिषम्, तत्त्वं तु सद्गरवो विदन्ति ।” एतच्च राजपुत्रयत्योश्वरितं राजसूर्योः प्रच्छन्नचरैरुक्तम् । राजा मेने एव-" महियान् गुरुकुले विनयः।' ततः पठ्यते निवपुच्छिण गुरुणा भणिओ गंगा कओमुही वहइ । संपाइयवं सीसो जह तह सवत्थ कायब्वम् ॥१॥ __ पाटलिपुत्रादथ सूरीन्द्रो लाटान्गतः । तत्रैकस्मिन्पुरे बालैः सह क्रीडति । मुनयो गोचरचर्यार्थ गताः। तावता श्रावकाः प्रवन्दनार्थमायाताः। आकारसंवृत्योपविष्टः प्रभुः। श्राद्धेषु गतेषु पुनरपवरकमध्यं गत्वा | खेलति । तावता केऽपि वादिनः समायाताः तैर्विजनं दृष्ट्वा 'कूकुडूकू' इति शब्दः कृतः। सूरीन्द्रेण तु| For Private And Personal Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org चतुर्षिशति प्रवन्धः ॥१४॥ |'म्याउं' इति बिडालशब्दः कृतः। ततो दर्शनं दत्तम् । वादिनः पादयोः पेतुः प्रभोः । “अहो ! प्रत्युत्पन्न| मतित्वम् ते, चिरं जय बालभारति"। ततः आरब्धा प्रभुणा तैः सह गोष्ठी । तेष्वेकेन पृष्टम्पालित्तय ! कहसु फुडं सयलं महिमंडलं भमंतेण । दिळं सुयं च कत्थवि चंदणरससीयलो अग्गी ॥१॥ प्रभुणाऽभाणिअयसाभिओगसं दूमियस्स पुरिसस्स सुद्धहिययस्स । होइ वहंतस्स दुहं चंदणरससीयलो अग्गी ॥१॥ तुष्टास्ते वादिनस्तुष्टुवुः-"साक्षादमरगुरुरेव त्वम् , धन्या ब्राह्मी, या ते वदने वसति ।” इतश्च ये पूर्व ब्राह्मणाः खपटाचार्यगच्छीयेनोपाध्यायेन माहेन्द्रण भाषिताः, ते बलात्केचित्प्रवाजिताः | तेषां स्वजनाः पाटलिपुत्रपत्तने वसन्ति । पूर्ववैराज्जैनयतीनुपद्रवन्ति । सा च वार्ता प्रभुश्रीपादलिप्ताचायः श्रुता । स्वयं ते गगनेन तत्र गताः, अभ्यदधुश्च-"रे ! मयि वीरे सति के नाम जैनजनमुपद्रवन्ति ? जर्जराऽपि यष्टिः स्थालीनां भञ्जनाय प्रभवत्येव । ” ततस्ते काकनाशं नष्टाः । प्रभुः पुन गुपुरमगमत् । तत्रार्यखपटसम्प्रदायात्सकलाः कलाः प्रजग्राह । ढंकपर्वते नागार्जुनः प्रभुणा खगमनविद्यां शिक्षापितः परमाहतोजनि। सेन पादलिप्तकपुरं नव्यं कृतम् दशाहमण्डपोग्रसेनभवनादि च तत् तत्र तत्र प्रभुणा गाथा युगलेन स्तवनं ॥१४॥ For Private And Personal Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir बद्धम् । तत्र हेमसिद्धिविद्याऽवतारिताऽस्तीति वृद्धाः प्रातुः । नागार्जुनेन च रसः प्रारब्धः, सोऽतिकृच्छ्रेऽपि कृते न बन्धमायाति । ततो वासुकिनागस्तेनाराद्धः । तेन श्रीपादलिप्तेन चोपायोऽर्पित :- “यदि कान्तीपुर्याः श्री पार्श्वनाथमानीय तद्दृष्टौ रसं बघ्नासि, तदा बन्धमायाति, नान्यथा । " नागार्जुनेन पृष्टम् - " कथमेति श्रीपार्श्वनाथः । " वासुकिना पादलिप्तेन च प्रोक्तम् - " उत्पाट्यानय गगनाध्वना । "गतो नागार्जुनः कान्तीम् । तत्र चैत्यं पृच्छति । तत्र धनपतिश्रेष्ठी चैत्यगोष्टिकः । तस्याग्रे नैमित्तिकेन प्रोक्तम् - " पार्श्वं रक्षेः । धूर्त एकस्तद्धरणाय भ्रमन्नस्ति । " स सचतुष्पुत्रो देवं रक्षति | नागार्जुनस्तत्र गतः । तेषु रक्षत्सु हरणावसरो नास्ति । तैरेव सह नागार्जुनेन प्रीतिरारेभे । विश्वास उत्पन्नः । आरात्रिकमङ्गलदीपकसमये पितापुत्रेषु प्रणामाधोमुखेषु पार्श्व खेन गृहित्वा गतो नागार्जुनः । मेडीसंज्ञनदीतदे श्रीपार्श्वदृष्टौ रसः स्तम्भितः, स्तम्भनकं नाम तत्तीर्थं प्रपथे, स्तम्भनपुरं नाम पुरं च । I अथ श्री पादलिप्ताचार्याः प्रतिष्ठापनपुरं दक्षिणाशामुखभूषणं गोदावरीनदीतरङ्गरङ्गज्जलकणहृतपान्ध श्रमभरं जग्मुः । तत्र सातवाहनो राजा विदुषां योधानां दानशौण्डानां भोगिनां च प्रथमः । तस्य सभायां वार्त्ताऽभूत्, यथा-" पादलिप्नाचार्याः सर्वविद्या वनितावदनरत्नदर्पणाः समागच्छन्तः सन्ति प्रातः । " ततः सर्वैः पण्डितैः संभूय स्त्यानघृतभृतं कच्चोलकमर्पयित्वा निजः पुरुष एक आचार्याणां संमुखः प्रेषितः । आ For Private And Personal Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रबन्धः चार्यैघृतमध्ये सूच्येका क्षिप्ता। तथैव च प्रतिप्रेषितं तत् । राज्ञा स वृत्तान्तो ज्ञातः। पण्डिताः पृष्टाः-! “घृतपूर्णकच्चोलकप्रेषणेन वः को भावः।” तैरुक्तम्-" एवमेतन्नगरं विदुषैः पूर्णमास्ते, यथा घृतस्य वर्तुलकम् । तस्माद्विमृश्य प्रवेष्टव्यम् , इति भावो नः।" राज्ञा निगदितम्-" तर्हि आचार्यचेष्टाऽपि भवद्भिायताम्-'यथा निरन्तरेऽपि घृते मिजतिक्ष्णतया सूची प्रविष्टा । तथाऽहमपि विद्वन्निविडे नगरे प्रवक्ष्यामि, इति दध्वनुः पण्डिताः।" सर्वे पण्डिता राजेन्द्रोऽपि संमुखं गताः सुरसरिल्लहरिहारिण्या वाण्या तुतुषुः । नगरमानीतो गुरुनिर्वाणकलिकाप्रश्नप्रकाशादिशास्त्राणि संददर्भ। एकां च तरङ्गलोलां नाम चम्पूं राज्ञोऽग्रे नवां निर्माय सदसि व्याचख्ये प्रभुः । भवत्ययं कवीन्द्रः।। शाणोत्तीर्णमिवोज्ज्वलद्युतिपदं बन्धोर्द्धनारीश्वरः श्लाघालङ्घनजातिको दिवि लतोद्भिन्नेव चार्थाद्गतिः। ईषच्चूर्णितचन्द्रमण्डलगलत्पीयूषहृद्यो रसस्तत्किञ्चित्कविकर्ममर्म न पुनर्वाडिण्डिमाडम्बरः॥१॥ इत्येवं कवयोऽपि तुष्टुवुः। एका तु वेश्या विदुषी राजसभ्या गुणज्ञापि सूरीन्द्रान्न स्तौति । ततो राज्ञा| भणितम-" वयं सर्वे तुष्टाः स्तुमः । केवलमियमेका न स्तौति । तक्रियतां येन स्तुते ।" तदाकर्ण्य सूरयो | वसतिमाययुः । रात्री गच्छसम्मत्या कपटमृत्युना मृताः पचनजयसामर्थ्यात् । शवयानमाश्रितः सूरिः।। चातुर्वर्ण्य रोदिति । वेश्यागृहद्वारे नीतं शबयानम् । वेश्यापि तत्रागता रुदती वदति For Private And Personal Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kcbatrth.org - | "सीसं कहषि न फुह जम्मस्स पालित्तयं हरंतस्स । जस्स मुहनिज्मराओ तरङ्गालोला नई बूढा ॥१॥" पुनरजीवत्प्रभुः । वेश्ययाऽभाणि-"मृत्वाऽऽत्माऽस्तावि?।" सरिराह स्म-" मृत्वाऽपि पञ्चमो गेय इति किंन श्रुतम् ।।" अथ प्रभुः शत्रुनये रदनसंख्योपदासानशनेन इशानेन्द्रसामानिकत्वेनोदपद्यत । ॥ इति श्रीपादलिप्ताचार्यप्रयन्धः॥ ॥ अथ श्रीवृद्धवादिसिद्धसेनयोः प्रवन्धः॥ विद्याधरेन्द्रगच्छे श्रीपादलिप्तसूरिसन्ताने स्कन्दिलाचार्याः साधितजैनकार्याः पुस्कुरुः । ते यतनया विहरन्तो गौडदेशं ययुः । तत्र कोशलाख्यग्रामवासी मुकन्दो नाम वित्रः। स तेषां सूरीणां मिलित इत्थं देशनामश्रौषीत्भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भय, दास्ये स्वामिभपं गुणे खलभयं वंशे कुयोषिद्भयम् । स्नेहे वैरभयं नयेऽनयभयं काये कृतान्ताद्यं, सर्व नाम भयं भवे यदि परं वैराग्यमेवाभयम् ॥१॥ For Private And Personal Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ १६ ॥ www.kobatirth.org भुत्वा भवोद्विद्मश्चारित्रं गृहीत्वा गुरुभिः समं भृगुपुरं गतः । स मुकुन्दमुनिस्तारस्वरेणाधीते रात्रौ । साधूनां निद्राभङ्गो भवति । ततस्तान् दुर्मनायमानान् ज्ञात्वा गुरुभिः पठन्निषिद्धोऽसौ । यथा-" बस्स ! नमस्कारान्गुणय । रात्रावुचैर्भाषणे हिंसजीवजागरणादनर्थदण्डो मा भूदिति । ” ततो दिवा पठने श्रावकश्राविकादीनां कर्णज्वरो भवति । केनाप्युक्तम् - " किमयमियद्वयाः पठित्वा मुशलं पुष्पापयिष्यति । " तच्छ्रुत्वा मुकुन्दः खिन्नः सद्यो महाविद्यार्थी एकविंशत्योपवासैर्जिनालये ब्राह्मीमारराघ । तुष्टाऽसौ प्रत्यक्षीभूष जगाद - " सर्वविद्यासिद्धो भव । " ततः कवीन्द्रीभूय स्वगुर्वन्तिकमागत्य सङ्घसमक्षमक्षामस्वरेण बभाग“ यन्ममोपहासः केनापि कृतो 'यदयं किं मुशलं पुष्पापविष्यति' विलोकयत लोकाः ! मुशलं पुष्पापयामि । " इत्युक्त्वा मुशलमानाय्य चतुष्पथे स्थित्वा तत्पुष्पापयामास मन्त्रशक्तिमाहात्म्यात् । स्कन्धस्थितेन तेन भ्रमति पठति च पत्तमबलंबियं तह जो जंपड़ फुल्लए न मुसलमिह । तमहं निराकरिता फुल्लर मुसलं ति पामि ॥ १ ॥ तथा मनोशृङ्गं शक्रयष्टिप्रमाणं शीतो वह्निर्मारुतो निष्प्रकम्पः । यस्मै यद्वा रोचते तन्न किञ्चित् वृद्धो वादी भाषते कः किमाइ ॥ १ ॥ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal प्रवरपर ।। १६ ।। Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अप्रतिमल्लो वादी सोऽभूत् । स्कन्दिलाचायः स्वपदे निवेशितः। 'दवादी' इति ज्यातं समान स्कन्दिलाचार्याः समाधिमृत्युरथेन थामगमन् । एकदा वृद्धवादी भृगुपुरं गच्छन्नास्ते । इतधावन्त्यां विक्रमादित्यो राजा । यस्य दानानिअष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुला, पञ्चाशन्मदगन्धलुब्धमधुपक्रोधोद्धराः सिन्धुराः। लावण्योपचयपश्चितहशां पण्याङ्गनानां शतं, दण्डे पाण्ड्यनृपेण दौकितमिदं वैतालिकस्वार्ग्यताम् ॥१॥ इत्यादीनि ख्यातानि । तस्य राज्ये मान्यः कात्यायनगोत्रावतंसो देवर्षिर्द्विजः। तत्पत्नी देवसिका। तयोः सिद्धसेनो नाम पुत्रः । स प्रज्ञावलेन जगदपि तृणवद्गणयति । प्रज्ञायाम इयत्ता नास्ति । जगति ततः पश्यते मिता भूः पत्यायां स च पतिरपां योजनशतं, सदा पान्थः पूषा गगनपरिमाणं कलयति। इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः, सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥१॥ “येन वादे जीये तस्याहं शिष्यः स्याम्" । इति प्रतिज्ञा तस्य । क्रमेण वृद्धवादिनः कीर्ति भुत्वास तत्संमुखं धावति स्म। सुखासनारूढो भृगुपुरं गतः। ताबभृगुकच्छानिर्गतो वृद्धवादी मार्गे मिलितः। परस्परमालापो जातः। सिद्धसेनो भाषते-“वादं देहि ।" सूरिराह-"दद्मः, परमत्र के सभ्या? सभ्यान् विना For Private And Personal Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्षिशति प्रवन्धः ॥१७॥ वादे जिताजिते को बदेत् ?" सिद्धसेनेनोक्तम्-" एते गोपालकाः सभ्या भवन्तु ।" वृद्धवादिना भणितम्-" तर्हि हि ।" ततः सिद्धसेनस्तत्र नगरगोचरे चिरं संस्कृतेन जल्पमनल्पमकरोत् । क्रमेण च स्थितः।। गोपैरुक्तम्-"किमप्ययं न वेत्ति ।” केवलघुच्चैः पूत्कारं पूत्कारं कर्णान्नः पीडयति । धिम् धिम् । वृद्ध ! त्वं ब्रूहि किश्चित् ।” ततो वृद्धवादी कालज्ञः कच्छां दृढं बद्धवा धिन्दिणिच्छन्दसा किडति"नवि मारियइ नवि चोरियइ परदारहगमणु निवारियइ । थोपाथोवमुदावियइ सागण्ड गुह गुजाईयइ ॥ पुनः पठति| गुलसिउंचावई तिलतांदली वेडिइं बजावई वांसली। पहिरणिओढणिदुइ कायली इण परिग्वालह पूजइ रुषी॥ नृत्यति च कालउ कंबलु अनुनीवाटु छासिहिं खालड्डु भरिउ नि पाटु।। अइवडु पडियउ नीलइ डाडि अबरकिसरगहसिंगनिलाडि ॥२॥” गोपा हृष्टाः प्रोचुः-" वृद्धवादी सर्वज्ञः अहो ! की श्रुतिसुखमुपयोगि पठति । लिइसेनस्तु असारपाठकः," इत्यनिन्दन् । For Private And Personal Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ततः सिद्धसेनः प्राह - " भगवन् ! मां प्रवाजय । तव शिष्योऽहं वादे सभ्यसंमतं जितत्वात् । ” अथ वृद्धवादी आह - " भृगुपुरे राजसभायामावयोर्वादोऽस्तु । गोपसभायां को बाद: ? । " सिद्धसेनेनोक्तम्"अहमकालज्ञः । त्वं तु कालज्ञः । यः कालज्ञः स सर्वज्ञः । त्वयैव जितम् । " इत्येवं वदन्तं ते तत्रैव दीक्षयामास । तत्र भृगुपुरनरेन्द्रेण तं वृत्तातं ज्ञात्वा तालारसो नाम ग्रामः स्थापितः प्रौढः । नाभेयचैत्यं कारितम् | नाभेयविम्बं वृद्धवादिना प्रतिष्ठितम् । संघो जगर्ज । सिद्धसेनस्य दीक्षाकाले 'कुमुद्रचन्द्रः' इति नामासीत् । सूरिपदे पुनः सिद्धसेनदिवाकरः ' इति नाम प्रपथे । तदा ' दिवाकरः ' इति सूरेः संज्ञा । स्वातिशब्दवच्च । | वृद्धवादी अन्यत्र विहरति । सिद्धसेनस्त्वदन्तीं ययौ । सङ्घः संयुखमागत्य तं सूरिं ' सर्वज्ञपुत्रकः ' इति बिरुदे पठ्यमानेऽवन्तीचतुष्पथं नयति । तदा राजा विक्रमादित्यो हस्तिस्कन्धारूढः संमुखमागच्छन्नस्ति । राज्ञा श्रुतम् - " सर्वज्ञपुत्रकः " इति । तत्परीक्षार्थं हस्तिस्थ एव मनसा सूरेर्नमस्कारं चकार, न वाशिरो भ्याम् । सुरिश्चासन्नायातो धर्मलाभं वभाण । राजेन्द्रेण भणितम् - " अवन्दमानेभ्योऽस्माकं को धर्मलाभः ? | किमयं समर्थो लभ्यमानोऽस्ति ? " सूरिः श्रुत्वाऽभाणि "चिन्तामणिकोटितोऽप्यधिकोऽयं वन्दमानाय देवो । न च त्वया न वन्दिता वयम्, मनसः सर्वप्रधानत्वात् । अस्मत्सार्वज्ञपरीक्षायै हि मनसाऽस्मान् बन्दधाः । " ततस्तुष्टो राजेश्वरो हस्तिस्कन्धादवरुह्य सङ्घसमक्षं ववन्दे कनककोडिं चानापयत् । आचार्यैः सा न जगृहे For Private And Personal Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandit प्रबन्धः पतर्विशति ॥१८॥ निर्लोभत्वात् । राज्ञापि न जगृहे कल्पितत्वात् । तत आचार्यानुशया सहपुरुषैर्जीर्णोद्धारे व्ययिता । राजब| हिकायां त्वेवं लिखितम् " धर्मलाभ इति भोक्ते दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय ददौ कोटि धराधिपः ॥ १॥" श्रीविक्रमाने अवसरे तेनैव भगवता भणितम्पुन्ने वाससहस्से सयंमि बरिसाण नवनवइ कलिए। होही कुमरनरिन्दो तुह विकमराय सारिच्छो ॥१॥ अन्यदा सिद्धसेनश्चित्रकूटमटति स्म । तत्र चिरंतनचैत्यस्तम्भमेकं महान्तं दृष्ट्वा कश्चिदमाक्षीत-"कोऽयं स्तम्भो महान् ? किंमयः ?" तेनोक्तम्-"पूर्वाचार्यैरिह रहस्यविद्यापुस्तकानि न्यस्तानि सन्ति । स्तम्भस्तु | तत्तदोषधद्रव्यमयः । जलादिभिरभेद्यो वज्रवत् ।" तद्वचनं श्रुत्या सिद्धसेनस्तस्य स्तम्भस्य गन्धं गृहीत्वा । प्रत्यौषधरसैस्तमाच्छोटयामास । तैः स प्रातरम्बुजवद्विचकास । मध्यात्पतिताः पुस्तकाः। तत्रैकं पुस्तक छोटयित्वा वाचयनाथपत्र एव द्वे विये लभते स्म। एका सर्षपविद्या, अपरा हेमविद्या। तत्र सर्षपविद्या सायथोत्पन्ने कार्य मान्त्रिको यावन्तः सर्षपान जलाशये क्षिपति तावन्तोऽश्ववारा द्विचत्वारिंशदुपकरणसहिता निःसरन्ति। ततः परवलं भज्यते । सुभटाः कार्यसिद्धरनन्तरमदृशीभवन्ति । हेमविद्या पुनरक्लेशेन शुद्धहम ॥१८॥ For Private And Personal Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandie 684 कोटीं सो निष्पादयति येन तेन धातुना। तद्विपाद्वयं सम्यग् अग्राह। याबद वापयति तापस्तम्भो मिलितः पुस्तकगर्भः।खेच वागुत्पन्ना-"अयोग्योऽसि इरशानां रहस्यानां, मा चापलं कृथाः। सद्यो मा ब्रियस्व, इति ।"ततो भीतः स्थितः । यद्विधादूयं लब्धं तल्लन्धम् । नाधिकं लभ्यते अप्राप्तितः। चित्रकूटासिद्धसेनोऽथ पूर्वदेशे कूर्मारपूरं गतः । तत्र देवपालराजानं प्रबोध्य नीलीरागजैनमकार्षीत् । तत्रास्थात् । | नित्यमिष्टगोष्टी वर्तते । कियानपि कालो जगाम । एकदा राज्ञा रह एत्य साश्रुणा विज्ञप्तम्-" भगवन् ! पापा वयं नेदृशमधुरगोष्ठीयोग्याः , येन सङ्कटे पतिताः स्म ।" सूरीन्द्रः प्रपच्छ-"किं सङ्कटं कः ।" राजा प्राह-"सीमालभूपालाः संभूय मद्राज्यं जिघृक्षव आयान्ति।" सूरिराह-"सजन् ! मा स्म विहलो भूः । तथैव राज्यश्रीर्वशे यस्याहं सखा ।" राजा दृष्टः। परचक्रमायान्तम् । विद्याद्वयशक्त्या राजेन्द्रः समर्थो विहितः । सूरिणा भग्नं परबलम् । गृहीतं तत्सर्वस्वम् । वादितान्यातीचानि । ततो बाई राजा सूरिभक्तः सम्पन्नः। सूरयः सगच्छा अपि क्रियाशैथिल्यमादृषत । यतः चाटुकारगिरां गुम्फैः कटाक्षमंगचक्षुषाम् । कलिकल्लोलितः स्त्रीणां भिद्यते कस्य नो मनः ॥१॥ सुअइ गुरू निश्चंतो सीसावि सुअंति तस्स अणुकमसो । ओसाहिबइ मुक्खो हुडाहुइंसुयंतेहि ॥१॥ For Private And Personal Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ।। १९ ।। www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रावकाः पौषधशालायां प्रवेशमेव न लभन्ते । दगपाणं पुष्फफलं अणेसणिज्जं गिहत्थकिचाई । अजया पडिसेवंती जइवेसविडंबगा नवरं ॥ १ ॥ इति गाथा समाचर्यते । तदपयशः श्रुत्वा वृद्धवादी कृपया तं निस्तारयितुमेकाकीभूय गच्छं वृषभेषु न्यस्य तंत्र गतः । द्वारे स्थितः सूरीणामग्रे कथापयति द्वास्थैः । यथा - " वादी एको ज्यायानायातोऽस्ति । " मध्ये सूरिभिराहृतः । पुर उपवेशितः । वस्त्रावगुण्ठितसर्वकायो बृद्धवादी वदति व्याख्याहि अणहुल्लियफुल्लमतोडहि मा रोवा मोडहिं । मणकुसुमेहिं अचि निरंजणु हिंडइ वणेण वणु ॥ १ ॥ सिद्धसेनश्चिन्तयन्नपि न वेत्त्यर्थम् । ततो ध्यायति - " किमेते मे गुरवो वृद्धवादिनः ? " येषां भणितिमहमपि व्याख्यातुं न शक्नोमि । पुनः पुनः पश्यता उपलक्षिता गुरवः । पदयोः प्रणम्य क्षामिताः पयार्थ पृष्टाः । तेऽथ व्याचक्षिरे । यथा- 'अणहुल्लियफुल्ल' प्राकृतस्यानन्तत्वात् अप्राप्तफलानि पुष्पाणि मा त्रोटय । को भावः ? योगः कल्पद्रुमः । कथं ? यस्मिन्मूलं यमनियमाः, ध्यानं प्रकाण्डप्रायं, स्कन्धश्रीः समता, कवित्व| वक्तृत्वयशःप्रतापमारणस्तम्भनोच्चाटनवशीकरणादिसामर्थ्यानि पुष्पाणि, केवलज्ञानं फलम् । अद्यापि योगकल्पद्रुमस्य पुष्पाण्युङ्गतानि सन्ति तत्केवलफलेन तुः पुरः फलिष्यन्ति । तान्यप्राप्तफलान्येव किमिति For Private And Personal 191555 प्रवन्धः ६ ॥ १९ ॥ Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रोटयसि मा त्रोटय इति भावः।'मा रोवा मोडहि' इह रोपा पञ्चमहाव्रतानि तानि मा मोटय ।' मणकुसुमेहिं' मनःकुसुमैर्निरञ्जनं जिनं पूजय । 'हिंडइ वणेण वणु' बनादनं किं हिंडसे राजसेवादीनि कृच्छाणि विरसफलानि कथं करोषि इति पदार्थः । ततो वादी तां गुरुशिक्षा मूनि धृत्वा राजानमापृच्छय वृद्धवादिना सह निविडचारित्रधरो विजहार । अपरापरगुरुभ्यः पूर्वगतश्रुतानि लेभे । वृद्धवादी धां गतः । एकदा सिद्ध. सेनः संघ मेलयित्वाह स्म-"सकलानप्यागमानहं संस्कृतान्करोमि, यदि आदिशथ ।” ततः संघो वदति स्म-" किं संस्कृतं कर्तुं न जानन्ति श्रीमन्तस्तीर्थकरा गणधरा था। यदर्धमागधेनागमानकृषत। तदेवं जस्पतस्तव महत्मायश्चितमापन्नम् । किमेतत्तवाग्रे कथ्यते । स्वयमेव जाननसि ।" ततो विमृश्याभिदधेऽसौ" सङ्घोऽवधारयतु अहमाश्रितमौनो द्वादशवार्षिकं पाराश्चिकं नाम प्रायश्चितं गुप्तमुग्ववस्त्रिकारजाहरणादिलिङ्गः प्रकटितावधूतरूपश्चरिष्याम्युपयुक्तः।" एवमुक्त्वा गच्छं मुक्त्वा ग्रामनगरादिषु पर्यटन द्वादशवर्षे श्रीमदुजयिन्यां महाकालप्रासादे शेफालिकाकुसुमरञ्जिताम्बरालङ्कसशरीरः समागत्यासांचके । ततो देवं कथं न-नमसीति लोकैर्जल्प्यमानोऽपि नाजल्पत् । एवं च जनपरम्परया श्रुत्वा विक्रमादित्यदेवः समागत्य अल्पयांचकार-"क्षीरलिलिक्षो! भिक्षो! किमिति त्वया देवो न वन्द्यते।" ततस्तु राजानं प्रतीदमवादि वादिना"मया नमस्कृते लिङ्गभेदो भवतामप्रीतये भविष्यति।" राज्ञोचे-"भवतु क्रियतां नमस्कारः।" तेनोक्तम्श्रूयतां तर्हि ।" पद्मासनेन भूत्वा द्वात्रिंशद्वात्रिंशिकाभिर्देवं स्तोतुमुपचक्रमे । तथाहि । For Private And Personal Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailashsagarsuri Gyanmandie चतुर्षिशति ॥ २०॥ स्वयंभुवं भूतसहस्रनेत्रमनेकमेकाक्षरभावलिङ्गम् । अव्यक्तमव्याहतविश्वलोकमनादिमध्यान्तमपुण्यपापम् ।। ___ इत्यादि श्रीवीरद्वात्रिंशद्वात्रिंशिला कृता। परं तस्मात्ताहकं चलत्कारमनालोक्य पश्चात् श्रीपार्श्वनाथ | त्रिंशिकामभिकर्तुं कल्याणमन्दिरस्तव[वं चक्रं प्रथमश्लोके एव प्रासादस्थितात् शिखिशिवाग्रादिव लिङ्गानवतिरुदतिष्ठत् । ततो जनैर्वचनामिदमूचे-"अष्टविद्यशाधीशः कालाग्निरुद्रोऽयं भगवांस्तृतीयनेत्रानलेन भिक्षु | भस्मसात्करिष्यति।" ततस्तडित्तेज इव सतडात्कारं प्रथम ज्योतिर्निर्गतम् । ततः श्रीपार्श्वनाथविम्यं प्रकटीपभूव । तदादिना विविधस्तुतिभिः स्तुनं क्षमितं घ । राजा विक्रमादित्यः पृच्छति-" भगवन् । किमिदमपूर्व दृश्यते। कोऽयं नवीनो देयः प्रादुरभूत।" अथ सिद्धसेनः प्रोवाच-राजन् ! पूर्वमस्यामेवावन्त्यां जोष्ठिनीभद्रामनु प्रिंशत्पत्नीयौवनपरिमलसर्वस्वग्राही 'अवन्तीसुकुमालः' इति ख्यातः श्रेष्ठ्यासीत् । स शालिभद्र इप गृहव्यापारं किमपि नाकार्षात् । किन्तु मातैव सर्वमपि गृहतप्तिमकृत । एकदा दशपूर्वधरायसुहस्त्याख्यो । मौर्यवंशमुकुटसम्प्रतिनृपगुरुः सगच्छो विहरनवन्तीमागत्य भद्रानुमत्या गृहेकदेशेऽस्थात् ! रात्री ते नलिनी-1 | गुल्माख्यस्य स्वर्धिमानस्य विचारं गुणयन्ति । तपोधनजने विश्रान्ते सति तं विचारं शृण्वन सान्द्रचन्द्रातपायां| | निशि स्वैरं पद्भ्यां भ्रमनवन्तीसुकुमालस्तत्रायातः सम्यगोषीत् । आगत्य गुरुन् जगौ-भगवन् ! किमेतद् गुण्यते ? । आयरुक्तम्-वत्स ! नलिनीगुल्मविचारः । अवन्तीसुकुमालः प्राह स्म-इदृशमेवेदं प्रेत्य मयानु ani ॥२०॥ For Private And Personal Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भूतम् । इदं केनोपायेन लभ्यते । आयैर्भणितम्-" चारित्रंण।" अवन्तीसुकुमालोऽप्याविभातात् गृहीतमलिनीगुल्मविमानग्रहणप्रतिज्ञः स्वयं कृतलोचः पश्चाद्गुरुभिरपि दत्तसामायिकः कन्थारकुडडाल्यं स्मशान-1 मेस्य कायोत्सर्गी भवान्तरभार्यया शृङ्गालीस्वमापनया सार्भया क्षुधितया दर्भसूचीवेधक्षरतधिरधारागन्धलुब्धागतया भक्षितः सद्भावनाज़र्जरितपापकर्मा नलिनीगुल्ममाप । प्रातस्तन्माता सस्नुषा गुरुमुखादवगतपुत्रवृत्तान्ता तत्स्मशानमागत्य विललाप विविधं विविधम् । पुनर्गृहमागता । एका सगर्भा बबूं गृहे मुक्स्था एकत्रिंशता बघूभिः सह संयममादाय दिवं लेमे । सगर्भस्थितबधुकाजातपुत्रेण स्फीतयौवनेनायं प्रासादः कारितः । मम पितुर्महाकालोऽत्राभूदिति महाकालनाम दत्तम् । श्रीपार्श्वनाथविम्ब मध्ये स्थापितम् । कत्यप्यहानि लोके पूजितम् । अवसरे द्विजैस्तदन्तरितं कृत्वा मृडलिङ्गमिदं स्थापितम् । अधुना मत्कृतस्तुतितुष्टः श्रीपाश्वनाथः प्रादुरासीत् । मत्प्रेरितशासनदेवतापलातु मुडलिङ्गं विदधे । सत्यासत्ययोरन्तरं पश्य । तच्यू बणान्नृपः शासने ग्रामशतान्यदत्त देवाय । उपगुरुः ससम्यक्त्वां द्वादशवतीमुपादत्त । अश्लाघत वादीन्द्रम् - अहयो यहवः सन्ति भेकभक्षणतत्पराः । एक एष श्रीशंषो हि धरणीधरणक्षमः ॥१॥ तथा त्वम् । अहो ! कवित्वशक्तिस्ते । पदं सपदि कस्य न स्फुरति शर्करापाकिम रसालरससे किम भणिति वैभवं कस्य न । तदेतदुभयं किमप्यमृतनिज्झरोगारिमैस्तरङ्गयति यो रसैः स पुनरेक एव क्वचित् ॥१॥ For Private And Personal Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ २१ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न नाम्ना नो वृत्त्या परिचयवशाच्छन्दसि नवा, न शब्दव्युत्परया निभृतमुपदेशान्न च गुरोः । अपि स्वेताः स्वैरं जगति सुकवीनां मधुमुचो, विपच्यन्ते वाचः सुकृतपरिणामेन महता ||२|| इति स्तुत्वा सम्राटस्वस्थानमयासीत् । बादीन्द्रोऽपि प्रभावनातुष्टेन सङ्केन मध्येकृतः । अन्येषुः सिद्धसेनो विहरन् आँकाराख्यं मालबेषु नगरं ययौ । तत्र भक्तैः श्रावकैर्विज्ञप्तं सरये । यथा-भगवन् ! अस्यैव नगरस्यासन्नो ग्राम एक आसीत् । तत्र सुन्दरो नाम राजपुत्राम्रणीः । तस्य द्वे पत्न्यौ । एका प्रथमां पुत्री प्राभूत, अस्विद्यत च । सदैव सपत्न्यप्यासन्नप्रसवा वर्तते । मा स्म इयं पुत्रं प्रसूय भर्तुः सविशेषं वल्लभाभूत्, इति स्त्रीत्वोचितया तुच्छया बुद्ध्या सूतिकामेकामबोचत-यदा इयं मे सपत्नी प्रसवकाले दैववशात्वामाहयति । तदा स्वया परस्थानात्प्रथमं संगृहीतं मृतं किञ्चिदपत्यं तत्र संचार्यम् । तज्जातकं वेत्पुत्रो भवति तदा स्वयं गृहीत्वा ग्रामाद्दुरे व्युत्त्रष्टव्यम् । इदं हेम गृहाण । इति सूत्रणां चकुषी । विधिवशात्तत्र तत्तया तथैव कृतम् । राजपुत्रो जातमात्रो ग्रामादरे क्षिप्लो ही । राजपुत्रोऽपि पुण्याधिक इति तत्कुलदेवतया धेनुरूपेण दुग्धं दत्त्वा पालयन्त्याऽष्टवर्षदेशीयः कृतः । अत्रैव आँकारनगरे शिवभवनाधिकारिणा भरटकेन दृष्टः, आलापितः, स्वां दीक्षां ग्राहीतः । अन्यदा कन्यकुब्जदेशाधिपतिर्नरेन्द्रो जात्यन्धो दिग्विजयकार्येण प्रत्यासन्नः समावासितः । रात्रौ लघुभरटकस्य शिवादेशः संजात:- " त्वया कन्यकुब्जेशाय शेषा देगा । तयाऽसौ For Private And Personal 115 प्रबन्धः ६ ॥ २१ ॥ Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सजाक्षो भावी।" तद्वाक्यं लघुर्वृहद्रवे समाख्याय तदाज्ञया शेषामादाय स्कन्धाधारमध्यमेत्य राजामात्यानुवाच-"भो! भो! स्वनाथमस्मत्संमुखमानयध्वम् । यथा सद्यः कमलदलललितं स्वविषयग्रहणक्षमाक्षं कुर्महे ।" ततोऽमात्यनुन्नो राजा तत्रायातः । ऋषिदत्तां शेषामादायाक्ष्णोनिवेश्य सज्जाक्षो ज.तः। प्रीतः भक्त्या ग्रामशतानि शासनेऽदात् । अव च ऑकारे इममुत्तुङ्गं प्रासादमचीकरत् । वयमिह पुरं मामः । जैनः प्रासादः कारयितुं न लभ्यते। मिथ्यादृशो बलिनः । तस्मात्तत्कुरु येन इतोऽधिकं तुझं रम्यं चैत्यं निष्पद्यते । यली त्वमेवेति । तद्वचनं श्रुत्वा बादी अघन्तीमागत्य चतुःश्लोकी हस्ते कृत्वा विक्रमादित्यद्वार| मेत्य द्वास्थेनोपराजं श्लोकमचीक.थत् । स तेन कथिती यथा दिदृक्षुर्भिक्षुरायातस्तिष्ठति द्वारि वारितः । हस्तन्यस्तचतुःश्लोक उतागच्छतु गच्छतु ॥ १॥ तं श्लोकं श्रुत्वा विक्रमादित्येन प्रतिश्लोकः कथापितो यथादत्तानि दशलक्ष्याणि शासनानि चतुर्दश । हस्तन्यस्तचतुःश्लोक उतागच्छतु गच्छतु ॥२॥ वादिना तं श्लोकं श्रुत्वा द्वास्थद्वारेण भाणितं राज्ञे-" दर्शनमेव भिक्षुरीहते नार्थम् ।" ततो राज्ञा स्वदृष्टी आहृतः । उपलक्षितो भाषितश्च-" भगवन् किमिति चिरादूदृश्यध्वे ।" आचार्यरुक्तम्-धर्मकार्यवशाचिरादायाताः। श्लोकचतुष्टयं शृणु । राज्ञि शृण्वति पठितं तत् । यथा For Private And Personal Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्धः ॥२२॥ अपूर्वयं धनुर्विद्या भवता शिक्षिता कुतः। मार्गणौघासमभ्येति गुणो याति दिगन्तरम् ॥१॥ सरस्वती स्थिता वक्ने लक्ष्मीः करसरोरहे । कीर्तिः किं कुपिता राजन् येन देशान्तरंगता ॥२॥ कीर्तिस्ते जातजाज्येव चतुरम्भोधिमजनात् । आतपाय धरानाथ ! गता मार्तण्डमण्डलम् ॥३॥ सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे जनैः । नारयो लेभिरे पृष्ठं न वक्षः परयोषितः॥४॥ श्रुत्वा तुष्टो विक्रमश्चतुरो गजान् यथासंख्यं वसन-सुगन्धद्रव्य-हेमनाणक-हारादिपूर्णान् आनाय्य सूरिमभाणीत्-"इमे गृद्यन्ताम् ।” सूरिरूचे-"मैतदथ्यहम् ।" पुनर्विक्रमो भणति-"मन्महीसारभूतांश्चतुरो देशान् स्वैरमादत्स्व ।" याचाह-"इंदमपि नेच्छामि।" तहि किमिच्छसीति । श्रमताम्-"आँकारे चतुर्टार जैनप्रासादं शिवप्रासादादुमं कारय । स्वयं सपरिच्छदः प्रतिष्ठां च तन कारयति ।" राज्ञा हप्तथैव कृतम् । प्रभावनया संघस्गुष्टः । एवं जैन धर्म धोतयन् वादी दक्षिणस्यां पृथ्वीस्थामपुरं बिहरन गतः । तत्रा युरन्तं ज्ञात्वाऽनशनं लात्ता स्वर्गलोकमध्यपात्सीत् । तत्रत्यसंधेन चित्रकूटे सिद्धसेनगच्छं तं वृक्षान्तं || ज्ञापयितुं धाग्मी भट्ट एकः प्रस्थापितः । स तत्तूरिसनायां श्लोकपूर्वार्द्ध पुनः पुनः पठति स्म स्फुरन्ति वादिखद्योताः साम्प्रतं दक्षिणापथे। पुनः पुनः पाठे सिद्धसारस्वतया सिद्धसेननगिन्योक्तम् २२॥ For Private And Personal Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नूनमस्तंगतो वादी सिद्धरोनो दियाकरः ॥ १॥ पवाद ट्रेन प्रपञ्च्योक्तम् । ततः शोको विहितो विसृष्टश्च । ॥ इति वृद्धवादिसिद्धसेनयोः प्रबन्धः॥ - अथ श्रीमल्लवादिप्रबन्ध:- . श्रीइन्द्रभूतिमानम्य प्रभावकशिरोमणेः । श्रीमल्लयादिसूरीन्दोश्चरितं कीयते मया ॥१॥ खेटाभिधं महास्थानमस्ति गूर्जरमण्डले । देदादित्याहयस्तत्र वियोऽभूवेदपारगः ॥२॥ सुभगारया सुता तस्य विधवा चालकालतः । करमादपि गुरोर्मन्न सौरं सा पाए भक्तिभा ॥३॥ आष्टस्लेन ममीण भारतास्तामुपागमत् । तभोगलाभादापनसावा सामचिराव भूत् ॥४॥ धेत्रिया सुराझेभ्यो गौ यद्यपि नोद्भवेत् । तदानीं त्वीदारिकालधायोगातु रुम्मदी॥५॥ आपाण्डमण्डफलका ग्लासाही वीक्ष्य तां पिता ।यमा विमिदं यत्से ! निहिमाचरितं त्वया ॥३॥ सा माह रम पितयं प्रमादविकृतिर्मम । सन्माष्टागतोष्णांन्यासः पुनरयं बलात् ॥ ७॥ %3 For Private And Personal Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विशति ॥२३॥ इत्युक्तोऽपि विषणात्मा देवादित्यः कुकर्मणा । तां धीं प्रेषयामास सभृत्या बलभी पुरीम् ॥ ८॥ कालेन तत्र साऽमृत पुत्रं पुत्री च सुद्यतम् । तत्रैवोवास सुचिरं जनकार्पितजीविका ॥ ९॥ क्रमेण वधाते ती पुत्री थालार्कलेजसौ । याददष्टौ व्यतिक्रान्ता वत्सराः क्षणवत्तयोः ॥१०॥ तावदध्यापकस्यान्ते पठित तो निवेशिती। कल हेर्भ निपितृकमृचिरे लेखशालिकाः ॥ ११ ॥ सद्गिरा विद्यमानोऽर्भः प्रपरछ जननी निजाम् । कि मातास्ति मे तातो येन लोकोक्तिरीदशी ॥१२॥ माता जगाद नो वेनि किं पीडयसि पृच्छया। ततः खिनः स सत्चाट्यो मर्तुमच्छद्विपादिभिः ॥१॥ साक्षादागत्य तं भानुरूचेऽहं यत्स!ते पिता । पराभयकरो यस्ते तस्याहं प्राणहारकः ॥१४॥ इत्युक्त्वा कर्करं सूक्ष्ममेकं तस्य समार्पयत् । ताज्यो तेन त्वया द्वेषी सद्यो मर्तेति चादिशत् ॥ १५॥ तेन कर्करशस्त्रेण पारस बलवत्तरः। विद्रवन्तं वियनामवधील्लेखशालिकम् ॥ १६ ॥ बलभीपुरभूपेन श्रुतो बालबधः स तु । कुपिनस्तं शिशु सद्यो जनैः स्वान्तिकमानयत् ।। १७ ॥ उक्तश्च रे ! कथं हंसि नृशंश! शिशकानमून् । बालः प्रत्याहन परं बालान्हन्मि नृपान पि ॥१८॥ इत्थं घदन्महोपालमहन् करकेण लग। मृतस्य तस्य साम्राज्य सरा-नि विक्रमी ।। १९॥ शिलादित्य इति ख्यातः सुराष्ट्राराष्ट्रभास्करः। लेभे सूर्याद्वरं वाहं परचक्रोपमद्देकम् ॥ २०॥ निजां स्वसारं स ददी भृगुक्षेत्रमहीभुज असूत सा सुतं दिव्यतजसं दिव्यलक्षणम् ॥ २१ ॥ 1॥ २३ ॥ For Private And Personal Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शनुअये गिरौ चैत्योद्धारमारचयच्च सः । श्रेणिशादिभावकाणां श्रेणावात्मानमानयत् ॥ २२॥ कदाचिवागतास्तत्र बौद्धास्तर्कमदोदरः । ते शिलादित्यमगढन् मन्ति श्वेत.म्परा इमे ॥ २३ ॥ यादे जयन्ति यद्यस्मांस्तदि ले सन्नु नीति । वर यदि जयामोऽस्तदा गन्तव्यमंतः॥ २४ ।। दैवयोगाजितं चौद्धैः सर्वे श्वेताम्बराः पुनः। विदेशमाशिशिपिरे पनः कालबलार्थिनः ।।२।। शिलादित्यनृपो बौद्धान् प्रपूजयति भक्तितः । शत्रुचये च ऋषभस्तैर्बुद्धीकृत्य पूजितः ॥ २६ ।। इतश्च सा शिलादित्यभगिनी भर्तृमृत्युतः। विरना बननादत्त सुस्थिनाचार्यसनिधौ ॥ २७॥ अष्टवर्षे निजं बालमपि व्रतमजिग्रहत् । सामाचारीमापे प्राज्ञं किश्चित्किञ्चिदजिज्ञपत् ।। २८ ।। एकदा मातरं साध्वीं सोऽपृच्छदभिमानवान् । अल्पः कथं नः संघोऽयं प्रागप्यल्पोऽभवत्कथम् ॥२९॥ साऽप्युदरभाषिष्ट वत्स ! किं वच्मि पापिनी । श्रीश्वेताम्बरसंघोऽभूद्यानपि पुरे पुरे ॥ ३०॥ ताहापभावनावीरसूरीन्द्राभावतः परः । स्वसात्कृतः शिलादित्यो भूपालो मातुलस्तव ।। ३१ ।। तीर्थ शत्रुक्षयाहूं यद्विदितं मोक्षकारणम् । श्वेताम्बराभावतस्नद्वौद्धर्भूतैरिवाश्रितम् ॥ ३२॥ विदेशवासिनः श्वेताम्बरः खण्डितडम्बराः । क्षिपन्ति निहितीजस्काः कालं पवचन केचन ।। ३३ ।। इति श्रुत्वाकुपालस्ताथागतभटामिति । प्रतिज्ञांच चकारोचैःप्रावडम्भोधरध्वनिः ॥ ३४॥ For Private And Personal Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ २४ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नोन्मूलयामि चेद्वौद्धान् नदीरय इव द्रुमान् । तदा भवामि सर्वज्ञध्वंसपातकभाजनम् ॥ ३५ ॥ इत्युक्त्वाऽम्बां समापृच्छ्थ बालः कालानलद्युतिः । मल्लनाम गिरिं गत्वा तेपे तीव्रतरं तपः ॥ ३६ ॥ आसन्नग्रामभैक्षेण पारणं च चकार सः । दिनैः कतिपयैस्तच जज्ञौ शासनदेवता ॥ ३७ ॥ भूत्वा व्योमनि सावादीत्के मिष्टाः ? सोऽपि बालकः । तच्छ्रुत्वाऽऽख्यत्सानुभवं वल्ला इति खदत ॥ षण्मास्यन्ते पुनः सोचे खस्था केन सहेत्यथ ? । बालविरप्यभाषिष्ट समं घृतगुडैः शुभैः ॥ ३९ ॥ अवधारणशक्त्या तं योग्यं शाशनदेवता । प्रत्यक्षा न्यगद्द्वत्स ! भूयाः परमतापहः ॥ ४० ॥ नयचकस्य तर्कस्य पुस्तकं लाहि मानद ! । वाणी सेत्स्यति ते सम्पद् कुतर्कोरगजाङ्गली ॥ ४१ ॥ भूमौ मुमोच तं तर्कपुस्तकं बालको मुनिः । प्रमादः सुलभस्तन्न वयोलीलाविशेषतः ॥ ४२ ॥ रुष्टा शासनदेव्यूचे विहिताशतना त्वया । सानिध्यं ते विधाताऽस्मि प्रत्यक्षीभविता न तु ॥ ४३ ॥ तं लब्धा पुस्तकं मल्लवादी देदीप्यते स्म सः । शस्त्रं पाशुपतमिव मध्यमः पाण्डुनन्दनः ॥ ४४ ॥ आगत्य वलभद्र सुराष्ट्राराष्ट्रभूषणम् । शिलादित्यं युगप्रान्तादित्यच्युतिरुवाच सः ॥ ४५ ॥ बघा जगजाग्धं प्रतिमोहमुत्थितः । अप्रमादी मल्लवादी त्वदीयो भगिनीसुतः ॥ ४६ ॥ शिलादित्यनृपोपान्ते बौद्धाचार्येण वाग्मिना । वादिवृन्दारकच के तर्कपदरसुल्बणम् ॥ ४७ ॥ मल्लवादिनि जल्पाके नयतर्कबलोलपणे । हृदये हारयामास षण्मासान्ते स शाक्यराट् ॥ ४८ ॥ For Private And Personal प्रवन्धः ७ ॥ २४ ॥ Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir षण्मासान्तनिशायां स स्वं निशान्तमुपेयिवान् । तर्कपुस्तकमाकृष्य कोशात्किञ्चिदवाचयत् ॥४९॥ । चिन्ताचक्रहते चित्ते नास्तान्ध मीश्वरः । बौधः स चिन्तयामास प्रातस्तेजोवधो मम ॥५०॥ श्वेताम्बरस्फुलिङ्गस्य किश्चिदन्यदहो! महः । निर्वासयिष्यन्तेऽनी हा! बौद्धाः साम्राज्यशालिमः॥५१॥ धन्यास्ते ये न पश्यन्ति देशभङ्गं कुलक्षयम् । परहस्तगतां भार्या मित्रं चापदि संस्थितम् ॥५२॥ इति दुःखौघसंघद्वाद्विदद्रे तस्य हृत्क्षणात् । नृपाहानं समायातं प्रातस्तस्य व्रतं द्रतम् ॥५३॥ नोदघाट्यन्ति तच्छिष्या गृहद्वारं वराककाः । मन्दो गुरुनाथ भूपसभामेतेति भाषिणः॥५४॥ तद्गत्वा तत्र तैरुक्तं श्रुत्वा तन्मल्ल उल्लसन् । अवोचच्च शिलादित्यं मृतोऽसौ शाक्यराट् शुषा ॥१५॥ स्वयं गत्वा शिलादित्यस्तं तथास्थमलोकत । बौद्धान्यावासयदेशाधिक प्रतिष्ठाच्युतं नरम् ॥५६॥ मल्लवादिनमाचार्य कृत्वा वागीश्वरं गुरुम् । विदेशेभ्यो जैनमुनीन्सर्वानाजूहवन्नृपः॥७॥ शत्रुञ्जये जिनाधीशं भवपञ्जरभञ्जनम् । कृत्वा श्वेताम्बरायत्तं यात्रा प्रावर्तयन्नृपः॥५८॥ कालान्तरे तत्र पुरे रङ्को नामाभवद्वणिक् । तस्य कापट्टिको हढे न्यासीचके महारसम् ॥ ५९॥ रसेन तेन स्पृष्टस्य लोहस्य तपनीयताम् । स दृष्ट्वा हसदनपरावर्त चकार च ॥ ६॥ वञ्चयित्वा कार्पटिकं रङ्कः सोऽभून्महाधनः। तत्पुच्या राजपुत्र्याश्च संख्यमासीत्परस्परम् ॥ ६१॥ For Private And Personal Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandir P प्रबन्ध चतुविशात ॥२५॥ हेमीककनीकामेको दिव्यरत्नविभूषिताम् । रङ्कपुत्रीकरे दृष्ट्वा याचते स्म नृपात्मजा ॥ ६२॥ तां न दत्ते पुना रङ्को राजा तं याचते बलात् । तेनैव मत्सरेणासौ म्लेच्छसैन्यमुपानयत् ।। ६३ ॥ भग्ना पूर्वलभी तेन संजातमसमञ्जसम् । शिलादित्यः क्षयं नीतो वाणिजा स्फीतऋद्धिना ॥ ६४ ॥ ततोऽथाकृष्य वणिजा प्रक्षिप्ता अरिणे शकाः । तृष्णाया ते स्वयं मृत्वा हतो व्याधिर्महानयम् ॥६५॥ विक्रमादित्यभूपालात्पश्चर्षित्रिकवत्सरे । जातोऽयं बलभीमको ज्ञानिनः प्रथमं ययुः ॥६६॥ खवर्मना गतान्यहद्विम्बानि विषयान्तरम् । देवताधिष्ठितानां हि चेष्टा सम्भविनी तथा ॥ ७॥ एतच्च प्रथमं ज्ञात्वा मल्लवादी महामुनिः । सहितः परिवारेण पश्चासरपुरीमगात् ॥ ६८॥ नागेन्द्रगच्छसत्केषु धर्मस्थानेष्वभूत्प्रभुः। श्रीस्तम्भनकतीर्थेऽपि सङ्घस्तस्येशतामधात् ॥ ६९॥ श्रीमल्लवादिचरितं जिनशासनीयतेजासमुन्नतिप्रवित्रमिदं निशम्य । भव्याः ! कवित्ववचनादिविचित्रलब्धिबातैः प्रभावयत शासनमार्हतं भोः ॥७॥ ॥ इति श्रीमल्लवादिचरित्रम् ॥ ॥२५॥ For Private And Personal Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir (८) अथ श्रीहरिभद्रसूरिप्रवन्धःश्रीचित्रकूटे हरिभद्रो विप्रश्चतुर्दशविद्यास्थानज्ञः। दृश्यां पादुकाः ‘पञ्च मदूरीकृतदर्शनान्यानि पञ्चममाघः इति कृत्वा' उदरे पट्टः 'उदरं विद्यया स्फुटतीति कृत्वा' जालं कुदालो निःश्रेणी सह चलन्ति (?)। यत्पठितमहं | न जानामि तस्य शिष्यो भवामीति प्रतिज्ञा । एकदा चतुष्पथासन्नभूमिं बजता गाथामेकां पठ्यमाना याकिनी नाम साध्वी श्रुता । तया चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चकी। केसवचनीकेसवदुचकिकेसीयचकीय ॥१॥ इति गाथा पेठे । न च तेन बुद्धा । अग्ने गत्वोक्तम्-" मातर ! खरं चिकचिकापितम्।” साव्योक्तम्" नवं लिप्तम् ।" अहो ! अनयाऽहमुत्तरेणापि जितः । इति तां ववन्दे । त्वच्छिष्योऽस्मि । गाथा) ब्रहि |मातः ! । सा प्राह स्म-" मम गुरवः सन्ति ।” हरिभद्रः माह-क्व ते ? । अत्र सन्ति । ततः केनापि श्रावकेण स चैत्यं नीतः । जिनदर्शनं तत्पथमं हर्षः। वपुरेव तवाचष्टे भगवन् वीतरागताम् । नहि कोटरसंस्थेऽनौ तरुर्भवति शाड्वलः॥१॥ For Private And Personal Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ २६ ॥ www.kobatirth.org जं दिट्टी करुणातरङ्गियपुडा एयरस सोमं मुहं । आयारो पसमायरो परियरो संतो पसन्ना तणू ॥ तं नूणं जरजम्ममच्हरणो देवाहिदेवो इमां । देवाणं अवराण दीसह जओ नेयं सरूवं जए ॥ Acharya Shri Kailashsagarsuri Gyanmandir इत्यादि नवीननमस्काराः । ततो जिनभटाचार्यदर्शनम् । प्रतिपत्तिः । परिश्रम् । सूरिषदवी । आवश्यके चक्कीत्यादिदुष्करत्वादावश्यकं तेनैव विवृतम् । 'कविचासर्वशः' इति बिरुदम् । रहस्यपुस्तका देवताभ्यो लब्धाः । ते चादरेण जितदिपटाचार्याच्छित ८४ मठप्रतिबद्धचउरासीनामकप्रासादस्तम्भे विविधौषधनिष्पन्ने जलज्वलनाद्यसाध्ये क्षिप्ताः । एकदा भागिनेयौ हंसपरमहंसी पाठयति प्रभुः निष्पन्नौ । परं बौद्धतर्कान्खे न पिपठिषतः । तौ गुरुणा वार्यमाणावपि तत्पार्श्व गती । जरतीगृहे उत्तारकः । बौद्धाचार्यान्ति तद्वेषस्थी पठतः । कपलिकायां रहस्यानि लिखतः । प्रतिलेखनादिसंस्कारवशादयालु हव ज्ञात्वा गुरुगाऽचिन्ति- “ ध्रुवं श्वेताम्बरावेतौ । ” द्वितीयाहे सोपानश्रेणी खव्याऽद्वियमालिलिखे । तदान्नायाती तो पादौ तत्र न दत्तः । रेखाचयाङ्कस्तत्कण्ठश्च । बुद्धोऽयं जात इति कृत्वा उपरि पादो दत्तः । उपरि चटितौ । गुरुणा दृष्टौ । गुरोः | समक्षं निषण्णौ । तौ गुर्वास्यच्छायापरावर्त दृष्ट्वा तत्कैतवं तत्कृतमेव सत्या जठरपीडामिषेण ततो निर कामताम् । कपलिकां लाया गतौ तौ । विलोकापितौ व हलः । राजा कथितम् - " सितपटावुत्कटकपट तवं लात्या यातः । कपलिकामानायय । ” पृष्ठे सैन्यमरूपं गतम् । दृष्टिदृष्टिः । द्वावपि सहस्त्रयोधौ तौ । For Private And Personal प्रवन्धः ॥ २६ ॥ Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ताभ्यां निहतं राजसैन्यम् । उद्धृतनष्टैरुपराजं गत्वा कथित सत्तेजः । पुनर्वहसैन्यमप्रेषि। दृष्टिमेलापकः । युद्धमेकः करोति । अपरः कपरिकापाणिनष्टः । हंसत्य शिरश्छित्वा राज्ञे दर्शितं तैः । तेनापि गुरवे दत्तम् । गुरुराह-"किमनेन कपरिकामानायय।” गता भटाः। रानौ चित्रकूटे प्राकारकपाटयोर्दत्तयोस्तदासन्ने सुप्तस्य परमहंसस्य शिरश्छित्वा तैस्तत्रार्पितम् । तेषां बौद्धानां तत्रेश्च सन्तोषः। प्रातः श्रीहरिभद्रसूरिभिः शिष्यकरन्धो दृष्टः । कोपः । तैलकटाहाः कारिताः । अग्निना तापितं तैलम् । १४४० बौद्धा होतुं खे आकृष्टाः शकुनिकारूपेण पतन्ति । गुरुभिवृत्तान्तो ज्ञातः । प्रतिबोधाय साधू प्रहितौ । ताभ्यां गाथा दत्ताःगुणसेणअग्गिसमा सीहाणंदाय तह पियापुत्ता। सिहिजालिणि माइसुया, धणधणसिरिमो य पइभज्जा ॥१॥ जयविजया य सहोयर धरणो लच्छी य तह पई मज्जा । सेणविसेणो पित्तिय उत्ता जम्मंमि सत्तमए ॥२॥ गुणचन्दवाणवंतर समराइच गिरिसेण पाणाउ । एगस्स तओ मुक्खोऽणतो बीयस्स संसारो ॥३॥ जह जलइ जलउ लोए कुसत्थपवणाहओ कसायग्गी । तं चुलं जं जिणवयण अमियसित्तोवि पज्जलइ ॥४॥ बोधः। शान्तिः । १४४० ग्रन्थाः प्रायश्चित्तपदे कृताः। चित्रकूटतलहधिकास्थेन तैलवणिजा प्रतयः कारिताः । तत्प्रथमं याकिनीधर्मसूनुरिति हारिभद्रग्रन्थेष्वन्तेऽभूत् । १४४० पुनर्भवविरहान्तता। गुणसेणअग्गिसम्माइत्यादिगाथात्रयप्रतिबद्धं समरादित्वचरित्रं नव्यं शास्त्रं क्षमावल्लीविजं कृतम्। १०० शतक For Private And Personal Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ २७ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पञ्चाशत् षोडशक- अष्टक- पञ्चलिङ्गी अनेकान्तजयपताका- न्यायावतारवृत्ति पश्चवस्तुक-पञ्चसूत्रक-श्रावकप्रज्ञि नाणायत्तकप्रभृतीनि हारिभद्राणि । अत्रान्तरे श्रीमालपुरे कोऽपि धनी श्रेष्ठी जैनश्चतुर्मास के सपरिकरो देवतायतनं व्रजन् सिद्धाख्यं राजपुत्रं द्यूतकारयुवानं देयकनकपदे निर्देयैर्युतकारैर्गतायां निक्षिप्तं कृपया तद्देयं दत्त्वा अमोचयत् । गृहमानीयाभोजयत् । अपाठयत् । सर्वकार्याध्यक्षमकरोत् । पर्यणाययत् । माता प्रागप्यासीत् । पृथग् गृहेऽस्थात् । मात्रा प्रियया च समं स गृहमण्डनिका । श्रेष्ठिप्रसादाद्धनं बभूव । सिद्धो रात्रावतिकाले एति, लेख्यक लेख लेखनपरवशत्वात् । श्वश्रूस्नुषे अतिनिर्विण्णे अतिजागरणात् । वध्वा श्वश्रूरुक्ता - " मातर् ! पुत्रं तथा बोधय । यथा निशि सकाले एति । " मात्रा उक्तः सः - " वत्स ! निशि शिघ्रमेहि । यः कालज्ञः स सर्वज्ञः । " सिद्धः प्राह - "मातर् ! येन स्वामिनाऽहं सर्वस्वदानेन जीवितव्यदानेन च समुद्धृतस्तदादेशं कथं न कुर्वे । " तौष्णीक्येन स्थिता माता । अन्यदाऽऽलोचितं श्वश्रूस्नुषाभ्याम् - " अस्य चिरादागतस्य निशि द्वारं नोदघाटयिष्यावः । " द्वितीयरात्रावतिचिराद् द्वारमागतः स कटकं खटखटापयति । ते तु न ब्रूतः । तेन क्रुद्धेन गदितम् - " किमिति द्वारं नोद्घाटयेथे ? । " ताभ्यां मन्त्रित पूर्विणीभ्यामुक्तम् - " यत्रेदानीं द्वाराणि उद्घाटितानि भवन्ति, तत्र व्रज । ” तच्छ्रुत्वा क्रुद्धचतुष्पथं गतः । तत्रोघाटे हट्टे उपविष्टान् सूरिमन्त्र For Private And Personal प्रबन्धः ८ ॥ २७ ॥ Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir स्मरणपरान् श्रीहरिभद्रान्दृष्टवान् । सान्द्रचन्द्रिक नभसि देशना । बोधः । व्रतं जगृहे । सर्वविद्यता । दिव्यं कवित्वम् । हंसपरमहंसवद विशेषतर्का जिघृक्षुबौद्धान्तिकं जिगमिषुर्गुरुमवादीत्-"प्रेषयत बौद्धपाश्चे।" गुरुभिर्गदितम्-" तत्र मागाः। मनःपरावर्ती भावी ।" स ऊचे-“युगान्तेऽपि नैवं स्यात् ।" पुनर्गुरवा प्रोचुः-" तत्र गतः परावर्त्यसे चेत् तदा अस्मद्दत्तं वेषमन्त्रागत्यास्मभ्यं ददीथाः।" ऊरीचक्रे सः। गतस्तत्र पठितुं लग्नः । सुघटितैस्तत्कुतर्कैः परावर्तितं मनः । तद्दीक्षा ललौ । वेषं दातुमुपश्रीहरिभद्रं ययौ । तैरप्यागच्छन्नावर्जितः वादं कुर्वन्वादेन जितः। बौद्धाचार्यस्य बौद्धवेषं दातुं गतः। तेनापि बोधितः। पुनरागत उपश्रीहरीभद्रं श्वेताम्बरवेषं दातुम् । पुनर्वादेन जितः। एवं वेषद्वयप्रदानेन एहि रे! याहिराः २१ कृताः। द्वाविंशवेलायां गुरुभिश्चिन्तितम्-" माऽस्य वराकस्य आयुःक्षयेण मिथ्यादृष्टित्वे मृतस्य दीर्घभवभ्रमणं भूत्।" पुराऽपि २१ वारान् वादे जितोऽसौ। अधुना वादेनालम् । ललितविस्तराख्या चैत्यवन्दनावृत्तिः | सतो कृता । तदागमे पुस्तिकां पादपीठे मुक्त्वा गुरवो बहिरगुः। तत्पुस्तिकापरामर्शाद्वोध: समजनि । ततस्तुष्टो निश्चलमनाः प्राह __ नमोऽस्तु हरिभद्राय तस्मै प्रवरसूरये। मदर्थ निर्मिता येन वृत्तिललितविस्तरा ॥१॥ ततो मिथ्यात्वनिर्विण्णेन सिद्धर्षिणा १६ सहस्रा उपमित अवप्रपञ्चा कथाऽरचि श्रीमाले सिद्धिमण्डपे। For Private And Personal Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पतुर्विशति प्रबन्ध सा च सरस्वत्या साध्व्याञ्शोधि । समये श्रीहरिभद्रसूरयोऽपि सोऽपि अनशनेन सुरलोकमवापन् । ॥ इति श्रीहरिभद्रसूरिप्रवन्धः॥ ॥ २८॥ ॥ अथ श्रीवप्पभट्टसूरिप्रवन्धःगुजरदेशे पाटलापुरनगरे जितशत्रू राजा राज्यं करोति स्म । तत्र श्रीसिद्धसेननामा सूरीश्वरोऽस्ति स्म। स मोढेरपुरे महास्थाने श्रीमहावीरनमस्करणाय गतः। श्रीमहावीरं नत्वा तीर्थोपवासं कृत्वा रात्रावात्मारामरतो योगनिद्रया स्थितः सन्स्वप्नं ददर्श । यथा-"केसरिकिशोरको देवगृहे परिक्रीडति।" स्वप्नं लब्ध्वाऽजागरीत्। माङ्गल्यस्तवनान्यपाठीत् । प्रातश्चैत्यं गतः। तत्र षड्वार्षिको बाल एको बालांशुमालिसमद्युतिराजगाम । सरिणा पृष्टः-“भो ! अर्भक ! कस्त्वम् ? कुत आगत:?” तेनोक्तम्-पश्चालदेशे डुबाउधीग्रामे बप्पाख्यः क्षत्रियः। तस्य भधिर्नाम सधर्मचारिणी । तयोः सुरपालनामपुत्रोऽहम् । मत्तातस्य बहवो भुजवलगर्विताः प्रचुरपरिच्छदाः शत्रवः सन्ति। तान्सर्वान्हन्तुमहं सन्नह्य चलनासम् । पित्रा निषिद्धः-"वत्स! पालस्त्वम्, नास्मै कर्मणे प्रगल्भसे। अलमुयोगेन।" ततोऽहं क्रुद्धः। किमनेन निरभिमानेन पित्रापि? यः ॥२८॥ For Private And Personal Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्वयमरीन हन्ति मामपि प्रन्तं निवारयति । अपमानेन मातापितरावनापृच्छयात्र समागतः । सूरिणा चिन्तितम् - " अहो ! दिव्यं रत्नम् । न मानवमात्रोऽयम् । तेजसां हि न वयः समीक्षयते ।" इति विमृश्य बाल आलेपे - " वत्सक! अस्माकं पार्श्वे तिष्ठ निजगृहाधिकसुखेन ।" बालेनोक्तम्- "महान्प्रसादः।” स्वस्थानमानीतः । सङ्घो हष्टस्तद्रूपविलोकनेन । दृष्टयस्तृप्तिं न तन्वते । पाठयित्वा विलोकितः । एकाहून श्लोकसहस्रमध्यगीष्ट। गुरवस्तुष्टुवुः । रत्नानि पुण्यप्रचयप्राप्यानि । धन्या वयम् । तेन वालेनाप्यल्पदिनैर्लक्षणतर्कसाहित्यादीनि भूयांसि शास्त्राणि पर्यशीलिषत । ततो गुरवो डुंबाउधीग्रामं जग्मुः । बालस्य पितरौ वन्दितुमागतौ । गुरु| भिरालापितौ- " पुत्रा भवन्ति भूयांसोऽपि । किं तैः संसारावकरकृमिभिः ? । अयं तु युवयोः पुत्रो व्रतमीहते । | दीयतां नः । गृह्यतां धर्मः । नष्टं मृतं सहन्ते हि पितरो निजतनयम् । श्लाध्योऽयं भवं निस्तितीर्षुः । ” पितृभ्यामुक्तम्- "भगवन् । अयमेक एव नः कुलतन्तुः । कथं दातुं शक्यते । ” तावता सविधस्थेन सुरपालन गदितम् - "चारित्रं गृहणाम्येव । " यतः - सा बुद्धिर्विलयं प्रयातु कुलिशं तत्र श्रुते पात्यताम् वल्गन्तः प्रविशन्तु ते हुतभुजि ज्वालाकराले गुणाः । Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्षिचति ॥२९॥ यैः सर्वैः शरदेन्दुकुन्दविशदैः प्राप्सैरपि प्राप्यते भूयोऽप्यन्त्र पुरन्ध्रिरन्ध्रनरकक्रोडाधिवासव्यथा ॥१॥ ततो ज्ञाततनिश्चयाभ्यां तन्मातरपितृभ्यां जल्पितम्-"भगवन् ! गृहाण पात्रमेतत् । परं ‘वप्पमहिः इति नामास्य कर्त्तव्यम् ।" गुरुभिर्भणितम्-"एवमस्तु। कोत्र दोषः। पुण्यवन्तौ युवाम् । ययोरयं लाभः सम्पन्न ।" बप्पभटी आपृच्छय सूरपालं गृहीत्वा सिद्धसेनाचार्या मोढेरकं गताः। | शताष्टके वत्सराणां गते विक्रमकालतः। सप्ताधिके राधशुक्लतृतीयादिवसे गुरौ ॥११॥ दीक्षा दत्ता। 'बप्पभहिः' इति नाम विश्ववल्लभं जुघुषे । सङ्घप्रार्थनया तत्र चतुर्मासकं कृतम् । अन्यदा यहिभूमिं गतस्य बप्पभमहतीं वृष्टिमतनिष्ट घनः । क्वापि देवकुले स्थितः सः। तत्र देवकुले महाबुद्धः कोऽपि पुमान् समागतः। तत्र देवकुले प्रशस्तिकाव्यानि रसाढ्यानि गम्भिरार्थानि तेन बप्पभटिपा द्वधाख्यापितानि । ततः स बप्पमहिना समं वसतिमायातः। गुरुभिराशिर्भिरभिनन्दितः। आम्नायं स पृष्टः। ततोऽसौ जगाद-"भगवन् ! कन्यकुब्जदेशे गोपालगिरिदुर्गनगरे यशोवर्मनृपतेः सुयशोदेवीजन्मा नन्दनोऽहं यौवनेन निरर्गलं धनं लीलया व्ययन पित्रा कुपितेन शिक्षितः-'वत्स ! धनार्जकस्य कृच्छ्मस्थानव्ययी पुत्रो न वेत्ति तातस्य । मितव्ययो भव । ततोऽहं कोपादिहागमम् ।” गुरुवोऽप्यूचुः-किं ते नाम ?। तेनापि ॥२९॥ For Private And Personal Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir खटिकया भुवि लिखित्वा दर्शितम् । 'आमः' इति । महाजनाचारपरं परेदशी स्वनाम नामाददते न साधवः। तस्यौनत्येन गूरवो हृष्टाः । चिन्तितं च तैः-"पूर्वं श्रीरामसैन्ये ग्रामे दृष्टोऽसौ पाण्मासिकः शिशुः। पीलुवृक्षमहाडाल्यां वस्त्रदोलकमास्थितः। अचलच्छायया च पुण्यपुरुषो निर्णितः॥ ततस्तजननी वन्यफलानि विचिन्वानाऽस्माभिर्भणिता-'वत्से! का त्वम् । किं च ते कुलम् ।' साऽवादीत् निजं कुलम्-'अहं राजपुत्री कन्यकुब्जेशयशोवर्मपत्नी सुयशा नाम । अहमस्मिन्सुते गर्भस्थे सति दृढकार्मणवशीकृतघवया यत्कृतप्रमाणयाऽकृत्यये च क्रूरया सपत्न्या मिथ्या परपुरुषदोषमारोप्य गृहानिष्कासिता। अभिमानेन श्वशुरकुलापतृकुले हित्वा भ्रमन्तीह समागता वन्यवृत्त्या जीवामि । बालं च पालयामि ।" इदं श्रुत्वाऽस्माभिर्मा उक्ता-"वत्से ! अस्मचैत्यं समागच्छ स्वं वत्सं वर्द्धय । तया तथा कृतम् । सपत्न्यपि बहुसपत्नीकृतमारणप्रयोगेण ममार। ततो विशिष्टपुरुषैः कन्यकुब्जेशो यशोवर्मा विज्ञप्त:-"देव! सुयशा राज्ञी निर्दोषाऽपि तदा देवेन सपत्नीवचसा निष्कासिता सा प्रत्यानीयते" । राज्ञा सा स्वसौधमानायिता सपुत्रा गौरविता च। अन्यदा विहरन्तो वयं तस्या देशं गताः। तया पूर्वप्रनिपन्नं स्मरन्त्या वयं वन्दिताः पूजिताः। For Private And Personal Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धा चतुर्विंशति ॥३०॥ अनेन आमनाम्ना तत्सुतेन भाव्यम् । एवं चिरं विभाव्य सूरयस्तमूचु:-"वत्स! बस निश्चिन्तो निजेन सुहृदा बप्पमहिनाम्ना सममस्मत्सन्निधौ। त्वं गृहाण कलाः। कास्ताः?-लिखितम् १ गणितम् २ गीतम् ३ नृत्यम् ४ पठितम् ५ वाचम् ६ व्याकरणम् ७ छन्दो ८ ज्योतिषम् ९ शिक्षा १० निरुक्तम् | ११ कात्यायनम् १२ निघण्टु १३ पत्रच्छेद्यम् १४ नखच्छेद्यम् १५ रत्नपरीक्षा १६ आयुधाभ्यासम् १७ गजारोहणम् १८ तुरगारोहणम् १९ तयोःशिक्षा २० मन्त्रवादः २१ यन्त्रवादः २२ रसवादः २३ खन्यवादः२४ | रसायणम् २५ विज्ञानम् २६ तर्कवादः २७ सिद्धान्तः २८ विषवादः २९ गारुडम् ३० शाकुनम् ३१ वैद्यकम् ३२ आचार्यविद्या ३३ आगमः ३४ प्रासादलक्षणम् ३५ सामुद्रिकम् ३६ स्मृतिः ३७ पुराणम् ३८ इतिहास: ३९ वेदः ४० विधिः४१ विद्यानुवादः ४२ दर्शनसंस्कारः ४३ खेचरीकला ४४ अमरीकला ४५ इन्द्रजालम् ४६ पातालसिद्धिः ४७ धूर्त्तशम्बलम् ४८ गन्धवादः ४९ वृक्षचिकित्सा ५० कृत्रिममणिकर्म ५१ सर्वकरणी ५२| | वश्यकर्म ५३ पणकर्म ५४ चित्रकर्म ५५ काष्ठपटनम् ५६ पाषाणकर्म ५७ लेपकर्म ५८ चर्मकर्म ५९ यन्त्रकरसवती ६० काव्यम् ६१ अलङ्कारम् ६२ हसितम् ६३ संस्कृतम् ६४ प्राकृतम् ६५ पैशाचिकम् ६६ अपभ्रशम् ६७ कपटम् ६८ देशभाषा ६९ धातुकर्म ७० प्रयोगोपायम् ७१ केवलीविधिः ७२ एताः सकलाः कलाः शि|क्षितवान । लक्षणतर्कादिग्रन्थान परिचितवान् । बप्पभहिना साकमस्थिमज्जन्यायन प्रीतिं बद्धवान् । For Private And Personal Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पतः-आरंभगुर्षी क्षयिणी क्रमेण हस्वा पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्द्धपरार्द्धभिन्ना च्छायैव मैत्री खलसज्जनानाम् ॥१॥ कियस्यपि काले यशोवर्मनृपेणासाध्यव्याधितेन पट्टाभिषेकार्थमामकुमाराकारणाय प्रधानपुरुषाः प्रेषिताः। अनिच्छन्नपि तैस्तत्र नीतः। पितुर्मेलितः । पित्राऽऽलिङ्गितः सवाष्पगदगदमुपालन्धश्च धिग्वृत्तवृत्तमुचितां शुचितां धिगेतां धिक् कुन्दसुन्दरगुणग्रहणाग्रहित्वम् । चक्रेऽङ्कसीम्नि तव मौक्तिक येन वृद्धिर्वार्द्धन तस्य कथमप्युपयुज्यसे यत् ॥ २॥ (2) अभिषिक्तः स्वराज्ये । शिक्षितश्च प्रजापालनादौ । एतत्कृत्वा यशोधर्मा अर्हन्तं विधा शुद्ध्या शरणं श्रयन् यां गतः। आमराजा पितुरौर्द्धदेहिकं कृतवान् । द्विजादिदीनलोकाय वित्तं दत्तवान् । लक्षद्वितयमश्वानां हस्तिनां रथानां च । प्रत्येकं चतुर्दशशती एका कोटी पदातीनाम् । एवं राज्यश्रीः श्रीआमस्य न्यायरामस्य । तथापि वप्पभट्टिमित्रं विना पलालपूलप्रायं मन्यते स्म । ततो मित्रानयनाय प्रधानपुरुषान् प्रेषीत् । तैस्तत्र गत्वा विज्ञप्तम्-"हे! श्रीपप्पभद्दे ! आमराजः समुत्कण्ठयाऽऽयति । आगम्यताम् ।" बप्पमहिना गुरूणां बदनकमलमवलोकितम् । तैः समानमत्या गीतार्थयतिभिः समं बरपभहिमानिः प्रहितः । आमस्य पुरं For Private And Personal Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्ध चतुर्विशति ॥३१॥ गोपालगिरिं प्राप । राजा सबलवाहनः संमुखमगात् । प्रवेशमहमकार्षीत् । सौधमानैषीत् । अवोचत च- " भगवन् ! अर्द्धराज्यं गृहाण ।" तेनोक्तम्-अस्माकं निर्ग्रन्थानां सावद्येन राज्येन किं कार्यन् ? यतः अनेकयोनिसम्पाताऽनन्तबाधा विधायिनी । अभिमानफलैवेयं राज्यश्रीः सापि नश्वरी ॥१॥ ततो राज्ञाऽसौ तुङ्गधवलगृहे स्थापितः । प्रातः सभामागताय बप्पभट्टये नृपेण सिंहासनं मण्डापितम् ।। तेन गदितम्-"ऊर्वीपते! आचार्यपदं विना सिंहासनं न युक्तम् । गुर्वाशतना भवेत्। ततो राज्ञा बप्पभहिः प्रधानसचिवैः सह गुर्वन्तिके प्रहितः। विज्ञप्तिका दत्ता-“यदि मम प्राणैः कार्य तदा प्रसद्य सद्योऽयं महर्षिः सूरिपदे स्थाप्यः । 'योग्यं सुतं च शिष्यं च नयन्ति गुरवः श्रियम् ।' स्थापितमात्रश्चात्र शिघ्रं प्रेषणीयः ।। अन्यथाऽहं न भवामि । मा विलम्ब्यतामिति ।" अखण्डप्रयाणकैर्मोढेरकं प्राप्तो बप्पभट्टिः। सचिवैः सूरयो विज्ञप्ताः-" प्रभो ! राजविज्ञप्त्यर्थोऽनुसार्यः । उचितज्ञा हि भवादृशाः।" अथ श्रीसिद्धसेनाचार्यबप्पभहिः सूरिपदे स्थापितः। तदङ्गे श्रीः साक्षादिव संक्रामन्ती दृष्टा । रहश्च शिक्षा दत्ता-" वत्स ! तव राजसत्कारो भृशं भावी । ततश्च लक्ष्मीः प्रवर्त्यति । तत इन्द्रियजयो दुष्करः। त्वं महाब्रह्मचारी भवः। For Private And Personal Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव वीराः। अनेन महाव्रतेन महत्तरः स्फुरिष्यसि । एकादशाधिके तत्र जाते वर्षशताष्टके । विक्रमात्सोऽभवत्सूरिः कृष्णचैत्राष्टमीदिने ॥१॥ गुरुणा आमराजसमीपे प्रेषितः । तत्र प्राप्तः। गोपगिरेः प्राशुकवनोद्देशे स्थितः। राजा अभ्यागत्य महामहेन तं पुरी प्रावीविशत् । श्रीवप्पभद्दसूरिणा तत्र देशना क्लेशनाशिनी दत्ता श्रीरियं प्रायशः पुंसामुपस्कारैककारणम् । तामुपस्कुर्वते ये तु रत्नसूस्तैरसौ रसा ॥१॥ आमेन गुरूपदेशादेकोत्तरहस्तशतप्रमाणः प्रासादः कारयामास गोपगिरौ। अष्टादशभारप्रमाणं श्री वर्द्धमानविम्बं तत्र निवेशयांबभूवे । प्रतिष्ठां विधापयांचके । तत्र चैये मूलमण्डपः सपादलक्षण सौवर्ण कैर्निष्पन्न इति बुधाः प्राहुः । आमः कुञ्जरारूढः सर्वा चैत्यवन्दनाय याति । मिथ्यादृशां दृशौ सैन्धवेन पूर्येते सम्यग्दृशां त्वमृतेनेव । एवं प्रभावनाः। प्रातर्नृपो मौलमनर्घ्य स्वं सिंहासनं सूरये निवेशापयति। तद्दृष्ट्वा विप्रैः क्रुधा ज्वलितैर्भूपो विज्ञप्तः-"देव! श्वेताम्बरा अमी शूद्राः। एभ्यः सिंहासनं किम् । अथास्तां तत् । परं हस्वीयो भवतु न महत् । मुहुर्मुहुस्तैरित्थं विज्ञप्त्या कदर्थ्यमानः पार्थिवो मौलसिंहासनं कोशगं कारयित्वाऽन्यल्लघ्वारूरुपत् । प्रत्यूषे सूरीन्द्रेण तद् दृष्ट्वा रुष्टेनेव राज्ञोऽग्रे पठितम् For Private And Personal Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ ३२ ॥ ॐॐ www.kobatirth.org समस्येयम् । प्रभुः स्माह मर्दयमानमतङ्गजदर्पं विनयशरीरविनाशनसर्पम् । क्षीणो दर्पाद्दशवदनोऽपि यस्य न तुल्यो भुवने कोऽपि ॥ १ ॥ इदं श्रुत्वा राज्ञा ट्रीणेन सदा भूयो मूलसिंहासनमनुज्ञातम् । अपराधः क्षमितः । एकदा सपादकोटी हेम्नां दत्ता गुरुभ्यः । तैर्निरीहैः सा जीर्णोद्धारे ऋद्धियुक्तश्रावकपार्श्वाद् व्ययिता । अन्यदा शुद्धान्तं प्रम्लानवदनां वल्लभां दृष्ट्वा प्रभोः पुरो गाथार्द्धं राजाऽऽह अज्जवि सा परितप्प कमलमुही अत्तणो पमाएण । Acharya Shri Kailashsagarsuri Gyanmandir पढम विबुद्वेण तए जीसे पच्छाइयं अंगम् ॥ १ ॥ राजा आत्मसंवादाच्चमत्कृतः । अन्यदा प्रियां पदे पदे मन्दं मन्दं सञ्चरन्तीं दृष्ट्वा गाथार्द्ध राजा जगाद याला चंक्रम्मंती पए पए कीस कुणइ मुहभंगम् । सूरिराह नूर्ण रमणपएसे मेहलया छिवद्द नहपंतिं ॥ १ ॥ For Private And Personal प्रबन्धः ॥ ३२ Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir इदं श्रुत्वा राजा मुखं निश्वासहतदर्पणसमं दधे । अमी मदन्तःपुरे कृतविप्लवा इति धिया । तच्चाचार्यैः क्षणार्द्धनावगतम् । चिन्तितं च-अहो विद्यागुणोऽपि दोषतां गतः । जलधेरपि कल्लीलाञ्चापलानि कपेरपि । शक्यन्ते यत्नतो रोद्धुं न पुनः प्रभुचेतसः ॥ १ ॥ रात्रौ सूरिः संघमनापृच्छ्य राजद्वारकपाटसम्पुटतटे काव्यमेकं लिखित्वा पुराद्वहिर्ययौ । तद्यथायामः स्वस्ति तवास्तु रोहणगिरे ! मत्तः स्थितिप्रच्युता वर्तिष्यन्त इमे कथं कथमिति स्वप्नेऽपि मैवं कृथाः । श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा ते शृङ्गारपरायणा क्षितिभुजो मौलौ करिष्यन्ति नः ॥ १ ॥ अस्मान् विचित्रवपुषश्चिरपृष्टलग्नान् किंवा विमुञ्चसि विभो ! यदि वा विमुच । हा त ! केकवर ! हानिरियं तवैव भूपालमूर्द्धनि पुनर्भविता स्थितिर्नः ॥ २ ॥ इस जिहिं गय तिहिं गया महि मण्डणा हवंति । छेडुतांह सरोवरह जं हंसे मुञ्चति ॥ ३ ॥ दिनैः कतिपयैगडदेशान्तर्विहरन् लक्षणावतीनगर्याः पुरो बहिरारामे समवासार्षीत् । तत्र पुरे धर्मो नाम राजा । स च गुणज्ञः । तस्य सभायां वाक्पति नामा कविराजोऽस्ति । तेन सूरीणामागमनं लोकादवगतम् । ज्ञापितश्च राजा । राज्ञा प्रवेशमहः कारितः । पूर्मध्ये सौधोपान्ते गुरुस्तुङ्गगृहे स्थापितः । राजा नित्यं वन्दते । कवयो जिता रञ्जिताश्च । प्रभावना प्रेधते स्म । यशश्च कुन्दशुभ्रम् । राजा प्रोषे For Private And Personal Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ ३३ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अदृष्टे दर्शनोत्कण्ठा दृष्टे विरहभिरुता । दृष्टेनाप्यदृष्टेन भवता नाप्यते सुखम् ॥ १ ॥ निर्बन्धे सूरिराह - आमश्चेत्स्वयमायास्यति तदा वयं यास्यामो नान्यथा इति प्रतिज्ञाय स्थापिताः पुण्यलाभं कुर्वन्ति । इतश्च यदा बप्पभट्टिः कृतविहारः प्रातः श्रीआमपार्श्व नायातस्तदा तेन सर्वत्रावलोकितो न लब्धः । जातो विलक्षः । ' यामः स्वस्ति तवास्तु ' इत्यादि काव्यानि दृष्टानि । अक्षराण्युपलक्षितानि । ध्रुवं समां मुक्त्वा क्वापि गत एवेति निर्णितम् । अन्यदा बहिर्गतेन राज्ञा भुजङ्गमो दृष्टः । तं मुखे धृत्वा वाससाऽऽच्छाद्य सौधं गतः । कविवृन्दाय समस्यामर्पितवान् शस्त्रं शास्त्रं कृषिर्विद्या अन्यो यो येन जीवति । इति । पूरिता सर्वैरपि । न तु नृपश्चमञ्चकार हृदयाभिप्रायाकथनात् । तदा बप्पभहिं वाढं स्मृतवान् । "सा हृदयसंवादिनी गीस्तत्रैव" अथ पटहमवीवदत् । तत्रेदमजूघुषत् - "यो मम हृद्गतां समस्यां पूरयति | तस्मै हेमटंककलक्षं ददामि । " तदा गोपगिरीयो द्यूतकारः कश्चिद् गौडदेशं गतः । स बप्पभट्टिसूरीणामग्रे तत्समस्यापदद्वयं कथितवान् । सूरिणा पश्चार्द्ध पेठे सुगृहीतं च कर्तत्र्यं कृष्णसर्पमुखं यथा ॥ १ ॥ For Private And Personal प्रबन्धः ॥ ३३ ॥ Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Sy इति । स हि भगवान् षड्विकृतित्यागी सिद्धसारखतो गगनगमनशक्त्या विविधतीर्थवन्दनशक्तियुक्तस्तस्य कियदेतत् । स चूतकारस्तत्पादद्वयं गोपगिरौ श्री आमाग्रे निवेदितवान् । राजा दध्वान-"अहो!। सुघटितत्वमर्थस्य ।" तं पप्रच्छ-"केन क्वेयं पूरिता समस्या।" द्यूतकृदाह-"लक्षणावत्यां बप्पमटिमरिणा इति ।” तस्योचितं दानं चक्रे । अन्यदा राजा नगर्या बहिर्ययौ। न्यग्रोधद्रमाधः पान्थं मृतं ददर्श। शाखायां| लम्बमानं करपत्रकमकं विपुषां व्यूहं सवन्तं गाथाद्धं च विशिष्टग्राणि लिखितं कठिन्याऽपश्यत् । तइया मह निग्गमणे पियाइ घोरं सुएहिं जं रुण्णं । तदपि समस्यापाद्वयं राज्ञा कविभ्यः कथितम् । न केनापि सुष्टु पूरितम् । राजा चिन्तयति स्म वेश्यानामिव विद्यानां मुखं कैः कैनै चुम्वितम् । हृदयग्राहिणस्तेषां द्वित्रा सन्ति न सन्ति वा ॥१॥ ___ हृदयग्राही स एव मम मित्रं सूरिवरः। स एव दौरोदरिको नृपेणोपसूरि प्रैषि । सूरिणाऽक्षिनिमेषमात्रेण पूरिता समस्या करवत्तयबिंदुअनिवडणेण तं मझ संभरिय ॥१॥ For Private And Personal Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॥ प्रबन्य चतुर्विशति ॥३४॥ तत्पुनर्णतकाराच्छुत्वा राज्ञा हष्टनात्कण्ठितन सूरेराहानाय वाग्मिनः सचिवाः प्रस्थापिताः। उपालम्भलासहिता विज्ञप्तिा ददे । प्राप्तास्ते तत्र । दृष्टास्तैस्तत्र सूरयः । उपलक्ष्य बन्दिताः। राजविज्ञप्तिर्दत्ता। तत्र लिखितं माचित गुरुभिः। नगन गाङ्गेयं सुयुवतिकपोलस्थलगतं न वा शुक्ति मुक्तामणिरुरसिजस्पर्शरसिकः । नकोटीराला स्मरतिष सवित्री मणिचयस्ततो मन्ये विश्वं खसुखनिरतं स्नेहविरतम् ॥१॥ छायाकारणिसिरधरिय पचवि भूमि प्रति । पत्तहं पउपत्तत्तणउं तहअर काई करंति ॥९॥ संधिवा अप्यूचुः-" स्वामिन् ! आमराजो निर्व्याजप्रीतिर्विज्ञपयते-शीघमागम्याऽयं देशो वसन्तावत| सितोचानसीला लम्भनीयः । भवद्वाग्रसलुन्धानामस्माकमितरकविवाग न रोचते। कथासु ये लन्धरसाः कवीना ते नानुरज्यन्ति कथान्तरेषु । . न गन्धिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगास्तृणेषु ॥ १॥" संदाकण्ये लिख दरवा सूरिभिः सचिवाः प्रोचिरे-"श्रीआमो गीपतिसमप्रज्ञ एवं भाषणीयः'अम्माभियदि का कार्य तदा धर्मस्य भूपतेः । सभायां नमागम्य स्वयमापुच्छ्यतां द्रतम् ॥१॥ - ॥३४॥ For Private And Personal Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अस्माकमिति प्रतिज्ञास्ते धर्मेण राज्ञा सह-" स्वयमामः समेत्य त्वत्समक्षं यदाऽस्मानाकारयते किल तदा तत्र यामो नान्यथा इति ।" प्रतिज्ञालोपश्च नोचितः सत्यवादिनां प्रतिष्ठावताम् । ततो मन्त्रिण उपकन्यकुर्जेशमाजग्मुः । सूरीणामुक्तमुक्तं लेखश्चादर्शि । तत्र लिखितं यथाविशेष विणावि गया नरिंदभवणेसु हुंति गारविया । विझोन होइ बंझो गएहिं बहुएहिं विगएहिं ॥१॥ माणसरहिएहिं सुहाई जहन लम्भति रायहंसेहिं । तह तस्स वि तेहिं विणा तीरुच्छंगा न सोहंति ॥२॥ परिससियहंसउलंपि माणसं माणसं न संदेहो । अन्नत्थ वि जत्थ गया हंसा वि बया न भन्नति ॥शा हंसा जहि गय तहिं जिगय महिमंडणी हवंति । छेहउ ताहं महासरहं जे हंसिहि मुच्चंति ॥ ४॥ मलओ स चंदणुच्चिय नइमुहहोरंतचंदणदुमोहो । प-भट्ठपि हु मलया उ चंदणं जायइ महग्धं ॥५॥ अग्घायंति महुयश विमुक्तकमलायरावि मयरंदं । कमलायरो वि दिडो सुओ वि किं महुयरविहुणो ॥३॥ इमेण कुत्थुहेणं विणावि रयणायरु चिय समुद्दो । कुत्थुरयणं पि उरे जस्स ठियं सोवि हु महग्धो ॥७॥ पई मुकाणवि तरुवर फिदृइ पत्तत्तणं न पत्ताणं । तुह पणच्छाया जइ होइ कहविता तेहिं पत्तेहिं ॥८॥ में कैवि पहू महिमंडलंमि ते उच्छुदंडसारिच्छा । सरसा जडाण मझे विरसा पत्तेसु दीसंति ॥९॥ संपेई पहुणो पहुणों पहुतणं किं चिरंतण पहणं । दोसंगुणा गुणदोसा पहिं कया नहु कया तेहिं ॥१०॥ For Private And Personal Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः पतुर्विशति । ॥३५॥ | एतद्बाचयित्वा सोस्कण्ठं नृपः सारकतिपयपुरुषवृत्तोऽचालीत् । गोदावरीतीरग्राममेकमगमत् । तत्र खण्डदेवकुले वासमकार्षीत् । देवकुलाधिष्ठात्री व्यन्तरी सौभाग्यमाहिता गङ्गेच भरतं तं भेजे । प्रभाते |करभमारुह्य तां देवीमापुच्छ्य प्रभुपादान्तं प्राप | गाथाद्धं पपाठ अन्जवि सा सुमरिजइ को नेहो एगराईए । सूरीन्द्रः प्राह गोलानईयतीरे सुन्नउले जंसि वीसमिओ ॥ १॥ इति । अन्योऽन्यं गाढमालिलिङ्गतुरुभौ । तत आम आह स्मअंध में सफला प्रीतिरद्य मे सफला रतिः । अद्य मे सफलं जन्म अद्य मे सफलं कुलम् ॥१॥ रात्री इष्टगोष्टी ववृते मधुमधुरा। ततः प्रभाते सरिर्धर्मनृपास्थानमगमत् । आमनृपोऽपि प्रधानः स्वः। पुरुषैः सह स्थगीधरो भूत्वाऽऽगच्छत् । 'आम आवउ' इति ब्रुवाणैः सूरिभिर्धर्माय आमस्य विशिष्टपुरुषा दर्शिताः। "एते आमनृपनराः किलास्मानाहातुमायाताः" इति । धर्मेण राज्ञा पृष्टं विशिष्टजनपाचे-"भोः 11. आमप्रधाननराः ! स भवतां स्वामी कीदृशरूपः।" तैर्निगदितम्-“ यादृगयं स्थगीधरस्तादृगस्ति ।" प्रथम For Private And Personal Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मातुलित करे धारयित्वा आम आनीतोऽस्ति । सरिभिः पृष्टभु-भो ! स्थगीधर ! तवकरे किमेतत् ।। मातुलिङ्ग करे धारयित्वा आम आनीतोऽस्ति । सूरिभिः पृष्टम्-" भोः ! स्थगीधर ! तबकरे किमेतत् ?।" स्थगीधरीभूतेन श्रीआमेनोक्तम्-" बीजउरा” इति । क्षणार्द्धन वार्तामध्ये सूरिभिः सूक्तमवतारितम्- | तत्तीसीयलीमेलावाकेहा धणिउतावली पिउमंदसणेहा । विरहि जो मणु सुमरइ तसु कवणनिहोरा कन्निपवित्तडी जणु जाणइ दोरा ॥१॥ इति । गुरुणा कथितम्-" आम आवउ आम आवउ" धर्मेण राज्ञा तुअरिछोडं दृष्ट्वा पृष्टम्-"अहो! स्थगीधर ! किमिदम् ?" तेनोक्तम्-" तू अरि" तवारीत्यर्थः । इत्यादि गोष्ठ्यां वर्तमानायां शनैः शनैः श्रीआमराजश्चिद्रपमेलापकान्निमृत्य पुरावहिः स्थाने स्थान स्थापितैर्वाहनैः किथतीमपि भूमिमत्यकामत् । तावता सुरीश्वरो विलम्बाय प्रहरद्वयं कामपि कथामचिकथत् । रसावतारः स कोऽपि जातो यो रम्भातिलोत्तमानक्षणीयकेऽपि दुर्लभः । आमो राजा मूल्यं कङ्कणं ग्रहणके मुक्त्वा वेश्यागृहे उषित आसीत् । सा तु लक्षणावंतीपतेर्वारस्त्रीः । एकं कङ्कणमामोराजद्वारे मुश्चन्नगात् । अपराह्ने राज्ञः पाद बप्पभटिसूरिभिर्मुत्कला|पितम्-“देव ! गोपगिरावामपार्श्व यामोऽनुज्ञां दीयताम् ।" धर्मेण भणितम्-“भवतामपि वाणी विघटते? भवद्भिर्भणितमभूत् ? यदा तव दृष्टौ आमः समेत्यास्मानाह्वयति तदा यामो नार्वाक् । तत्कि विस्मृतम् ? || जिंढे कि वो द्वे स्तः।” आचार्या जगदु:-"श्रीधर्मदेव ! मम प्रतिज्ञा पूर्णा ।" राजाऽऽह-"कथम् ?" सरि For Private And Personal Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ ३६ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वदति - "आमो राजा खयमागतस्तव दृष्टौ । " राजाऽऽह -" कथं ज्ञायते ? । " सूरिः- “यदा भवद्भिः पृष्टं भवतां स्वामी कीदृश: ? विशिष्टैस्तदा भणितम् - स्थगिकाधररूपः, तथा बीजउरा शब्दोऽपि विमृश्यताम् । दोरा| शब्दोऽपि यो मयोक्तोऽभूत् । तस्मात्प्रतिज्ञा पूर्णा मे ।" अत्रान्तरे केनापि राजद्वाराद् आमकङ्कणं नृपधर्महस्ते दत्तं आमनामाङ्कितम् । द्वितीयं वेश्यया दत्तम् । तद् दृष्ट्वा नष्टसर्वस्वस्तद्वन इव शुशोच । “धिग्माम् । यन्मया शत्रुः स्वगृहमायातो नार्चितः न च साधितः । " धर्मेण मुत्कलिताः सूरयः पुरः कापि स्थितेनामेन सह जग्मुः । मार्गे गच्छता आमेन पुलीन्द्र एको जलाशयमध्ये जलं छगलवन्मुखेन पिबन्दृष्टः । आमराजेन सूरीणामग्रे पत्योक्तम् पसु जेम पुलिंद उ प पियह पंथिउ कवणिण कारणिण । सूरिभिरभाणि करवे विकरंबिय कज्झलिण मुद्वह अंसु निवारणिण ॥ १ ॥ राज्ञा प्रत्ययार्थं स समाकार्य पृष्टः । तेनोक्तम्, सत्यं सूरिवच: । हस्तौ दर्शितौ । राजा तेन वाक्संवादेन प्रीतः । ' अज्जबि सा परितप्पड़' इत्यादि तदुक्तं सर्वं सारस्वतविलसितमिति निरचैषीत् । शिघ्रशिघ्रं गोपालगिरिं गतः । पताकातोरणमञ्चप्रतिमञ्चादिमहास्तत्रासुः । दिवसाः कत्यप्यतिक्रान्ताः । ततः श्रीसिद्ध For Private And Personal प्रबन्धः ९ ॥ ३६ ॥ Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandie सेनसूरयो बार्द्धकेन पीडिता अनशनं गृहीतुकामाः श्रीवप्पभटिसूरीणामाकारणाय गीतार्थमुनियुगलं प्रेषिषुः। ते सद् गुरोलेखमदीदृशन् । तत्र लिखितं यथा अध्यापितोऽसि पदवीमधिरोपितोऽसि तत्किंच नापि कुरु वत्सक ! बप्पभद्दे !। प्रायोपवेशनरथे विनिवेश्य येन संप्रेषयस्यमरधाम नितान्तमस्मान् ॥१॥ तेदृष्ट्वा आमभूपतिमापृच्छय मोढेरकपुरं ब्रमशान्तिस्थापितवीरजिनमहोत्स्वायं प्रापुस्ते । गुरून्यवन्दिरे । गुरवोऽपि तान्याढमालिङ्गथालापिषुः । वत्स ! गाढमुत्कण्ठितमस्माकं हृदयम् । मुखकमलकमपि ते विस्मृतम् । राजानुगमनं तेऽस्माकं दुःखायासीत् । कारय साधनाम् । अनृणो भव । ततोऽन्त्याराधना चतु:शरणगमन-दुष्कृतगाँ-सुकृतानुमोदना-तीर्थमालावन्दनादिका विधिना विधापिता । गुरवो देवलोकललनानयनविभागपात्रत्वमानञ्चुः । शोक उच्छलितः । ततो बप्पभहिः श्रीमद्गोविन्दसूरये श्रीनन्नसूरये च गच्छभारं समर्प्य श्रीआमपार्श्वमगमत् । पूर्ववत्समस्यादिगोष्ट्यः स्फुरन्ति । एकदा सूरिनॅपसभायां चिरं पुस्तकाक्षरदत्तक् तस्थौ। तत्रैका नर्तकी नृत्यन्ती आसीत् , रूपदासीकृताप्सराः। सूरिदृग्नीलिनिवारणाय तस्याः शुकपिच्छनीलवर्णायां नीलकंचुलिकायां दृशं निवेशयामास । आमस्तदृष्ट्वा मनसि पपाठमिततत्तपारंगयाण जोगीण जोगजुत्ताणम् । जइताणं पि मियच्छी मणमि तात चिय पमाणम् ॥१॥ A/ भार समपात्रत्वमानञ्चुः । शोक लामालावन्दनादिका विधि For Private And Personal Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ ३७ ॥ www.kobatirth.org आमो रात्रौ पुंवेषां तां नर्तकीं सूरिवसतौ प्रैषीत् । तया सूरीणां विश्रामणाऽऽरब्धा । करस्पर्शेन ज्ञाता | युवतिः सूरिणाऽभिहिता सा- “ का त्वम् ? । कस्मादिहागता ? । अस्मासु ब्रह्मव्रतनियिडेषु वराकि ! भवत्याः htsaकाशः । वात्याभिर्न चलति काञ्चनाचलः । " तयोक्तम् - " भवद्भय उपदेष्टुमागता । राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्वम् ॥ १ ॥ इति । किंच Acharya Shri Kailashsagarsuri Gyanmandir प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥ २ ॥ श्री आमेन प्रेषिताऽहं प्राणवल्लभा भवतां शुश्रुषार्थम् ।" ततः सूरिशक्रो वदति स्म - " अस्माकं ज्ञानदृक्प्रपातदृष्टद्रष्टव्यानां नैव व्यामोहाय प्रगल्भसे मलमूत्रादिपात्रेषु गात्रेषु मृगचक्षुषाम् । रतिं करोति को नाम सुधीर्वचौगृहेष्विव ॥ १ ॥ " सापि निर्विकारं रिवरं निश्चित्य ध्वनचेताः प्रातर्नृपतिसमीपं गता । पृच्छते राज्ञे रात्रीयः सूरिवृत्तान्तः सम्यक्कथितस्तया । " पाषाणघटित इव तव गुरुः । नवनीतपिण्डमयः शेषो लोकः । यावन्तः कूटप्रपश्चा हावभाष-कटाक्ष- भुजाक्षेप-चुम्बन-नखरदनाक्षतादिविलासास्ते सर्वे आजन्मशिक्षितास्तत्र प्रयुक्ताः । पुनस्तिलतु For Private And Personal प्रबन्धः ॥ ३७ ॥ Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir षत्रिभागमात्रमपि मनोऽस्य नाचालीत्। अनुरागबलात्कारपूत्कारभीदर्शनहत्यादानादिविभीषिकाभिरपि | नाक्षुभत् । तदेष मन्ये महावज्रमयो न देवकन्याभिर्न विद्याधरीभिर्न नागाङ्गनाभिश्वाल्यते मानुषीणां तु का कथा?" अस्मिन्सूरर्द्धर्मस्थैर्य श्रुते नृपो विस्मयानन्दाभ्यां कन्दम्बमुकुलस्थूलरोमाञ्चकञ्चुकितगात्रः संवृत्तः। दभ्यो च गुरुं ध्यानप्रत्यक्ष कृत्वा न्युछने यामि वाक्यानाम् । रशोर्याम्यवतारणे बलिः क्रियेऽहं सौहार्दहृद्याय हृदयाय ते ॥१॥ प्रातर्गुरवः समागुः। राजा हूणो न वदति किश्चित् । सूरिभिर्भणितम्-"राजन् ! मा लजिष्ठाः। महर्षीणां दूषणभूषणान्वेषणं राज्ञा कार्य न दोषः।" राज्ञोक्तम्-" अलमतीतवृत्तान्तचर्चया । एतदहमुत्तम्भितभुजो ब्रुवे युष्मान्द्रनधनानवलोक्य " भन्यास्त एष धवलायतलोचनानां तारुण्यदर्पघनपीनपयोधराणाम् । भामोदरोपरिलसचिवलीलतानां रष्ट्वाऽऽकृति विकृतिमेति मनो न येषाम् ॥१॥" For Private And Personal Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ ३८ ॥ www.kobatirth.org सूर्य पपाठ । सूरिर्गाथापूर्वार्द्धमुवाच - इत्युक्त्वा दण्डप्रणामेन प्रणनाम श्रीआमः । अन्येद्यू राजा राजपथेन सत्तरमाणो हालिकप्रियां एरण्डबृहत्पत्रसंवृतस्तन विस्तरां एरण्डपत्राणि विचिन्वानां गृहपाश्चात्यभागे दृष्ट्वा गाथार्द्धं योजितवान्वविवरनिग्गयदलो एरंडो साहइ व्व तरूणाणं । तत्तु सूरीणां पुरः समस्यात्वेन समर्पितवान् | सूरय उचुःइत्थ घरे हलियवह इद्दहमित्तत्थणी अत्थि ॥ १ ॥ राजा विस्मितः । अहो ! सारं सारखतम् । अन्यदा सायं प्रोषितभर्तृकां वासभवनं यान्तीं वक्रग्रीवां दीपकरां ददर्श । गाधार्द्ध चोचे दिज्झइ कग्गीवाइ दीवओ पहियजायाए । पियसंभरणपुलईत अंसुधारानिवाय भीयाए ॥ १ ॥ Acharya Shri Kailashsagarsuri Gyanmandir इति । सूरिभूपौ सुखेन कालं गमयतो धर्मपरौ । अन्यदा धर्मनृपेण आमनृपस्य पार्श्वे दूतः प्रहितः । एस्यावोचत् - "राजन् ! तव विचक्षणतया धर्मन्नृपः सन्तुष्टः । पुनः स आह । भवद्भिर्वयं छलिताः । यतो भव For Private And Personal प्रबन्धः 11 3/1 Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दभ्यो गृहमागतेभ्यो नास्माभिमहानल्पोऽपि कोऽपि सत्कारः कृतः। अधुना शृणु-"अस्मद्राज्ये वर्द्धनकुञ्जरो नाम महावादी बौद्धदर्शनी विदेशादागतोऽस्ति । स वादं जिघृक्षुः। यः कोऽपि वो राज्ये वादी भवति स आनीयताम् । अस्माकं भवद्भिः सह चिरत्न वैरम् | यः कोऽपि वादी विजयी भविष्यति तत्प्रभुरपरस्य राज्यं ग्रहिष्यति । मम वादिना यदा जीतं तदा त्वदीयं राज्यं मया ग्राह्यम् । यदा तव वादिना जितं तदा मदीयं राज्यं त्वया ग्राह्यम् । अयं पण। वाग्युद्धमेवास्तु । किं मानवकदर्थनेन?" आमेनोक्तम्-"दूत! त्वया यदुक्तं तद्धर्मेण कथापितमथवा त्वया खतुण्डकण्डूतिमात्रेणोक्तम् ? यदि तव प्रभुः सप्ताङ्गं राज्यं वादे जीते समर्पयिष्यति मे इति सत्यम् । तदा वयं वादिनमादायागच्छाम इति ।" दूतेनोक्तम्-कारणवशाद् युधिष्ठिरेणापि द्रोणपर्वण्यसत्यं भाषितम् । मत्प्रभुस्तु कारणेऽपि न मिथ्या भाषते ।" आमेन दूतः प्रैषि । उक्तदिनोपरि च षापभादि च गृहीत्वा अर्द्धपथे उक्तस्थाने आमोगमत्। धर्मभूपतिरपि वर्द्धनकुञ्जरं वादीन्द्रमादाय तन्नाजगाम । परमारंवंदयं नरेन्द्र महाकविं वाक्पतिनामानं खसेवकं सहादाय समाययौ। उचितप्रदेशे आबासान्दापयामास । तौ वादिप्रतिवादिनी पक्षप्रतिपक्षपरिग्रहेण वादमारेभेते । सभ्याः कौतुकाक्षिप्ताः पश्यन्ति । द्वापपयसामान्यप्रतिभौ। बादे षण्मासा गताः । द्वयोः कोऽपि न हारयति न जयति। आमेन सूरयः प्रोक्ता सायम्-"राजकार्याणां प्रत्यूहः स्यात् निजीयतामसी शीघम् ।" सूरिणा भणितम्-"प्रात. For Private And Personal Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रवन्ध: चतुर्विंशति ॥३९॥ निग्रहीष्यामि। मा म यो भ्रान्तिभूयात्।" रात्री सूरीश्वरेण मन्त्रशक्त्या मण्डले हारार्द्धहारमणिकुण्डलमण्डिताङ्गी दिव्याङ्गरागवसना दिव्यकुसुमपरिमलवासितभुवनोदरा भगवती भारती साक्षादानीता। चतुर्दशभिः काव्यैः सद्यस्कैर्दिन्यैः स्तुता । देव्योक्तम्-"वत्स! केन कारणेन स्मृता।"सूरिवीरेण भाणितम्- “षण्मासा वादे लग्नाः । तथा कुरु यथा वादे निरुत्तरीभवति सः।" देव्या गदितम्-“घत्स ! अहमनेन प्राक् सप्त भवानाराधिता । मयाऽत्र भवेऽस्मै अक्षयवचना गुटिका दत्ताऽस्ति । तत्प्रभावाचक्रिनिधिधनमिव नास्य वचो हीयते ।” सूरिणोक्तम्-" त्वं देवि ! किं जैनशासनविरोधिनी ? येन मे जयश्रियं न दत्से ।" भारत्यूचे-"वत्स! जयोपायं ब्रुवे स्वया वादारम्भ प्रातः सर्वे वदनशौचं काराप्याः पार्षद्याः गण्डुषं कुर्वतस्तस्य बदनाद गुटिका ममेच्छया पतिष्यति तदा त्वया जेष्यते । एकं तु याचे-मत्स्तुतेश्चतुर्दशकाव्यं कस्याप्यग्रे न प्रकाश्यम् । तत्पठने हि मया ध्रुवं प्रत्यक्षया भाव्यम् । कियतां प्रत्यक्षा भवामि । क्लेशेनालम् ।"एवमुक्त्वा देवी विद्युज्झात्कारलीलयाऽन्तर्दधे । सूरिभिर्निशि परमाप्तशिष्य एको वाक्पतिराजसमीपं प्रहित्याख्यापित यथा-सूरयो वदन्ति-"राजन् ! त्वं विद्यानिधिरस्माकं लक्षणावतीपुरीपरिचितचरः । तदाऽवादीः-भगवन् ! निरीहा भवन्तः कां भवद्भ्यो भक्ति दर्शयामि।" तदा वयमवोचाम-अवसरे कामपि भक्तिं कारयिष्यामः। भवद्भिर्भणितम्-तथास्तु ।" इदानीं सोऽवसरोऽत्र समायातः। घापतिना शिष्यः पृष्टः-" सूरयः किं मे ३९॥ For Private And Personal Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir समादिशन्ति ?। आदिष्टं कुर्वे ध्रुवम्।" शिष्योन्यवेदयत्-“राजन् ! गुरवः आदिशन्ति-प्रातर्धर्मामयोः सदः स्थयोः सतोस्त्वया वाच्यं यथा-वदनशौचं विना भारती न प्रसीदति । तस्माद्वादिप्रतिवादिसभ्यसभेशाः सर्वे शौचं कुर्वन्तु। एतावति कृते भवता नः सर्वः स्नेहः कृत एव।" वापतिमा तदङ्गीकृतम्। शिष्येणोपगुरू गत्वा तत्तत्प्रतिज्ञातं कथितम् । तुष्टाः गुरवः । प्रत्यूषे उदयति भगवति गभस्तिमालिनि लाक्षालिप्त इव प्राचीमुखे राजानौ समायामागाताम् । वाक्पतिना बदनशौचं सर्वे कारिताः, बौद्धवादीन्द्रोऽपि । तस्य वदनकमलाद्विगलिता गुटिका पतग्रहे। बप्पभहिशिष्यैः पतद्ग्रहो जनैदूरे कारापितः । गुटिका सूरीन्द्रसाजाता । बौद्धो गुटिकाहीनः सूरिणा पार्थेन कर्ण इव दिव्यशक्तिमुक्तो निःशंकं वाक्पृषक्तैर्हतः । निरुतरीकृतः राहुग्रस्तश्चन्द्र इव हिमानीविलुप्तस्तरुखण्ड इव निस्तेजतां भेजे। तदा श्रीषप्पभनिर्विवादं वादिकुञ्जरकेसरीति बिरुदं खैः परैश्च दत्तम् । धर्मेण सप्ताङ्गं राज्यं आमाय दत्तम् । लाहीदम् । धर्माद्धि राज्यं लभ्यते । काऽत्र चर्चा ? । आमेन गृहीतम् । तदा सूरिणा आमः प्रोक्तः-"राजन् ! पुनः राज्यं धर्माय देहि। महादानमिदम् । शोभते च ते । राजस्थापनाचार्याश्च यूयम् । श्रीरामेण वनस्थेनापि सुप्रीषविभीषणी राजीकृतौ । त्वमप्येवं युगीननृपेषु तुल्यः।” एतद्वचनसमकालमेव आमेन गाम्भीर्योदार्थधाम्ना धर्माय तद्राज्यं प्रत्यर्प्य स धर्मः परिधापितः । खे मत्ताः करिणः शतं, सहस्रं तुङ्गास्तुरङ्गाः, सहसं सवरूथा रथाः, शतं For Private And Personal Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रवन्ध: ॥४०॥ वादित्राणि प्रादायिषत । खं स्वं स्थानं गताः सः । सूरिभूपो यशोधवलितसप्तभुवनी गोपगिरौ श्रीमहावीरमवन्दिषाताम् । तदा सूरिकृतं श्रीवीरस्य स्तवनम्-'शान्तो वेषः शमसुखफला' इत्यादि काव्यैकादशकमयमचापि सङ्घ पव्यते । सङ्घन प्रभुर्ववन्दे । तुष्टुषे च रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः । न तमांसिं न तेजांसि यस्मिन्नभ्युदिते सति ॥१॥ अन्यदा स्वपरसमयसूक्तैः प्रयोध्य राजा प्रभुभिर्मद्यमांसादि सप्तव्यसननियमं कारितः। सम्यक्त्वमूलैकादशव्रतनिरतश्च पावकः कृतः । द्वादशं व्रतं स्वतिथिसंविभागाख्यं प्रथमचरमजिननृपाणां निषिद्धं सिद्धान्ते । एकदा लक्षणावत्यां बौद्धो वर्द्धनकुञ्जरो धर्मनृपमाह सगद्गदम्-" अहं पप्पमहिना जितस्तन्मे न दूषणम् । बप्पभट्टिर्हि भारती नररूपा, प्रज्ञामयः पिण्डः, गीपुत्रः, न च दुनोति । एतत्तु दुनोति यत्तव भृत्येनापि वाक्पतिराजेन सूरिकृतभेदान्मम मुखशोचोपायेन गुटीं हारयामहे । एतावदभिधाय स तारं तारं रुरोद । स निवारितः क्षमापेन रोदनात् । उक्तश्च किं क्रियते ? । अयं नश्चिरसेवकोऽनेकसमराङ्गणलब्धजयप्रतिष्ठः प्रबन्धकविः पराभवितुं न रोचते । क्षमस्वेदमस्यागः । ततो बौद्धो जोषं स्थितः। अपरशुर्यशोधर्मनाम्ना समीपदेशस्थेन बलवता भूपेन लक्षणावतीमेत्य रणे धर्मन्पो व्यापादितः।राज्यं जगृहे । वाक्पतिरपि बन्दीकृतः । तेन कारास्थेन गौडवधसंज्ञकं प्राकृतं महाकाव्यं रचयित्वा यशोधर्माय राज्ञे दर्शितम् । तेन ॥४०॥ TA For Private And Personal Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गुणविशेषविदा ससत्कारं वन्देमुक्तः । क्षमितश्च । विद्वान् सर्वत्र पूज्यते । ततो वाक्पतिर्थप्पभडिं समीपं गतः । द्वयोस्तयोमैत्री पूर्वमप्यासीत् । तदानीं विशेषतोऽवृधत् । तेन वाक्पतिना महामहविजयाख्यं प्राकृतमहाकाव्यं बद्धम् । आमाय दर्शितम् । आमो हेमरककलक्ष्यमस्मै व्यशिश्रणत् । कियती पञ्च सहस्री कियती लक्ष्या च कोटिरपि । औदार्यानतमनसा रत्नवती वसुमती कियती ॥१॥ अपरेधुः प्रभुः श्रीआमेन पृष्टः-" भगवन् यूयं तावत्तपसा विद्यया च लोके लब्धपरमरेखाः। किमन्यो कोऽपि क्याप्यास्त यो भवत्तुलालेशमवाप्नोति ।" पप्पभरिभाणीत् - अवनिपते ! मम गुरुवान्धवौ गोविन्दाचार्य-नन्नसूरी सर्वगुणैर्मदधिको गुर्जरधरायां मोढेरकपुरे स्तः।" गुणोत्कण्ठयाऽमितसैन्य आमस्तत्र गतः तदा नमसूरिाख्यानेऽवसरायातान् वात्स्यायनोक्तान कामाङ्गभावान्पल्लवयन्नासीत् । राज्ञा श्रुतंतत्सधम् । अरुचिरुत्पन्ना | अहो ! वयं कामिनोऽपि नैतान भावान विद्मः। अयं तु वेत्ति सम्यक् । तस्मादवश्यं नित्यं योषित्सङ्गी किमस्य प्रणामेन ? इत्यकृतनतिरेवोत्थायाशु गोपगिरिमागात् । चिरादृष्टः क्षमाप इति रणरणकाक्रान्तस्यान्ताः प्रभवो वन्दापयितुमैयरुः । राजा निरादरः न वन्दते तथा । एवं दिनानि कतिपयानि गतानि । एकदा गुरुभिः प्रपच्छे-"राजन् ! यथा पुरा भक्तोऽभूस्तथेदानी भक्तो नासि । किमस्माकं दोषः कोऽपि?।" राजा माह-"मरिबर ! भवादृशा अपि कृपात्रश्लाघां कुर्वते।" सरिरूचे-कथम् । आम: For Private And Personal Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रवन्धः चशिति प्राह-यो भवद्भिः स्वौ गुरुबान्धवौ स्तुतौ। तत्र गत्वा एको नन्नमरिनामा दृष्टः शृंङ्गारकथाब्याख्यानलम्पट. स्तपोहीनो लोहतरण्डतुल्यो मज्जति मज्जयति च भवाम्बुधौ । तस्मान्न किञ्चिदेतत् । सूरयो मसिमलिनबदनाः खवसतिमगुः। तत्रोपविश्य द्वौ साधू मोढेरकपुरं प्रहितौ । तत्पात्तत्र कथापितम्-"आमोऽकृतप्रणामो भवत्पादिागतः। एवमेवं युवां निन्दति । तत्कर्तव्यं येनासौ भवत्स्यन्येष्वपि श्रमणेषु अवज्ञावान्न भवति ।" | सर्व तत्रत्यं ज्ञात्वा तौ द्वादपि गुटिकया वर्णस्वरपरावर्त कृत्वा नटवेषधरौ गोपगिरिमीयतुः। श्रीऋषभध्वजचरित्रं नाटकत्वेन बबन्धतुः। नटान् शिक्षयामासतुः। आमराजमवसरं ययाचतुः। राज्ञाऽवसरो दत्तः । मिलिताः सामाजिकाः तत्तद्रसभावज्ञाः । ताभ्यां नाटकं दर्शयितुमारेभे। भरतबाहुबलिसमरावसरोऽभिनी यते । यदा व्यूहरचना-शस्त्रझालरकार-दीरवर्णना-भट्टकोलाहलाश्चोत्थापनघघरिका-ऋणऋणत्कारादि ता. भ्यां वर्णयितुमारब्धम् । धारारुदस्य रमोऽवातारीत् । तदा श्रीआमस्तटाश्च कालिन्दीप्रवाहश्यामदीर्घानसीनाकृष्योत्थिता हतहत इति भाषन्ते स्म । अत्रान्तरे नन्ननरिगोविन्दाचायी स्वरूपमुद्रे प्रकाश्याहतु:-"राजन् ! २ भटाः २ शृणुत २ कचायुधमिदं न तु साक्षादलं संभ्रमण।" इत्युक्ता लज्जिता विस्मिताच ते राजाद्याः संधृत्याकारमस्थुः। तदा गोविन्दाचार्यननसूरिभ्यां भूपोऽभाणि-"किल शृङ्गारानुभविनो चयमिति सम्यग्व्याख्यातुं विद्मः। किन्तु समराजिरमपि भवद्वत्प्रविष्टाः स्मः । कुरङ्गा इव शो दृष्टे विभिमः । आवा For Private And Personal Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir | स्याद् गृहीतव्रताः पापभीरवः स्मः। परं भारतीप्रभावप्रभववचनशक्त्या रसान्सर्वान् जीवद्र्पानिव दर्शयामः। राजन् ! मोढेरके यैस्ते वात्स्यायनभावा व्याख्याताः। ते वयं नन्नसूरय इमे च गोविन्दाचार्याः । भवतां तदा मृषा विकल्पः समजनि । राजा सद्यो ललचे। तौ सूरी क्षमयामास आनर्च वप्पभा च । तौ कतिचिदिनानि उपराजं स्थित्वा बप्पभयनुज्ञया पुनर्मोढेरपुरमगाताम् । गतः समयः कियानपि । अन्यदा गायकवृन्दमागतम् । तन्मध्ये बालिकेका तमालनीलोत्पललोचना मृगाङ्कमुखी किन्नरस्वरा विदुषी गायति । तदृष्ट्वा मदनज्वरजर्जरो गलितविवेको गतप्रायशौचधर्माभिनिवेशः कन्यकुब्जेशः पदद्वयं प्रभुप्रत्यक्षमपाठीत्वक्त्रं पूर्णशशी सुधाधरलता दन्ता मणिश्रेणयः कान्तिः श्रीगमनं गजः परिमलस्ते पारिजातद्रमाः। वाणी कामदुघा कटाक्षलहरी सा कालकूटच्छटा तत्किं चन्द्रमुखि ! स्वदर्थममरैरामन्धि दुग्धोदधिः ॥१॥ जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो दूरे शोभा वपुषि निहिता पङ्कशङ्कां तनोति । विश्वपार्थ्यः सकलसुरभिद्रव्यदर्पापहारी नो जानीमः परिमलगुणः कस्तु कस्तूरिकायाः ॥२॥ सूरिभिश्चिन्तितम्-अहो ! महतामपि किग् मतिविपर्यासः। For Private And Personal Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रबन्धः ॥४२॥ भस्त्रा काचन भूरिरन्ध्रविगलस्तत्तन्मलक्लेदिनी सा संस्कारशतैः क्षणाईमधुरांबायामुपैति युतिम् । अन्तस्तत्त्वरसोर्मिधौतमतयोऽप्येतां नु कान्ताधिया श्लिष्यन्ति स्तुवते नमन्ति च पुरः कस्यात्र पुस्कुर्महे ॥१॥ उत्थिता सभा । त्रिभिर्दिनैर्भूपेन पूर्वहिः सौधं कारितम्, मातङ्गीसहितोऽत्र वत्स्यामीति धिया । तदवगतं श्रीबप्पभविसूरिभिः । ध्यानप्रत्यक्षं हि तेषां जगवृत्तम् । ततो माऽसौ नरकमयासीदिति कृपया तैर्निष्पाद्यमानसौधपट्टे निशि खटिकया बोधदानि पद्यानि लिखितानि । यथा शैत्वं नाम गुणस्तवैव तदनुस्वाभाविकी स्वच्छता किं ब्रूमः शुचितां भजन्त्यशुचयस्त्वत्संगतोऽन्ये यतः । किंवाऽतः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धं क्षमः ॥१॥ सवृत्तसद्गुणमहार्हमहार्घकान्तकान्ताधनस्तनतटोचितचारुमूर्ते ।। आः पामरीकठिनकण्ठविलग्नभग्न हा हार ! हारितमहो भवता गुणित्वम् ॥२॥ जीवं जलबिन्दुसमं संपत्तीओ तरंगोलाओ। सुमिणयसमं च पिम्मं जं जाणसि तं करिनासि ॥३॥ लज्जिज्झइ जेण जणे मइलिज्जइ निअकुलकमो जेण । कंठहिए वि जीए तं न कुलीणेहिं कायव्वं ॥४॥ . प्रातरमूनि पद्यानि स्वयमामो ददर्श । वर्णान्कवित्वगतिं च उपलक्षयामास । अहो ! गुरूणां मयि कृपा ॥४२॥ For Private And Personal Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अहोतमां मम पापाभिमुखता इति ललले । दध्या च-"सांकल्पिकमिदं जनङ्गमीसङ्गमपापं मयाऽऽचरितम् । भारितोऽहं क्व यामि ? । किं करोमि ?। कथं गुरोर्मुखं दर्शयामि?। किं तपः समाचरामि ? किं तीर्थ सेवे?। ऊर्ध्व मुखं गृहीत्वा गच्छामि। कूपे पतामि। शस्त्रेणात्मानं घातयामि।” अथवा ज्ञातम्-सर्वजनसमक्षं पापमुद्भीर्य काष्ठानि भक्षयामि । एवं टलवलायमानोऽनुचरानादिदेश-अग्निं प्रगुणयत । प्रगुणितस्तैरग्निः । समागताः श्रीवप्पभहिमूरयः। मेलितं चातुर्वर्ण्यम् । उक्तं तदघम् । यावत्सहसाऽग्नि प्रवेक्ष्यति आमस्तावत्सरिभिर्वाही धृत्वोक्त:-"राजन् ! शुद्धोऽसि । मा स्म खिद्यथाः । त्वया हि संकल्पमात्रेण तत्पापं कृतं न साक्षात् । संकल्पेनाग्निमपि प्रविष्टोऽसि । चिरं धर्म कुरु।। मनसा मानसं कर्म वचसा वाचिकं तथा । कायेन कायिकं कर्म निस्तरन्ति मनीषिणः॥" इति वचनाद्विसृष्टोऽग्निः । जीवितो राजा। तुष्टो लोकः। प्रीतः मूरिः। समयान्तरे वाक्पतिराजो मथुरां ययौ। तत्र श्रीपादस्त्रिदण्डी जज्ञे सः। तल्लोकादवगम्य आमः सूरीन् बभाषे-"भवद्भिरहमपि श्रावकः कृतः। दिव्या वाणी वः प्रसन्नैव । जानामि वः शक्तिपरमरेखां यदि वाक्पतिमप्याईतदीक्षां ग्राहयथ।” आचार्यैः प्रतिज्ञा चक्रे-" तदा विद्या मे प्रमाणं यदि वाक्पतिं वशिष्यं श्वेताम्बरं कुर्वे ।" वाक्पतिस्तु क्वास्ति, इति उच्यताम् ?। राज्ञोक्तम्-"मथुरायां विद्यते।" सूरयो मथुरायां गता बहुभिः श्रीआमाप्तनरैः सह । वराह For Private And Personal Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रबन्धः ॥४३॥ मन्दिराख्ये प्रासादे ध्यानस्थं वाक्पतिं गत्वाऽद्राक्षुः। तत्पृष्टस्थैः सूरिभिस्तारस्वरेण आशिर्वादाः पठितुमारब्धाःसन्ध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदी विलज्ज ! शिरसा तचापि सोढं मया । श्रीर्जाताऽमृतमन्थनाद्यदि हरेः कस्माद्विषं भक्षितं मा स्त्रीलम्पट मांस्पृशेत्यभिहिती गौर्या हरः पातु वः॥१॥ एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या विपुले नितम्बफलके शृङ्गारभारालसम् । अन्यदरविकृष्टचापमदनक्रोधानलोद्दीपितं शंभोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥२॥ रामो नाम बभूव हुं तदबला सीतेति हुं तां पितुर्वाचा पञ्चवटीवने विचरतस्तस्याहरद्रावणः । निद्रार्थं जननीकथामिति हरेहुंकारिणः शृण्वतः पूर्वस्मर्तुरवन्तु कोपकुटिला भ्रूभङ्गरा दृष्टयः ॥३॥ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः। सद्यस्तत्कायकान्तिद्विगुणितसुरते प्रीतिना सौरिणा वः शय्यामालिङ्गय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥४॥ एवं बह पेठे । अथ वाक्पतिर्ध्यानं विमृज्य संमूखीभूय सूरीनाह-“हे बप्पभद्विमिश्रा यूयं किमस्मत्पुरतः | शृङ्गाररौद्राङ्गं पद्यपाठं कुरुध्वं । " बप्पभट्टयः प्राहु:-" भवन्तः सांख्याः । ॥४३॥ For Private And Personal Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सांख्या निरीश्वराः केचित् केचिदीश्वरदेवता । सर्वेषामपि तेषां तत्त्वानां पञ्चविशतिः ॥ १ ॥ इति ज्ञात्वा भवदभिमतदेवाशिषः पठन्तः स्मः । यथारुचि हि श्रोतुः पुरः पठनीयं समयज्ञैः । " वाक्पतिराह-यथप्येवं तथापि मुमुक्षवो वयमासन्ननिधनं ज्ञात्वा इह परमब्रह्म ध्यातुमायाताः स्मः । " बप्प भयो जगदुः किं तर्हि रुद्रादयो मुक्तिदातारो न भवन्तीति मनुध्वे । " वाक्पतिः प्राह-" एवं संभाव्यते । " बप्प भयो बभाषिरे - " तर्हि यो मुक्तिदानसमस्तं शृणु । पठामि । स जिन एव । मदेन मानेन मनोभवेन क्रोधेन लोभेन स संमदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ॥ १ ॥ जं दिट्टी करुणातरंगियपुडा एयस्स सोमं मुहं आयारो पसमायरो परियरो संतो पसन्ना तणू । तं मन्ने जरजम्ममच्चुहरणो देवाहिदेवो इमो देवाणं अवराण दीसह जओ नेयं सरूवं जए ॥ २ ॥ Acharya Shri Kailashsagarsuri Gyanmandir इत्यादि बहु पेठे । " वापतिः प्राह - " स जिनः क्वास्ते । " सूरि :-" स्वरूपतो मुक्तौ मूर्तितस्तु जिनायतने । " वाक्पतिर्ब्रते -"प्रभो ! दर्शय तम् ।" प्रभुरपि आमनरेन्द्रकारिते प्रासादे तं निनाय । स्वयं प्रतिष्ठितवरं श्री पार्श्वनाथमदीदृशत् । शान्तं कान्तं निरञ्जनं रूपं दृष्टवा प्रबुद्धो बभाण - " अयं निरञ्जनो देव आका For Private And Personal Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विशति ॥४४॥ रेणैव लक्ष्यते।" तदा बप्पमहिमगिभिर्देवगुरुधर्मतत्यान्युक्तानि । रञ्जितः सः । मिथ्यात्ववेषमुत्सृज्य जैन ऋषिः श्वेताम्बरोऽभूत् । जिनमवन्दिष्ट अपाठीचमेयनाए सुरहिएणं इमिणा किंकरफलं णलाडेणम् । इच्छामि अहं जिणवरपणाम किंण कलुसियं काउं ॥१॥ दोवि गिहित्था धडहड वच्चई को किर कस्स विपत्त भणिजई। सारंभो सारंभं पुजइ कद्दमु कद्दमेण किम मुज्जइ ॥२॥ ____ अत्यासन्ने आयुषि मथुराचातुर्वर्ण्यस्य आमभूपसचिवलोकस्य च प्रत्यक्षं अष्टादृशपापस्थानानि त्याजितः। नमस्कारं पञ्चपरमेष्ठिमयं श्रावितः। जीवेषु क्षामणां कारितो वाक्पतिः सुखेन त्यक्ततनुर्दिवमगमत् । तत्सर्व प्रधानैरन्यैरपि प्रथमं ज्ञापितो नृपः। पश्चाहप्पभट्टिोपगिरिं गतः। राजा तुष्टस्तुष्टुवे सूरिशक्रम् आलोकवन्तः सन्त्येव भूयांसो भास्करादयः । कलावानेव तु ग्राबद्रावकमणि कर्मठः ॥१॥ | एकदा राज्ञा सूरिः पृष्टः-"किं कारणम् ? येनाहं ज्ञातजैनतत्वोऽपि अन्तराऽन्तरा तापसधर्मे रतिं बध्नामि।" सरिराह-“प्रातर्वक्ष्यामः।" प्रातरायाताः प्रोचुः-“राजन् ! अस्माभिर्भारतीवचसा तव प्राग्भवो ज्ञातः।। त्वं कालिञरगिरेस्तीरे शालनामा तपस्वी शालट्ठमाधोभागे द्विउपवासान्तरितभोजनस्तपो बटुनि वर्षाण्य ॥४४॥ 6 . For Private And Personal Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तपथाः। स मृत्वा त्वमुत्पन्नः। तस्यातिदीर्घा जटा तत्रैव लतान्तरिता अद्याप्यस्ति ।" तदाकर्ण्य आप्तनरास्तन्त्र राज्ञा प्रहिताः। तैर्जग आनोता। सूरिवाक्संवादो दृष्टः । भूपतिः हरीणां पदोविलग्य तस्थौ । परमाह तो बभूव । अन्यदा सौधोपरितलस्थेन आमेन क्वापि गृहे भिक्षार्थ प्रविष्टो मुनिदृष्टः। तत्र युवतिरेका कामार्ता गृहागतं मुनि परब्रह्मैकचित्तं रिरमयिषुः कपाटसम्पुटं ददौ । मुनिनेंच्छति ताम् । तया मुनये पादतलपहारे दीयमाने नूपुरं मुनिवरचरणे प्रविष्टं काकतालीयन्यायेन अन्धवर्तकीन्यायाच्च । राजा तद्दृष्ट्वा सूरये समस्यां ददौ कवाडमासज वरंगणाए अन्भुत्थिओ जुन्वणगब्बियाए। सूरिः प्राह नमन्नियं तेण जियं दिएण स नेउरो पब्वइ अस्स पाओ ॥१॥ अन्यदा प्रोपितभर्तृकाया गृहे भिक्षुः कश्चिद् भिक्षार्थी प्रविष्टः । राज्ञा सौधाग्रस्थेन दृष्टः । तया भिक्षाः पारणायान्नमानीतम् । उपरि काकैक्षितम् । मुनिकस्य दृष्टिस्तस्या नाभौ पतिता। तस्यास्तु दृष्टिस्तन्मुखकमले। आमः सूरये समस्यामार्पिपत् । यथा For Private And Personal Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चतुविशांत ॥ ४५ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भिखयरो पिच्छइ नाभिमंडलं सावि तस्स मुहकमलम् । सूरिराह दुन्हंपिकवालं चपि काया विलुंपन्ति ॥ २ ॥ इति आमः श्रुत्वा चमत्कृतः । अहो सर्वज्ञपुत्रका एते । अन्यदा कोऽपि चित्रकृद् भूपरूपं लिखित्वा उपभूपं गतः । बप्पभट्टिना श्लाघिता तत्कला । नृपात्तेन टंककलक्षं लेभे । लेप्यमयबिम्ब चतुष्ट्यं च कारितम् । एकं मथुरायाम् । एकं मोढेरवसहिकायामणहिल्लपुरे । एकं गोपगिरौ । एकं सतारकाख्यपुरे । तत्र प्रतिष्ठाः प्रभावनाश्व कारिताः । अन्यदपि बह्नकारि । अथ आमगृहे पुत्रो जातः । सुलक्षणः । सोत्सवं तस्य 'दुन्दुकः ' इति नाम प्रतिष्ठितम् । सोऽपि युवत्वे तैस्तैर्गुणैः पितृवत्पप्रथे । एकदा समुद्रसेनभूपाधिष्ठितं राजगिरिनामदुर्गं आमो रुरोध । अमितं सैन्यं कुद्दालादिसामग्री भैरवादयो यन्त्रभेदाः कल्पिताः । प्राकारोऽतिबलेन प्रपातयितुमारेभे । नापतत्। आमः खिन्नः । तेन सूरयः पृष्टाः- “अयमभ्रंलिहः प्राकारः कदाऽस्माभिग्रहिष्यते ।" सूरिभिर्बभणे- " तव पुत्रपुत्रो भोजनामाऽमुं प्राकारं दृक्पातमात्रेण पातयिष्यते अन्यो नैव ।” आमस्त्यक्तारम्भः प्राकाराद्वहिर्द्वादशाब्दीमस्थात् । शत्रुदेशमात्मसाच्चक्रे । दुन्दकगृहे पुत्रो जातः । तस्य 'भोज' नाम ददे । स जातमात्रः पर्यकिकान्यास्ते । दुर्गद्वाराग्रमानीतः प्रधानैः । तद्दृकप्रपातमात्रेण प्राकारः खण्डशो विशीर्णः । For Private And Personal प्रबन्धः ९ ॥ ४५ ॥ Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |समुद्रसेनभूपो धर्मद्वारे निःसृतः । आमो राजगिरिमविक्षत् । प्रजामारोन कृतः। अकरा हि जैना महर्षयःराजर्षयश्च दयापरास्ते । रात्रौ आमाय राजगिर्यधिष्ठात्रा भाणतम्-"राजन् ! यदि त्वमत्र स्थास्यासि तदा तव लोकं हनिष्यामि" आमः प्रत्यूचे-"लोकेन हतेन किं ते फलं ? । यदि हनिष्यास तदा मामेव घातय।" एतनिर्भयमामवचः श्रुत्वा तुष्टो व्यन्तर उवाच-"प्रीतोऽस्मि ते सत्त्वेन | याचस्व किश्चित् ।" राजोचे-"न किमपि न्यूनं मे केवलं कदा मे मृत्युः? ब्रीदम् ।" व्यन्तर उवाच-"षण्मासावशेषे आयुषि स्वयमेत्य वक्ष्यामि।" षण्मासावशेषे आयुषि पुनरागतः सः। राज्ञोक्तम्-"कियन्मे आयुः?" व्यन्तरो वदति-"देव! 'गङ्गान्तर्मागधे तीर्थे नावाऽवतरतः सतः। मकाराद्यक्षरग्रामोपकण्ठे मृत्युरास्त ते ॥१॥ || षण्मासान्ते इति विद्याः। पानीयान्निर्गच्छन्तं धूमं यदा द्रक्ष्यसि तदा मृत्युर्ज्ञातव्यः । साधना च कार्या पार लौकिकी।" इति गदित्वा गतो देवजातीयः। राजा प्रातः सूरिपार्श्व गतः। सूरिरुवाच-"राजन् ! यद्वयन्तरेण वोऽग्रे कथितं आयुष्प्रमाणं तत्तथैव । धर्मपाधेयं गृहीथाः।" तदाकर्ण्य भूपस्तुतोष विसिस्मिये च । अहो ! ज्ञानम् । अथवा विस्मय एव कः?। सूरस्तेजस्वी । इन्दुरालादकः । गङ्गाम्भः पावनम् । जैना ज्ञानिन इति । दिनद्वये गते सूरिः श्रीआमस्थ पुरः प्रसङ्गेन श्रीनेमिनाथस्याशीर्वादं पपाठ । यथा For Private And Personal Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रवन्धः ॥४६॥ लावण्यामृतसाराणिसमा सा भोजभूः स्नेहला सा लक्ष्मीः स नवोद्गमस्तरुणिमा सा द्वारिका तलम् । ते गोविन्दशिवासमुद्रविजयप्रायाः प्रियाप्रेरकाः यो जोवेषु कृपानिधियंधित नोद्वाहं स नेमिः श्रिये ॥१॥ भूयोपि-मग्नैः कुटुम्बजम्बालेयैर्मिथ्याकार्यजर्जरैः। नोजयन्ते नतो नेमिस्ते चेजीवन्ति के मृताः ॥२॥ तथा रैवतकतीर्थमहिमा सूरिभिारव्याय पल्लवितः। यथा-भूमिमाहत्योत्थाय परिकरं बद्धवा सर-IN भसं भूपः प्रतिशुश्राव-"रैवतके नेमिमवन्दित्वा मया न भोक्तव्यमिति।" लोकैनिषिद्धः-"राजन् ! मा मा दूरे रैवतको गिरिः मृदवो भवादृशाः।" राजाऽऽह-"प्रतिज्ञातं मे न चलति । ततः सह सूरिणा आमः लक्षमेकं पृष्टवाहा वृषभाः करमसहस्र २० हस्तिशत ७ अश्वलक्षमेकं पदातिलक्षत्रयं श्राद्धकुटुम्बसहस्र २० सारसैन्यैात्रिंशदुपवासैः रैवतकायाचालीत् । स्तम्भनतीर्थ यावद्गतः। तत्र क्षुत्तापेन व्याकुलितोऽपि प्राणसन्देहं प्राप्तोऽपि नाहारमग्रहीत् । भीतो लोकः। खिन्नःमूरिः मन्त्रशक्त्या कूष्माण्डीदेवीं साक्षादानिनाय । तदने कथयामास-"तत्कुरु येन राजा जेमति जीवति च।” तद्वचनास्कूष्माण्डी बिम्बमेकं महच्छिरसा विभ्रती गगनेन आमसविधं गता उचे च-"वत्स! साऽहमम्बिका । तव सत्त्वेन तुष्टा। गगने आगच्छन्ती मां त्वं साक्षादद्राक्षी। मयेदं रैवतैकदेशभूनादवलोकनाशिखरान्नेमिनाथबिम्बमानीतम् । इदं वन्दख। अस्मिन्वन्दिते मूलनेमिर्वन्दित एव । कुरु पारणकम् ।” सूरिभिरपि तत्समर्थितम् । लोकेनापि स्थापितम् । तद्विम्ब ॥४६॥ For Private And Personal Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वन्दित्वा राज्ञा ग्रासग्रहणं चक्रे । अद्यापि तबिम्ब स्तम्भतीर्थ पूज्यते।'उज्जयन्त' इति प्रसिद्धं तत्तीर्थम् । हृद्यातोद्यानि ध्यानयनामो विमलगिरी वृषभध्वजं सोत्सवं वन्दित्वा यावदैवताद्रिं गतः। तावता तत्तीर्थ | दिगम्बरैरुद्धं श्वेताम्बरसंघः प्रवेष्टुं न लभते । आमेन तज्ज्ञातम् । ज्ञात्वोचे-"युद्धं कृत्वा निषेधृन्हत्वा श्रीनेमि नस्यामि।" तावत्तत्र दिगम्वरभक्ता एकादश राजानो मिलिताः । सर्वे युद्धकतानास्तदा बप्पभाष्टिना भणित आमः-"राजेन्द्र! धर्मकार्ये पापारम्भः कथं क्रियते ?। लीलयैव तीर्थमिदमात्मसात्करिष्ये। भवद्भिः स्थिरैः स्थेयम् ।” एवं भूपं प्रबोध्य बप्पभहिरुपदिगम्बरमुपतद्भक्तं भूपं च नरं प्रहित्यावभाणत्" इदं तीर्थ यस्याम्बिका दत्ते तस्य पक्षस्य सत्कमिति मन्यध्वे ।" तैरुक्तम्-"युक्तमेतत् ।” ततो बप्पभटिना सुराष्ट्रावास्तव्यानां श्वेताम्बरीयाणां दिगम्बरीयाणां च श्रावकाणां शतशः कन्यकाः पञ्चसप्तवार्षिक्यो मेलिताः1 मिलिताः सभ्याः। बप्पभहिना अम्बादेवीपार्धात्कथापितम्-" यदि सर्वाः श्वेताम्बरकन्यकाः उजितसेलसिहरे दिक्खानाणं निस्सीहिया जस्स । तं धम्मचक्कट्टि अरिठ्ठनमि नमसामि ॥१॥ इति गाथां पठिष्यन्ति तदा श्वेताम्बरीयं तीर्थ पक्षान्तरे तु दिगम्बरीयं तीर्थमिति ।” तत आनीता| मुग्धवालिकाः । सर्वाभिः श्वेताम्बरपक्षबालिकाभिःपठिता सा गाथा। अपरासु तु नैकयाऽपि । ततो जातं For Private And Personal Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विशति ॥४७॥ श्वेताम्बरसादैवततीर्थम् । अम्बिकया खस्थया पुष्यवृष्टिः श्वेताम्बरेषु कृता । ततो नष्टा दिक्पटा महाराष्ट्रादिदक्षिणदेशानगमन् । राज्ञाऽन्यैरपि सर्वसंधैश्चिरात्तत्र मिलितै मिर्नेमे । वित्तं ददे। प्रभासे चन्द्रप्रभः प्रणेमे । षन्दिमोक्षः सर्वत्रापि कारितः। आमस्य भुक्तौ गूजरादिदेशास्तदा तीर्थानां चिरं पूजोपयोगिनो हद्दाद्या याः प्रक्लप्ताः। एवं कार्याणि कृत्वा ससूरिन॒पो गोपगिरिं प्राविशत्। संघपूजादिमहास्तत्र नवनवाः। प्राप्तप्राये काले दुन्दुको राज्ये प्रतिष्ठितः। आपृष्टः सः। लोकोपि क्षमितः। अनृणो देशः कृतः। सह सूरिणा नावाऽऽरूढो गङ्गासरित्तीरे तीर्थ मागधं गतः । तत्र जले धूमं दृष्टवान् । तदा सरीन्द्रमक्षमयत् । संसारमसारं विदन् अनशनमगृह्णत् । समाधिस्थः श्रीविक्रमकालात् अष्टशतवर्षेषु नवत्यधिकेषु व्यतीतेषु भाद्रपदे शुक्लपञ्चम्यां पञ्च परमेष्टिनः स्मरन् राजा दिवमध्यष्ठात् । सूरयस्तत्त्वज्ञा अपि रुरुदुः। चिरप्रीतिमोहो दुर्जय एव । सेवकास्तु चक्रन्दुः-" हा शरणागतरक्षावज्रकुमार ! हा राजस्थापनदाशरथे ! हा अश्व| दमननल ! हा सत्यवाग् युधिष्ठिर ! हा हेमदानकर्ण ! हा मज्जाजेनत्वश्रेणिक ! हा सूरिसेवासम्प्रते ! हा अनृणीकरणविक्रमादित्य ! हा वीरविद्याशातवाहन ! अस्मान् विहाय क्व गतोऽसि ?। दर्शयैकदाऽस्मभ्यमात्मानम् । मैकाकिनो मुञ्च ।" एवं विलपन्तस्ते मूरिभिः प्रतिबोधिताः-" भो भोः सत्यं देवेन पापेन । For Private And Personal Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आ लब्धा कामधेनुः सरसकिशलयश्चन्दन चूर्णितो हा च्छिन्नो मन्दारशाखी फलकुसुमभृतः खण्डितः कल्पवृक्षः। दग्धः कर्पूरखण्डो घनहतिदलिता मेघमाणिक्यमाला भग्नः कुम्भः सुधायाः कमलकुवलयैः केलिहोमः कृतोऽयम् ॥१॥ तथापि मा शोचत शोचत यतः पूर्वाह्ने प्रतियोध्य पङ्कजवनान्युत्सार्य नैशं तमः कृत्वा चन्द्रमसं प्रकाशरहितं निस्तेजसं तेजसा। मध्याहे सरितां जलं प्रविशतै रापीय दीप्तैः करैः साया रविरस्तमेति विवशः किं नाम शोच्यं भवेत् ॥१॥ इति लोकं निःशोकं कृत्वा लोकेन सह सूरिर्गोपगिरिमगात् । सूरिभिर्दुन्दुको राजा आमेन आमशोकेन जात्यमुक्ताफलस्थूलानि अश्रूर्युद्गरन् हिमम्लानपद्मदीनवदनश्चिन्ताचान्तस्वान्तो बभाषे-राजन् ! कोऽयं महतस्तव पितृशोकः। स हि चतुर्वर्ग संसाध्य कृतकृत्यो बभूव । यशोमयेन देहेन जीवन्नेवास्ते। पुण्यलक्ष्मीः कीर्तिलक्ष्मीश्चेति द्वे नरस्योपकारिण्यौ वल्लभे। For Private And Personal Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुविशति ॥४८॥ पुण्यलक्ष्म्याश्च कीर्तश्च विचारयत चारुताम् । स्वामिना सह यात्येका परा तिष्ठति पृष्ठतः॥१॥ प्रबन्धः अन्योऽप्येवंविधः कोऽपि भवतु । इत्येवंविधाभिर्वाग्भिर्दुन्दुकराजं सूरिराजो निःशोकमकार्षीत् । दुन्दुकः शनैः २ परमाहतोऽभूत् । राजकार्याणि अकार्षीत् । त्रिवर्ग स समसेविष्ट । एवं वर्तमाने काले | एकदा दुन्दुकश्चतुष्पथे गच्छन् कण्टिकां नाम गणिकामुदाररूपां चिद्रपां युवजनमृगवागुरां मदनमायामयी-| मालोकिष्ट । तां शुद्धान्तस्त्रीमकार्षीत् । तया दुन्दकस्तथा वशीकृतो यथा-" यदेव सा बदति तत्सत्यम् । यदेव सा करोति तदेव हितं मनुते । सा तु कार्मणकारिणी वाक्पटुः सर्व राज्यं असते हिमानीव चित्रम् , | भोजमातरं पद्मा नाम अन्या अपि राज्ञीरन्वयवतीविनयवतीर्लावण्यवतीस्तृणाय मनुते । एकदा कलाकेलि| म ज्योतिषिको निशि विसृष्टे सेवकलोके दुन्दुकराजं विजनं दृष्टवाऽवादीत्-“देव ! वयं भवत्सेवकत्वेन सुखिनः ख्याताः श्रीशाश्च । ततो यथातथं ब्रूम:-अयं ते भोजनामा तनयो भाग्याधिकस्त्वां हत्वा तव राज्ये निवेक्ष्यते । यथार्ह स्वयं कुर्वीथाः।” राजा तदवधार्य वजाहत इव क्षणं मौनी तस्थौ । ज्योतिषिकं विससर्ज। सा वार्ता भोजजननीसहचर्या दास्यैकया विपुलस्तम्भान्तरितया श्रुता। भोजमात्रे चोक्ता। सा पुत्रमरणाद्विभाय । राजापि कण्टिकागृहमगात् । सापि राजानं सचिन्तमालोक्यालापीत्-देव ! अद्य कथं म्लानबदनाः ?।” राजाऽऽह स्म-" किं क्रियते । विधिः कुपितः । पुत्रान्मे मृत्युानिना दृष्टप्रत्ययशतेन ||॥४८॥ For Private And Personal Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कथितः।" कण्टिका वदति स्म-“का चिन्ता। मारय पुत्रम् । सुतमपि निर्दलयन्ति राज्यलुब्धाः । सुतो।। न सुतः। सुतरूपेण शत्रुरेव सः।” तद्वचनाद्दन्दुकः सुतं जिघांसामास । यावता घातयिष्यति तावता भोजमात्रा पाडलीपुरे स्वभातृणां शराणां राज्यश्रीस्वयंवरमण्डपानां स्नेहलानां धर्मज्ञानामग्रे प्रच्छन्नलेखेन ज्ञापित यथा-" एवमेव भवतां भागिनेयो विनंक्ष्यति ।” रुष्टो राजा। आगत्य एनं गृहीत्वागच्छत् । रक्षति जीववत्। मा स्माहं भवत्सु सत्सु निष्पुत्रोऽभूवम् इति । तेऽप्यागच्छन्, दुन्दुकमनमन् । उत्सवमिषेण भागिनेयं भोज गृहीत्वा पाटलीपुत्रमगमन् । तत्र तमपीपठन् । अलीललन् । शस्त्राभ्यासमचीकरन् । जीववदमंसत । तत्र तस्य पश्चाब्दी दिनैः कतिभिरप्यूनातिकामति स्म । कण्टिका दुन्दुकाने कथयति स्म-"देव! पुत्ररूपस्ते शत्रुर्मातृशाले वर्द्धते । नखच्छेद्यं पशुच्छेद्यं मा कुरु । अत्रानीय च्छन्नं यमसदनं नय।" राजाऽऽह-" सत्यमेतत् ततो दूत्तमुखेन भोज तन्मातुलेभ्योज्याचीत् । ते भोज नार्पयन्ति । पुनः पुनः स्वान्दूतान् दुन्दुकः प्रहिणोति । भोजमातुलाः प्राहु:-" राजन् ! वयं तव भावं विद्मः। नार्पयाम एवैनम् । धर्मपात्रमसौ। अन्योऽपि शरणागतो रक्ष्यः क्षत्रियः, किं पुनरीदृग् भगिनीपुत्रः।" भोजोऽपि तैः पितुर्दुष्टत्वं ज्ञापिता कवचहरः उपपितृ नैति । ततो दुन्दुकेन बप्पभटिसूरयः प्रार्थिता:-“यूयं गत्वा भोज सुतमनुनीयानयततमाम् ।" अनिच्छन्तोऽपि तत्सैनिकैः सह पाटलीपुत्र चेलु। अर्द्धमार्ग सम्माप्तः स्थित्वा विमृष्टं ज्ञानदृष्ट्या-"भोजस्ता For Private And Personal Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandi प्रवन्धः चतुविशति ॥४९॥ | वन्मम वचसा नृपसमीपं नेष्यति। आनीयते वा यथा तथा। तदानीतोऽपि पित्रा हन्यते । वागलंघने राजा|ऽपि क्रुद्धो मां हन्ति । तस्मादितो व्याघ्र इतो दुस्तटी इति न्यायः प्राप्तः। समाप्तं च ममायुः दिवसद्वयमव| शिष्यते । तस्मादनशनं शरणम् ।” इति विमृश्यासन्नस्थयतयो भाषिताः-"नन्नमूरिगोविन्दाचार्यों प्रति हिता भवेत । श्रावकेभ्यो मिथ्यादुष्कृतं ब्रूयात् । परस्परममत्सरतामाद्रियेध्वम् । क्रियां पालयेत। आबालवृद्धान् लाल| येत । न वयं युष्मदीयाः। न यूयमस्मदीयाः । सम्बन्धाः कृत्रिमाः सर्वे ।" इति शिक्षधित्वाऽनशनस्थाः समतां प्रपन्नाः । अहंतखिजगद्वन्द्यान सिद्धान् विध्वस्तबन्धनान् । साधूंश्च जैनधर्म च प्रपये शरणं त्रिधा ॥१॥ महाव्रतानि पश्चैव षष्ठकं रात्रिभोजनम् । विराधितानि यत्तत्र मिथ्या दुष्कृतमस्तु मे ॥२॥ इति वाणा आसीना अदीनाः कालमकार्षः । श्रीबप्पभहिसूरीणां श्रीविक्रमादित्यादष्टशतवर्षेषु गतेषु भाद्र| पदे शुक्लतृतीयायां रविदिने हस्ताकें जन्म, पञ्चनवत्यधिकेषु गतेषु स्वर्गाहोरणम् । तदैव मोढेरे नन्नसूरीणा मग्रे भारत्योक्तम्-" भवदुरव इशानदेवलोकं गताः।" तत्र पाढं शोक प्रससार । शास्त्रज्ञाः सुवचखिनो बहुजनाधारतामागताः सद्वृत्ताः खपरोपकारनिरता दाक्षिण्यरत्नाकराः । ॥४९॥ For Private And Personal Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सर्वस्पाभिमता गुणैः परिवृता भूमण्डनाः सजना धातः ! किं न कृतास्त्वया गतधिया कल्पान्तदीर्घायुषः ॥१॥ वृस्तु प्रबोधो दत्तः हित्वा जीर्णमयं देहं लभते भो पुनर्नवम् । कृखपुण्यस्य मर्त्यस्य मृत्युरेव रसायनम् ॥२॥ इति । दुन्दुकेन सरिभिः सह प्रहिता ये सैनिकाते निवृत्य दुन्दकपार्श्व गताः । सो पश्चातापानलेन दन्दह्यते स्म । भोजेनापि समातुलेन सूरिशियाणामन्येषामपि लोकानां मुखादवगतं यथा-"सूरयो मनुः। तव पार्थ नाजग्मुः । मा स्मायमस्पदुपरोधसंकटे पतितः पितुः पार्श्व गतः सन् मृयत इति कृपां दधुः।" तदेतदाकर्ण्य भोजस्तथा पीडितो यथा वज्रपातेनापि न पीव्यते । पितुरन्तिकं नागादसौ। एकदा मालिकः कोपि पूर्वमामराजभृत्यो विदेश भ्रान्त्वा भोजान्तिकमागतः पाटलिपुरे । तेनोक्तम्-“देव ! त्वं मत्स्वामिकुलप्रदीपः । मया विदेशे सगुरोर्मुखाद्विद्यका लब्धा मातुलिङ्गी नाम । ययाऽभिमन्त्रितेन मातुलिङ्कन हताः। करिहरिमाया अपि बलिनो नियन्ते। मानवानां तु का कथा । देव ! गृहाण ताम् ।" भोजेन सा तस्मादात्ता। प्रमाणिता । सत्या । मालिको दानमानाभ्यां भोजेन रञ्जितः । मातुलाः सर्वे भोजेन विद्याशक्ति प्रकाश्य तोषिताः । ते ऊचु:-" यदि इयं ते शक्तिस्तदा प्राभृतमिषेण मातुलिङ्गानि गृहीत्वाऽस्माभिः सह पितुः, For Private And Personal Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रवन्धः चतुर्विशति समीपं व्रज । पितरं निपात्य राज्यं गृहाण ।” तत् रुरुचे भोजाय । चलितो बहुमातुलिङ्गशोभी सन् गतः पितुरिम् । कथापितं च-"तात ! त्वं पूज्योऽहं शिशुः। त्वतो मरणं वा राज्यं वा सर्व रम्यं मे । ” राजा संतुष्टः । अहो विनीतः सुतः। आयातु। इति विमृश्य आहूतो भोजः। शोधितो मध्यमागतः। एकासनस्थों कपिटकाराजानौ पृथक्पृथग्मातुलिङ्गेन जघान । सम्यग्विद्या हि नान्यथा । उपविष्टो दुन्दुकराज्ये मोजः । तन्मातुला अतुलं तोपं दधुः। माता पद्मा प्रससाद । दुन्दुकेन धनहरणेन ग्रासोद्दालनादिनचरा राजन्यकाः | | पुनर्जातमात्मानं मेनिरे । महाजनो जिजीव । वर्णाः सर्वे उन्मेदुः । संसारसरोऽम्भोज भोज कमला भेजे । दोबलात्परिच्छदवलाच जगजिगाय । अथ कृतज्ञतया मोढेरपुरे नन्नसूरये विज्ञप्ति दत्वा उत्तमनरान्प्रेषीत् । ते गतास्तत्र । विज्ञप्तिर्दर्शिता तैस्तत्र । वाचिता नन्नदरिगोविन्दाचार्यथा-" स्वस्ति श्रीमोढेरे परमगुरुश्रीनन्नसूरिश्रीगोविन्दमूरिपादान सगच्छान् गोपगिरिदुर्गात् श्रीभोजः परमजेनोविज्ञपयति यथा-"इह तादत्प्रज्ञागङ्गाहेमाद्रयः समाचारीनारीसौभाग्यवर्द्धनमकरध्वजाः क्षितिपतिसदाकुमुदिनीश्वेतदीधितयो भारतीधर्मपुत्राः श्रीवप्पभद्दिसूरयस्त्रिदिवलोकलोचनलेह्यललितपुण्यलावण्यत्तामादधिरे। तत्स्थाने सन्प्रति दीर्घा युषो यूयं स्थ । दृष्टविज्ञप्तिकाप्रमाणेनात्र पादोऽवधार्यः ।" तद् दृष्ट्वा भक्तिरहस्यं सूरयः ससंघाः सुतरां जहृषुः । संघानुमत्या गोविन्दाचार्य मोढेरके मुक्त्वा श्रीनन्नसूरयो गोपगिरिमसरन् । भोजः पादचारेण For Private And Personal Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir | ससैन्य संमुखमायातः । गुरोः पादोदकं पपौ । उल्लसतृष्णो गिरं शुश्राव । स्थानस्थानमिलितजनहृदयसंघट्टचूरितहारमौक्तिकधवलितराजपथं पुरं निनाय । सिंहासने निवेशयामास तान् । मङ्गलं चकार । तदाऽsज्ञामयो बभूव । तद्भक्तानात्मवद्ददर्श । तदभक्तान् विषवदीक्षांचक्रे । तदुपदशाजिनमण्डितां मैदिनी विदधौ । दुन्दुकस्य ताग् मरणं स्मृत्वा कुपथेषु न रेमे । मथुराशत्रुञ्जयादिषु यात्राश्चकार । एकादश व्रतानुञ्चचार । पूर्वराजर्षियशांसि उद्दधार । चिरं राज्यं भेजे । इत्येवं गोपगिरौ भोजो धर्म लालयामास उदियाय च । अन्यैरपि पुण्यपुरुषरेवं भाव्यम् ॥ ॥ इति श्रीवप्पभट्टिचरित्रम् । ग्रन्थाग्रं ६०० ।। अथ श्रीहेमसूरीणां प्रवन्धःपूर्णतल्लगच्छे श्रीदत्तसूरि प्राज्ञः वागडदेशे वटपद्रं पुरं गतः । तत्र स्वामी यशोभद्रनामा राणकः ऋद्धिमान् । तत्सौधान्तिके उपाश्रयः श्राद्धैर्दत्तः । रात्री उन्मुद्रचन्द्रातपायां राणकेन ऋषयो दृष्टा उपाश्रयै निषपणाः श्रावकामात्यपाचे पृष्टम्-"के एते?" अमात्यःप्रोचे-“देव!महामुनयोऽमी विषमव्रतधारिणःराणका For Private And Personal Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dhe चतुर्विंशति प्रबन्ध: ॥५१॥ स्य श्रद्धा बभूव । प्रातर् वन्दितुं गतः । देशना । श्रावकत्वं सुष्टु सम्पन्नम् । मासकल्पमेकं स्थिताः । परदेशं गता गुरवः। तावता वर्षाकालः। देवपूजादिधर्मव्यापारसाराण्यहानि गमयति राणः। प्राप्ता शरद् । चरिक्षेत्राणि द्रष्टुं गतो राणः। तावता वुण्टानि ज्वालयन्ति भृत्याः। तेषु सर्पिण्येका गर्भभारालसा ज्वालादिभिर्दह्यमाना तडफडायमाना सिमिसिमायमाना राणेन दृष्टा । दयोत्पन्ना, विरक्तश्च । हा! हा ! संसारं, धिग् गृहनासं, कस्य कृते पाएमिदमाचर्यते । राज्यमपि दुष्पालं मायाजालं नरकफलम् । तस्मात्सर्वसङ्गपरित्यागः कार्यः । इति ध्यायन्सौधमायासीत् । निशि श्रावकमन्त्रिणमाकार्य रहोऽप्राक्षीत्-"मम धर्मगुरवः श्रीदत्त-| सूरयः क्व विहरन्ति ?।” मन्त्र्याह-"डिण्डआणके” विसृष्टो मन्त्री शेषपरिच्छदश्च । राणको मिताश्वपरिवारः सारं हारमेकं गृहीत्वा शीघं डिण्डुआणकं प्राप्तः । गुरवो दृष्टा वन्दिताः। भवबैराग्यानुदितः । पदोलगित्वा कथितं स्वपापम् । गुरुभिर्भणितम्-" राणक ! चारित्रं विना न च्छुटन्ति पापेभ्यो जीवाः।"| राणकेन न्यगादि-" सद्यो दीयतां तर्हि तत् ।” सूरय ॐ इत्याहुः स्म । राणकेन डिंडआणकीयश्रावकाः समाकारिताः । हारोऽर्पितः । दिव्यः प्रासादः कार्यतामिति । तथाऽऽचरितं तः। अद्यापि दृश्यते स तत्र । राणकैर्वतमात्तम् । नन्द्यामेव षट्विकृतिनियमः एकान्तरोपवासा यावज्जीवम् । तस्य राणयशोभद्रस्य गीतार्थत्वात्सरिपदं जातम् । 'श्रीयशोभद्रमरिः' इति नाम । तदीयपट्टे प्रद्युम्नसरिन्धकारः। तत्पदे श्री For Private And Personal Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गुणसेनसूरिः । श्रीयशोभद्रसूरिपादास्त्रयोदशोपवासा रैवते नेमिनाथदृष्टौ कृतानशनाः स्वर्लोकमैयरुः ।। गुणसेनसरिपट्टे श्रीदेवचन्द्रसूरयः ठाणांगवृत्ति-शान्तिनाथचरितादिमहाशास्त्रकरणनियूंढप्रज्ञाप्रागभाराः। ते विहरन्तो धन्धुक्कपुरं गूर्जरधरासुराष्ट्रासन्धिस्थं गताः। तत्र देशनाविस्तरः। एकदा नेमिनागनामा श्रावकः समुत्थाय श्रीदेवचन्द्रसूरीन् जगौ-" भगवन् ! अयं मोढज्ञातीयो मद्भगिनीपाहिणिकुक्षिभूः ठक्करचाचिगनन्दनश्चङ्गदेवनामा भवतां देशनां श्रुत्वा प्रवुद्धो दीक्षां याचते। अस्मिंश्च गर्भस्थे मम भगिन्या सहकारतरुः दृष्टः । स च स्थानान्तरे उप्तस्तत्र महती फलस्फातिमायाति स्म ।” गुरव आहु:-" स्थानान्तरगतस्यास्य महिमा प्रैधिष्यते । महत्पात्रमसौ योग्यः सुलक्षणो दीक्षणीयः। केवलं पित्रोरनुज्ञा ग्राह्या।” गतौ मातुलभागिनेयौ पाहिणिचाचिगान्तिकम् । उक्ता व्रतवासना । कृतस्ताभ्यां प्रतिषेधः करुणवचनशतैः। चाङ्गदेवो दीक्षां ललौ । स श्रीहेमसूरिः प्रभुः। तेन यथा श्रीसिद्धराजो रञ्जितः, व्याकरणं कृतम् , वादिनो जीताः। | यथा च कुमारपालेन सह प्रतिपन्नम् । कुमारपालोपि यथा पञ्चाशद्वर्षदेशीयो राज्ये निषण्णः। यथा हेमसूरयो गुरुत्वेन प्रतिपन्नाः। तैरपि यथा देवबोधिः प्रतिपक्षः पराकृतः। राजा सम्यक्त्वं ग्राहितः श्रावकः कृतः। | निराधनं च मुमोच सः। तत्प्रबन्धचिन्तामणितो ज्ञेयम् । किं चर्वितचर्वणेन ? । नवीनास्तु केचन प्रबन्धाः प्रकाश्यन्ते-कुमारपालेन अमारौ प्रारब्धायां आश्विनशुदिपक्षः समागात् । देवतानां कण्टेश्वरीप्रमुखाणां For Private And Personal Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति ॥५२॥ अबोटिकैर्नृपो विज्ञप्तः-“देव ! सप्तम्या सप्तशतानि पशवः सप्त महिषाः, अष्टम्यां अष्ट महिषा अष्टौ | शतानि पशवः, नवम्यां तु नवशतानि पशवो नव महिषाः, देवीभ्यो राज्ञा देया भवन्ति पूर्वपुरुषक्रमात् ।”|G राजा तदाकर्ण्य श्रीहेमान्तिकमगमत् । कथिता सा वार्ता । श्रीप्रभुभिः कर्ण एवमेवमित्युक्तम् । राजोत्थितः। भाषितास्ते-“देयं दास्यामः।” इत्युक्त्वा बहिकाक्रमेण रात्री देवीसदने क्षिप्ताः पशवः । तालकानि दृढीकृतानि । उपवेशितास्तेषु प्रभूता आप्तराजपुत्राः। प्रातरायातो नृपेन्द्रः। उद्घाटितानि देवीसदनद्वाराणि । मध्ये दृष्टाः पशवो रोमन्थायमाना निर्वातशय्यामुस्थाः। भूपालो जगाद-"भो अबोटिकाः! एते पशवो मयाऽमूभ्यो दत्ताः। यदि अमूभ्यो रोचिष्यन्ते ते तदा ग्रसिष्यन्ते । परं न ग्रस्ताः। तस्मान्नामूभ्योऽदः पललं रुचितम् । भवभ्य एव रुचितम् । तस्मात्तूष्णीमाध्वम् । नाहं जीवान् घातयामि । स्थितास्ते विलक्षाः। मुक्ता छागाः। छागमूल्यसमेन तु धनेन देवेभ्यो नैवेद्यानि दापितानि । अथाश्विनशुक्लदशम्यां कृतोपवासः क्ष्मापो निशि चन्द्रशालायां ध्याने उपविष्टो जपति । बहिर्दास्थाः सन्ति । गता बही निशा । स्त्र्येका दिव्या प्रत्यक्षाऽऽसीत् । उक्तस्तया सः-"राजन् ! अहं तव कुलदेवी कण्टेश्वरी। किमिति त्वया नास्मद्देयं दत्तम् ।" | राज्ञोक्तम्-"जैनोऽहं दयालुः पिपीलिकामपि न हन्मि । का कथा पञ्चेन्द्रियाणाम् ।" तच्छुत्वा कण्टेश्वरी क्रुद्धा राजेन्द्र त्रिशूलेन शिरसि हत्वा जग्मुषी। राजा कुष्टी जातः। दृष्टं स्ववपुर्विनष्टम् । विषण्णः। भृत्येन ॥५२॥ For Private And Personal Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मन्त्रिणमुदयनमाकार्य तत्स्वरूपं निगद्य पप्रच्छ-" मन्त्रिन् ! देवी पशून्याचति। दीयन्ते नवा।” मन्त्री दाक्षिण्यादाह-"देव ! राजा यत्नेन रक्ष्य एव ।" भूपो न्यगादीत्-"निःसत्त्वो वणिगसि। यदेवं ब्रूषे । मम किं कार्य जीवितेन ?। कृतं राज्यम् । लब्धो धर्मः। हताः शत्रवः । केवलं काष्टानि देहि रहः । येन प्रातर्मामीदृशं दृष्ट्वा लोको धर्मे नोड्डाहं करोति । उदयनेन चिन्तितम्-"अहो! महत्कृच्छ्रमापतितम् । पारवश्यभूलं नियोगं धिक् ।” मन्त्रिणोक्तं सद्यो बुद्धिवशात्-“श्रीहेमसूरयो विज्ञप्यन्ते ।” राज्ञोक्तम्-“तथाऽस्तु।" गतो मन्त्री उपमृरि । मृरिभिर्जलमभिमन्च्यार्पितम् । अनेन राजाऽऽच्छोट्य इति । सचिवेन तथा चके राज्ञः।। राजा दोगुन्दुकदेव इव दिव्यरूपः सम्पन्नो भक्तश्च समधिकं श्रीगुरूं वन्दितुं ययौ । गुरुर्देशनां रने शराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः ___ सन्ति श्रीपतयो निरस्तधनदारतेऽपि क्षिती भूरिशः। किन्त्वाकर्ण्य निरीक्ष्य वाऽन्यमनुजं दुःखादितं यन्मन स्तद्रपं प्रतिपद्यते जगति ते सत्पूरुषाः पश्चषाः ॥१॥ राजा स्वावासं गतः । राज्यं समृद्धं भुनक्ति । एकदा प्रभुभिर्भरतस्य चक्रिणः साधर्मिकवात्सल्यकथाकथि । तां श्रुत्वा भूपः साधर्मिकवात्सल्यं दिव्यभोजनवसनकनकदानः प्रतिगामं प्रतिपुरं प्रारंभे । तद् । - For Private And Personal Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ ५३ ॥ www.kobatirth.org दृष्ट्वा कवि श्रीपालपुत्रः सिद्धपालः सूक्तमपाठीत् क्षिप्त्वा वारिनिधिस्तले मणिगणं रत्नोत्करं रोहणी रेण्वावृत्य सुवर्णमात्मनि दृढं बद्ध्वा सुवर्णाचलः । क्ष्ममध्ये च धनं निधाय धनदो विभ्यत्वरेभ्यः स्थितः किं स्यात्तैः कृपणैः समोऽयमखिलार्थिभ्यः स्वमर्थं ददत् ॥ १ ॥ द्रमलक्षदत्तिरत्र । पुनः कदाचित्पठितम् - श्रीवीरे परमेश्वरेsपि भगवत्याख्याति धर्मं स्वयं प्रज्ञावत्यभयेsपि मन्त्रिणि न यां कर्त्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षां व्यधात् यस्यास्वाद्य वचः सुधां स परमः श्रीहेमचन्द्रः गुरुः ॥ १ ॥ Acharya Shri Kailashsagarsuri Gyanmandir अत्रापि लक्षदत्तिः । अन्येद्युः कथाप्रसङ्गे प्रभवः प्राहुः स्म - " पूर्वं श्रीभरतो राजा श्रीमालपुरे नगरपुरे शत्रुञ्जये सोपारकेऽष्टापदे च जीवतस्वामिश्री ऋषभप्रतिमाश्चतुरङ्गचमू चक्रांच्छलितरजःपुञ्जध्यामलितदिक्चक्रवाल: संघपतिर्भूत्वा ववन्दे । " तदाकर्ण्य श्री चौलुक्यः स्वयं कारितरथेऽर्हडिम्बमारोप्य ससैन्यः शत्रु For Private And Personal प्रबन्धः १० ॥ ५३ ॥ Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अयोजयन्तादियात्रायै चचाल । संघे उदयनसुतो वाग्भटश्चतुर्विंशतिमहाप्रासादकाराएका, नृपनागाख्य|श्रेष्ठिभूः श्रीमान आभडः, पटभाषाकविचक्रवर्ती श्रीपालः, तद्भः सिद्धपालः, कवीनां दातृणां च धुर्यों भाण्डागारिकः कपर्दी, परमारवंश्यः कूर्चालसरस्वती प्रह्लादनपुरनिवेशको राणः प्रह्लादनः, राजेन्द्रदौहित्रः प्रतापमल्लो, नवतिलक्षहेमस्वामी श्रेष्ठिछाडाका, राज्ञी भोपलदेवी, चौलुक्यपुत्री लीलूः, राणअम्बडमाता माऊः, आभडपुत्री चाम्पलदे, इत्यादि कोटीश्वरो लोकः; श्रीहेमचन्द्रसूरिपादाः, श्रीदेवसूरयः, श्रीधर्मसूरयः, लक्षसंख्या मानवाः । स्थाने स्थाने प्रभावना । जिने जिने छत्रचामरादिदानम् । पात्राणां इच्छासिद्धिः। प्रथमं रैवताद्रितले सांकलीयालीपद्या दिशि गत्वा स्थितः क्षितिपतिः। नान्दीनिर्घोषः। रात्री भारत्या श्रीहेमसूरिभ्य आदिष्टम्-" राज्ञा नादावारोढव्यं विघ्नसंभवात् । अत्रैव देवो मदनसूदनो नेमिर्वन्द्यः।" तथैव कृतम् । संघस्तु रैवतगिरौ श्रीनेमिस्नानविलेपनपुष्पफलवस्त्रपूजानैवेद्यनादमालादिग्रहणैर्भावमपूरि । राजाप्यक्षवाटकवस्त्रापथराजिमत्या गुहाप्रायस्थानयात्रया महादानश्च धनजीवितव्ययोर्लाभमग्रहीत् । देव| पत्तने चन्द्रप्रभयात्रा ससंघस्यास्यासीत् । ततो व्याघुट्य शत्रुञ्जयाद्रिं गतः। आरूढः । मरुदेवादर्शनपूजे । तत्राशी: बालो मे वृषभो भरं सुमनसामप्येष किं सासहि मदन्धे हि किरीटमस्य करयोर्मा काङ्कणी भूयथा। For Private And Personal Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विशति गाङ्गेयं कटिसूत्रमत्र तनुकं युक्तं बलिष्ठेऽप्यमू नये मातृदयागिरः सुरजने हास्यावहाः पान्तु वः ॥ १॥ पुरः कपर्दी तत्र कायोत्सर्गः। आशीस्तु रूढिः किलैवं वृषभः कपर्दिनं निषेवतेऽस्मिन्विमलाचले पुनः । अयं कपी वृषभं शुभाशयस्तनोतु वः शान्तिकपौष्टिकश्रियम् ॥१॥ 'पुरो वृषभप्रभुप्रासादः । देवदर्शनं पूजा । आशीर्वाद: नव्योवाहविधौ वधूद्वययुतं पुत्रं सवित्रीरति प्रीत्यासन्नमिव स्मरः किल ददौ यं विक्ष्य सत्याशिषम् । कल्पद्रुर्भुवि जङ्गमः किमधुना पत्रद्वयेनोद्गत स्तत्त्वं स्याः शतशाख इत्यनुदिनं स श्रेयसे नाभिभूः ॥१॥ | चैत्यपरिपाट्या कपर्याह श्रीचालुक्य स दक्षिणस्तव करः पूर्व समासूत्रितः प्राणिप्राणविघातपातकसखः शुद्धो जिनेन्द्रार्चनात् । For Private And Personal Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वामोsप्येष तथैव पातकसखः शुद्धिं कथं प्राप्नुयात् न स्पृशेत करेण वेद्यतिपतेः श्रीहेमचन्द्रप्रभोः ॥ २ ॥ Acharya Shri Kailashsagarsuri Gyanmandir मेरुमहाध्वजावारितान्नदानयाचकसत्काराः प्रवर्त्तन्ते । मालोद्वहनप्रस्तावे तादृशि संघ राज्ञि च निषण्णे महं वाग्भटः प्रथमं लक्षचतुष्कमवदत् । प्रच्छन्नधार्मिकः कश्चित्कथापयति-" लक्षाष्टौ ।” एवमन्योऽन्येष्वीश्वरेषु वर्द्धयत्सु कश्चित्सपादकोटीं चकार । राजाऽपि चमुच्चकार । उवाच च -" उत्थाप्यतां स यो गृह्णाति । " | उत्थितः सः । यावद् दृश्यते तावद्वादरमलिनवसनो वणिगुरूपः । राज्ञा वाग्भटो भाषितः- “द्रम्मसुस्थंकृत्वा देहि । " वाग्भटो वणिजा सहोत्थाय पादुकान्तिकं गत्वा द्रम्मसुस्थं प्रपच्छ तम् । वणिजा सपादकोटिमूल्यं माणिक्यं दर्शितम् । मन्त्रिणा पृष्टम् - " 'कुत इदं ते ।" वणिगाहू-" महूअकवास्तव्यो मत्पिता हंसाख्यः सौराष्ट्रिकः प्राग्वाटः । अहं तद्भूर्ज़गड़ः । माता मे धारुः । मम पित्रा निधनसमयेऽहं भाषितः - " वत्स ! चिरं कृता प्रवहणयात्राः फलिताश्च । मेलितं धनम् । तेन च क्रीतं प्रत्येकं सपादकोटिमूल्यं माणिक्यपञ्चकम् । अधुना प्रभुवृषभचरणौ शरणं मे अनशनं प्रतिपन्नम् । क्षामिताः सर्वे जीवाः । एकं माणिक्यं श्रीऋषभाय, एकं श्रीनेमिनाथाय, एकं श्रीचन्द्रप्रभाय दद्याः माणिक्यद्वयमात्मनोऽन्तर्धनं दध्याः । बाह्यधनमपि प्रचुरतरमास्ते । " इदानीं माता मया सहानीता कपर्दिभवने मुक्ताऽस्ति । तां जरन्तीमा For Private And Personal Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्ध: ॥५५॥ तरं सर्वतीर्थाधिकतया पुराणपुरुषैर्निवेदितामेतां मालां परिधापयिष्यामि । श्रुत्वा हृष्टो मन्त्री राजा संघश्च । मातृसंमुखगमनं सर्वश्रावकाणां मालापरिधापनम् । तन्माणिक्यं हेम्ना खचित्वा ऋषभाय कण्ठाभरणमनुष्णकिरणभरितचैत्यगर्भमासूत्रयामहे । वलितः संघः प्राप्तः पत्तनम् । प्रवर्त्तन्ते संघभो|ज्यानि प्रतिलाभनाश्च। अमारिस्तु नित्यैव । तस्य च कुमारपालदेवस्य भग्नी शाकम्भरीश्वरेण चाहमानवंश्येन राज्ञा आनाकेन परिणीताऽस्ति । एकदा तौ सारिभिः क्रीडतः। क्रीडता राज्ञा सारिगृहे मुश्चतोक्तम्-" मारय मुण्डिकान् पुनर्मारय मुण्डिकान् ।" एवं द्विस्त्रिः। टोपिकारहितशीर्षकत्वान्मुण्डिका गुर्जरलोका विवक्षिताः अथवा श्वेताम्बरा गूर्जरेन्द्रगुरवो मुण्डिका इति हासगर्भोक्तिः। राज्ञी कुपिता वदति-"रे जङ्गडक ! जिह्वामालोच्य नोच्यते? किं वक्षि ?। न पश्यसि माम् । न जानासि मम भ्रातरं राजराक्षसम् ।" कुद्धो राजा तां पदा जघान । साप्याह-" यदि ते जिहां अवटपथेन कर्षयामि तदा राजपुत्री माममंस्थाः।" इति वदन्त्येव सा ससैन्या निर्विलम्ब श्रीपत्तनमेत्य चौलुक्याय तं परिभवं प्रतिज्ञां च स्वोपज्ञमजिज्ञपत् । चौलुक्योऽभाषत-" इत्थमेव करिष्यामः कौतुकं पश्यः।" ततश्चानकस्तस्यां तत्र गतायां गूजरनृपतंजो दुर्द्धरं विदंश्चक्षोभ । चौलुक्योऽपि बाप्तपरिच्छदं मन्त्रिणमेकं तत्रत्यवृतान्तज्ञानाय प्रैषीत्। गतः सतत्र । जग्राह गृहम् । राजासन्नदासीमेकां धनेन रजयित्वा आत्मीयं भोगपात्रमकरोत् । नित्यं सा For Private And Personal Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir याममाभ्यां रात्र्यामायाति रञ्जयति तम् । एकदा निशीथे साऽऽगात् । मन्त्री कुपितः-" आः पापे ! परनृ- गामिनि ! किमिति विलम्बेन समागतासि ?।" सापि सप्रश्रयं मन्त्रिणमभाषत-" स्वामिन् ! मा कुप। कारणेन स्थिताऽस्ति ।” मन्त्रिणोचे-" किं कारणम् ? ।" सा जगाद-“प्रभो ! अहं राज्ञस्ताम्बूलदासी। रात्रोम एकस्मिन् राज्ञा परिच्छदः सर्यो विसृष्टः। अहमपि विसृष्टा । विसृजता चाप्तनर एकोऽभाषि"व्याघ्रराजं हकारय ।" अहं स्तम्भान्तरिता कौतुकेन स्थिता । को व्याघ्रराजः । कथमाहूयते ? इति । ततो राज्ञाकारितः स आगतः कृतप्रणामः सन् राज्ञाऽऽलापि-“भो ! विजनमस्ति इति भाष्यसे । त्वमस्माकं कुलक्रमागतः सेवकः । सद्यो व्रज । गूजरेश्वरघातको भूत्वा व्यापादय । लक्षत्रयं हेनां दास्ये।" अथ स व्याघ्रराजाख्यो बभाषे-" देव ! हनिष्याम्येव तं राजानम् । मा स्म संशयं कृथाः स्वामिन् !।" ततस्तद्वचः श्रुत्वा तुष्टः शाकम्भरीश्वरः सद्यो हेमलक्षत्रयबदरकांस्तद्गृहायाचीचलत् । व्याघ्रराजं चाप्राक्षीत-"कदा केनोपायेन तं हनिष्यसि ?" व्याघ्रराजोऽवादीत्-"नाथ ! अद्य रविवारों वर्तते । आगन्तुकामे सोमवारे क्वचनावसरं लब्ध्वा हनिष्यामि । उपायस्तु भरटकरूपं करिष्यामि । राजा तु कर्णरुप्रासादे आयाति सोमवारे ध्रुवम् । देवं नत्वा व्यावर्त्तमानायास्मै बाह्याङ्गणे शेषादानमिषेण पुष्पकलंबकमुत्पाटयिप्यामि । तत्र धृतया कर्तिकया कङ्कमय्या घातयिष्यामि । अङ्गीकृतसाहसानां न किश्चिदपि दुष्करम् । अहं For Private And Personal Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विंशति हतश्वेत्तत्र तदा मन्मानुषाणामुपरि कृपा करणीया । उद्धृतश्चेदहं तंदा जितं जितम् ।” एवं व्याघ्रराजेन निगदिते आनाकेन बीटकं दत्तम् । विसृष्टोऽसौ । तत्सर्वं सावधानतया स्तम्भान्तरितया मया श्रुतम् । राज्ञि शुद्धान्ते गतेऽहं त्वदंद्रिसेवार्थमायाता । तस्मान्मा मनो मयि शोधकश्मालितं कार्षीः । एतहासीवचः श्रुत्वा चौलुक्यनियोगी चिन्तयति-" लब्धं शत्रुगृहमर्म । यतिष्येऽतः कार्यकरणाय ।" इति परामृशन् दासीम. भाषत-" याहि मृषा भाषिणि ! । कः स्त्रीवचसि विश्वासः। श्रूयते यन्न शास्त्रेषु यल्लोकेऽपि न दृश्यते । तत्कल्पयन्ति लोलाक्ष्यो जल्पन्ति स्थापयन्ति च ॥१॥" इत्यादि भाषित्वा तां व्यसाक्षीत् । स्वयं तु चतुरांश्चतुरो यामलिकानुपचौलुक्यं प्रास्थापयत्। विज्ञप्त्या चाज्ञापयत्-" सावधानः स्थेयम् । इत्थं इत्थं स्वामिपादानामुपरि शत्रुकृतं कपटं वर्तते । भरटकश्चिन्तनीयः।” चौलुक्यः सावधानस्तस्थौ। सोमवारे गतों राजा कर्णमेरुम् । प्रकटीभूतः पूर्वोक्तचेष्टया भरटकः। दृष्टमात्रमेव तं नृपो मल्लैरदीधरत् । कर्तिका च लब्धा । बद्धो व्याघ्रराजः । जल्पितश्च-" रे वराक ! जंगडकेन प्रेषितोऽसि?। सेवकस्त्वम् । सेवकस्य च हिताहितबिचारो नास्ति । स्वाम्यादेशवशंवदस्त्वं माभैः । मुक्तोऽसि । तमेव हनिप्यामि य एवं द्रोहमारचयति दुर्दुरूढः।” इत्युक्त्वा परिधाप्य व्यसृजत् । स्वयं तु सौधे गत्वा सामग्री For Private And Personal Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir यौद्धी व्यररचत्। पाणिरक्षां विधिवद्विधाय चलितः। सपादलक्षान्यविष्ट । भट्टेन आनाकनरेन्द्रमालीलपत् । यथा अये! भेक च्छेको भव भवतु ते कूपकुहरं शरण्यं दुर्मत्तः किमु रटसि वाचाट कटुकम् । पुरः सर्पो दी विषमविषपूत्कारवदनो ललजिह्वो धावत्यहह भवतो जिग्रसिषया ॥१॥ आनकोऽपि तदुद्दामशौण्डीयरिपुदतवचः श्रुत्वा लक्षत्रयाश्वेन नरलक्षदशकेन पञ्चाशता च मदान्धैर्गन्धगजैरचलत् । शाकम्भरीतः पञ्चक्रोश्यार्वागागतः। दिनत्रयेण युद्धं भविष्यतीति निर्णीतमुभाभ्यां राजेन्द्राभ्याम् । अन्योऽन्यमक्षान्दीव्यन्ति राजपुत्राः। योधयन्ति मल्लयोध-च्छुरीकार-मेष-वृषभ-महिष-गजान् । स्फोटयन्ति नालि केराणि। तावन्तमवकाशं लब्ध्वा सपादलक्षमापालेन निशि द्रव्यबलेन नहुलीयकेल्हणादयो राजकीयाश्चौलुक्यभक्ता भेदिताः स्वपक्षे कृताः। सर्वेषामेको मन्त्रः-"युद्धाय संनद्धव्यमेव न तु योद्धव्यम् । राजा चोलुक्य एकाकी मोचनीयः। शत्रुभिहन्यताम् ।” अर्थो हि परावर्त्तयति त्रिभुवनम् 'दधाति लोभ एवैको रङ्गाचार्येषु धुर्यताम् । आरङ्कशक्रं यन्नाद्य पात्राणि भुवनत्रयी ॥१॥ एनं च तेषां मन्त्रं चौलुक्योऽद्यापि न वेत्ति। अतः प्रातः राजा कुमारपालः कलहपश्चाननं पट्टहस्तिनं महामात्रश्यामलपार्धात्प्रेरयामास । तदस्थांस्तु चेष्टितैर्दुष्टान्निरणैषीत् । नृपेण गदितः श्यामल:-"किमर्थममी For Private And Personal Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रबन्या ॥२७॥ उदासीना इव दृश्यन्ते।" श्यामलेन विज्ञप्तम्-"देव! अरिकृतार्थदानादमी त्वयि द्रोहपराः सम्पन्नाः।" राजाऽऽह-"तर्हि तव का चेष्टा ?" श्यामलोऽप्याललाप-"देव ! एको देवः१ अपरोऽहम् २ अन्यस्तु कलहपश्चाननो हस्ती ३ एते त्रयः कदापि न परावर्त्यन्ते।" नृपो वदति-"तर्हि संमुखीने दृश्यमाने शत्रुनृपमुद्गरघहे गजं प्रेरय। खेडिम खूटाटालि खूटा विण खींखइ नही । दैवहतणइ कपालि साहस जुत्ता हलवलइ ॥१॥ तदैव चारण एको न्यगादीत"कुमारपाल मन चिंत करि चिंतिइ किंपि न होइ । जिणि तुहु रज्ज सम्मप्पिउ चिंतकरे सइ सोइ ॥१॥" तत्तदीयं वचः श्रुत्वा सुशन्दं मन्यमानः पुरस्थे महाघद्देऽविशत् । नरसहस्रेण सह भञ्जन् मन् गतो गजारूढः कुमारपाल आनाकगजान्तिके । आस्फालितो गजो गजेन । लग्नः करः करेण । आस्फालितो दन्तौ दन्ताभ्याम् । एकदेहत्वमिव द्वयोरिभयोरभूत् । प्रवृत्तं युद्धं नाराचैः। द्वापपि बालेष्ठौ महोत्साही राजेभो । तथापि कलहपञ्चाननश्चीत्कारान्मुश्चन् पुनः पुनः पश्चान्निवर्त्तते । तदा चौलुक्येन श्यामल ऊचे"कथमयं निवर्तते ।।" श्यामलो गदति स्म -स्वामिन् ! श्रीजयसिंहदेवे विपन्ने ३० दिनानि पादुकाभ्यां राज्यं कृतम् । मालवीयराजपुत्रेण चाहडकुमारेण राज्यं प्रधानपावें याचितम् । प्रधानैस्तु परवंशत्वान्न दत्तम् । For Private And Personal Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ततो रुष्टवा चाहड आनाकसेवकः संजातः। स भगदत्तनृपवन्महामात्रधुर्यः, अतुलबलः। तस्य सिंहनादेन कलहपश्चाननः क्षुभ्यन् पश्चानिवर्तते। किमत्र क्रियते? न विद्मः। चौलुक्यस्तदाकर्ण्य द्विपटी विदार्य फालिकद्वयन द्वौ गजकणों पूरयामास । ततश्चाहडसिंहनादमशृण्वन् कलहपञ्चाननः स्थिरतरः गिरिवत् । वर्तते पत्रिंशदायुधैर्युद्धम् । चमत्कृले द्वेऽपि सैन्ये । उदासीनतया प्रथमस्थिताश्चौलुक्यीयाश्चकम्पिरे भयेन । अहो! | एकाङ्गमात्रस्वापि कुमारदेवस्थासमसमरसम्पल्लम्पटत्वम् । सैन्ययोयुद्धमपि निवृत्तम् । तावेव युध्यते । अत्रान्तरे चौलुक्यो विशुदुत्क्षिप्तकरणं दत्त्वा आनाकगजपतिस्कन्धमारूढः। क्षिप्तौ भुजौ राजोपरि। कसणकानि छुरिकया छित्त्वा आनकं सढं चक्रं च भूमौ पातयित्वा योक्तृवन्धं क्षिप्त्वा हृदि पादं दत्त्वा छुरी कराने ग्रहीत्वा अवादीत्-रे वाचाट ! मृढ ! निर्धर्मन् ! पिशाच ! स्मरसि मद्भगिन्यग्रे 'मारय मुण्डिकान्' इति वदिष्यासि। पूरयामि निजभगिनीप्रतिज्ञाम् । छिनभि ते दुर्वापदृषितां जिह्वाम्।” इत्येवं वदति कृतान्तदुष्प्रेक्षे चौलुक्ये सपादलक्षीयः किञ्चिन्नाचख्यौ । केवलं तरलतारकाभ्यां चक्षुामद्राक्षीत् । चौलुक्योऽप्युत्पन्नलोकोत्तरकरुणापरिणामः प्राभाणीत्-“रे जाल्म! मुक्तोऽसि न भगिनीपतित्वेन किन्तु कृपापात्रत्वेन । पूर्व तव देशे टोपीषन्धेऽग्रभागे जिहिकं आसाताम् । कसाया जिह्वति संज्ञा । अतः परं जिह्वावन्धः पश्चाकरणीयः। अक्टोर्जिह्वाकर्षणप्रतिज्ञासिद्धिसूचकत्वात्।" एवं श्रुते तथेति प्रतिपेदे आमकः।' बलवद्भिः सह For Private And Personal Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandi चतुर्विशति प्रबन्धः ॥२८॥ का विरोधिता" इति न्यायात् । काष्ठपञ्जरे क्षिप्तः त्रिरात्रं स्वसैन्ये स्थापितः। जयातोद्यानि घोषितानि । | पश्चात् शाकम्भरीपतिर्विहितः। उत्खातप्रतिरोपितव्रताचार्यों हि लिटुअणपालदेवनन्दनः। गम्भीरतया खभटा नोपालब्धाः । त्यक्तजीवाशास्ते तं सेवन्ते । मेडतं सप्तवारभनन् । पल्लीकोहस्थाने आर्द्रकमुप्तम् । चिरं तस्थौ स तत्र । श्रीहेमचन्द्रसूरयः सहैव सन्ति । पृष्टास्ते तेन-" भगवन् ! मालवीया राजानो गूर्जरानागताः प्रासादान्पातयन्ति आत्मख्यातये । तदस्माकमकृत्यम् । केनोपायेनात्मख्याति कूर्मः।” गुरुभिरुक्तम्-“राजेन्द्र ! पाषाणमयानि तिलपेषणयन्त्राणि भजय पुण्यकीर्तिलाभात्।” भञ्जितास्ते तेन घाणकाः। अद्यापि भग्नाः पतिताः स्थाने स्थाने दृश्यन्ते । ततो ववले परराष्ट्रमर्दनचौलुक्यः। आयातः पत्तनम् । भगिनीं भर्तृकुले प्रगन्तुमतत्वरत् । न तु सा गता अभिमानात् । तपस्तु तेपे। राजा स्तम्भपुरे यात्रांसूत्रयामास । तत्पुरं पार्श्वदेवाय ददौ । पुनः पत्तनमैत । गृहीतसपादलक्षाधिपतिलञ्चाद्रव्यान्कुसेवकान् निगृह्य निश्चिन्तीभूतः श्रीकुमारपालः श्रीहेममृरिपादान्पर्युपास्ते । सामायिकपौषधादीन्याचरति । एकदा पृष्टं राज्ञा-" भगवन् ! इदमपि ज्ञायत्ते यदहं पूर्वभवे कीदृशोऽभूवम् ।” गुरुराह-“राजन् ! निरतिशयः कालो| ऽयम् । यतः श्रीवीरमोक्षगमनाद्वर्षाणां चतुःषष्ट्या चरमकेवली जम्बूखामी सिद्धिं गतः । तेन समं मनः पर्यवज्ञानम् , परमावधिः, पुलाकलब्धिः , आहारकशरीरम् , क्षपकश्रेणिः, उपशमश्रेणिक, जिनकल्पः, परि ॥५८॥ For Private And Personal Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org हारविशुद्धि-सूक्ष्मसम्पराय यथाख्यातचारित्राणि, केवलज्ञानम्, सिद्धिगमनं च इति द्वादशस्थानानि भरत | क्षेत्रे व्युच्छिन्नानि । सप्तत्यधिके वर्षशते गते स्थूलभद्रे स्वर्गस्थे चरमाणि चत्वारि पूर्वाणि समचतुरस्रसंस्थानं वज्रऋषभनाराचसंहननं महाप्राणध्यानं व्युच्छिन्नम् । आर्यबज्रस्वामिनि दशमं पूर्व आद्यसंहननचतुष्कं च व्यपगतम् । ततः परं शनैः शनैः सर्वाणि पूर्वाणि प्रलयं गतानि । सम्प्रति अल्पश्रुतं वर्त्तते तथापि देवतादेशात्किमपि ज्ञायते । " राज्ञा विज्ञप्तम्- " यथा तथा पूर्वभचं ज्ञापयत माम् ।” गुरुभिः प्रतिपन्नम् । ततः सिद्धपुरे निजैराप्ततपोधनैः सह सरस्वतीतीरं गत्वा विजने ध्याने निषण्णाः । द्वौ मुनी दिग्रक्षायां मुक्तौ । दिनत्रयान्ते विद्यादेव्य आजग्मुः । प्रभूणामग्रे ताभिरुक्तम्- " यद्भवतां सत्त्वेन तुष्टाः स्मः । याच्यतां किञ्चित् । " सूरिभिरभाणि - " कुमारपालस्य प्राग्भवं वदत | ।" ता ऊचु:-" मेदपाटपरिसरे पर्वतश्रेण्यां परमारः पल्लीशो जयताको राज्यमकरोदन्यायी । एकदा धनकनकसमृद्धा बलीवई श्रेणी तेन गृहीता । बलीवर्दाधिपतिर्नष्टः । जयताकेन सर्व लुष्टितम् । बलीवद्दधिपतिस्तु मालवदेशं गत्वा राज्ञा सह मिलित्वा सेनां गृहीत्वा तस्यां पल्लयां वेष्टमकृत । कीटमारिः कृता । जयताको नष्टः । तस्य भार्या घटिता । तस्था | उदरं विदार्य पुत्रं गर्भमुपले आरफाल्य पल्ली ग्रामादि प्रज्वाल्य पुनर्मालवदेशं गतः । राज्ञा हृष्टेन पृष्टः' कथं कथं विग्रहः कृतः । " वाणिज्यारकेणोक्तम्- " स्वामिन् ! तत्पुरं प्रज्वालितस् जयताको नष्टः, 46 For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir 3 Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रवन्धः चतुर्विंशति तत्पत्नी चटिला सगर्माहता।" राज्ञोक्तम्-" त्या न सुष्टु कृतम् । हत्यादयं गृहीतम् । अद्रष्टव्यमुखस्त्वं ममान्तिकं त्यज | " निष्कासितः । लोकनिन्दोच्छलिता। तपोवनं गत्वा तपस्विदीक्षा जगृहे । गाढं तपस्तप्त्वा मृत्वा स वाणिज्यारको जयसिंहदेवो जातः। जयताकस्तु स्थानभ्रंशं दृष्ट्वा देशान्तरं गतः। अटवी गच्छतस्तस्य संडरगच्छस्वामिनः श्रीयशोभद्रसूरयो मिलिताः। सूरिभिरभिहितम्-"यद् भवतोऽधुना सर्व गतम् , किमर्थमन्यायं करोषि।" जयताकेनोक्तम्-"वुभुक्षितः किं न करोति पापम् । ततः सर्वमकृत्यं करोमि। "सूरिभिरतम्-"अधुना शम्बलादिकं भोजनादि कारयिष्यते। अनयं मा कृथाः।" भोजनवस्त्रादिकं कस्यापि पार्थादापितम् । साथै हि तदादेशकारिणो यहवः चौर्यनियमं यावजीवं ग्राहिताः। स| तिलङ्गेषु उरङ्गल पुरे ओढरवाणिज्यारकगृहे भोजनादिवृत्या भृत्योऽस्थात् । तत्र विहरन यशोभद्रसूरयः प्राप्ताः। चतुप्पथे मिलिता जयताकस्य । साय कैरुपाश्रयो दत्तः । जयताकेन तत्र गत्वा हृदयशुद्धया पुनश्चौर्यनियमो गृहीतः, अन्येऽपि बहवो नियमा झोताः। उत्सरे ओढरगृहं गतः। ओढरेण पृष्टम्-"तव क्व वेला लग्ना। स्वांविना कार्याणि सीदन्ति” तेनोक्तम्-"मम गुरवः समागताः सन्ति । तत्क्रमकमलवन्दनानन्दमन्वभूवम् । नियमानग्रहीषम् । ओढरेणापि समुत्पन्नश्रद्धेन व्याकृतम्-" वयमपि गुरुन् वन्दियामहे " जयताकेनोक्तम्"पुण्यात्पुण्यमिदम् ।” ओढरस्तत्र गतः । गुरुन् वन्दित्वा न्यषदत् । देशना श्रुता । तत्त्वज्ञानमुन्मीलितम् । ।५९ ॥ For Private And Personal Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रावकत्वं गृहीतम् । पश्चात् 'गुरु दक्षिणा गृह्यताम्' इति ओढरेणोक्त सूरिभिरुक्तम्-" वयं निर्ममा निष्परियहा धनादि न गृहीमः। अथ तवात्याग्रह एव तहि श्रीमहावीरप्रासादकारापणं दक्षिणाऽस्तु ।" कारित: प्रासादः । ओढरस्य जयताकेन सह सोदरत्वमिवासीत्। एकदा पर्युषणे ओढरः सपरिवारश्चालितो जयताकेन. | समं देवगृहं प्रति । पुष्पाणि गृहीत्वा ओढरेण देवस्य पूजा कृता, जयताको जजल्पे-" इमानि मे पुष्पाणि गृहीत्वा पूजां कुरु।" जयताको जगाद-"पुष्पाणि भवदीयानि एभिः पूजायां कृताय किं मे कलम् ? वेष्टिरेव केवला । केवलं ममापि पञ्च वराटकाः सन्ति । तत्पुष्पैः पूजयिष्यामि जिनेन्द्रम् ।" तथैव पूजितः। जयताको पुण्यमगण्यमुपाजयत् । तत ओढरजयताको गुरुन् वन्दितुं जग्मतुः । उपवासः कृतो जयताकेन। द्वितीयदिने मुनिभ्यो दत्त्वा पारणं कृतम् । एवं पुण्याख्यः सन् मृत्वा श्रीमूलराजवंशे तिहुअणपालदेवगृहे श्रीकुमारपालोऽभूत् । एवमुक्त्वा विरतासु देवीषु प्रभुभिः प्रोक्तम्-"कोऽत्र प्रत्ययः।" पुनर्देव्यः प्राहु:उपराजं वदेः नवलक्षतिलङ्गशृङ्गारनगरे उरङ्गले मानवान्प्रेषय । अद्यापि ओढरस्य वंशीयाः सन्ति । तेषां दासी स्थिरदेवी जीर्णवृत्तान्तान जानाति वक्ष्यति च ।" इत्युक्त्वा देव्यो गताः स्वस्वस्थानम् । पत्तने राजान्तिकं गता प्रभवः । पृष्टं तत्र राज्ञा । तथैव राज्ञोऽग्रे न्यगादि। नरप्रेषणात्सर्वं ज्ञातम् | जिनधर्मे स्थैर्य जातम् । |सह सिद्धेशेनापि वैरकारणमुपलब्धम् । पूर्वभवे गर्भघातान्न सिद्धराजस्य सन्तानम्। इति कुमारपालपूर्वभवः॥ ॥ इति हेमसूरिप्रबन्धः ।। For Private And Personal Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चनुर्विशति प्रबन्ध अथ हर्षकविप्रबन्धःपूर्वस्यां दिशि वाराणस्यां पुरि गोविन्दचन्द्रो नाम राजा ७५० अन्तःपुरीयौवनरसपरिमलग्राही।। तत्पुत्रो जयन्तचन्द्रः। तस्मै राज्यं दत्त्वा पिता योगं प्रपद्य परलोकमसाधयत् । जयन्तचन्द्रः सप्तयोजनशतमानां पृथ्वी जिगाय । मेघचन्द्रः कुमारस्तस्य । यः सिंहनादेन सिंहानपि भक्तुमलं किं पुनर्मदान्धगन्धेभघटाः । तस्य राज्ञश्चलतः सैन्यं गङ्गायमुने विना नाम्भसा तृप्यति । नदीद्वययष्टिग्रहणात्यङ्गालो राजेति लोके श्रूयते । यस्य गोमतीदासी षष्टिसहस्रेषु वाहेषु प्रक्षरां निवेश्याभिषेणयन्ती परचक्रं त्रासयति। राज्ञः श्रम एव कः । तस्य राज्ञो बहवो विद्वांसः । तत्रैको हीरनामा विप्रः। तस्य नन्दनः प्राज्ञचक्रवर्ती श्रीहर्षः। सोऽद्यापि बालावस्थः । सभायां राजकीयेनकेन पण्डितेन वादिना हीरो राजसमक्षं जित्वा मुद्रितवदनः कृतः । लज्जापङ्के मग्नः । वैरं बभार धारालम् । मृत्युकाले हर्ष स वभाषे-" वत्स ! अमुकेन पण्डितेनाहमाहत्य राजदृष्टी जितः। तन्मे दुःखम् । यदि सत्पुत्रोऽसि तदा तं जयेः क्षमापसदसि ।” श्रीहर्षेणाक्तम्- ओम्' इति हीरो द्यां गतः। श्रीहर्षस्तु कुटुम्बभारमाप्तदायादेष्वारोप्य विदेशं गत्वा विविधाचार्यपार्श्वेऽचिरात्तर्कालङ्कारगीतगणितज्योतिषचूडामणिमन्त्रव्याकरणादीः सर्वा विद्याः सस्फुराः प्रजग्राह । ॥६॥ For Private And Personal Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गङ्गातीरे सुगुरुदत्तं चिन्तामणिमन्त्रं वर्षमप्रमतः साधयामास । प्रत्यक्षा त्रिपुराऽभूत् । अमोघादेशत्वादिवराप्तिः । तदादि राजगोष्टीषु भ्रमति । अलौकिकोल्लेखशिखरितं जल्पं करोति । यं कोऽपि न बुध्यते ततोतिविद्ययाऽपि लोकागोचरभूतया खिन्नः पुनर्भारतीं प्रत्यक्षीकृत्याभणत्-" मातर् ! अतिप्रज्ञाऽपि दोषाय | मे जाता । बुध्यमानवचनं मां कुरु । ” ततो देव्योक्तम् - " तर्हि मध्यरात्रेऽम्भः क्लिन्ने शिरसि दधि पिब । पश्चात्स्वपिहि । कफांशावताराज्जडतालेशमाप्नुहि । " तथैव कृतम् । बोध्यवागासीत् । खण्डनादिग्रन्थान् परःशताञ्जग्रन्थ । कृतकृत्यीभूय कासीमायासीत् । नगरतटे स्थितः । जयन्तचन्द्रमजिज्ञपत्-" अहमधीत्यागतोऽस्मि । " राजाऽपि गुणस्नेहलो हीरजेतृपण्डितेन सह सचातुर्वर्ण्यः पुरीपरिसरमसरत । श्रीहर्षो नमस्कृतः । तेनापि यथार्हमुचितं लोकाय कृतं राजानं त्वेवं तुष्टाव गोविन्दनन्दनतया च वपुः श्रिया च माऽस्मिन्नृपे कुरुत कामधियं तरुण्यः । अस्त्रीकरोति जगतां विजये स्मरः स्त्रीरस्त्रीजनः पुनरनेन विधीयते स्त्री ॥ १ ॥ व्याचख्यौ च तारखरं सरसविस्तरम् । तुष्टा सभा राजा च । पितृवैरिणं तु वादिनं दृष्ट्वा सकटाक्षमाचष्टेसाहित्ये सुकुमारवस्तुनि दृढन्यायग्रहग्रन्थिले तर्फे वा मयि संविधातरि समं लीलायते भारती । शय्या वास्तु मृदूत्तरच्छदवती दर्भाङ्कुरैरास्तृता भूमिर्वा हृदयंगमो यदि पतिस्तुल्या रतिर्योषिताम् ॥ १॥ For Private And Personal Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्धः ॥६१॥ एतच्छुत्वा स वादी प्राह-- देव ! वादीन्द्रभारतीसिद्धः, तव समो कोऽपि न किं पुनरधिकः। हिंस्राः सन्ति सहस्रशो विपिने शौण्डीर्यवीर्योद्धतास्तस्यैकस्य पुनः स्तवीमहि महः सिंहस्य विश्वोत्तरम् । कलिः कोलकुलैर्मदो मदकलैः कोलाहलं नाहलैः संहर्षो महिषैश्च यस्य मुमुचे साहंकृतेर्तुङ्कतेः॥१॥ अत्र श्रीहर्षे इदमेव वक्तुमर्हम् । प्रतिवादीनां कोऽर्थः । सम्यगवसरमज्ञासीः। श्रीहीरवैरिन्नित्यर्थः। अन्योऽन्यं गाढालिङ्गनमचीकरत् द्वयोरपि वसुंधरासुधांशुः। विस्तरेण सौधमानीय माङ्गलिकानि कारयित्वा गृहं प्रति प्रहितः । लक्षसंख्यानि हेमानि ददिरे । निश्चिन्तीकृत्यैकदा मुदा नृपेणोक्त:-"कवीश! वादीन्द्र ! किश्चित्प्रवन्धरत्नं कुरु ।” ततो नैषधं महाकाव्यं बद्धं दिव्यरसं महागूढव्यङ्ग्यभारसारम् राज्ञे दर्शितम् । | राज्ञोचे-"सुष्टुतममिदम् । परं काश्मीरं व्रज । तत्रत्यपण्डितेभ्यो दर्शय । भारतीहस्ते च मुश्च । भारती च तत्र पीठे स्वयं साक्षादसति । असत्यं प्रबन्धं हस्ते न्यस्तमवकरनिकरमिव दूरे क्षिपति । सत्यं तु मूर्द्धधूननपूर्व सुष्टु इत्युरीकरोति । उपरितः पुष्पाणि पतन्ति ।" श्रीहर्षी राजदत्तार्थनिष्पन्नविपुलसामग्रीकः कश्मीरानगमत् । सरखतीहस्ते पुस्तकं न्यास्थत् । सरस्वत्या दूरे क्षिप्तं तत् । श्रीहर्षेण कथितम्-" किं जरतीति ६१॥ For Private And Personal Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie विकलासि ?। यन्मदुक्तमपि प्रबन्धमितरप्रबन्धमिव मन्यसे।" भारत्याह-"भोः! परमर्मभाषकः न स्मरसि ? यदत्रोक्तं त्वया एकादशे सर्गे चतुःषष्टितमे काव्ये देवी पवित्रितचतुर्भुजवामभागा बागालपत्पुनरिमां गरिमाभिरामाम् । अस्थारिनिष्कृपकृपाणसनाथपाणेः पाणिग्रहादनुगृहाण गणं गुणानाम् ॥१॥ एवं मां विष्णुपत्नीत्वेन प्रकाश्य लोके रूढं कन्यात्वं लुप्तवानसि । ततो मया पुस्तकं क्षिप्तम् । याचको वञ्चको व्याधिः पञ्चत्वं मर्मभाषकः । योगिनामप्यमी पञ्च प्रायेणोडेगहेतवः॥१॥" इति वाग्देवीवाचं श्रुत्वा श्रीहर्षों बदति-"किमर्थमेकस्मिन्नवतारे नारायणं पति च पुषी, त्वं पुराणेष्यपि विष्णुपत्नीति पठ्यसे । ततः सत्यं किमिति कुप्यासि? । कुपितैः किं छुट्यते कलात् ? ।” इति श्रुत्वा खयं गृहीत्वा पुस्तकं हस्ते धारितम् । ग्रन्थश्च श्लाघितः सभासमक्षम् । श्रीहर्षेण पण्डिता उक्तास्तत्रत्याः-"ग्रन्थमत्रत्याय राज्ञे माधवदेवनाम्ने दर्शयत । श्रीजयन्तचन्द्राय च शुद्धोऽयं ग्रन्थ इति लेखं प्रदत्त ।” इति श्रुतेऽपि ग्रन्थे भारत्यभिमते ज्ञातेऽपि ते न लेखं ददते, न भूपं दर्शयन्ति । स्थितः श्रीहर्षी बहून्मासान् । जग्धं पाथेयम् । विक्रीतं वृषभादि । मितीभूतः परिच्छदः। एकदा नद्यासन्नदेशे कूपतटासन्नतमे देवकुले रुद्रजपं रहः करोति । तत्रागते कयोश्चिद्गृहिणोरुल्लण्ठे चेट्यौ । जलप्रथमपश्चाद्ग्रहणघटभरणविषये वादे लग्ने । तयो For Private And Personal Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ।। ६२ ।। ॐॐ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्चिरमुक्तिप्रत्युक्तिरभूत् । शीर्षाणि स्फुटितानि घातप्रतिघातैः । गते राजकुलम् । राजा साक्षिणं गवेषयति । उक्ते ते - " अत्र कलहे कोऽपि साक्षी विद्यते नवा ।" ताभ्यां जगदे - "विप्र एकस्तत्रास्ते जपतत्परः ।" गता राजकीयाः । आनीतः श्रीहर्षः पृष्टस्तयोर्नयानयौ । श्रीहर्षण गीर्वाणवाण्योक्तम्- "देव ! वैदेशिकोऽहम् । न | वेद्मि । किमप्येते प्राकृतवादिन्यौ ब्रूतः । केवलं तान्शब्दान्वीि ।" राज्ञोक्तम्- "ब्रूहि ।" तत्क्रमस्थमेव तद्| भाषितप्रतिभाषितशतमभिहितमनेन । राजा चमुत्कृतः । अहो ! प्रज्ञा अहो ! अवधारणा । दास्योर्वादं निff यथासंभव निग्रहानुग्रहौ कृत्वा प्रहित्य श्रीहर्वमपृच्छद् राजा- "कस्त्वमेवं मेधिरशिरोमणिः ? । " श्रीहणोक्तं सर्वं कथानकं स्वम् । राजन् ! पण्डितकृतदौर्जन्यात्तव पुरे दुःखी तिष्ठामि । सम्यकूपारं पर्यज्ञो राजा' पण्डितानाहृयावादीत् - " धिग् मूढाः ! इदृशेऽपि रत्ने न स्निह्यथ । वरं प्रज्वलिते बहावहाय निहितं वपुः । न पुनर्गुणसम्पन्ने कृतः स्वल्पोऽपि मत्सरः ॥ १ ॥ वरं सा निर्गुणाऽवस्था यस्यां कोऽपि न मत्सरी । गुणयोगे तु वैमुख्यं प्रायः सुमनसामपि ॥ २ ॥ तस्मात्खला यूथम् । गच्छत एतं महात्मानं प्रत्येकं खगृहेषु सत्कुरुत ।" तदा श्रीहर्षः प्रागदीत्यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तः करणहरणं केव कुरुते । मदुक्तिश्चेतश्चेन्मदयति सुधीभूय सुधियः किमस्या नाम स्यादरसपुरुषाराधनरसैः ॥ १ ॥ For Private And Personal प्रबन्धः ११ ॥ ६२ ॥ Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir इति लजिरे पण्डिताः । सर्वे गृहं नीत्वा सत्कृत्यानुनीय राज्ञा च सत्कार्यज्ञैः प्रहितः श्रीहर्षः कासीम् ।। मिलितो जयन्तचन्द्राय। उक्तं सर्वम् । तुष्टः सः। प्रमृतं नैषधं लोके । अत्रान्तरे जयन्तचन्द्रस्य पद्माकरनामा प्रधाननरः श्रीअणहिलपत्तनं गतः। तत्र सरस्तटे रजकक्षालितायां शाटिकायां केतक्यामिव मधुकरकुलं निलीयमानं दृष्ट्वा विस्मितः । अप्राक्षद्रजकम्-“यस्या युवतेरियं शाटी तां मे दर्शय ।” तस्य हि मन्त्रिणस्तत्पद्मिनीत्वे निर्णयस्थं मनः । रजकेन सायं गत्वा तस्मै तद्गृहं नीत्वा तामर्पयित्वा तत्वामिनी सूहवदेवी नाम्नी शालापतिपत्नी विधवा यौवनस्था सुरूपा दर्शिता | तां कुमारपालराजपार्थादुपरोध्य तद्गृहान्नीत्वा सोमनाथयात्रां कृत्वा कासीं गतः। पद्मिनी जयन्तचन्द्रभोगिनीमकरोत् । 'सहवदेविः' इति ख्यातिमगात्। सा च सगर्वा विदुषीति कृत्वा कलाभारतीति पाठयति लोके । श्रीहर्षोऽपि नरभारतीति पाठते । तस्य तन्न सहते सा मत्सरिणी । एकदा ससत्कारमाकारितः श्रीहर्षः । भणितश्च-"त्वं कः?" श्रीहर्ष:-"कलासर्व-||A ज्ञोऽहम् ।" राज्याऽभाणि-"तर्हि मामुपानही परिधापय ।" को भावः यद्ययं न वेद्मि, इति भणति द्विजत्वात्तर्हि अज्ञः। श्रीहर्षेणाङ्गीकृतम् । गतो निलयम् । तरुवल्कलैस्तथा तथा परिकर्मितैः सायं लोलाक्षः सन् दूरस्थः स्वामिनीमाजूहवत्। चर्मकारविधिनोपानही पर्यदीधपत् । अभ्युक्षणं निक्षिपेध्वं चर्मकारोऽहमिति वदन्। रामपि तत्कृतां कुचेष्टां ज्ञापयित्वा खिन्नो गङ्गातीरे संन्यासमग्रहीत् । सा च सूहवदेविः साम्राज्येशा For Private And Personal Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विंशति ॥६३॥ पुत्रमजनयत् । सोऽपि यौवनमाससाद । धीरः परं दुर्नयमयः । तस्य च राज्ञो विद्याधरमन्त्री । स च चिन्ता| मणिविनायकप्रसादात्सर्वधातुहैमत्वकरणप्रख्यातमाहात्म्यस्पर्शपाषाणलाभात् ८८०० विप्राणां भोजनं दाता, इति लघुयुधिष्ठिरतया ख्यातः। कुशाग्रीयप्रज्ञः। राजा तं जगदे-"राज्यं कस्मै कुमाराय ददामि।" मन्त्र्याह-" मेघचन्द्राय सुवंशाय देहि, न पुनर्धतापुत्राय ।” राजा तु तया कामणितस्तत्पुत्रायैव दित्सति। एवं विरोध उत्पन्नो मन्त्रिराज्ञोः । कथं कथश्चिन्मन्त्रिणा राज्ञीवाचमप्रमाणीकार्य भूपो मेघचन्द्रकुमाराय राज्यदानमङ्गीकारितः । राज्ञी क्रुद्धा । धनाढ्यतया स्वच्छन्दतया निजप्रधाननरान्प्रेष्य तक्षसिलाधिपतिः सुरत्राणः कासीभञ्जनाय प्रयाणे प्रयाणे सपादलक्षहेमदानेन चालित आयाति । तत्तु विद्याधरेण चरदृशा विदितम् । राज्ञे कथितम् । राजा तत्कार्मणदिङ्मूढः प्राह-"ममेयं वल्लभेश्वरी नैवं पतिद्रोहम् समाचरति।" मन्त्री तु वदति-"राजन् ! अमुकप्रयाणे तिष्ठति शाखीन्द्रः।"राज्ञा हक्कितो गतो गृहम् । चिन्तितं च तेन-" नृपस्तावन्मूढः । राज्ञी बलवती, लब्धप्रसरा, अविवेकिनी । मम मरणं स्वामिमरणादर्वाग् भवेत्तदा धन्यता।” प्रातश्चलितो मन्त्री स्वसदनात् । पथि गच्छन्तं पिण्याकं दृष्ट्वा तमजिग्रसिषत्। पुनः पुरो गतः स्फुटितचनकपिटकमालोक्य तददने मनोऽदधत् । तेन कुचेष्टाद्वयेनात्मनो विधिवैपरीत्यं निर्णीयोपराजं गत्वा व्यज्ञपत्-“देव ! अहं गङ्गाजले मंक्त्वा म्रिये, यद्यादिशसि।" राजाऽऽख्यत्-" यदि नियसे तदा सूखेन For Private And Personal Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir जीवामः । कर्णज्वरो निवर्त्तते ।" मन्त्री दनः हूं हितवचनानाकर्णनम् , अनये वृत्तिः, प्रियेष्वपि द्वेषः, निजगुरुजनेऽप्यवज्ञा, मृत्योः किल पूर्वरूपाणि । आगतं राज्ञो मरणम् । राजानमापृच्छ्य गृहं गत्वा सर्व द्विजादिलोकाय प्रदाय भवविरक्तो जाह्नवीजलमध्यं प्रविश्य कुलपुरोहितमाह-" दानं गृहाण ।" विप्रेणापि करः प्रसारितः। दत्तः स्पर्शपाषाणः। तेनोक्तम्-" धिक् ते दानम् , यद्धावाणं दत्से।” इति क्रुद्धनान्तरुदकं चिक्षेपे । सोऽश्मा गङ्गादेव्या जले । मन्त्री जले मंक्त्वा मृतः। राजा अनाथो जातः। सुरत्राण आयातः। नगरे भाण्डं भाण्डेन स्फुटितम् । राजा युद्धायाभिमुखमागात् । ८४०० एतावन्ति निखानानि निजदले परं एकस्यापि निखानखनं राजा न शृणोति । आपृच्छच्च तटस्थान् । तैर्षभणे-"म्लेच्छधनुर्वानेषु मग्नानि ध्वानान्तराणि ।” राजा हृदये हारयामास । ततो न ज्ञायते किं हतो गतो मृतो वा गङ्गाजलेऽपतत् । यवनाता पूः॥ ॥ इति श्रीहर्ष-विद्याधर-जयचन्द्रप्रवन्धः॥ For Private And Personal Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shui Kailashsagarsuri Gyanmandit चतुर्विंशति प्रबन्ध ॥ ४॥ ॥ अथ हरिहरप्रबन्धः श्रीहर्षवंशे हरिहरः गौडदेश्यः सिद्धसारस्वतः । स गूजरधरां प्रत्यचालीत् । अश्वशतद्वयं मानवानां शतपञ्चकं करभाः पश्चाशत् । अनिवारमादानं धवलक्कतटग्राममागात् । राणश्रीवीरधवल-श्रीवस्तुपालश्रीसोमेश्वरदेवेभ्यः पृथक पृथक् आशिर्वाद प्रगल्भवटुहस्तेन प्राहैषीत् । श्रीवस्तुपालो जहर्ष । उत्थाय बटुं सह नीत्वा श्रीवीरधवलाय पण्डितस्याशीर्वादमदीदृशत् । तद्गुणांश्चावर्णयत् । राणकेनोक्तम्-" किमत्र युक्तम् ?।” मन्त्र्याह-" देव ! विस्तरेण प्रातः पण्डितस्य प्रवेशमहोत्सवः क्रियते । विपुलं देयं दीयते।" राणकेनोक्तम्-" न्याय्यम् ।" ततो निवृत्ती मन्त्रिराजश्च बटुश्च । बटुना तृतीयाशिर्वादः पण्डितसोमेश्वरदेवायादर्शि। कवितया तस्य मात्सर्यमदीपिष्ट । स निश्वासमधोऽद्राक्षीत् । बटुमालापीदपि न । आगत उत्थाय बटुर्हरिहरान्तिकम्। उक्तं राणकमन्त्रिणोः सौमनस्यं सोमेश्वरस्य तु दौर्मनस्यम् । कुपितः सोमेश्वरदेवे हरिहरः। जातं प्रातः । राणकः समन्त्रिक: सचातुर्वर्ण्यः सर्वर्या संमुखो गतः। मिलितो हरिहरः। तत्र वीरधवलं प्रति ॥६४। For Private And Personal Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शम्भुर्मानससन्निधौ सुरधुनी मूर्ना दधानः स्थितः श्रीकान्तश्चरणस्थितामपि पहनेता निलीनोऽम्बुधौ। मग्नः पङ्कहे कमण्डलुगतामेनां धन्नाभिभूर्मन्ये वीर ! तव प्रतापदहनं ज्ञात्वोल्बणं भाविनम् ॥१॥ दृष्टस्तेन शरान्किरन्नभिमुखः क्षत्रक्षये भार्गवो दृष्टस्तेन निशाचरेश्वरबधव्यग्रो रघुग्रामणोः। दृष्टस्तेन जयद्रथप्रमथनोन्निद्रसुभद्रापतिः दृष्टो येन रणाङ्गणे सरभसश्चौलुक्यचूडामणिः ॥२॥ बटुः पृष्टः पण्डितेन-" अत्र सदसि सोमेश्वरोऽस्ति न वा।" बटुराह-"स क्रोधानागतः।" पण्डितो। ज्ञात्वाऽस्थात् । जातः प्रवेशः। राणकेन दत्तं सौध-धन-कुप्य-वसन-परिजन-तुरगादि चमुत्कारकम् । अथ मन्त्रिगृहं गतोऽसी । गुर्वी सभा। मध्यभ्युत्थानं चक्रे । उचे च मुधा मधु मुभा सीधु मुधा सोऽपि सुधारसः । आस्वादितं मनोहारि यदि हारिहरं वचः ॥१॥ पण्डितस्तूचे-“देव ! लघुभोजराज ! विचारचतुर्मुख ! सरस्वतीकण्ठाभरण ! अवधारय । वयं पण्डिताः। अस्माकं माता भारती । सा च त्रिभुवनचारिणी। एकदा भारत्या सह महेन्द्रस्य सभामममाम । सा च सुधर्मा नाम । इन्द्रः श्रीमान् । ३ कोट्यः सुराङ्गनाः । ८४ सहस्राणि सामानिकाः तथा द्वादशार्का वासवोऽष्टौ विश्वे देवा त्रयोदश । पत्रिंशत् तुषिताश्चैव षष्टिराभास्वरा अपि ॥१॥ For Private And Personal Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रवन्धः चतुर्विशति षट् त्रिंशदधिका माहा राजिकाश्च शते उभे । रुद्र एकादशैकोनपश्चाशद्वायवोऽपि च ॥ २॥ चतुर्दश तु वैकुण्ठाः सुशर्माणः पुनर्देश । साध्याश्च द्वादशेत्याद्याः प्रसिद्धा गणदेवताः ॥३॥ एतत्समृद्धिस्वरूपं विलोक्य वयं विस्मिताः स्थिताः 'अहो ! तपःफलभोगः' इत्यादि चिन्तयन्तो| | यावता स्मः । अत्रान्तरे आगतस्तत्र कोपि वुम्बां पातयन्नाह देव वर्नाथ कष्टं ननु क इह भवानन्दनोद्यानपाल: खेदस्तत्कोऽथ केनाप्यहह हत इतः काननात्कल्पवृक्षः। हुं मा वादीस्तदेतत्किमपि करुणया मानवानां मयैव प्रीत्यादिष्टोऽयमुास्तिलकयति तलं वस्तुपालच्छलेन ॥१॥ एवं तत्रालापं श्रुत्वा विस्मितोऽहं भारत्या सह पञ्चमकल्पद्रुमं त्वां द्रष्टुमागाम् । एवं विस्तरं काव्यं व्याख्याय स्थितः पण्डितः । मन्त्री यावत्किं ददामि इति चिन्तयति तावद् डोडीयावंश्यराणभीमदेवेन जाल्या वाहनोत्तीर्णाश्चतुर्विंशतिरश्वा एकं च दिव्यं पदकं प्राभृतमानीतम् । तदेव पण्डिताय सर्व दत्तम् । तुष्टोऽसौ पञ्चमकल्पतरुर्भवसि इत्युक्त्वा स्वोत्तारकमगात् । गतेषु कतिपयेष्वहःसु मिलितायां सभायां For Private And Personal Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पुरःस्थे सोमेश्वरे राणकेन पण्डितहरिहर उक्तः-" पण्डित ! अत्र पुरेऽस्माभिर्वीरनारायणाख्यः प्रासादः कारितोऽस्ति । तत्पशस्तिकाव्यान्यष्टोत्तरं शतं सोमेश्वरदेवपार्धात्कारितम् । तत्र भवन्तोऽवदधतु । यथा शुद्धत्वे निश्चयो भवति । महालक्ष्मीदृष्टौ नाणकपरीक्षा यतः।" हरिहरेणोक्तम्-"कथाप्यतां तानि ।" उक्तानि सोमेश्वरेण तानि । श्रुत्वा तानि हरिहर ऊचे-"देव ! सुष्टु काव्यानि परिचितानि च नः । यतो मालवीयेषूज्जयनी गौरस्माभिः सरस्वतीकण्ठाभरणप्रासादगर्भगृहे पट्टिकायां श्रीभोजदेववर्णनाकाव्यान्यमून्यदृक्षत । यदि तु प्रत्ययो नास्ति तदा परिपाट्यां श्रूयताम् ।” इत्युक्त्वा क्रमेणास्खलितान्यपाठीत् । खिन्नो राणकः । प्रीताः खलाः । व्यथिताः श्रीवस्तुपालादयः सजनाः। उत्थिता सभा। हत इव मृत इव स्तम्भित इव जडित इव जातः सोमेश्वरः। गतः स्वगृहम् । ट्ठिया वदनं न दर्शयति गृहेऽपि, का कथा राजादिसदनगमनस्य । अथ सोमेश्वरः श्रीवस्तुपालमन्दिरं गत्वोवाच-"मन्त्रिन् ! ममैव तानि काव्यानि । नान्यथा मम शक्तिं जानासि त्वम् । हरिहरस्त्वेवं मां व्यजूगुपत् । किमहं करोमि।" मन्त्र्याह-"तमेव शरणं श्रय । यत:-'भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलैः' इति न्यायात् ।” पण्डितः-"तर्हि मां नय।" तथाकृतं मन्त्रिणा । पण्डितसोमेश्वरं बहिरासयित्वा मन्त्री स्वयं हरिहरान्तिकमगात् । बभाण च-“पण्डितसोमेश्वरदेवस्तवान्तिकमागतोऽस्ति विज्ञीप्सुः।" हसितो हरिहरः। आनीनयत्स्वसमीपम् । चकाराभ्युत्था For Private And Personal Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रबन्धः | नालिङ्गनमहासनादिसत्कारम् । सोमेश्वरेणोक्तम्-" पण्डित ! निस्तारय मामस्मात्परकाव्यहरणकलङ्क-17 पङ्कात् । यतः आगतस्य निजगेहमप्यरेगौरवं विदधते महाधियः।। - मीनमात्मसदनं समेयुषो गीष्पतिळधित तुङ्गतां कवेः॥१॥" तुष्टो हरिहरो भणति स्म-मा स्म चिन्तां विधाः । पुनगौरवमारोपयिताऽस्मि त्वाम् । गतः स्वस्थानं मन्त्री | सोमेश्वरश्च । प्रत्यूषे राणकसभाभरे सोमेश्वर आलायितः। प्रस्तावना चारब्धा । यथा-"जयति परमेश्वरी | भारती। यत्प्रसादादेवं मम शक्तिः ।" श्रीवस्तुपालेनोक्तम्-"किं किम् ?।” हरिहर:-"देव! मया काबेरीनदीतटे सारस्वतमन्त्रः साधितः। होमकाले गीर्देवी प्रत्यक्षाऽऽसीत्। वरं वृणीष्वेत्याह स्म । भया जगदे-जगदेकमातर् ! यदि तुष्टासि तदा एकदा भणितानां १०८ संख्यानां ऋचां षट्पदानां काव्यानां वस्तुकानां घत्तानां दण्डकानां वावधारणे समर्थो भूयासम् ।” देव्याचष्ट-" तथाऽस्तु ।” ततः प्रभृति यो यदाह १०८ तत्तु ब्रुवे । यथेदं सोमेश्वरदेवोपज्ञं काव्याष्टोत्तरशतम् । राणकेनोक्तम्-“प्रत्ययः कार्यताम्।" भाणितान्यष्टोत्तरशतानि । तत्तच्छन्दसां प्रतिभाणितानि च हरिहरेण तानि । जातो निश्चयः पण्डितहरिहरवचने। क्षुत्तृष्णातपप्रभृतिचिन्तानपेक्षः स्थितो लोकः। राणकेश्वरेण बभणे-" तर्हि पण्डित ! कथमेवं दृषितः For Private And Personal Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सोमेश्वरः।" हरिहरः प्राभाषत्-देव ! राणः- प्रियं वा विप्रियं वापि सविशेष परार्पितात् । प्रत्यर्थयन्ति ये नैव तेभ्यः साप्युर्वरा वरा ॥१॥ राणः प्राह-"तर्यस्त्वेवम् । परं मिथः सरखतीपुत्रयोः लेहो युक्तः।" इत्युक्त्वा कण्ठग्रहणमकारयत्।। स्थितो निष्कलङ्कः सोमेश्वरः। वर्तते नित्यमिष्टगोष्टी। हरिहरो नैषधकाव्यान्यवसरोचितानि पठति। श्रीवस्तु-| | पालः प्रीयते-" अहो! अश्रुतपूर्वाणि काव्यान्यमूनि।" एकदाऽऽलापितः पण्डितहरिहर:-"कोऽयं मन्यः।" पण्डितो वदति-" नैषधं महाकाव्यम् ।" कः कविः ? । श्रीहर्षः । वस्तुपालेन गदितम्-" तदादर्श दर्शय तहि ।” पण्डितो ब्रूते-" नान्यत्रायं ग्रन्थः । चतुरो यामानर्पयिष्यामि पुस्तिकाम् ।” अर्पिता पुस्तिका । रात्रौ सद्यो लेखकनियोगिभिर्लेखिता नवीना पुस्तिका । जीर्णरज्यावृता । वासन्यासेन धूसरीकृत्य मुक्ता । प्रातः पण्डिताय पुस्तिका दत्ता । गृह्यतां तदिदं स्वनैषधम् । गृहिता पण्डितेन पुस्तिका। मन्त्रिणा न्यगादि-| " अस्माकमपि कोशे किलास्तीवेदं शास्त्रमिति स्मरामः। विलोक्यतां कोशः।” यावद्विलम्बेनैवं कृष्टा नवीना प्रतिः । यावच्छोध्यते तावत् 'निपीय यस्य क्षितिरक्षिणः कथा' इत्यादि नैषधमुदघटिष्ट । दृष्ट्वा पण्डितहरिहरेणोक्तम्-“मन्त्रि ! तवैव मायेयम् । यदीदृशेषु कार्येषु नान्यस्य क्रमते मतिः। युक्तम्-त्वया दण्डिताः प्रतिपक्षाः । स्थापितानि जैन-वैष्णव-शैवशासनानि । उदश्चितः स्वामिवंश्यः । यस्यैवं प्रज्ञा प्रका For Private And Personal Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir प्रबन्धः चतुर्विंशति ॥६७॥ श्यते।" अत्रान्तरे वीरधवलाहितसैन्यकम्पितेन महाराष्ट्रप्रभुणा सपादकोटिहेमशमितो दण्डः प्रहितः।। श्रीवस्तुपालेन तु तद्धेम चतुर्दिग्यात्रिकेभ्यो याचकेभ्योऽदायि विवेकात् । लद् दृष्ट्वा हरिहरो वर्णयति आ! साम्यं न सहेहमस्य किमपि क्रोडीकृतैकश्रियो याब्जोतानकरेण खर्षितनिजाकारोष्मणा शारिण। येनैता पुरुषोत्तमाधिकगुणोद्गारेण पुद्वार्णवादाकृष्यैव तथा श्रियः शकलशः कृत्वार्थिनामर्पिता। तदा वीरधवलस्य 'सपादकोटीकाश्चनवर्षः' इति भट्टादिषु विरुदं ख्यातिमायालय । अपहा : सोमेश्वरं नन्तुं गतो देवपतनम् । पण्डितसोमेश्वरदेवस्य तत्र तद्दौर्जन्यं स्तुत्वा पिलिक्व यातु क्वायातु क्व बदतु समं केन पठतु क्व काव्यान्यव्याज रथचतुरू. ! खलव्यालग्रस्ते जगति न गतिः क्वापि कृतिनामिति ज्ञात्वा तस्वं हरहारेगूढा १.५ !" आरुक्षाम नृपप्रसादकणिकामद्राम लक्ष्मीलवान् किश्चिद्वाङ्मयमध्यगीष्महि गुले । इत्थं मोहमयीमकार्म कियती नानर्थकन्थी मनः स्वाधीनीकृतशुद्धबोधमधुना पाएकोमा इत्युक्त्वा धनाई दत्त्वा शेषाई गृहीत्वा धवलककमध्ये भूत्या राणकमन्त्रिणी आपृच्छय काशीं प्राप्य, स्वार्थमसाधयदिति ॥ 4इति हरिहरप्रबन्धः समाप्तः॥ ६७॥ For Private And Personal Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir ॥ अथ अमरप्रबन्धः -- श्रीअणहिल्लपत्तनासन्नं बायटं नाम महास्थानमास्ते, चतुरशीतिमहास्थानानामन्यतमत् । तत्र परकायप्रवेशविद्यासम्पन्नश्रीजीवदेवसूरिसन्ताने श्रीजिनदत्तसूरयो जगर्जुः। तेषां शिष्योऽमरो नाम प्रज्ञाचूडामणिः । स श्रीजिनदत्तसूरिभक्तात् कबिराजअरिसिंहात् सिद्धसारस्वतं मन्त्रमग्रहीत् । तद्गच्छमहाभक्तस्य विवेकनिधेः कोष्टागारिकस्य पद्मस्य विशालतमसदनैकदेशे विजने एकविंशत्याचाम्लर्निद्राजयासरजयकषा| यजयादिदत्तावधानस्तं मन्त्रमजपत् । विस्तरेण होमं चक्रे । एकविंशतितम्या रात्री मध्यप्राप्तायां नभस्युभ्यु| दिताच्चन्द्रबिम्बान्निर्गत्य स्वरूपेणागत्यामरे भारती करकमण्डलुजलममलमपीप्यत् । वरं च प्राक्षीत्-"सिद्धकविर्भव । निःशेषनरपतिपूजागौरवताश्चैधि ।" इति वरं दत्त्वा गता भगवती । जातः कविपरिरमरः। रचिता काव्यकल्पलता नाम कविशिक्षा, छन्दोरत्नावली, सूक्तावली च । कलाकलापाख्यं च शास्त्रं निबद्धं, बालहाभारतं च बालभारते प्रभातवर्णने "दधिमथनविलोलल्लोलदृग्वेणिदम्भादद्यमदयमनको विश्वविश्वकता। भवपरिभवकोपत्यक्तबाणः कृपाणः श्रममिव दिवसादी व्यक्तशक्तिपनक्ति ॥१॥ For Private And Personal Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रवन्धः चतुर्विंशति ॥ ६८॥ इत्यत्र वेण्याः कृपाणत्वेन वर्णनाद्वेणीकृपाणोऽमर इति बिरुदं कविवृन्दाल्लब्धममरेण । दीपिकाकालिदासवत् । घण्टामाघवञ्च कवित्वप्रसिद्धेश्च महाराष्ट्रादिराजेन्द्राणां पूजा उपस्थिरे । तदा विसलदेवो राजा गूजराधिपतिर्धवलकके राज्यं शास्ति, तेनामरकवर्गुणग्रामः श्रुतः। ठक्कुरं वइजलं प्रधानं प्रेष्य प्रातराहूतः कवीन्द्रः । आसनादिप्रतिपत्तिः । कृता सभा महती। अमरेण पठितम् वीक्ष्यैतद्भुजविक्रमक्रमचमुत्कारं नकारं मयि प्रेम्णो नूनमियं करिष्यति गुणग्रामैकगृधाशया। श्रीमद्वीसलदेव ! देवरमणीवृन्दे त्वदायोधने प्रेक्ष्य प्रक्षुभिते विमुञ्चति परीरम्भान्न रम्भां हरिः॥१॥ त्वत्प्रारब्धप्रचण्डप्रधननिधनतारातिवीरातिरेकक्रीडत्कीलालकुल्यावलिभिरलभत स्पन्दमाकन्दमुर्वी। दंभोलिस्तंभभास्वभुजगभुजजगद्भर्तुराभर्तुरेनां तेनायं मूर्ध्नि रत्नातिततिमिषतः शोभते शोणभावः ॥२॥ ___ रश्रिता सभा प्रीणितः पृथ्वीपालः। ततो राज्ञा प्रोक्तम्-"यूयं कवीन्द्राः श्रूयध्वे ।" अमरोऽभिधत्ते"सत्यमेव । यदि गवेषयति देवः।" ततो नृपेण सोमेश्वरदेवे दृष्टिः सञ्चारिता। ततः सोमेश्वरेण समस्यार्पिता। यथा 'शीर्षाणां सैव वन्ध्या मम नवतिरभूल्लोचनानामशीतिः' अमरेण सद्यः पूरिता कैषा भूषा शिरोऽक्ष्णां तव भुजगपते रेखयामास भूत्या गते मन्मूर्ध्नि शम्भुः सदशनवशतान(९१०)क्षपातान् विजित्य । ॥१८॥ For Private And Personal Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौरी त्वाञ दृष्टीर्जितनखनवभू(१९२०)स्तद्विशेषात्तदित्थं शीर्षाणां सैव वन्ध्या मम नवतिरभूल्लोचनानामशितिः॥१॥ अत्र शिरोऽक्षणामिति शिरसा युक्तानामक्षणामिति मध्यपदलोपी समासः कार्यः । द्वन्द्वे तु प्राण्यङ्गत्वादेकत्वं प्रामोति । ततो वामनस्थलीयकविसोमादित्येन समस्या दत्ता 'धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः'. अमरेणोक्तम् भवस्याभूभाले हिमकरकलाग्रे गिरिसुता ललाटस्याश्लेषे हरिणमदपुण्ड्रप्रतिकृतिः। कपईस्तत्प्रान्ते यदमरसरित्तत्र तदहो धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः॥२॥ ततः कृष्णनगरवास्तव्येन कमलादित्येन समस्या वितीर्णा _ 'मशकगलरन्ध्र हस्तियूथं प्रविष्टम्' अमरेण पुपूरे तटविपिनविहारोच्छृङ्खलं यत्र यादोमशकगलरन्ध्र हस्तियूथं प्रविष्टम् । बत बक न कदाचित्किं श्रुतोऽप्येष वार्द्धि: प्रतनुतिमिनितल्ले कापि गच्छ क्षणेन ॥ ३॥ For Private And Personal Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रबन्ध ॥१९॥ अथ वीसलनगरीयेण नानाकेन समस्या विश्राणिता 'गीतं न गायतितरां युवतिर्निशासु' अमरेणोक्तम् श्रुत्वा ध्वनेमधुरतां सहसावतीर्णे भूमौ मृगे विगतलाञ्छन एष चन्द्रः। मागान्मदीयवदनस्य तुलामितीव गीतं न गायतितरां युवतिर्निशासु ॥४॥ एवमष्टोत्तरं शतं बहुकविदत्ताः पूरिताः समस्याः श्रीअमरेण । ततो राज्ञाभिहितम्--"सत्यं कवि| सार्वभूमः श्रीअमरः। तत्र दिने सन्ध्यावधि सभा निषण्णा स्थिता । राजा लचितः सभ्यलोकोऽपि । रसावेशे हि कालो ज्ञैर्गच्छन्नपि न लक्ष्यते। द्वितीयदिने सद्यः काव्यमयैः प्रमाणोपन्यासैः प्रामाणिका जाता। तृतीयदिने राज्ञा पृष्टम्-" अस्माकं सम्प्रति का चिन्तास्तीति कथ्यताम् ।” अमरेण भणितम्-" देव ! कथं दूरं गताः स्वर्गे ऐरावणस्य दक्षणकर्णे लुकिताः।" भूपतिः स्वसंवादेऽमोदत, शिरोऽधुनोत् । नित्यं गमनागमने जिनधर्मासन्नः कृतो राजा चैत्येषु पूजाः कारयति। एकदा नृपेण पृष्ट-"अवतां कः कलागुरुः?" अमरेण गदितम्-" अरिसिंहः कविराज इति ।" तर्हि प्रातरत्रानेयः। अमरचन्द्रणानीतः प्रातः कविराज For Private And Personal Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपराजम् । तदा राजा खड्गेन श्रमयन्नास्ते । राज्ञा पृष्टम्-" अयं कविराजः ।” कविराजेन व्याजहे-| “ ओमिति । " राजाह-" तर्हि वद कालोचितं किश्चित् ।” अरिसिंहः कवयति स्वत्कृपाणविनिर्माणशेषद्रव्यण वेधसा । कृतः कृतान्तः सर्पस्तु करोद्वर्तनवर्तिभिः॥१॥ अत्याभ्यधिकार्पणं किमपि यः पाणेः कृपाणे गुणः सञ्चकाम स यद्ददौ ग्रुपदवी प्रत्यर्थिषु क्ष्मार्थिषु । त्वत्सङ्गान्न स बद्धमुष्टिरभवद्येनारिपृथ्वीभुजां पृष्ठेषु स्वमपि प्रकाममुदितप्राहामरोमोद्गमः॥२॥ कलयसि किमिह कृपाणं वीसल बलवंति शत्रुषु तृणानि। यानि मुखगानि तेषां न चैष लवयितुमसमर्थः॥३॥ देव ! त्वं मलयाचलोसि भवतः श्रीखण्डशाखीभुजस्तम्भः क्रीडति कजलाकृतिरसिर्द्धाराद्विजिह्वः फगी पए त्वां गमनर्गलं रिपुतरुस्कन्धेषु संवेष्टयेत् दीर्घ व्योमविसारिनिर्मलयशो निम्मोकमुन्मुञ्चति ॥ ४॥ अद्भुतकवितादर्शनात्कविराजो राजेन्द्रेण नित्यसेवकः कृतः। ग्रासो महान् प्रत्यष्टापि । एकदा श्रीवीसलदेवेन भोजनान्ते तृणकरे धृत्वारिसिंहोऽभिदधे-“ इदं तृणं सद्यो वर्णय । यदि रुचितभङ्गया बर्णयसि, तदा ग्रासद्वैगुण्यं अन्यथा सर्वग्रासत्याजनम् ।" इत्युक्तिसमकालमेवाहतप्रतिमतया स ऊचेक्षारोऽब्धिः शिखिनो मखा विषमयं श्वभ्रंक्षयीं दुर्मुधा प्राहुस्तत्र सुधामियं तु दनुजत्रस्तैव लीना तृणे। पीयूषप्रसवो गवां यदशनादत्त्वा यदास्ये निजे देव ! त्वत्करवालकालमुखतो निर्याति जातिर्दिषाम् ॥ १॥ For Private And Personal Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति | प्रबन्धः ७०॥ चमत्कृतो भूपाल: 1 ग्रासद्वैगुण्यं कृतम् । कालान्तरेऽमरेण कोष्ठागारिकपद्मसिरापद्मानन्दाऽऽख्य शास्त्रं रपितम् । एवं कविताकल्लोलसाम्राज्यं प्रतिदिनं ॥ ॥ इति अमरचन्द्रकविप्रबन्धः।। (१४) अथ मदनकीर्तिप्रबन्धःउजयिन्यां विशालकीर्तिदिगम्बरः। तच्छिष्यो मदनकीर्तिः। स पूर्वपश्चिमोत्तरासु तिसृषु दिक्ष वादिनः सर्वान् घिजित्ल 'महाप्रामाणिकचूडामणिः' इति विरुदमुपायं स्वगुर्वलतामुज्जयिनीमागात् । गुरूनवन्दिष्ट । पूर्वमपि जनपरम्पराश्रुततत्कीर्तिः स मदनकीर्तिः भूयिष्टमश्लाघिष्ट । सोऽपि प्रामोदिष्ट । | दिनकतिपयानन्तरं च गुरूं न्यगादीत्-" भगवन् ! दाक्षिण्यात्यान् वादिनो विजेतुमीहे । तत्र गच्छामि। अनुज्ञा दीयताम् ।” गुरुणोक्तम्-"वत्स ! दक्षिणां मागाः । स हि भोगनिधिर्देशः । को नाम तत्र गतो दर्शन्यपि न तपसो भ्रश्येत् ।” तद्गुरुवचनं विलय विद्यामदाध्मातो जालकुद्दालनिश्रेण्यादिभिः प्रभूतैश्च | शिष्यैः परिकरितो महाराष्ट्रादिवादिनो सृद्नन् कर्णाटदेशमाप । तत्र बिजयपुरे कुन्तिभोज नाम राजानं स्वयं विद्याविदं विद्वात्मियं सदसि निषण्णं स द्वास्थनिवेदितो ददर्श तमुपश्लोकयामास ७.2 For Private And Personal Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir देव ! त्वभुजदण्डदर्पगरिमोद्गारप्रतापानलज्वालापवित्रमकीर्तिपारदघटीविस्फोटिनो विन्दवः। शेषाहिः कति तारकाः कति कति क्षीराम्बुधिः कत्यपि पालेयाचलशङ्खशुक्तिकरका कपूरकुन्देन्दवः ॥१॥ कीर्तिः कैकनकुन्तिभोजभवतः स्वर्वाहिनी गाहिनी दिक्पालान् परितः परीत्य दधती भास्वनमयं गोलक। लङ्घित्वाम्बुधिसप्तमण्डलभुवस्त्वय्येकपत्नीव्रत्तख्यात्यै विष्णुपदं स्पृशत्यविरतं शेषाहिशीवायो॥२॥ | चमत्कृतो राजा । स्थापितो दिगम्बरः सौधासनदेशे । राज्ञादिष्टम् “अन्य मेकं कुरु अस्मत्पूर्वजवर्णनप्रतिबद्धम् ।" लेनोक्तम्-"देव ! अहं श्लोकपञ्चशती एकस्सिन दिने कर्तुं क्षमः, तावत्तु लेखिनुन क्षमोऽस्मि । कश्चिल्लेखकः समर्प्यताम् ।” राज्ञोक्तम्-“अस्मत्पुत्री मदनमञ्जरी नाम लिविष्यति जवनिकान्तरिता सती। दिगम्बरेण ग्रन्धं कर्तुमारेभे । राजपुत्री पश्चशती लिखति । एवं फत्ययहानि ययुः । एकदा राजसुता तस्य खरं कोकिलरवजित्वरं शृण्वती सती चिन्तयति-" अस्य रूपमपि सुन्दरं भविष्यति । जवनिकान्तरिलया कथं दृश्यते ?। करोमि तावदुपायम् । रसवत्यां लवणवाहुल्यं कारयामि ।" सोऽपि विग्यत्रः राजपुत्री ताहग्विदुषी सुखरां दिदृक्षते । लवणातिशये दिक्पट ऊचे-"अहो लवणिमा ।" राजपुत्र्यभिदधे-"अहो निष्ठुरता।" एवमालापप्रत्यालापे दूरे कृता उभाभ्यां मर्यादामयी वस्त्रमयी च जवनिका। परसरं दिव्यरूपदर्शनम् ।। तावता दिग्वस्त्रेणोक्तम् For Private And Personal Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्ध चतुर्विशति “निरर्थकं जन्मगतं नलिन्याः यया न दृष्टं तुहिमांशु बिश्यम् । राजसुतयापि भणितम् उत्पत्तिरिन्दोरपि निष्फलेव, दृष्टा प्रवुद्धा नलिनी न येन ॥१॥ सतश्चक्षुप्रीतिमुद्भवन्लीवाऽपराणि कुसुमचाषचापलानीनि वचनान्निरर्गले मदने भग्नं कौमारव्रतं तयोः। वर्तते विकथा । अल्पो निष्पद्यते ग्रन्थः । सायं राजा विलोकयति शास्त्रान् । को हेतुरद्य स्तोकं निपन्नम् ? । दिगम्बरस्तेषु त्रिचतुराणि विषमाणि पद्यानि निक्षिपते । ततो राजाग्रे भाति-"देव! ममेयं प्रतिज्ञा अहमबुध्यमानस्य लेखितुः पार्थान्न लेखयामि । तव तु पुत्र्या इदं स्थानं कृच्छेण बुद्धम् । इति कालबिलम्पाद् ग्रन्थाल्पत्वं जायते ।" राजेन्द्रो विमृशति-"शठोत्तरमेवेदं दृश्यते । एकदा हरयामि किमिमौ समाचरतः।" निशायां विभातायां एकदा राजा छन्नरूप एकाको तयोग्रन्थनिष्पत्तिप्रदेशकुड्यान्तरेऽस्थात् । तदैव दिक्पटो राजपुत्री प्रति प्रणयकलहानुनयगर्भमाहसुभु! त्वं कुपितेत्यपास्तमशनं त्यक्त्वा कथा योषितां दूरादेव निराकृताः सुरभयः स्वगन्धधूपादयः। रागं रागिणि मुश्च मय्यवनते दृष्टे प्रसीदाधुना सत्यं त्वद्विरहे भवन्ति दयिते सर्वा ममान्धा दिशः॥॥ For Private And Personal Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailashsagarsuri Gyanmandie एतत्काव्यश्रवणाद' द्वयोदशील्यं निीय मन्दपदं निर्ययो । स्थानं गतो वसुधाधिपतिः । क्रुद्धेन तेन तकालमाइतो दिक्पट आगतः। भाषितो यया-"पण्डित! किमिदं नवीनं पद्यम् ?। 'सुभ! त्वं कुपितेत्यपा स्तमशनम्' इत्यादि।" दिग्वसनेन विमृष्टम्-“राज्ञा हरितोऽहम् । अपराधी लब्धः । तथाप्युत्तरं ददामि यथातथा।" इति चिन्तयित्वाऽवधिपतिमभ्यधात्-"देव ! दिनद्वयात्प्रभृतिहम्मे पीडाा वर्तते । तदुपश्लोका यामुनयपरं पद्यमिदमपाब्धिम् ।। इति प्रस्तावनां कृत्वा निक्षोभस्तयैवं भङ्गया सद्यो व्याचचक्षे । तया प्रज्ञया सुष्टोऽन्तः क्षितिपः।। अकृत्यकरणदर्शनात्तु रुष्टः । स भ्रूभङ्ग भृत्यामूचे-" यध्नीत रे अमुं कुकर्मकारिणं घातयत च ।" बद्धस्तैः। तदाकर्ण्य राजपुत्री द्वात्रिंशता सखीभिः शत्रिकापाणिभिः समं आगात् । राजदृष्टिमत्य स्वयमकथयत्" यद्यमे मनोरुच्यं मुश्चसे तदा चारू । अथ न मुनसे नया चतुस्त्रिंशद्धत्या भवितारः । एका दिगम्बरहत्या त्रयत्रिंशयुवतिहत्या इति ।” ततो राजा मन्त्रिभिर्विज्ञप्त:-" देव ! त्वयैवेयमस्यासन्नीकृता । यूनां स्त्री सन्निधानं च मन्मथद्रुमदोहदः । कस्य दोषो दीयते । चित्रस्था अपि चेतांसि हरन्ति हरिणीदृशः । किं पुनस्ताः सारस्मेरविभ्रमनमितेक्षणाः॥१॥ KHANAL For Private And Personal Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्ध ॥७२॥ मुच्यतां प्रसद्य दिग्वस्त्रः । इयं वास्यैव भवतु।" इति श्रुत्वा ते मुक्त्वा तां तस्यैव पत्नीमकरोत् । स सेच राज्यांशभाजनं कृतः । दिग्जयधनानि च श्वशुरसाचकार । व्रतं त्यक्त्वा भोगी जातः । तादृशं वृत्ता |न्तं विशालकीर्तिगुरुरुजयिन्यामश्रोषीत् । अध्यासीच्च । “अहो । यौवनधनकुसङ्गनां महिमा । येनायमेवंवि| धोऽपि व्रती विद्वान् वादी योगज्ञो भूत्वा एवंविधं उग्रदुर्गतिपतनमूलं कुपथं प्रपन्नः। हा! हा! धिग् परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तजंडयति च तापं च तनुते ॥१॥ एवं विमृश्य चतुरांश्चतुरः शिष्यांस्तद्वोधनाय प्राहैषीत् । तैस्तत्र गत्वोक्तोऽसौ"विरमत बुधा योषित्सङ्गात्सुखात् क्षणभङ्गुरात् कुरुत करुणाप्रज्ञामैत्रीवधूजनसङ्गम न खलु नरके हाराकान्तं घनस्तनमण्डलं भवति शरणं श्रोणीबिम्बं रणन्मणिदाम वा ॥१॥ इत्यादि गुरुभिवोंध्यमानोऽसि । बुध्यस्व । मामुहः।” सोऽथ निरपतया तेषां हस्ते गुरुभ्यः पद्यानि पत्रे लिखित्वा प्रजिघाय । गतास्ते तत्र । वाचितानि पद्यानि गुरुणा तको प्रतिष्टः श्रुतयोबिभिन्नाः नासौ गुरुर्यस्य वचः प्रमाणम् । धर्मस्य तत्वं निहितं गुहायां महाजनो येन गत स पन्थाः ॥१॥ - || ७२॥ For Private And Personal Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥२॥ सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती मा मा मुश्च शठेति कोपवचनैरानतितभूलता। सीत्काराश्चितलोचना सरभसं यैश्चुम्बिता मानिनी प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरैः सागरः॥१॥ इत्यादि दृष्ट्वा तस्थौ तूष्णीं गुरुः । मदनकीर्तिस्तु व्यलासीद्विविधम् ॥ ॥ इति मदनकीर्तिप्रबन्धः॥ - अथ सातवाहनप्रबन्धःइह भारते वर्षे दक्षिणखण्डे महाराष्ट्रदेशावतंसं श्रीमत्प्रतिष्ठानं नाम पत्तनं विद्यते। तब निजभूत्याभिभूतपुरन्दरपुरमपि कालान्तरेण क्षुल्लकग्रामप्रायमजनिष्ट। तत्र चैकदा द्वौ वैदेशिकद्विजो समामत्य विधवया खस्रा साकं कस्यचित् कुम्भकारस्य शालायां तस्थिवांसी। कणवृत्तिं विधाय कणान् स्वसुरुषनीय तस्कृताहारयाकन समया कुरुतः स्म। अन्येशु सा तयोर्विप्रयोः स्वसा जलाहरणाय गोदावरी गता। तस्याः स्वरूपमप्रतिरूपं निरूप्य मरपरवशोऽन्तहृदवासी शेषो नाम नागराजो हदानिर्गत्य विहितमनुष्यवपुस्तया सह पला-|| For Private And Personal Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुविशति ॥७३॥ दपि सम्भोगकेलिमकलयत् । भवितव्यताविलसितेन तस्याः सप्तधातुरहितस्यापि तस्य दिव्यशक्त्या शुक्रपुद्गलसञ्चारादूगर्भाधानमभवत् । स्वनामधेयं प्रकाश्य व्यसनसङ्कटे मां स्मरेरित्यभिधाय च नागराजः पाताललोकमग्रमत् । सा च गृहं प्रत्यगच्छत् । व्रीडापीडिततया च स्वभ्रात्रोस्तं वृत्तान्तं न खलु न्यवेदयत् । कालकमेण सहोदराभ्यां गर्भलिङ्गानि वीक्ष्य सा जातगर्भा इत्यलक्ष्यत । ज्यायसस्तु मनसि शङ्का जाता-'यदि खलु कनीयसोपभुक्ता' इति, शङ्कनीयान्तराभवात् । यवीयसोऽपि समजनि विकल्प:- नूनमेषा ज्यायसा सह. विनष्टशीला' इति । एवं मिथः कलुषिताशयौ विहाय तामेकाकीनी पृथक् पृथग् देशान्तरमयासिष्टाम् ।। सापि प्रवर्द्धमानगर्भा परमन्दिरेषु कर्माणि निर्मिमाणा प्राणवृत्तिमकरोत्। क्रमेण पूर्णेऽनेहसि सर्वलक्षणरधिताङ्गं प्रास्त सुतम् । स च क्रमाद्वपुषा गुणैश्च वर्द्धमानः सवयोभिः सह रममाणो बालक्रीडया स्वयं भूपतीभूय तेभ्यो वाहनानि करितुरगरथादीनि कृत्रिमाणि दत्तवान् । इति सनोतेदानार्थत्वाल्लोकः 'सातवाहनः' इति व्यपदेशं लम्भितः । खजनन्या पाल्यमानः सुखमवस्थितः। इतश्चोजपिन्यां श्रीविक्रमादित्यस्यावन्तिनरेशितुः सदसि कश्चिनैमित्तिकः सातवाहनं प्रतिष्ठानपुरे भाविनं नरेन्द्रमादिशत् । अथैतस्यामैव पुर्यामेकः स्थविरविप्रः स्वायुरवसानं ज्ञात्वा चतुरः स्वतनयानाहूय | प्रोक्तवान् यथा "वत्सा! मयि मृते मदीयशग्योच्छीर्षकदक्षिणपादादारभ्य चतुर्णामपि पादानामधोवर्तमानं ॥७३॥ For Private And Personal Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir निधिकलशचतुष्टयं युष्माभिर्यथाज्यष्टं विभज्य ग्राह्यम् । येन भवतां निर्वाहः सम्पनिपद्यते।” पुत्रैस्तु तथेत्यादेशः स्वीचक्रे पितुः। तस्मिन्नुपरते तस्योर्ध्वदेहिकं कृत्वा त्रयोदशेऽहनि भुवं खनित्वा यथायथं चतुरोऽपि निधिकलशास्ते जग्रहिरे। यावदुद्घाट्य विलोकयन्ति तावत्प्रथमस्य कुम्भे कनकम् , द्वैतेयीकस्य कृष्णमृत्स्ना, तृतीयस्य वुशम् , तुरीयस्य त्वस्थीनि ददृशिरे। तदनु ज्यायसा साकमितरे त्रयो विवदन्ते स्म-" तदस्मभ्यमपि विभज्य कनकं वितरेति ।" तस्मिश्चावितरति सति तेऽवन्तिपले मधिकारिणमुपस्थिषत । तत्रापि न तेषां वादनिर्णयः समयादि । ततश्चत्वारोऽपि महाराष्ट्रजनपदमुपानसिषुः ।। सातवाहनकुमारस्तु कुलालमृदा हस्तिरथमुभटानन्वहं नवनवान्विदधानः कुलाल शालायां बालक्रीडादुर्ललितकलितस्थितिरनयत् समयम् । ते च द्विजतनुजाः प्रतिष्ठानपत्तनमुपेत्य परतो भ्रमन्तस्तस्यामेव चक्रजीविनः शालायां तस्थिवांसः । सातवाहनस्तु तानवेक्ष्येगिताकारकुशल: प्रोवाच-“भो विप्राः! किं भवन्तो वीक्षापन्ना इव वीक्ष्यन्ते ?।" तैस्तु जगदे-" जगदेकसुभग ! कथमिव वयं चिन्ताचान्तचेतसस्त्वया ज्ञाता।” कुमारेण बभणे-"इशितैः किमिव नावगम्यते ।" तैरुक्तम्-"युक्तमेतत् । परं भवतः पुरो निवेदितेन चिन्ताहेतुना किं स्यात् ? । बालः खलु भवान् ।' बाल आलपत्-"यदि परं जातु मत्तोऽपि साध्यं घः सिध्यति, तनिवेद्यतां स चिन्ताहेतुः.?" ततस्ते तद्वचनवैचित्र्यहृतहृदयाः सकलमपि स्वस्वरूपं निधिनिगम For Private And Personal Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति | ॥७४॥ नादि मालवेशपरिषद्यपि विवादानिर्णयान्तं तस्मै निवेदितवन्तः । कुमारस्तु स्मितविच्छुरिताधरोऽवादीद्"भो! विप्राः! अहं यौष्माकं ज्ञगटकं निर्णयामि श्रूयतामवहितः । यस्मै वप्ता कनककलशं प्रददे, स तेनैव निवृत्तोऽस्तु । यस्य कलशे कृष्णमृत्स्ना निरगात् स क्षेत्रकेदारादीन गृह्णातु। यस्य तु वुशं स कोष्टागारगतधान्यानि सर्वाण्यपि स्वीकुरुताम् । यस्य चास्थीनि निरगुः सोऽश्वमहिवादासीदासादिकमुपादत्ताम् । इति युष्मजनकस्थाशयः।" इति क्षीरकण्ठोक्तं श्रुत्वा सूत्रकण्ठाः छिन्नवादा: तद्वचनं प्रतिश्रुत्य तमनुज्ञाप्य प्रत्याययुः स्वां नगरीम् । प्रथिता सा तद्विवादनिर्णयकथा पुर्याम् । राज्ञाप्पाकार्य ते पर्यनुयुक्ताः-" किंनु भो ! भवतां वादनिर्णयो जातः ।" तैरुक्तम्-“ओम् स्वामिन् ।" "केन निर्णीतः ?" इति नृपेणोदिते ते सातवाहनस्वरूपं सर्वमवितथमकथयत् । तदाकर्ण्य तस्य शिशोरपि बुद्धिवैभवं विभाव्य प्रागुक्तं दैवज्ञेन तस्य प्रतिष्ठाने राज्यं च भविष्यतीत्यनुस्मृत्य तं स्वप्रतिपन्थिनमाकलय्य क्षुभितमनास्तन्मारणोपायमचिन्तयत् चिरं नरेश्वरः । अभिघातकरादिप्रयोगैारिते चास्मिन्नयशाक्षात्रवृत्तिक्षती जायेतामिति विचार्य सन्नद्धचतुरङ्गचमूसमूहोऽवन्तिपतिः प्रस्थाय प्रतिष्ठानपत्तनं यथेष्टमवेष्टयत् । तदवलोक्य ते | ग्राम्यास्त्रस्ताश्चिन्तयन्ति स्म-" कस्योपरि अयमेतावानाटोपः सकोपस्य मालवेशस्य । न तावदत्र राजा राजन्यो वा वीरस्तादृग्दुर्गादि वा।" इति चिन्तयत्सु तेषु मालवेशप्रहितो दूतः समेत्य सातवाहनम ॥ ७४॥ For Private And Personal Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir %% | वोचत्-" भोः कुमारक ! तुभ्यं नृपः क्रुद्धः। प्रातस्त्वां मारयिष्यति। अतो युद्धाधुपायचिन्तनावहितेन भवता भाव्यमिति ।" स च श्रुत्वाऽपि दूतोक्तीनिर्भयं निरन्तरं क्रीडन्नैवास्ते । अत्रान्तरे विदितपरमार्थों तौ तन्मातुलावितरेतरं प्रति विगतदुर्विकल्पो पुनः प्रतिष्ठानमागतो। परचक्रं दृष्ट्वा तां स्वभगिनीं प्रोचतु:-“हे स्वसर्येन दिवौकसा तवायं तनयो दत्तस्तमेव स्मर। यथा स एवास्य साहायकं विधत्ते।" सापि तद्वचसा प्राचीनं नागपतेर्वचः स्मृत्वा शिरसि निवेशितघटा गोदावर्या नागदं गत्वा स्नात्वा च तमेव नागनायकमाराधयत्।तत्क्षणान्नागराजःप्रत्यक्षीभूय वाचमुवाच-"ब्राह्मणी को हेतुरहमनुस्मृतस्त्वया।" तया च प्रणम्य यथावस्थितमभिहिते बभाषे शेषराज:-"मयि पत्यौ कस्तव तनयमभिभवितुं क्षमः?" इत्युदीर्य घटमादाय हदान्ते निमज्ज्य पीयूषकुण्डात्सुधया घटं अपूर्य च तस्यै दत्तः । त्वं चानेनामृतेन सातवाहनकृतमृन्मयाश्वरथगजपदातिजातमभिषिश्चः । यथा तत्सजीवं भूत्वा परबलं भनक्ति । त्वत्पुत्रं च प्रतिष्ठानपत्तनराज्ये अयमेव पीयूषघटोऽभिषेकयिष्यति । प्रस्तावे पुनः स्मरणीयोऽहमित्युक्त्वा स्वास्पदमगमभुजङ्गपुङ्गवः। सापि सुवाघटमादाय स्वसझोपेत्य तेन तन्मृन्मयं सैन्यमदैन्यमभ्युक्षामास । प्रातर्दिव्यानुभावतः सचेतनीभूय तत्सैन्यसंमुखं गत्वा युयुधे परानीकिन्या सार्द्धम् । तया सातवाहनपृतनया भग्नमवन्तीशितुबलम् । विक्रमनरपतिरपि पलाय्य ययाववन्तीम् । तदनु सातवाहनो राज्येऽभिषिक्तः। प्रतिष्टानं च निज For Private And Personal Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति निजविभूतिपरिभूतवस्त्वौकसाराभिधानं धवलगृह-देवगृह-हहपति-राजपथ-प्राकार-परिवादिभिः सुनिविष्ट प्रबन्धः मजनिष्ट पत्तनम् । सातवाहनोऽपि क्रमेण दक्षणापथमनृणं विधाय तापीतीरपर्यन्तं चोतरापथं साधयित्वा | स्वकीयसंवत्सरं प्रावीवृतत् । जैनश्च समजनि । अचीकरच्च जनितजननयनशैत्यानि चैत्यानि । पञ्चाशद्वारा अपि । प्रत्येक स्वस्वनामाङ्कितानि अन्तर्नगरं कारयांबभूवुर्जिनभवनानि । परसमयलोकप्रसिद्धं सातवाहनचरित्रं शेषमपि किश्चिदुच्यते-" श्रीसातवाहने क्षितिरक्षति सति पश्चाशद्वीराः प्रतिष्ठाननगरान्तस्तदावसन्ति स्म पश्चाशनगराहहिः । इतश्च तत्रैव पुरे एकस्य द्विजस्थ सूनुर्दप्पोबुरः शूद्रकाख्यः समजनि । सके च युद्धश्रमं दर्पात् कुर्वाणः पित्रा स्वकुलानुचितमिदमिति प्रतिषिद्धोऽपि नास्थात् । अन्येयुः सातवाहननृपतिर्वापलादलादिपुरान्तर्वर्तिवीरपश्चाशदन्वितो द्विपञ्चाशद्धस्तप्रमाणां शिलां श्रमार्थमुत्पाटयन् दृष्टः पित्रा समं गच्छता द्वादशाब्ददेशीयेन शुद्रकेण । केनापि बीरेणाङ्गलीचतुष्टयं केनचित्षडङ्गलान्यपरेणत्व|ङ्गलान्यष्टौ शिलाभूमित उत्पाटिता महीपतिना त्वाजानु नीता । इत्यवलोक्य शूद्रकः स्फूर्जदूर्जितमवादीत्"भोः ! भोः भवत्सु मध्ये किं शिलामिमा मस्तकं यावन्न कश्चिदुद्धत्तुं समर्थः । तेऽपि सेय॑मवादिषुयथा-" त्वमेवोत्पाटय यदि समर्थमन्योऽसि ।" शुद्रकस्तदाकर्ण्य तां शिलां वियति तथोच्छालयांचकार । यथा दूरमुर्ध्वमगमत् । पुनरवादिशकेण-" यो भवत्सु अलंभूष्णुः स खलु इमां निपतन्तीं स्तनातु ।" For Private And Personal Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सातवाहनादिवीरैर्भयाद् भ्रान्तलोचनैरूचे स एव सानुनयम्-" यथा भो ! महादल ! रक्ष २। अस्माकीनान् प्राणान् इति।" स पुनस्तां पतयालु तथा मुष्टिप्रहारेण प्रहतवान् , यथा ता त्रिखण्टमन्वभूत् । तत्रैकं शकलं योजनत्रयोपरि न्यपतत् । द्वैतीयिकं च खण्डं नागहदे । तृतीयं तु प्रतोलीद्वारे चतुष्पथमध्ये निपतितमद्यापि तथैव वीक्ष्यमाणमास्ते जनः । तहलविलसितचमत्कृतचेताः क्षोणिनेता शूद्रकं सुतरां सत्कृत्य पुरारक्षकमकरोत् । शस्त्रान्तराणि प्रतिषिध्य दण्डधारस्तस्य दण्डमेवायुधमन्वज्ञासीत् । शूद्रको बहिश्वरान् वीरान् पुरमध्ये प्रवेष्टुमपि न दत्तवान् , अनर्थनिवारणार्थ । अन्यदा खसोधस्योपरिसले शयानः सातवाहनक्षितिपतिमध्यरात्रे शरीरचिन्तार्थपुत्थितः। पुरावाहिःपरिसरे करुणं रुदितमा ऊर्य तत्पवृत्तिमुपलब्धुं कृपाणपाणिः परदुःखदुःखितहृदयतया गृहान्निरगात् । अन्तराले शूद्रकेणावलोक्य सप्रश्रयं प्रणतः पृष्टश्च महानिशायां निर्गनाकारणम् । धरणीरतिरबदल-"यदयं पहिःपुरपरिसरे करुणक्रन्दितध्वनिः श्रवणाध्वनि पथिकभावमनुभवन्नस्ति । तत्कारणावृति ज्ञाणु बजास्मि ।" इति सोक्ते शूद्रको व्यजिज्ञपत्-“देव ! प्रतीक्ष्यपादैः स्वसौधालारणाय पादोऽवधार्यताम् । अनपि प्रवृत्तिमानेष्यामि ।" इत्यभिधाय वसुधानायकं व्यावर्त्य स्वयं रुदिनध्वन्यनुसारेण पुरावहिर्गन्तुं प्रवृत्तः। पुरस्ताद व्रजन् दसकी गोदावर्याः स्रोतप्ति कश्चन रुदन्तमौषीत् । ततः परिकरबन्धं विधाय शद्रकस्तीत्वा यावत्सरितो मध्यं प्रयाति । तावत्पयःपूरप्लाव्यमानं For Private And Personal Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन चतुर्विशति ॥७३॥ नरमेकं रुदन्तं वीक्ष्य यभाषे-“भो ! कस्त्वम् ?। किमर्थं च रोदिषि।" इत्यभिहितः स नितरामरुदत् । इति निर्बन्धेन पुनः स्पष्टमाचष्ट-" भो ! साहसिकशिरोमणे ! मामितो निष्कास्य भूपतेः समीपं प्रापय। येन तत्र स्ववृत्तमाचक्षे।" इत्युक्तः शूद्रकस्तमुत्पाटयितुं यावदयतिष्ट तावनोत्पटति स्मः स । ततोऽधस्ताकेनापि यादसा विधृतोऽयं भवेद् । इत्याशङ्कय सद्यः कृपाणिकामधो वाहयामास शूद्रकः। तदनु शिरोमात्रमेव शुद्रकस्योद्धर्तुः करतलमारोहत् । लघुतया शिरःप्रक्षरद्रुधिरधारमवलोक्य शुद्रको विषादमापन्नचिन्तयति सा-" धिग् मामाहर्तरि प्रहर्तारं शरणागतघातकं च ।" इत्यात्मानं निन्दन वजाहत इव क्षणं मूञ्छितस्तस्थौ। तदनु समधिगतचैतन्यश्चिरमचिन्तयत्-" कथमिवैतत्सुदुश्चेष्टितमवनिपतये निवेदयिप्यामि ।" इति लज्जितमनास्तत्रैव काष्टैश्चितां विरचय्य तत्र ज्वलनं प्रज्वाल्येतच्छिरः सह गृहीत्वा यावदुदर्चिषि प्रवेष्टुं प्रववृत्ते । तावत्तेन मस्तकेन निजगादे-" भो महापुरुष ! किमर्थमित्थं करोषि । अहं शिरोमात्रमेवास्मि राहुवत्सदा । तवृथा मा विषीद । प्रसीद । मां राज्ञः समीपमुपनय ।" इति तद्वचनं निशम्य चमत्कृतचित्तःप्राणित्ययमिति प्रहृष्टः शूद्रकस्तच्छिरः पद्यांशूकवेष्टितं विधाय प्रातः सातवाहनमुपागमत् । अपृच्छत् पृथिवीनाथ:-"शुद्रक ! किमिदम् ?।" सोऽप्यवोचत्-" देव ! सोऽयं यस्य ऋन्दितध्वनिदेवेन रात्रौ शुश्रुवे।” इत्युक्त्वा तस्य प्रागुक्तं वृत्तं सकलमावेदयत्। पुना राजा तमेव मस्तकमप्राक्षीत्-"कस्त्वम् । For Private And Personal Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - भोः किमर्थ चात्र भवदागमनमिति ।" तेनाभिदधे-" महाराज ! भवतः कीर्तिमाकर्ण्य करुणरुदितव्याजेनात्मानं ज्ञापयित्वा अहमुपागमम् । दृष्टश्च भवान् । कृतार्थे मेऽद्य चक्षुषी जाने इति ।” कां कलां सम्यगबगच्छसि ? इति राज्ञ आज्ञया निरवगीतं गीतं गातुं प्रचक्रमे । क्रमेण तदानकलया मोहिता सकलापि पतिप्रमुखा परिषत् । स च मायासुरनामको सुरस्तां मायां निर्माय महीपतेर्महिषी महनीयरूपधेयामपजिहीर्षरुपागतो बभूव । न च विदितचरमेतत्कस्यापि । लोकैस्तु शीर्षमात्रदर्शनात् तस्य प्राकृतभाषया सीसुला इति व्यपदेशः कृतः। तदनु प्रतिदिनं तस्मिन्नतितुम्बरौ मधुरखरं गायति सति श्रुतं तत्स्वरूपं महादेव्या दासीमुखेन । भूपं विज्ञाप्य तच्छीर्ष स्वान्तिकमानायितम् । प्रत्यहं तमजीगपत् राज्ञी दिनान्तरे रात्रौ । प्रस्तावमासाद्य सद्य एवापहरति स्म तां मायासुरः। आरोपयामास च तां घण्टावलम्बिनामनि स्वविमाने । राज्ञी च करुणं क्रन्दितुमारेभे-"हा ! अहं केनाप्यपहिये । अस्ति कोऽपि वीरः पृथिव्यां यो मां मोचयति ।" तञ्च खून्दलाभिख्येन वीरेण श्रुत्वा व्योमन्युत्पत्य च तद्विमानस्य घण्टा पाणिना गाढमधार्यत । ततस्तत्पाणिनावष्टचं विमानं पुरस्तान प्राचालीत् । तदनु चिन्तितं मायालुरेण-"किमर्थ विमानमेतन्न सर्पति।" यावदद्राक्षीत्तं वीरं हस्तावलम्बितघण्टं । ततः खड्गेन तद्धस्तमच्छिदत् । पतितः पृथिव्यां वीरः । स चासुरः पुरः प्राचलत् ।। ततो विदितदेव्यपहारवृत्तान्तः क्षितिकान्तः पञ्चाशतमेकोनां वीरानादिशत्-“यत्पदृदेव्याः शुद्धिः क्रियता - For Private And Personal Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandi प्रबन्धः पहाविंशति ॥७७॥ केनेयमपहृतेति।" ते प्रागपि शूद्रकं प्रत्यकृयापराः प्रोक्षुः-"महाराज! शुद्रक एवजानीते। तेनैव तच्छीर्षकमानीतम् । तेनैव देवी जहे।” ततो नृपतिस्तस्मै कृषितः शुलारोपणमाज्ञापयत् । तदा देशशेतिवशात्तं रक्तचन्दनानुलिप्ताङ्गं शकटे शाययित्वा तेन सह मादंबद्ध्वा गृलायै पाबद्राजापुरुषालुः। वायत्पश्चाशदपि वीराः संभूय शुद्रकमबोचन-“भो ! महावीर! किमर्थ रण्डेव नियसे भवान् । अशुभस्य कालहरणमिति न्यायात् मार्गय नरेन्द्राकतिपयदिनावधिम् । शोषय सर्वत्र देव्यपहारिणम् । किमकापडे एव स्वकीयां वीरत्यकीर्तिमपनयसि!" तेनोक्तम्-"गम्यतांतहि उपराजम् । विज्ञाप्यतामेलगार्थ राजा। निरपि तथा कृते प्रत्यानायित: गद्रकः क्षितीजामपि स्वमुखेन विज्ञतिः कृता-"महाराज! दीयतामवधिः । येन विपिनोमि प्रतिदिशं देवीं तदपहारिणं चा" झा दिनदशाभवधिदतः। शुद्रकगृह च सारमेयस्यमासीत् तत्सहचारि। दृपतिरवदत-"एतषणयुगलं प्रतिभूमायमस्मल्या मुत्र । स्वयं पुनर्भवान् देच्युदन्तोपलब्धये हिण्डतां महीमण्ड लम् ।" सोऽप्यादेशःप्रमाणमित्युवीर्य प्रवीर्यवान प्रतिस्थे । भूचक्रशस्तकालयकद्धन्वं शृजलाबद्धं शच्यापादेऽवघ्नीत् । शूद्रकस्तु परितः पर्यटत् । अव्यमानोऽपि यावत्प्रस्तुतार्थस्य वार्तामात्रमपि क्वापि नोएलेभे । तावदचिन्तयत्-"अहो ! मलेड्मयशः प्रादुरभूत् । यदयं स्वाभिदोही भूत्वा देवीमपाजीहरदिति ।न |च क्वापि शुद्धिलब्धा तस्याः। तस्मान्मरणमेव मम शरणम् ।" इति विमृष्य दारुभिश्चितामरचयत् । For Private And Personal Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |ज्वलनं चाज्यालयत् । यायन्मध्यं प्राविशत् तावत्ताभ्यां शुनकाभ्यां देयताधिष्ठिताभ्यां ज्ञातम्-"यदस्मदधिपतिर्निधनं वाञ्च्छलस्तीति।" ततो देवतशक्त्या शृङ्गलानि भङ्गत्वा निर्विलम्बी गतौ तत्र तो। यत्रासीच्छुद्रकरचिता चिता । दशनैः केशानाकृष्य शूद्रकं यहिर्निष्कासयामास । तेनापि अकस्मात विलोक्य विस्मि| तमनसा निजगदे-"र पापीयांसौ फिमेतत्कृतं भवद्भ्यामनुभवद्याम् ? । राज्ञा मनसि विश्वालनिरासो | भविष्यति । यत्प्रतिभुवावपि तेनात्मना सह नीतौ।" भषणाभ्यां वभाषे-"धीरो भव । अस्पदर्शितांदिशमनुसर सरभलम् । का चिन्ता तव।" इत्यभिधाय पुरोभूय प्रस्थितो तेन साईन् । शमात्यातौ कोल्लापुरम् । तत्रस्थं महालक्ष्मीदेव्या भवनं प्रविधौ। तत्र शूद्धकस्तां देवीमभ्यर्च्य कुशसंस्तरासीनस्त्रिरात्रमुपावसत् । तदनु प्रत्यक्षीभूय भगवती महालक्ष्मीस्तमपोचा-"वत्स! किं मृगयसे ?।" शूदकेगोक्तम्-" स्वामिनि ! सातवाहनमहीपालमहिष्याः शुद्धिं बद । कारने केज यमपहता ।" श्रीदेव्योदितम्-"सर्वान् यक्षराक्षसभूतादिदेवगणान् संमील्य तत्प्रवृत्तिमहं निवेदयिष्यामि। परं तेषां कृते त्वया बल्युपहारादि प्रगुणीकृत्य शर्यम् । यावच्च ते कणेहत्य यल्यादि उपभुज्य प्रीता न भवेयुस्तावत्वया विमा रक्षणीयाः।" ततः शूद्रको देवतानां तर्पणार्थ कुण्डं विरचय्य होममारे भे। मिलिताः सकलदेवतगणाः । स्वां स्वां भुक्तिमग्निमुखेन जगृहिरे । तावत्तद्धोमधूमः प्रस्मरः प्राप तत्स्थानम् । यत्र मायासुरोऽभूत् । तेनापि ज्ञानलक्ष्यादिष्टशद्रकहोमस्वरूपेण For Private And Personal Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पतुर्विशति प्रबन्ध ॥७८॥ प्रेषितः स्वभ्राता कोल्लासुरनामा होमप्रत्यूहकरणाय । समागतश्च बियति कोल्लासुरः स्वसेनया समम् ।। दृष्टास्वदैवतगणैः। चकितं च तैः। ततो भषणौ दिव्यशक्त्या युयुधाते दैत्यैः सह । क्रमान्मारितौ च तौ दैत्यैः । ततः शुद्रकः स्वयं योढुं प्रावृतत् । क्रमेण दण्डव्यतिरिक्तप्रहरणान्तराभावाद्दण्डेनैव बहूनिधनं नीतवानसुरान् । ततो दक्षिणबाहुं दैत्यास्तस्य चिच्छिदुः। पुनर्वामदोष्णैव दण्डयुद्धमकरोत् । तस्मिन्नपि छिन्ने दक्षिणांहिणोपात्तदण्डो योद्धं लग्नः। तत्रापि दैत्यैलूने वामपादात्तयष्टिरयुध्यत । तमपि क्रसादच्छिदन्नसुराः।। ततो दन्तैर्दण्डमादाय युयुधे । ततस्तमस्तकमच्छेदि । अथाकण्ठतृप्तादैवतगणास्तं शूद्रकं भूमिपतितशिरस्कं दृष्ट्वा अहोऽस्मद्भुक्तिदातुर्वराकस्यास्य किं जातम् ? । इति परितप्य योद्धं प्रवृत्ताः कोल्लासुरममारयत् । ततः श्रीदेव्याऽमृतेनाभिषिच्य पुनरनुसंहिताङ्गश्चके । शूद्रका प्रत्युज्जीवितश्च सारमेयायपि पुनर्जीवितौ। देवी च प्रसन्ना सती तस्मै खङ्गरत्नं प्रादात् । अनेन त्वमजय्यो भविष्यसीति च बरं व्यतरत् । ततो महालक्ष्म्यादिदैवतगणैः सह सातवाहनदेव्याः शुध्यर्थं समग्रमपि भुवनं परिभ्रम्य प्राप्तः शूद्रको महार्णवम् । तत्र चैकं वटतरुमुच्चैस्तरं निरीक्ष्य विश्रामार्थमारोह यावत् । तावत्पश्यति तच्छाखायां लम्बमानमधः शिरसं काष्टकिलिकाप्रवेशितोऽर्द्धपादं पुरुषमेकम् । स च प्रसारितजिह्वोऽन्तीरं विचरतो जलचरादीन् भक्षयन् वीक्षितस्तैः । पृष्टश्च शूद्रकेण-"कस्त्वं ? । किमर्थ चेत्थं लम्बितोऽसि ।" तेनोक्तम्-"अहं मायासुरस्य कनिष्टो ॥७८॥ For Private And Personal Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भ्राता स च मदनोन्मदिष्णुर्मग्रज प्रतिष्ठानाधिपतेः सातवाहनस्य मृपतेर्महिषी वांछनपाहरत् सीतामिव दशवदनः । सा च पतिव्रता तन्नेच्छति । तदनुमोक्तो अग्रजन्मा-"न युज्यते परदाराऽपहरणं तव । किक्रमाकान्तविश्वोsपि परस्त्रीषु रिम्सया । कृत्वा कुलक्षयं प्राप नरकं दशकन्धरः॥१॥ इत्यादिवाग्भिनिषिद्धः कुद्धो मह्यं भायासुरोऽस्यां वदशाखायां टंकित्वा मामित्थं व्यडम्बयत् । अहं च प्रसारितवदनः समुद्रान्तः संचरतो जलचरादीनभ्यवहरन्प्राणयात्रां करोमि।" इति श्रुत्वा शूद्रकोऽप्यभाणीत्-"अहं तस्यैव महीभृतो भृत्यः शूद्रकनामा तामेव देवीमन्वेष्टुमागतोऽस्मि ।" तेनोक्तम्-"एवं चेत्तर्हि मां मोचय । यथाऽहं सह भूत्वा तं दर्शयामि तां च देवीम् । तेन स्वस्थानं परितो जातुषं दुर्ग कारितमस्ति । तब निरन्तरं प्रज्वलदेवास्ति ततो दुर्लक्ष्यम् । तन्मध्ये प्रविश्य तं निपात्य देवी प्रत्याहर्तव्या।" इत्याकर्ण्य शूद्रकस्तेन कृपाणेन तत्काष्ठबन्धनानि च्छित्वा तं पुरोधाय दैवतगणपरिवृत्तः प्रस्थाय प्राकारमुल्लंघ्य तत्स्थानान्तः प्राविशत् । दैवतगणांचालोक्य मायासूरः स्वसैन्यं युद्धाय प्रजिधाय । तस्मिन्पश्चतानञ्चिते स्वयं योद्धमुपतस्थौ । ततः क्रमेण शूद्रकस्तेनासिना तमवधीत् । ततो घण्टावलम्बिविमानमारोप्य देवी देवतगणैः सह प्रस्थितः प्रतिष्ठानं प्रति । इतश्च दशमं दिनमवधीकृतमागतमवगत्य जगत्यधिपतिर्ध्यातवान-"अहो मम न महादेवी न च शूद्रकवीरो न चापि तो रसनालिहौ सर्व मयैव कुबुद्धिना विनाशितम् ।" इति शोचनात्स For Private And Personal Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुविशति प्रबन्धः परिच्छद एव प्राणत्यागचिकीः पुराहहिश्चितामरचयचन्दनादिदारुभिः । यावत्क्षणादाशुशक्षणिं क्षेप्यति। परिजनश्चितायाम् । ताबद्धर्धापक एको देवयनमध्यासमायालीद् । व्यजिझपञ्च सप्रअयम्-" देव ! दिया। पर्द्धसे महादेव्यागमनेन । लशिम्य अमगरम्यं सरेश्वरः स्फुरदानन्दकन्दलितड्दय अध्यालोकयालो नभसि देवतगणं शूदकं च । अयमपि जिजामाइक्तोर्य राज्ञः पादोरपतर मराइयो । जाभाना सानन्दं मेदिन दुः शूद्रकम् । राज्याई तस्मादिशत् । सोत्सवमन्तगरं प्रविश्वलद्वारुकरितामह सहिच्या राज्यनियनुपधुने महानुजः। तत्त्व च सातवाहनस्य चन्द्रलेखाद्याः पञ्चशतानि पत्न्यः सी अपि षड्भाषाक्षयित्वविदः । राजा पुलरनधीतव्याकरणः। आगत उष्णकालः। आरब्धा जलकेरितः । चक्र लेखा तु शीतालुः शीतं न सहते । कृपस्तु प्रेम्णा शृङ्गकजलैस्तामलवरतं सिश्चति । ततः सा संस्कृतेन पाह"देव ! मां मोदकैः पूरय हालस्तु तत्संस्कृततत्त्वमनवगच्छन् मोदकनाम श्रुत्वा दास्याः पावोन्मोदकपट लिकामानीनयत् । चन्द्रलेखा तां दृष्ट्वा पतिमतिनजदर्शनादहसीत् । अहो ! महाराजस्य शास्त्रोत्तेजितमतिव्यापः। राज्ञाप्युपहासो ज्ञातः। पृष्टा राज्ञी-"किमर्थ क्यमुपहत्यामहे ।" राझी जगाद-"अन्यार्थस्थानेऽन्यार्थावबोधाद हसिताऽसि प्रिय ! । लज्जितो राजा । सद्यो विद्यार्थ भारती त्रिरात्रोपवासेनाराध्य प्रत्यक्षीकृत्य तदरान्महाकविर्भूत्वा सारस्वतव्याकरणादिशाखशतान्यचीकरत् । तस्थेश्वरस्य गणकृत्वो भारती देव-1 ॥७९॥ For Private And Personal Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तावसरेऽवतीर्याह (१)। एकदा भारतीमभ्यर्थयत्,-"सकलमपि पुरं आद्ययामाई अहः कविरूपं भवतु" तथैव कृतं देव्या । एकस्मिन् दिने दशकोच्यो गाथाः सम्पन्न । सातवाहनकशास्त्रं तत्कृतम् । तस्य चोर्वीपतेः खरमुखो नाम दण्डनाथः शूरो भक्तः प्राज्ञः पुण्याठा आरम्भलिद्धः। एकदा हालेनादि, खरसुवाय-"मधुरां लाहि ।" आदेशः प्रमाणमित्युक्त्वा बहियापारिणां पाश्चमेत्य राजादेशनचकथत् । व्यापारिभिः पोकम्"खरमुख ! द्वे मथुरे स्तः। एका दक्षिणमधुरा पाण्डवता | अपरा पूर्वमथुरा यद्गोछे कृष्णः सनुत्पन्नः यत्र वृन्दावलादीनि वनानि । द्वयोर्मध्यात्का मथुरा ग्राह्येति पृच्छ।" खामुखेनोक्त-"प्रतापनार्तण्डं तं कः इष्टमीष्टे । वक्ष्यति हि रे मम चेतो न जानीथ। तस्य प्रकोपः सद्यः प्राणहरः। द्वे अपिन नहीच्यामः । सैन्यं द्विखण्डं कृत्वा मधुरे एकस्मिन्नेव मध्याहे खरमुखेन जगृहाते । तत्पुरीद्वयग्रहगबर्दापनिकामुखौ द्वौ नरौ आयातौ । यावत्प्रमोदात्ती पतिरालपति तावतृतीय एक आगात् । स उवाच-देव! भवत्काराप्यमाणनप्रासादभूमितलेऽक्षयो निधिःप्रादुर्बभूव दृिष्टया । यावत्तदभिमुन्वनीक्षते। तापदेव दासी प्रेममञ्जूषा शुद्धान्तादायासीत् । स्वामिन् ! देव्या चन्दलेखया सर्वाङ्गलक्षणः सुलो जातः । चतन्त्रोऽपि धपनिका दत्ता क्ष्मापालेन । तेन प्रमोदेनास्य महोन्माद् उत्पन्नः । ततो मेलायेत्वा लोकं यादो गोदावरीतीरनुपेत्य तां जगाद तारतरस्वरम For Private And Personal Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kalashsagarsuri Gyanmandir प्रबन्धः चतुर्विंशति ॥८ ॥ सचं भण गोदावरि पुब्दसमुद्देण साहिया संती। सालाहणतुलसरिसं जइ ते फुले फुलं अस्थि ॥१॥ उत्तरउ हिप्रतो दाहिणउ सालवाहणराया। समभारभरकांना तेण न पल्लत्थए पुहवी ॥२॥ तादृशं तस्य गर्वनीक्षमाणमहापन्धिगोऽन्योन्य मन्त्रयामासुः-पः श्रिया तरलितः। जितश्चेत्पुरुषो लक्ष्म्या, हुतं लोकद्वयं ततः। जिता चेत्पुरुषेणैषा जितं लोकद्वयं ततः ॥१॥ समादस्य दुःखात्पादनेन मदगदोच्छेदः कनुभाई।" इत्यालोच्य राजानं व्यजिज्ञपत्त्-“देय ! ललाटंतपतपनः कालः भोजनाचसरो वर्तते। पादोऽवधार्थतां सौधायेत्युदित्वा सोधमानेषुः। तत्रापि मदात् स्तम्भादीनि कुद्दयति । ततो मन्निभि खरखं वीरोतंसं छीकृत्य राज्ञे उक्तम्-" देय ! खरमुखः सद्यो व्याधिना द्यामगमत् ।” य तरूपणे मांगो दुःखाच्छोकान्मदमहातोत् । शोकातु वैकल्पमचकलत् । अथामात्यर्विज्ञसम्-" मजेश्वर ! घिदेशादायाततजीवनविदुः खरमुखो जीचितः । यद्यादेशः स्यात् तदा पदकमलयुगलतले लोच्यते।” इत्युरले मुस्खो जातः। दृष्टः खरमुखः। सुष्टु तुष्टो राजा। एवं तस्योदयः। अन्यदाऽसौ गोदावरीतीरे मोहात । तदेकमीनेन जलाहाहनुवं निष्काख हसितः। भीतल्यमुत्कृतश्च भूपः। रात्रौ ध्यानाकृष्टाऽध्याता प्राशी पृष्टा-" देवि ! मोनः किमर्थ हसति ?।” साम्याइ-" वत्स! प्रारभये त्वं अत्रैव पुरे काष्ठमारहारक आलीः । स च मध्याहे काष्ठकष्टार्जितधनकीतान् सस्तून् उष्णोदकविलो For Private And Personal Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kalashsagarsuri Gyanmandir डितान मासक्षपणिकऋषये मुदा ददे । संत पुण्येन त्वं भूपोऽभूत् । तदेकस्तत्रयो व्यन्तरो वेत्ति। तेन मीने सङ्कम्य हसितं त्वया दृष्टम् ।” राजाह-" हासस्य को भावः।" ब्राह्मी वक्ति अयं भाव:-"अयं दानादाप्तऋद्धिः पुनने मन्दादरः। धिगात्मकार्यमूढ जोवलोकमिति ।" सातवाहनो जल्पति-" तस्य व्यन्तरस्य मञ्चर्चया किं कार्य ?।" ब्राहम्याह-"प्राग्भवेऽयं तवैव सखाऽभूत् । तेन कृपणत्वात्किमपि न दत्तम् । केवलं त्वद्दत्तमेव किञ्चिदनुमोदितम् । तेन पुण्येन व्यन्तरत्वेनावतीर्णोऽयम् । ततस्त्वयि हितार्थिस्वमस्य । मां च त्वन्मत्रिशक्तिसमाकृष्टिप्रत्यक्षां त्वन्मातृकल्पां जानाति ! सततधाहसदिति विद्धि।" सवृत्तान्तज्ञानादवनीशो वदान्यत्वं सुष्ठ्वाददे । ब्रामोश्रीदत्तशब्दवेधरससिद्धेरिच्छादानी मानी जैनः । इत्थंकारं नानाविधान्यवदातानि हालक्षितिपालस्य कियन्ति नाम वर्णयितुं पार्यन्ते । स्थापिता चानेन गोदावरीतीरे महालक्ष्मीः प्रासादे । अन्यान्यपि च यथाई दैवतानि निवेशितानि तत्तत्स्थानेषु । राज्यं प्राज्यं चिरं भुनाने जगतीजानी अन्यदा कशिहारुभारहारकः कस्यचिद्वाणिजस्य चीधौ प्रत्यहं चारुकाणि दारूण्याहृत्य विक्रीणीते स्म । दिनान्तरे च तस्मिानुपेयुषि वणिजा तद्भगिन्यापुष्टा-"किमर्थं भवद्भाताऽद्य नागतो मद्वीभ्याम् ।" तया बभणे-“श्रष्टिश्रेष्ठ ! मत्सोदयः खर्गिषु सम्प्रति प्रतिवसति।" यणिगभणत्-"कथ|| मिव ।" सावदत्-" कङ्कणवन्धादारभ्य विवाहप्रकरणे दिनचतुष्टयं नरः स्वनिष्विव वसन्तमात्मानं मन्यते For Private And Personal Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रवन्धः ॥८१॥ तिदुत्सवालोकनकौतूहलात् ।" तच्चाकर्ण्य राजाऽप्यचिन्तयत्-" अहो! अहं स्वार्गेषु किं न वसामि । चतुर्प चतुर्पु दिनेषु अनवरतं विवाहोत्सवमय एवास्थास्यामि ।" इति विचार्य चातुर्वण्य यां यां कन्यां युवति रूपशालिनी पश्यति, शृणोति स्म । ता तां सोत्सवं पर्यगैषीत् । एवं च भूयस्यनेहसि गच्छति लोकैश्चिन्तितम्-" अहो ! कथं भाव्यमनपखैरेव सर्ववणः स्थयम् । सर्वाः कन्यारतावद्राजैव विवोढा । योषिदभावे च कुतः सन्ततिरिति।" एवं विषण्णेषु लोकेषु विवाहवाटिकानान्नि ग्रामे वास्तव्य एको द्विजः पीठजां देवी |माराध्य व्यजिज्ञपत्-" भगवति ! कथं विवाहकोऽस्मदपत्यानां भावीति ।” देव्योक्तम्-"भोः ! वाडव! त्वद्भवनेऽहमात्मानं कन्यारूपं कृत्वाऽवतरिष्याभि । यदा मां राजा प्रार्थयते तदाऽहं तस्मै देया। शेषमहं करिष्ये ।” तथैव राजा तां रूपवतीं श्रुत्वा विषमयाचत । सोऽपि जगाद-" दत्ता मया । परं महाराज ! स्वयमत्रागत्य मत्कन्योद्बोढव्या।"प्रतिपन्नं राज्ञा । गणकदत्ते लग्ने क्रमाद्विवाहाय प्रचलितः । प्राप्तश्च तं ग्रामं श्वशुरकुलमवनिपतिः। देशानुरोधाद्वधूवरयोरन्तराले जवनिका दसा। अनलियुगधरीलाजैर्मृतः। लग्नवेलायां तिरस्करणीमपनीय यापदन्योऽन्यस्य शिरांत लाजान्वितरीतुं प्रयो। तदनु किल हस्तमेलापो भविप्यतीति । तावदाजा तां रौद्ररूपां राक्षसीमिवैक्षिष्ट । ते च लाजाः कठिनकर्करपाषाणरूपा राज़ः शिरसि लागिहुँ लग्नाः । क्षितिपतिरपि किमपि वितमिदमिति विभावयन् पलायितः । तादत्सा पृष्टलशाश्मश For Private And Personal Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॥ कलानि वर्षन्ती प्राप्ता ततो नरपति गइदे प्राविशन्निजजन्मभूमिम् । तत्रैव च निधनमानशे। अद्यापि सा पीठजा देवी प्रतोल्या बहिरास्ते निजप्रसादस्था । शुद्रकोऽपि क्रमेण कालिकादेण्याऽजारूप विकृत्य वापी प्रविष्टया करुणरसितेन विप्रलब्धस्तनिष्कासनार्थं प्राविशत् । पतितस्य तस्य वृपाणस्य कूपद्वारे तिर्यक्पतनाच्छिन्नाङ्गः पञ्चतामानश्च । महालक्ष्म्या हि वरवितरणावसरे स्मादेवस्यगात्तवमरणं भावीत्यादिष्टमासीत् । नतः शक्तिकुमारो राज्येभिषिक्तः। सातवाहनस्य निजूदनान्तरमद्यापि राजा न कश्चित्प्रतिष्ठाने प्रविशति वीरक्षेत्रत्वात् । अत्र च यदसद्भाव्यं कचिद् गर्भे । तत्र परसमय एव मन्तव्यो हेतुः। पन्नासङ्गस्तवाग्जनो जैनः । श्रीवीरे शिवं गते ४७० विक्रमार्को राजाऽभवत् । तत्कालीनोऽयं सातवाहनस्तत्प्रतिपक्षत्वात् । यस्तु कालिकाचार्यपात् पर्युषणामेकेनाहा अभंगानाययत् , सोऽन्यः सातवाहन इति सम्भाव्यते । अन्यथा नयसयतेणऊएहिं समझतेहिं वीरमुक्खाओ । पञ्जोसवणचउत्थी कालयमूरेहिंतो विआ ॥१॥ इति चिरत्नगाथाविरोधप्रसङ्गात् । न च सातवाहनामिकसातवाहन इति विरुद्धम् । भोजपदे बहूनां | भोजत्वेन । जनकपड़े पहनां जनकत्वेन रूढत्वात् । ॥ इति शालियाहनप्रबन्धः॥ - For Private And Personal Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पतुर्विंशति प्रवन्धः ॥ ८२॥ अथ वंकचूलप्रवन्धःपारेतजनपदान्तश्चर्मण्यत्यास्तटे महानद्याः । नानाघनवनगहना जयत्यसौ पुरीति पुरी ॥१॥ अत्रैव भारते वर्षे विमलयशा नाम भूपतिरभूत् । तस्य सुमङ्गलदेव्या सह विषयसुखमनुभवतः नाजातमपत्ययुगलम् । तत्र पुत्रः पुष्पचूल: पुत्री पुष्पचूला। अनर्थसार्थनुत्पादयतः पुष्पचूपस्य कृतं लोकै इति नाम | महाजनोपलब्धेन राज्ञा रुषितेन निःसारितो नगराईकचूतः । गच्छंश्च पथि पतितो भीरमायामटव्यां सह निजपरिजनेन खम्रा च सहपरवशया। सत्र च षुत्पिपासार्दितो दृष्टो भिल्लैः नीतः खाल्ल्याम् । स्थापितश्च मृतपूर्वपल्लीपतिपदे । पर्यपालयद्राज्यम् । अलुण्टयद् ग्रामनगरतार्थादीन् । अन्यदा सुस्थिनाचार्या अर्बुदाचलादष्टापदयात्रायै प्रस्थितास्तामेव सिंहगुहां नाम पल्लीं सगच्छाः प्रापुः। जातश्च वर्षाकालः। अजनि पृथिवी जीवाकुला। साधुभिः सहालोच्य मार्गयित्वा वंकचूलादसतिं स्थिता तत्रैव सूरयः। तेन च प्रथममेव व्यवस्था कृता-"मम सीमान्तर्धर्मकथा न कथनीया । यतो युष्मकथायां अहिंसादिको धर्मः । न चैवं मम होको निर्वहति ।" एषमस्तु इति प्रतिपद्य तस्थुरूपाश्रये गुरवः। वंकचूलेनाड्य सर्वे प्रधानपुरुषा भणिता: ॥८ ॥ For Private And Personal Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - - "अहं राजपुत्रस्तन्मस्समीपे ब्राह्मणादय आगमिष्यन्ति । ततो भवनिर्जीववधो मांसमद्यादिप्रसङ्गश्च एल्ल्या मध्ये न कर्तव्यः । एवं कृते यतीनामपि भक्तपावमजुगुप्सितं कल्पत इति ।" सैस्तथैव कृतं यावतुरोमासान् । प्राप्तो विहारसमयः । अनुज्ञापितो वाचूलः सूरिभिः___“समणाणं सउणाणं भमरकुलाणं गोकुलाणं च । अनिओ बसहीयो सारईआणं च मेहाणं ॥१॥ | इत्यादि वाक्यैः।" ततस्तैः सह चलितो वङ्कचूल: स्वसीनां प्रापुषा तेन विज्ञप्तम्-" वयं परकीयसीमांन प्रविशाम इति।" सूरिभिर्भणित:-"वयं सीमान्तरमुपेता ते किमप्युपदिशामस्तुभ्यं दाक्षिण्यात्।" तेनोक्तम्-" यन्मयि निर्वहति तदुपदेशेनानुगृह्यतामयं जनः ।" ततः सूरिभिश्चत्वारो नियमा दत्ताः।। तद्यथा “अज्ञातफलानि न भोक्तव्यानि १ सप्ताष्टानि पदान्यपमृत्य घातो देयः २ पट्टदेवी नाभिगन्तव्या३ । काकमासंन भक्षणीयमिति ४"प्रतिपन्नास्तेन ते 1 गुरुन् प्रणम्य स्वगृहमगमत् । अन्यदा गतः सार्थस्योपरि धाट्याम् । शकुनकारणानागतः सार्थः। त्रुटितं च तस्य पध्यदनम् । पीडिता: क्षुधा राजन्याः। दृष्टश्चतैः किम्पाकतरुः फलितः । गृहीतानि फलानि न जानन्ति ते नामधेयम् । इति तेन न भुक्तानि । इतरैः सर्वैर्बुभुजिरे । मृताश्च ते किम्पाकफलैः। ततश्चिन्तितं तेन-"अहो! नियमानां फलम्"तत एकाक्येवागतः पल्लीम् । रजन्यां प्रविष्टः स्वगृहम् । दृष्टा पुष्पचुला दीपालोकन पुरुषवेषा निजपल्या सह प्रसुप्ता। For Private And Personal Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पहेर्विशति ॥८३॥ जातश्च कोपस्तयोगपरि । द्वावयेती खड्गप्रहारेण छिनधि। इति यावदचिन्तयत्तावस्मृतो नियमः । ततः सप्ताष्टपदान्यपक्रम्य घातं ददतः स्वादकृतमुपार खनन । व्याहृतं स्वरा-'जीवतु वङ्कचूलः।" इति तद्वचः श्रुत्वा लज्जितोऽसायपृच्छन्-"किमोदिति।" सापि नटवृत्तान्तमचीकयत्- "भ्रातर् ! अत्र प्रतिभूपतेनटवेष-10 घराश्चरा आगच्छन् । यदि पल्लयां बसचूलोऽस्ति सदामा नृत्य पश्यतु, इत्यरूपम् । तदा मयाऽचिन्तिसाम्प्रतं भ्राता बचूलो नास्ति रहे । तदा मया तव वेषधारिण्या मृत्यमकारि तेषां पार्धात। दानमदायि तेभ्यः । गताच ते स्वस्थानम् । ततो बहनिशागमनेन निद्रापरक्शा नैव वेषेण भ्रातृजायायावे अस्यपम् ।” इति वृत्तान्तं श्रुत्वाऽतीद मनसि खेडो दधे तेन । तेन कालकमेण तस्य नद्राज्य शासनस्तत्रैव पल्ल्यां तस्यैवाचार्यस्य शिप्पी धर्मापिधर्मदतमामानी कदाचिद्वपीराग्रामवास्थिपानाम् । तत्र तयोरकस्त्रिनासक्षपणं विदधे, द्वितीयस्तु चतुर्मासक्षपणम् । बाथटस्तु तदत्तनियमानामायशिशुभफलतामय रोक्य व्यजिज्ञपत्"हे भदन्ती मदनुकम्पया कमपि पेशलं धर्मोपदेशं दत्तः। ततस्ताभ्यां चैत्यविधापनदेशना पापनाशिनी विदधे । तेनापि शराविकापसबीपनातन्यां तस्यामेर पस्यो चम्पनीमारतोरे कारितनुचैस्तरं चारु चैत्यम् । स्थापितं च तत्र श्रीमन्महावीरयिम्बम् । तीर्थतया च रूढं तत्। तत्रायान्तिम चतुर्दिग्भ्यः सङ्घाः । कालान्तरे कश्चिन्नैगमः सभार्यः सर्वज्या तयात्रायै प्रस्थितः प्राप्तः क्रमेण रन्तिनदीम् । नाप ॥८३. For Private And Personal Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir %3 | मारूडौ च दम्पती चैत्यशेखरं व्यलोकयताम् । ततः सरमसं सौवर्णकदोलके कुङ्कमचन्दनकरं प्रक्षिप्य जलं क्षेप्तुमारब्धवती नैगमगृहणी । प्रमादात् निपतितं तदन्तर्जलतलम् । ततोऽभाणि वणिजा-"अहो ! इदं कच्चोलकं नैककोटिमूल्यं रत्नखचितं राज्ञा ग्रहगनिमासीत् । ततो र ज्ञः कथं छुटितव्यम् ।" इति चिरं विषद्य बङ्कचूलस्य पल्लोपनबिज्ञापितं तत् यथा-"अस्य राजकीयवस्तुनो विचितिः कार्यताम् ।” तेनापि | धीवर आदिष्ट तच्छोधयितुं प्राधिशदन्तर्नदीम् । विचिपला चान्तर्जलं दृष्टं तेन हिरण्यमयरथस्थं जीवन्तस्वामिश्रीपार्श्वनाथबिम्बम् । यावत्पश्यति स स चिम्पत्य हृदये तत्कच्चोलकम् । धीवरेणोक्तम्-"धन्याविमौ दम्पती । यद्भगवतो वक्षसि घुस्मृणवन्द्र पन्दनविलेपनाह स्थितमिदं, तलो गृहीत्वा तदर्पितम् नैगमस्य । तेन दत्तं तस्मै बहुद्रव्यम् । उवां च विग्बम्वरूपं लाविकेन । ततो वरचूलेन श्रद्वालुना तमेव प्रवेश्य निष्कासितं तद्विम्बम् । कनकरथस्तु तत्रैव मुक्तः। निषेदितं हि स्वप्ने प्राग्भगवता नृपतेः-" यन्त्र क्षिप्ता सती पुष्पमाला गत्वा तिष्ठति ! तत्र यिम् शोध्यमिति ।" तदनुसारेण बिम्बमानीय समर्पितं राज्ञे वक्तचूलाय । तेनापि स्थापितं श्रीवीरविम्बस्य बहिर्मण्डपे। यावत्किल नव्यं चैत्यमस्मै कारयामि। इत्यभिसन्धिमता कारिते च चैत्यान्तरे । धावत्तत्र स्थापनार्थमुत्थापयितुमारभन्ते राजकीयाः पुरवास्तावद्विम्यं नोत्तिष्टति स्म । देवताधिष्ठानात्तत्रैव स्थितमद्यापि तथैवास्ते। धीवरेण पुनर्विज्ञप्तः पल्लीपतिः-"पत्तत्र देव! मया - For Private And Personal Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रवन्धः चतुर्विशति 1८४॥ नयां प्रविष्टेन बिम्बान्तरमपि दृष्टम् । तदपि बहिरानेतुमौचितीमश्चति। पूजारूद हि भवति । ततः पल्लीश्वरेण पृष्टा स्वपरिषत्-" भोः ! जानीत कोऽपि अनयोध्वियोः संविधानकम् ? । केन खल्वेते नद्यन्तर्जलतले न्यस्ते।” इत्याकण्यकेन पुराविदा स्थचिरेण विज्ञप्तम्-"देव ! एकस्मिन्नगरे पूर्व नृपतिरासीत् । स च परचक्रेण समपेयुषा सार्द्ध योद्धं सकलचमूसमुहं सन्नह्य गतः । तस्याग्रमहिषी च निजं सर्वखोतच बिम्बद्वयं कनकरथस्थं विधाय जलदुर्गमिति कृत्वा चर्मण्वत्यां कौटिम्बिके प्रक्षिप्य स्थिता । चिरं युद्धवतस्तस्य कोएि खलः किल वार्तामानषीत्-" यदयं कृपतिस्तेन परचक्राधिपतिना व्यापादित इति ।" तच्छुत्वा देवी तत्कौटिम्बकमाक्रम्यान्तर्जलतलं प्राक्षिपत् । खयं च परासुतामासदत् । स च नृपतिः परचक्र निर्जित्य यावन्निजनगरमागमत् । तावद्देव्याः प्राचीनवृत्तमाकर्ण्य भवाद्विरक्तः पारमेश्वरी दीक्षा कक्षीचके । तयक बिम्ब देवेन बहिरानीतं पूज्यमानं चास्ति । द्वितीयमपि चेनिःसरति तदोपकम्यतामिति । तदाकर्ण्य वङ्कचूल: परमाहतचूडामणिस्तमेव धीवरं तदानयनाय प्राविशत् । स च तद्विग्बं कटीदानवपुर्जलतले तिष्ठमानं बहिस्थशेषाङ्गमवलोक्य निष्कासनोपायाननेकानकार्षीत् । न च तन्निर्गतमिति दैवतप्रभावमाकलय्य समागत्य च विशामीशाय न्यवेदयत् तत्स्वरूपम् । अद्यापि तत्किल तत्रैवास्ते । अयने घद्यापि केनापि धीवरस्थविरेण नौकास्तम्भजाते तत्कारणं विचिन्वता तस्य हिरण्यमयरथस्य ॥८४॥ For Private And Personal Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir युगकीलिका लब्धा। तां कनकमयीं दृष्ट्वा लुब्धेन तेन व्यचिन्ति-"यदिमं रथं क्रमात् सर्व गृहीत्वा ऋद्धिमान् भविष्यामीति ।” ततश्च स रात्रौ निद्रां न लेभे। उक्तश्च केनापि अदृष्टपुरुषेण-" यदिमां तत्रैव | विमुच्य सुखं स्थेयाः। नो चेत्सद्य एवं त्वां हनिष्यामीति ।" तेन भयार्तेन तत्रैव मुक्ता युगकीलिका इत्यादि । किं न सम्भाव्यते देवताधिष्ठितेषु पदार्थेषु ? । श्रूयते च सम्प्रत्यपि काले-"कनिन् म्लेच्छ: पाषाणपाणिः श्रीपार्श्वनाथप्रतिमां भक्तमुपस्थितः स्तम्भितबाहुर्जातः । महति पूजाविधी कृते सज्जतामापन्न इति।” श्रीवीरबिम्बं महत् तदपेक्षया लघीयस्तरं श्रीपार्श्वनाथविम्बमिति। महावीरस्यार्भकरूपोऽयं देव || इति मेदाश्चेल्लण इत्याख्यां प्राचीकथत् (१)। श्रीमचेलणदेवस्य महीयस्तममाहात्म्यनिधेः पुरस्ताभ्यां महर्षिभ्यां | सुवर्णमुकुटाम्नायः साधितः । प्रकाशितश्च भव्येभ्यः। सा च सिंहगुहा पल्ली कालक्रमाद् दिपुरीत्याख्यया प्रसिद्धा नगरी सञाता। अद्यापि भगवान् श्रीवारः स च चेल्लणपार्श्वनाथः सकलसकेन तस्यामेव पुर्या यात्रोत्सवैराराध्यते इति । अन्यदा वङ्कचूल उज्जयिन्यां खातपातनाय चौर्यवृत्त्या कस्यापि श्रेष्ठिनः समनि गतः कोलाहलं श्रुत्वा |चलितः। ततो देवदत्ताया गणिकाया गृहं प्राविशत् । दृष्टा सा कुष्टिना सह प्रसुप्ता । ततो निःसृत्य गतः पुरः श्रेष्ठिनो वेश्म । तत्रैकविशोपको लेख्यके त्रुटयतीति परुषवाग्भिनिर्भप निसारितो गेहात्पुत्रः श्रेष्टिना। For Private And Personal Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्ध चतुर्विशति 1८५n । २३ विरराम च यामिनी। याबद्राजकुलं यामीत्यचिन्तयत् , तावदुजगाम धामनिधिः । पल्लीपतिश्च निःसृत्य नगराद् गोषां गृहीत्वा तरुतले दिनं नीत्वा पुना रात्रावागाद्राजभाण्डागाराहहिः। गोधापुच्छे विलग्य प्राविशत् कोशम् । रष्ठो राजाममहिष्या रुष्टया । पृष्टश्च-“कस्त्वमिति।" तेनोचे-"चौर इति । तयोक्तम्-"माभैषीःमया सह सङ्गमं कुरु।” सोऽवादीत्-"का त्वम् ।" साऽप्यूचे-"अग्रमाहिष्यहमिति।" चौरोज्यादीत्“यवेवं सर्हि ममाम्बा भवसि । अतो यामि।" इति निश्चिते तया स्वाङ्गं नस्वैर्विदार्य पूस्कृतिपूर्वमाहूता आर. क्षकाः। गृहीखस्तैः राज्ञा चानुनयार्थमागतेन तद् दृष्टम् । राज्ञोक्ताः स्वपूरुषा:-"मैनं गादं कुर्वीध्वमिति।" ते रक्षितःप्रातः पृष्टः क्षितिभृता । तेनाप्युक्तम्-“देव ! चौर्यायाहं प्रविष्टः पश्चाद्देवभाण्डागारे, देख्या दृष्टोऽस्मि । यावदन्यन्न कथयति । तावतुष्टो विदितविद्यो नरेन्द्रः स्वीकृतः पुत्रतया स्थापितश्च सामन्तपदे। देवी विडम्ब्यमाना रक्षिता बङ्कचूलेन । अहो । नियमानां शुभ फलमिति अनवरतमयमध्यासीत्। प्रेषितधान्यदा राज्ञा कामरूपभूपसाधनार्थ गतः। युद्धे घातैर्ज रितो विजिस्य तमागमत्स्वस्थानम् । व्याहृताश्च राज्ञा वैद्याः। यावद्रढोऽपि घातव्रणो विकसति । तैरुक्तम्-“देव ! काकमांसेन शोभनो भवत्ययम्।" तस्य च जिनदासश्रावकेण साई प्रागेव मैत्र्यमासीत् । ततस्तदानयनाय प्रेषितः पुरुषः पुरुषाधिपतिना। येन | तद्वाक्यात् काकमांस भक्षयतीति । तदातच जिनदासोऽवन्तीमागच्छन्नुभे दिव्ये सुदत्यो रुदत्याय-1 - ॥८५॥ For Private And Personal Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailashsagarsuri Gyanmandir द्राक्षीत् । तेन पृष्टे-"कि सदियः।" ताभ्यामुक्तम्-"अस्माकं भर्ता सौधर्माच्च्युतः । अतो राजपुत्रं चल-| चूलं प्रार्थयावहे । परं त्वयि गते स मांसं भक्षयिता । ततो दुर्गतिं गन्ता । तेन दिवः।" तेनोक्तम्-"तथा| करिष्ये यथा तन्न भक्षयिता।" गतश्च तत्र राज्ञोपरोधाद्वङ्कचूलमबोचत्-"गृहाण वलिमुपिशितम् । पट्टभूतः सन् प्रायश्चित्तं चरेः।" वरचूलोऽवोचत्-"जानासि त्वं यदाचर्याप्यकार्य प्रायश्चित्तं ग्राह्यम् । ततः प्रागेव तदनाचरणं श्रेय इति ।" 'प्रक्षालनाद्धि पङ्कस्य दूरावस्पर्शनं वरम्' इति वाक्यान्निषेद्धो नृपतिः। विशेषपतिपन्नव्रतनिवहश्चाच्युतवल्पमगमत् । बलभानेन जिनदासेन ते देव्यौ तथैव रुदयो हदवा प्रोक्तम्-"किमिति | रुदियः।" न तावत्स मांसं ग्राहिता 1 ताभ्यां अभिदधे-“स हधिकाराधनावशादच्युतं प्राप्तः । ततो नाम| वदस्मदर्तेति ।" एवं जिनधर्मप्रभावं सुचिरं विभाव्य जिनदास स्वावासमाससादेति । अस्य दिपुरीतीर्थस्य निर्मापयिता वाचलः। ॥ इति वचूल प्रबन्धः अथ विक्रमादित्यप्रवन्धःविक्रमादित्यपुत्र विक्रमसेनराजानं प्रति पुसधसाऽऽशीर्दत्ता-“यत्वं पितुर्विक्रमादित्यादधिको भूयाः For Private And Personal Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विशति तदा देवताधिष्टिताभिः सिंहासनस्थाभिश्चतमृभिः काठपुत्रिकाभिहसितम् । तदा विक्रमसेनेन पृष्टाः पुत्रिका:-"किमिति हस्यते?" ताःप्रोचु:-"तेन सह समत्वमपि न घटते कुतो नामाधिक्यम् ?।" आद्याह"अवन्त्यां विक्रमो राजा अपूर्वसत्यवार्ताकथकाय दीनारपञ्चशती इत्ते । एवं श्रुत्वा खर्परचौरेण दीनारपश्चशती याचिता । वार्ता चैका कथिता। यथा-"गन्धवहश्मशानसमीपे पातालरिवरकूपे मया दीपो देवीहरसिद्धिप्रेषितः पतन् दृष्टः । मयापि तत्पृष्टे शम्पापितम् । पाताले तत्र दिव्यं सोधं दृष्टम् । तत्र तैलकटाहिका ज्वलन्ती दृष्टा । तत्पाश्चै एको नरो दृष्टः पृष्टश्च-"किमर्थ त्वमिह ।" तेनोक्तम्-"अत्र सौधे शापभ्रष्टा दिव्यकन्याऽस्ति । सा ब्रूते 'यस्तैलकटाहिकायां झम्पा दाता । स मे वर्षशतं पतिर्भविता।' अतोऽहमेतत्पतित्वार्थमत्र तिष्ठामि । परं साहसं नास्ति।" इति वार्तया पश्चशतो लब्धा । तेन खर्परेण सनं राजापि तत्र गतो विवरेण । तैलकटाहिकायां झम्पा दत्ता । कन्यया सोऽन्तेन जीवितः । यावत्सा राजानं घृणुते । ताबद्राज्ञोक्तम्-"अग्रेतनं नरं वरय ।" वृतः स तया । एवं यः परोएकारी तदधिकोऽयं कथं भावी? ॥ १॥" । द्वितीययोक्तम्-"कासीतो द्वौ द्विजो आयाती। विक्रमार्केण पृष्टौ राज्यस्वरूपम् । ताभ्यामूचे-"अस्मद्देशे पातालविवरमस्ति । तत्रान्धो राक्षसो वर्तते । अस्मद्देशस्वामी तिलकटाहे झम्पां दस्था स्वमांसेन राक्षसस्य पारणं कारयति स्म । राक्षसोपि तं पुनर्नवीकरोति । सस अपवरिकाः खर्णसम्पूणाश्च कुरुते । प्रत्यहं प्रातः ॥८६॥ For Private And Personal Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सप्ताप्यपवरिकास्त्यागेन रिक्तीकुरुते । शुत्वेदं विक्रमोऽपि तत्र गतः । कटाहे झम्पा दत्ता। रक्षसा भक्षितो जीवितश्च । राशसस्य शापेनान्ध्यमस्ति तच्छापान्तोऽभूत् । दृग्भ्यां पश्यति । दृष्ट्वा चाह-"कस्त्वं साहसी ?" तेनोक्ता-"विनोऽहम् ।" तुष्टोऽहं ते । याचस्व । राज्ञोक्तम्-"तुष्टश्चेत्तदाऽत्य राज्ञो नित्यं सप्ताप्ययपरिकाः | स्वर्गणी यांसुः । तथाऽस्य पुनरेवं कटाहिझम्पापातादियातना मा भूत् ।" रक्षसोक्तम्-"एवमस्तु ।” अतः विक्रमादिधिको भावी? | समोऽपि न अतो हसितः ॥२॥" तृतीययोक्तम्-"एकदा विक्रमार्को निजपूर्वास्तव्यखल्वाटकुम्भकारयुक्तो देशान्तरं गतः। परकायनवेशविद्यावेदी योगी मिलितः। स आवर्जितः तुष्टश्च विद्यां दातुमारेभे । राज्ञोक्तम्-“प्रथनं मम मित्रस्य ददत।" तेनोक्तम्-"न योग्योऽसौ।" निबन्धात्तस्यापि दत्ता गुणरञ्जितेन योगिना नृपस्य पश्चाद् बलादत्ता। अवन्तीं गतो राजा राज्यं करोति । एकदा पहाचो मृतः । विद्यापरीक्षार्थ राज्ञा स्वजीवतत्र क्षिप्तः । कुम्भकारेण स्वजीवो नृपदेहे । कुम्भकारो राज्यं करोति । तेनाश्वमारणाय चिन्तितः। नृपजीवः पूर्वमृतशुकदेहे प्रविष्टः । शुकोऽपि सोमदत्तश्रेष्टिभार्याप्रोषितभर्तृकाकामसेनागृहं गतः। सा तचातुर्येण हृष्टा राज्ञी समीपं न गच्छति । श्रेष्ठी समागतः। सा राज्ञी समीपं गता । अनागमनकारणं पृष्टा । शुकचातुर्यकारणं प्रोक्तम् । For Private And Personal Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रवन्धः तया आनायितः शुकः । सा रञ्जिता तेन, यथा राज्ञा पूर्वम् । एकदा शुकेन राज्ञीलेहपरीक्षार्थ गृहगोधिकादेहं गतम् । राश्या तद्वियोगेन काष्ठभक्षणं कर्तुमारब्धम् । तृपजीवेन शुको जीवापितः । सा राजी व्याकृत्ता। शुकेन सर्वोऽपि वृत्तान्तो राश्यै कथितः । राश्या कुम्भकारस्यावर्जना कृता । तेन कुम्भकारजीवेन तुष्टेन विद्याप्रदर्शनाय मृतबोकटदेहे स्वजीवः क्षिसः। नृपरे निजदेहं गतः। अजो भयात्कम्पते । राज्ञा उक्त:-"न भेत्तव्यम् । नाहं त्वत्समो भावी । सकृपोऽसि । त्वं मुखं जीव । चर । पिव।" ततः कथं तेन समो भविष्यति ॥३॥" चतुथ्योतम्-"एकदा विक्रमार्केणोत्तमं सौधं कारितम् । राजा तत्र गतः विलोकनाय । तत्र चेटकयुग्ममुपविष्टमस्ति । चेटकेनोक्तम्-"सुष्टु सौधमस्ति ।" चेटिकयोक्तम्-"यादृशं खीराज्ये लीलादेव्या बाथरहमस्ति तादृशमेतत् ।" राज्ञा तच्छुतम् । तद्गमनौत्सुक्यं जातम् । परं स्थानं तु न वेत्ति । तेन सचिन्तो जातामहमानो सपाशयं ज्ञात्वा तत्स्थानकज्ञानाय चचाल तन्मार्गे लवणसमुद्रं ततो धूलीसमुद्रमुत्तीर्य सत्र रात्री मदनायतने स्थितः। निशीथे इयधारवसंसूचितं दिव्यालङ्कारभूषितं दिव्यस्त्रीवृन्दमागमत् । सत्स्वामिस्या कामः पूजितः । व्यावृत्तमानानां तासां अश्वपुच्छे लगित्वा तन्न गतः । दासीभिदृष्टः स्वामिनी ८७॥ For Private And Personal Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पार्वे नीतः। तया लानादि कारितः । रात्रौ तद्गृह एव स्थितः । तया स्वपत्या उक्तम्-"मम विक्रमादित्यो भर्ता भूयात् , किं वा यो मां चतुर्भिः शब्दैर्जागरयति।" इत्युक्त्वा सुप्ता । तेन चिन्तितम्-"किं चतुर्भिरपि शब्दैन जागर्ति । तर्हि एनामहमेव जागरयिष्यामि।" चत्वारः शब्दाः कृताः यदा न जागर्ति तदापादाङ्गष्टश्चम्पितः। तया पादेनाहतः यत्र विक्रमादित्यः सुप्तोऽस्ति तत्र पतितः।राज्ञा पृष्टम्-"किमिदं ?।" तेन सर्वोऽपि वृत्तान्तः प्रोक्तः। ततो राजाऽग्निसंज्ञं वेतालमारुह्य तत्र गतः । वेताल प्रच्छन्नो जातः। राजा दासीभिस्तत्र नीतः। तया भक्तिः कृता। तद्रूपदर्शनात्सरागा जाता। परं शयानया प्रतिज्ञा कृता । तथैवोक्तम् । राज्ञा दीपस्थितो वेताल उक्त:-" भोः प्रदीपिकामपि कथां कथय ।" स वक्तुमारेभे। “कश्चिद्विप्रः। तस्य पुत्री। सा चतुर्णा वराणां दत्ता पृथक्पृथग्ग्रामे । चत्वारोऽप्यागताः । विवादो जातः । तया महान्तमनर्थ दृष्ट्वा काष्टभक्षणं कृतम् । स्नेहादेकेन वरेणापि चितामध्ये झम्पापितम् । एकोऽस्थीनि गृहीत्वा गङ्गायां गतः । एकस्तत्रोटजं कृत्वा स्थितो भस्मरक्षार्थम् । एको देशान्तरं गतः। भ्रमता च तेन सञ्जीवनी विद्या शिक्षिता । पुनरपि तत्रागतः। अपरेऽप्यागताः । सा जीवापिता । पुनर्विवादो जातः। तर्हि चतुर्णा मध्ये कस्य सा पत्नी?राज्ञोक्तम्-"अहं न वच्मि । त्वमेव ब्रूहि ।" स आह-"यश्चिताया सहोत्थितः For Private And Personal Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandit चतुर्विशति प्रबन्ध: ॥८८॥ 9 स भ्राता। योऽस्थिनेता स पुत्रः । येन जीवापिता स पिता उत्पत्तिहेतुत्वात् । यो भस्मरक्षकः स भर्ता || पालऋस्वात् ।” राज्ञा सबूलस्थगिका द्वितीयकथां पृष्टा । वेतालाधिष्ठानात्साप्याह-"कुत्रापि मृतभर्तृका ब्राह्मणी | अभूत् । हत्या हारेण सह सुता जाता । तां रात्री वाहिस्त्यक्तुं गता । इतश्च तत्र कोऽपि शूलाक्षिप्तो जीवनास्ति । तस्य पादे स्खलिता।तेनोक्तम्-"कः पापी दुखिनोऽपि दुखमुत्पादयति।"तयोक्तम्-"किंदुःखम् ?" सोऽप्याह-" देहपीडादिकं विशेषतो निष्पुत्रत्वं कथितम् । " पुनः शूलानरेणोक्तम्-" त्वमपि कथय । का त्वम् ?" निजचरितं तयोक्तम् । सन्निशम्य तेनाप्युक्तम्-"पुरो हृतं भूनिक्षिप्तं अत्रस्थं द्रव्यं त्वं मदीयमादाय सुतां मया सह विवाहय ।" ब्राह्मणी प्राह-" त्वमिदानी मरिष्यसि । सुता च लघवी । कथं पुत्रोत्पत्तिः।" तेनोक्तम्-"ऋतुकाले कस्यापि द्रव्यं दत्त्वा पुत्रमुत्पादयः।" तया तथैव सर्व कृतम् । पुत्रो जातमात्रो राजद्वारे क्षिप्तः। राज्ञः केनाप्यर्पितः । कालेन निपुत्रस्य नृपस्य राज्ये स एवोपविष्टः। श्राद्धदिवसे गङ्गायां पिण्डदानं कर्तु गतः । जलाद्धस्तत्रयं निर्गतम् । स राजा विस्मितः । कस्य करस्य पिण्डं ददामि । तर्हि भो राजन् ! पद कस्य देयः पिण्डः। राज्ञोक्तम्-" चौरहस्तस्य ॥" ॥८८॥ For Private And Personal Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir राज्ञा स्वर्णपालनकं जल्पितम् । तदपि कथामाह-"कस्मिन्नपि ग्रामे कश्चित्कुल पुत्रः स परिणीतोऽन्यग्रामे। परं तत्परनी श्वसुरगृहे नागच्छति । स स्वजननिर्गुण इति हस्यते । एकदा सर्वजनप्रेरितो मित्रयुतो तत्र गतः । मागें यक्षस्य शिरो नामितम् । तत्प्रभावात्सादरा जाना, आगन्तुं प्रवृत्ता । यक्षभत्रने सप्तीपमागते स एकाकी यक्ष नन्तुमागच्छत् । यक्षेण स्त्रीलोभेन तस्य शिरश्छेदितम् । महत्यां बेलायां मित्रमारानम्। तदवस्थो जातो धनिको दृष्टः। चिन्तितं च तेन-"जनप्रवादो भविष्यति यथा-अनेन स्त्रीतोहनः ।" तर्हि ममापि मर्तुं युक्तम् । इति विचिन्त्य तेनापि स्खशिरः छिन्नम् । महतिवेलायां साप्यागता। द्वावपि तदवस्थौ प्रेक्ष्य चिन्तितं तया-"जनोऽग्रेऽपि द्वेषिणी कश्यास्ति, सम्प्रति पतिनीमिति कथयिष्यन्ति । तर्हि |ब्रियेऽहं ।" इति ध्यात्वा गले शधिका लगापिता । तावता यक्षेण करे धृता। मा साहसं कुरु । तयोक्तम्"द्वावपि जीवय ।" यक्षेणोक्तम्-"शिरसी निजनिजकबन्धे योजय!" तयोत्सुकयाऽन्यान्यकबन्धयोय॑स्ते। तयोभीर्याविवादो जात:-"एको वदति पदीया द्वितीयोऽपि तथा ।" तर्हि कस्य सा?। राज्ञोक्तं-“यस्य कधन्धे शिरः स भर्ता, सर्वस्य गात्रस्य शिरः प्रधानमिति वचनात् ॥" 'क'रसमुद्गोपि कथामाह-"कुतोऽपि ग्रामात्स्वस्वकलाविदश्चत्वारः सुहृदो देशान्तरं चेलुः, एकः काष्टसुन्नधारः द्वितीयः स्वर्णकारः तृतीयः शालापतिः तुर्यो विप्रः । कापि वने रात्रावुषिताः। प्रथमयासे सूत्र For Private And Personal Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विंशति ॥८९॥ धारः प्राहरके स्थितः। तेन काष्ठपुत्रिका तरुणीसदृशी कृता समग्राऽपि । द्वितीयाहरे स्वर्णकारो यामिकः। तेनाभरणैर्विभूषिता । तृतीये शालापतिः । तेन क्षौमाणि परिधापिता। चतुर्थे विप्रेण सजीवा कृता। प्रातः सजीवां दृष्ट्वा सर्वेऽपि तजिघृक्षया मिथो विवदन्ते । तर्हि कस्य सा भो ! विक्रमादित्यनरेन्द्र ! ?। सा नाम श्रुत्वा चुक्षोभ। राज्ञोक्तम्-"तदहं न वच्मि ।" तयोरकथयन्तोश्च तया जल्पितम्-" भो राजन् ! कस्य सा?" राज्ञोक्तम्-" स्वर्णकारस्य । अधुनापि यः स्वर्ण चटापयति स एव भर्ती भवति ४॥" सा पप्रच्छ-" के यूयम् ।" दीपस्थेन वेतालेनोक्तम्-" असौ स विक्रमादित्यः।" सा हृष्टा व्यूढा च । तां गृहीत्वाऽवन्तीमागमत् । यदीदृग् तत्समकः, आधिक्ये तु का कषेति हसितम् । विक्रमसेनेन गर्वस्त्यक्तः ॥ ततो विक्रमसेनः पुरोधसमप्राक्षीत्-" यदि किल एताः काष्टपुत्रिका मम पितरमभुतगुणं वर्णयन्ति । तर्हि स एव लोके तत्प्रथमतयोत्तमत्वेनावती! भविष्यति । ततः प्राक् तु न कोऽपि ताहगुत्तमोऽभूदिति ब्रूमः।” पुरोधाः प्राह-"राजन् ! अनादिरियं रत्नगर्भा। अनादिश्चतुर्युगी । युगे युगे नररत्नानि जायन्ते । अहमेव प्रधानमिति गर्वो न हितकारी न च निर्वहते। यतस्त्वत्पितुर्विक्रमादित्यस्य मनस्येकदा एवमभूत्। यथा रामेण व्यवहृत्य लोकः सुखीकृतः । तथाऽहमपि करिष्ये । ततो रामायणं व्याख्यापितम् । तत्र यथा रामस्य । For Private And Personal Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दानं आगारस्थापनं वर्णाश्रमव्यवस्था गुरुभक्तिस्तथा सर्वमारब्धम् । ततोऽभिनयो राम इत्यात्मानं पाठयति । तद् दृष्ट्वा मन्त्रिभिश्चिन्त्यते स्म-" अनुचितकारी अस्मत्प्रभुः । यो गर्वादात्मानं तद्वन्मन्यते । अयं गर्वोsस्योपायेनोत्तारयितव्यः प्रस्तावे।" इतश्च त्वपित्रा विक्रमादित्येन पृष्टम्-"लोके स कोपि काप्यास्ते पोऽश्रुतपूर्व रामस्याचरणं ज्ञापयति नः।” तत एकेन ज्यायसा मन्त्रिणाऽपरमन्त्रिप्रेरितेन कथितम्-"राजेन्द्र ! कोशलायां विप्र एको वृद्धोऽस्ति। स काश्चित् श्रीरामस्य वार्ताः पारम्पर्यायाताः सम्यग् विवेद । आहूय पृच्छयते।" | राज्ञा आहूतः सः। सगौरवमायातः पूजितः पृष्टश्च-"वृद्ध ! वद काश्चिद्रामकथां नव्याम् ।" विप्रो बभाण"पृथ्वीनाथ ! यदि कोशलायामागच्छसि । तदा रामस्य कमपि प्रबन्धं साक्षाद्दर्शयामि । इह स्थितस्तु वक्तुं न पारयामि ।" तदा राज्ञा राज्यभारो मन्त्रिषु न्यस्तः । स्वयं महाचमूसहितो वृद्धद्विजयुक् अयोध्योपशल्यां ययौ । स्कन्धावारे तस्थौ । तदानीं स एव सर्वदिगीश इत्यभीः विप्रो भाषितः क्षमापालेन-"दर्शय रामदेवचरित्रम् ।" ततो विप्रः स्थानमेकं दर्शयित्वा भूपालमालपत्-"इदं भूखण्डं खानयत ।” ततः खानयति क्षमापालः । खनयत्सु खनकेषु प्रथमं हेमकलशः। ततो हैमी मण्डपिका प्रकटीवभूव । उपरितनं रजोपसारितम् । पश्चानुपूा प्रथमद्वितीयतृतीयक्षणा हैमा दृष्टा महीभुजा । चतुर्थे क्षणे नीरजे कृते विपुला उपानदेका हैम| सूत्रकृता ज्योतिर्जालजटामाणिक्यखचिता दृष्टा । भूपेन विस्मितेन गृहीत्वा हृदि शिरसि निहिता। अहो ! For Private And Personal Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पद्धर्विशति ॥२०॥ मान्या रत्नजातिरियं । ततो विप्रेण विज्ञप्तम्-" देव ! चर्मकारपत्न्या उपानदेषा न स्वष्टुमर्हति तच विष्टपपतेः।" विक्रमेणोक्तम्-“सा चर्मकार्यति धन्या। यस्या ई.पानत् । वद केयं का?" ततो विमो ब्रूते-"विश्वेश्वर ! श्रीरामे राज्यं कुर्वति सति अत्र चर्मकारसदनानि आसन् । इदमेकस्य चर्मकारस्थ सदनम्। तस्य पत्नी लाडबहुला। अतो गर्वमुद्वहति । विनयं न करोति । अत: कारणात् सा तेज इकिताहता च। याहि रे दुखं गृहीत्वा इत्युक्ता च। ततो रुष्टास्यामेकस्यां उपानहि तटपतितायां अपरिहितायां द्वितीयस्थां तु परिहितायां निजतातस्य सदनं जगाम । गत्वा पत्युः कठोरभाषितं पित्र बभाण । पित्रा दिनद्वयं स्थापिता आवर्जिता च अथोक्ता-"वत्से ! कुलस्त्रियाः पतिरेव शरणम् । तत्रैव याहि।" सोचे-"न यामे मानक्षयात्। द्विस्त्रिरुक्तिप्रत्युक्तयो भणिता । पितृभ्यां भाणितापि यदा पतिगृहं न याति तदा पित्रा भाषितम्-" वल्ले। अहमेवं मन्ये-यदा श्रीरामः सीतालक्ष्मणसहितः स्वयमागत्यानुनीय त्वां श्वसुरकुले प्रहिता । तदा तत्र गन्त्री त्वम् ।” साप्यलीकाभिमानिनी प्रवदति-"इदमित्थमेव । राम एवागते यामि तत्र नापरथा ।" इमं | वृत्तान्तं चरत्वनियुक्ता प्रच्छन्नाः सुरा गत्वा रामं व्यजिज्ञपन्-"देव ! अयं वृतान्तश्चमकारपुत्र्याः।" ततो। देवः श्रीराम प्रजावत्सलः प्रातः ससील: सलक्ष्मणः सामात्यस्तचर्मकारभवनमगात् । तन्मध्यं प्रविष्टः । पूजित: कारभिर्विमितिः । विज्ञप्तक्ष.-"देव ! अयमस्मान कीटान प्रति कियान प्रसादः कृतः। स्वमेऽपि नेदं। For Private And Personal Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandi सम्भाव्यते-यद्देवोऽस्मानुपतिष्ठते । किं कारणमागमनस्य ?।" श्रीरामः प्राह-"त्वत्पुत्र्याः श्वसुरकुले प्रेषणायायाताः स्मः। तस्या हि वराक्यास्तथाविधा संधाऽस्ते ।" ततो हृष्टस्तजनकः। अपवरकं गत्वा दुहितरमाह स्म-"मुग्धिके! तव प्रतिज्ञा पूर्णा । श्रीरामदेवो आयातः सदेवीकः। एहि वन्दस्वतं जगत्पतिम्।” ततस्तुष्टा रामान्तिकमागता। ववन्दे तम् । आलापिता प्रजातातेन-"वत्से ! गच्छ श्वसुरमन्दिरम् ।" तया भणितम्"आदेशः प्रमाणम् ।” गता पतिगृहम् । रामः स्वस्थानमायासीत् । श्रीविक्रम ! अस्या द्वितीया उपानत् तत्र पितृगूहे खन्यमाने लप्स्यते । स्वामिन् ! आयाहि तत्वान्यते । गतो राजा तत्र । खानितं तत् । लब्धा द्वितीयाप्युपानत् । दृष्टं हैमगृहम् । एवमन्यान्यपि तेन विप्रेण खानयितानि । लातं तद्धेम। राज्ञा विप्रः | पृष्टः-"कथमीदृशं सम्यग्जानासि । विप्रेण गदितम्-" पूर्वजपारम्पर्योपदेशात् ज्ञातं तुभ्वमुक्तं च । परं गर्व मा धाः । स रामः स एव । तस्य स्वाज्ञया जलज्वलनौ स्तम्भेते स्म । पतन्त्यो भित्तयोर्दत्तायां तदाज्ञायां न पेतुः। लूता द्विचत्वारिंशत् अन्धगडाः सप्तविंशतिः स्फोटिका अष्टोत्तरशतं विड्वराणि दोषाश्च सर्वे व्यनेशन् । या तु तद्देवी सीता ये त्रयस्तद्भातरो ये तभृत्या हनूमत्सुग्रीवादयस्तेषां महिमानं वर्षशतेनापि वाक्पतिरपि वक्तुं न शक्तः।" इति श्रुत्वा विक्रमेण गर्वो मुक्तः। बिरुदं निषिद्धं 'अभिनवरामः' इति । पुनरुज्जयिनीमागात् । यथाशक्ति लोकमुदधरत् । तस्य हि अग्निवेतालपुरुषकसिद्धिभ्यां For Private And Personal Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुविशात प्रबन्धः सुवर्णसिद्ध्या चोपकारैश्वर्य तदा निरुपममासीत्। ततो विक्रमो धन्य एव । तताधिकास्तु परः कोटयोऽभूवन्।" इत्याकर्ण्य विक्रमसेनो विवेकी अभूत् ॥ ॥ इति विक्रमादित्यप्रबन्धः॥ (१८) अथ नागार्जुनप्रबन्धःढण्कपर्वते सुराष्ट्राभूषणशत्रुञ्जयगिरिशिखरैकदेशरूपे राजपुत्ररणसिंहस्य भोपालनानी पुत्री रूपलाव|ण्यसम्पूर्णा पश्यतो जातानुरागस्य सेवमानस्य वासुकिनागस्य पुत्रो नागार्जुननामा जातः । स च जनकेन पुत्रलेहमोहितेन सर्वासां महौषधीनां फलानि मूलानि दलानि च भोजितः। तत्प्रभावेन स महासिद्धिभिरलतः सिद्धपुरुष इति विख्यातः । पृथ्वीं विचरन् पृथ्वीस्थानपत्तने सातवाहनस्य राज्ञः कलागुरुर्जातः। स च गगनगामिनी विद्याध्ययनार्थ प्रालित्तानकपुरे पादलिप्ताचार्यान् सेवते । अन्यदा भोजनावसरे पादप्रलेप ॥९१॥ For Private And Personal Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir बलेन तान् गगने उत्पतितान् पश्यति । अष्टापदादितीर्थानि नमस्कृत्य स्वस्थानमुपागतानां तेषां पादौ प्रेक्षाल्य सप्तोत्तरशतमहौषधीनां आस्वादेन वर्णगन्धादिभिर्नामानि निश्चित्य गुरूपदेशं बिनापि पादलेपं कृत्वा कुर्कुटपोत इवोत्पतन्नवटतटे निपतितः। व्रणजजरिताङ्गो गुरुभिः पृष्टः-"किमेतदिति।" तेन यथास्थिते प्रोक्ते तस्य कौशल्येन चमत्कृतचित्ता आचार्यास्तस्य शिरसि पद्महस्तं दत्वा भणन्ति-" षष्टिकतन्दुलोदकेन तान्यौषधानि वर्तयित्वा पादलेपं कृत्वा गगने गरुड इव स्वैरं ब्रज।" ततस्तां सिद्धिं प्राप्य परितुष्टोऽसौ ननत। | पुनरपि कदाचिद्गुरुमुखादाकर्णयति-"यथा रससिद्धिं विना दानेच्छासिद्धिर्न भवति।" ततो रसं परिकर्म यितुं प्रवृत्तः स्वेदनमर्दनजारणमारणानि चक्रे । रसस्तु स्थैर्य न बनाति । ततस्तु गुरुन् पप्रच्छ-"कथं रसं स्थैर्थमाबध्नाति ?।" गुरवः प्राहुर्यथा-"दुष्टदैवतनिहलनसमर्थायां श्रीपार्श्वनाथस्य दृशि साध्यमानः सर्वलक्षणोपलक्षितया महासत्या योषिता च मृद्यमानो रसः स्थिरीभूय कोटिवेधी भवति।" तच्छुत्वा स पार्श्वनाथप्रतिमां समहिमामन्वेषयितुमारेभे। परं तादृशीन क्वापि पश्यति । इतश्च नागार्जुनेन स्वपिता वासुकियात्वा प्रत्यक्षीकृतः, पृष्टश्च-"श्रीपार्श्वनाथस्य दिव्यकलानुभावों प्रतिमां कथय ।" तेजावाचि-"द्वारवत्यां समुद्रविजयदशाहंण श्रीनेमिनाथमुखान्महातिशयसम्पन्ना ज्ञात्वाश्रीपार्श्वस्य प्रतिमा प्रासादे स्थापयित्वा पूजिता। द्वारघत्या दाहानन्तरं समुद्रेण प्लाविता सा प्रतिमा तथैव समुद्रमध्ये स्थिता । कालेन कान्तीवासिनो धन For Private And Personal Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विशति ॥१२॥ तिनामकस्य सांयात्रिकस्य यानपात्रं देवतातिशयात् स्वलितम् । अत्र जिनबिम्ब तिष्यतीत्यदृष्टवाचा निश्चित्य नाविकास्तत्र निक्षिप्य सप्तभिरामसूत्रतन्तुभिर्वद्धवोद्धता प्रतिमा निजनगयाँ नीत्वा प्रासादे स्थापितास्ति । चिन्तितातिरिक्तलाभप्रहृष्टेन पूज्यते स्म प्रतिदिनम् । ततः सर्वातिशायि तद्विम्यं ज्ञात्वा नागा| र्जुनो रससिद्धिनिमित्तमपहृत्य सेडीनद्यास्तटेऽतिष्ठिपत् । तस्य पुरतो रससाधनार्थ सातवाहनस्य राज्ञश्चन्द्रलेखाभिधां महासती देवी सिद्धव्यन्तरसान्निध्येनानाय्य प्रतिनिशं रसमईनं कारयति । एवं तत्र भूयो भूयो | गतागतेन तया बान्धव इति प्रतिपेदेऽसौ । सा तेषामौषधानां मईनकारणं पृच्छति । स च कोटीवेधस्य रसस्य वृत्तान्तं सत्यं कथयति । अन्यदा द्वयोनिजपुत्रयोस्तया निवेदितं यथा-" सेडीनदीतटे नागार्जुनस्य रससिद्धिर्भविष्यति।" तो रसलब्धौ निजराज्यं मुक्त्वा नागार्जुनान्तिकमागतौ। कैतवेन तं रसजिघृक्ष प्रच्छन्नवेषौ यत्र नागार्जुनो जेमति तस्य गृहस्य परिसरे भ्रमतः। रन्धनीमालपतः-" त्वं नागार्जुनाय रसवती लवणबहुला कुर्याः । यदा तां रसवती क्षारां कथयति । तदाऽस्मभ्यं वदेः । साऽप्योमिति प्रतिशुश्राव । अथ सा तज्ज्ञानार्थं तदर्थं सलवणां रसवतीं साधयति । षण्मास्यामतिक्रान्तायां रसवती तेन क्षारेति दूषिता । रन्धन्या च राजपुत्रयांरग्रे गदितम् । अद्य क्षारत्वं जज्ञे नागार्जुनेन । ताभ्यामपि तस्य रससिद्धि| निश्चिक्ये । अथ तौ तस्य वधोपायं ध्यायतः पृच्छतश्च लोकं तज्ज्ञम् । पृच्छयां ज्ञातं यथा-" वासुकिना ॥९२।। For Private And Personal Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org एवास्य दर्भाड्कुरान्मृत्युः कथितोऽस्ति ।" नागार्जुनेन सिद्धस्य शुद्धस्य रसस्य कुतपो द्वौ भृती ढङ्कपर्वतस्य गुहायां क्षिप्ती। पृष्टचराभ्यां ताभ्यां ज्ञाती । मुक्त्वा वलमानो नागार्जुनस्ताभ्यां संमुखस्थो दर्भाङ्करेण जन्ने । मृतः सद्यः। . आलेख्य चित्रपतिते मृते च मधुसूदन । क्षत्रिये त्रिषु विश्वासश्चतुर्थी नोपलभ्यते ॥१॥ तौ कुतपो देवतया सङ्गहीतौ । राजपुत्रौ नरकपङ्कगोचरतां गतौ । देवतया क्रुद्धया हतौ । न रसलाभो न च धर्मस्तयोः । तावपि राजपुत्रौ मरणकाले पश्चात्तापेन दग्धौ-" हा हा ! येन खटिकासिद्धिवशाद्दशाहमण्डपादिकीर्तनानि रैवतोपत्यकायां कृतानि । येन रसो लोकोपकाराय साधितः। तस्य प्राणद्रोहेणावाभ्यां | किं साधितम् ? । एकं तावत्कलापात्रद्रोहः । अपरं च मातुलद्रोहः।" एवं दुःखार्ती मृतौ । रसस्तम्भनात् स्तम्भनं नाम तीर्थ तत्पार्श्वदेवस्य । कालान्तरे तद्विम्वं ततः स्थानात्स्तम्भनपुरे पूज्यतेऽधुना ।। ॥ इति नागार्जुनप्रबन्धः ॥ अथ वत्सराजोदयनप्रवन्धः- पूर्वस्यां वत्सो जनपदः। तत्र कौशाम्बी पूः। श्रीऋषभवंश्यशान्तनु-विचित्रवीर्य-पाण्ड-अर्जुन-अभिमन्युपरीक्षित-जनमेजयकुले सहस्रानीको राजा । तत्पुत्रः शतानीकः । तस्य पत्नी महासती चंदकराजनन्दनी For Private And Personal Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandit चतुर्विशति १९ ॥९३॥ मृगाक्षी मृगावती नाम तयोर्नन्दन: उदयनः । यः किलं नादसमुद्रो विख्यातः। यो गीतशक्त्या उज्जयिन्यां प्रवन्धः अनलगिरीभं विन्ध्याभिमुखं गच्छन्तं पुनरालाने निवेश्य चण्डप्रद्योतराज्यमद्योतयत्। स सुखेन राज्यं शास्ति यौवनस्थो भोगी कलासक्तो धीरः ललिती नायकः । इतश्च पाताले क्रौश्चहरणं नाम पत्तनम् । तत्र | वासुकिः सर्पराजः श्वेतो नीलसरोजलाञ्छितफणः। तस्य नामलदेवी नाम दयिता। विपुलो देशः। सक्षको नाम तस्य प्रतीहारो विषमादेविप्रियः । यस्य फणामण्डपे त्रयोदशभारकोव्यः विषस्य वसन्तीति श्रुतिः। वासुके पुत्री दिव्यरूपा कनी वसुदत्तिनामा। तस्याः सख्यश्चतुर्दश तद्यथा-" धारू १ वारू २ चम्पकसेना ३ वसन्तवल्ली ४ मोहमाया ५ मदनमूछो ६ रम्भा ७ विमलानना ८ तारा सारा १० चन्दनवल्ली ११ | लक्ष्मी १२ लीलावती १३ कलावती १४।" साताभिः सह वीणामृदङ्वंशसूक्तादिभिः क्रीडति । एकदा | तासां मध्यादेकया उक्तम्-“ खामिनि ! वसुदत्तिके! अहं खपरिच्छदा सधीची नरलोके कौशाम्ब्यां दिव्यरूपं महोधानं क्रीडितुमगाम् । दृष्टा तत्र बकुलविचकिलदमनकचम्पकविरहकादिद्रुमाणां सारणीनां द्रुमालवालानां वाटीकोदृस्य श्रीः । यदि खामिनी तत्कलि काम्यति, तदा तत्र पादमवधारयतु । इदं श्रुत्वा | सा वसुदत्तिका ताभिः सर्वाभिः सहेच्छासिद्ध्या सहसा तद्नं प्राप्ता । तत्र केलिं कुर्वन्ति ताः-" कुसु-ला॥3॥ For Private And Personal Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मानि चिन्वन्ति । तैः करण्डान्पूरयन्ति । धमिल्लानुत्तङ्गयन्ति । हारान्सारान् स्चयन्ति ।” एवं खेलन्तीनां तासां वने कोकिलकुलकलरवकलः कोलाहल उच्छलितः। तदाऽऽकर्णनादुद्यानपालक एत्य ता अद्राक्षीत् । अहोरूपमहो स्वरोज्हो प्रभेति विसिष्मिये । भक्त्या श्री उदयनं ताः समालोकितुमाह्वातुमगमत् । उदयनोऽपि कुतूहलादल्पपरिच्छदो वनमगात् । वसुदत्तिं ससखीकामालोकिष्ट । अभ्यासीच-"मनोजन्मनः महाव्याधेः परमरसायनमेतत् । अस्याः रूपसम्पत् जिह्वाभिः कोटिभिः ताभिर्वर्णयितुमशक्या। अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो तु कान्तिप्रदः शृङ्गारैकरसः स्वयं नुतनो मासो तु पुष्पाकरः । वेदाभ्यासजडः कथं तु विषयब्यावृत्तकौतुहलो निर्मातुं प्रभवेन्मनोहरभिदं रूपं पुराणो मुनिः ॥१॥ तद्यथायत्पश्यन्ति झगित्यपाङ्गसरणिद्रोणीजुषा चक्षुषा गच्छन्ति कमलोलितोभयभुजं यन्नाम वामभुवः। भाषन्ते च यदुक्तिभिः सचकितं बैदग्ध्यमुद्रात्मभिस्तद्देवस्य रसायनं रसनिधेर्मन्ये मनोजन्मनः ॥१॥ तं दृष्ट्वा सा पलायिष्ट । नृपोऽप्यन्वमाद् दुतं द्रुतम् । क्षणार्द्धन सर्वाः सख्योऽदृश्याः समपत्सत । सापि पातालविवरमाये गत एकस्मिन् प्रविष्टा । राज्ञापि ज्ञातम्-" कामरूपिणी गमिष्यत्येवेति।" तावत्करे धृत्वा तस्या वेणीदण्डो यमुनाजलप्रवाहप्रायः कृपाणिकया छिन्नः। गता सा मृगशावलोचमा । वेणी करेऽस्थात् । For Private And Personal Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चाशात प्रबन्धः ता वणीं पश्यंस्तां चमत्कृतचकोरचलाचलाक्षी स मुहुरार्षीत् । ततो हतप्रारम्भोदयापः सखेदः पू:परिसरमेत्य अमात्यानाहयावादील-" मया एवं एवं बालिकायाः कस्याश्चिद्वेणी छिन्ना । सा तु श्वभ्रमूलमगात् ।। अतो मम राज्येन न कार्यम् । इमामेव वेणी राज्यं कारयत ।” तेऽपि तथेति प्रतिपद्य पूर्वहिर्मण्डपे सोत्सवं वेणी राज्यं कारयन्ति रामपादुकावत् । इतश्च सा वसुदत्तिका खिन्ना गत्वा स्वसौधेऽखाप्सीत् । तस्याः सख्यस्तत्कबरी छिन्नामीक्षित्वा नामलदेवीमाकार्याऽदीदृशत् । जागरितां पुत्रीं नामलदेवी वत्से ! किमेतत् ? तवापि परिभवपदमित्यप्राक्षीत् । तमयापि यथास्थितं मात्रे आख्यत् , सापि नागपतये स्वषतये । क्रुद्धः सद्योऽसौ तक्षकमाकार्य कथामुक्त्वा आदिक्षत् यथा-"गच्छ सराष्ट्रं उदयनं भस्मीकुरु ।” सोऽपि तदादेशादचालीत् । कौशाम्बीं प्रापत् । तत्परिसरे उत्सवान् दृष्ट्वा नररूपः किश्चित्पप्रच्छ-"किमेतदुत्सवसाम्राज्यम् ?" तत्रत्येन जनेनोक्तं "एवं एक-राज्ञा दिव्यकन्यावेणी छिन्ना । उत्पन्नाऽनुतापेन राज्यं तदायत्तं कृतम् ।। अतो वेणी राशी । राजा चैव एकदेशे तपस्तप्यते ।" तक्षकेणोत्सवो दृष्टो। मध्ये भ्रमता राजाऽप्यालोकितः कुशस्रस्तरगः पद्मासनी जयमालापाणिः तपःक्षामः जितप्राणायामः मौनी । पृष्टश्च तक्षकेण नृरूपेण-"कस्त्वं ? किमर्थ तपश्चरसि ?" तेनापि दीर्घमुष्णं च निःश्वस्य गदितम्-“भो ! पुरुषविप्र ! किं पृच्छसि ? मां मन्दभाग्यम् । दृष्टा मयैका पुण्यवती मृगदृग् । तामनुसर्पता मया पातकिना यान्त्यास्तस्याः कबरी कृपाणि ॥९४॥ Tal For Private And Personal Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |कया निजपुण्यदशया सह कृता । सा मनीषितं स्थानं ससर्प । अहं तु उदयनो राजा राज्यं तत्सात्कृत्या स्वयं तपः कुर्वाणोऽस्मि ।" एवं श्रुत्या क्षणं स्थित्या उपद्रवमकृत्वा पालाल यात्या नागेन्द्रमाललाप-निपापप्रज्ञः देव ! दृष्टो मया उदयनः, वेणीपुरश्च तथा राज्योत्सवः । स पुण्यात्मा मृदुमना बाढं परितप्यते।। विनयी मानमर्हति ।" तच्छ्यणाद् अतुषदाशीवियेन्द्रः । तर्हि किंयुक्तमिति तक्षकमूचे । तक्षको घमारेदेव ! स एव वसुदत्तिविवाहाहः । कुलंन शीलेन विद्यया वृत्तेन पराक्रमेण रूपेण च किं वय॑ते सः । विधाकन्यालक्ष्म्यो हि कुस्थाने निवेशिता निवेशयितारं शपन्ति । नानलदेवीमतं च लात्वा तक्षकेय वत्सराजमाजूहवल । प्रवेशमहमचीकरत् । विवाहः प्रारब्धः। प्रथमायां दक्षिणायां सवत्सा भोः कामधेनुलब्धा। द्वितीयस्यां विशिष्टा नागवल्ली। तृतीयस्यां सोपधाना खवा लतृलोका । चतुर्थां रत्नोद्योतो दीपः । एवं रत्नचतुष्केण सत्कृत्य सजायं जामातरं कौशाम्बी पुरी प्रति प्रेक्यत् । गतः स्वपुरं तन बद्धं राज्यं भुनक्ति। क्रमेण स एव वासवदत्ता चण्डमधोतपुत्री गुणकत्ति पर्यणेषीत् ॥ इयं च कथा जैनानां न सम्मता, देवजातीय गैः सह मानवानां विवाहासम्भवतः। विनोदिसंभाऽहति । नागमतायुध्धृत्यात्रोक्ता। ॥ इति उदयनप्रबन्धः ।। For Private And Personal Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विशति ॥ ९५॥ (२०) ॥ अथ लक्षणसेनस्य प्रबन्धः-मन्त्रिणः कुमारदेवस्य च ॥ | पूर्वस्या लक्षणावती पूः । तत्र लक्षणसेनो नाम प्रतापी न्यायी नृपः। तस्य द्वितीयमिव जीवितं मला विक्रमभक्तिसारो मन्त्री कुमारदेवः । विपुलं राज्यम् । अपारसैन्यम् । अत्रान्तरे वाराणस्यां गोविन्दचन्द्राख्यनूपपुत्रो जयन्तचन्द्रो राजा । तस्य विद्याधरो मन्त्री। महेच्छानां अन्नदानणां सत्यवादिनां च प्रथमः।। एकदा जयन्तचन्द्रसभायां वार्ता इयमासीत्-" यल्लक्षणावतीदुर्ग दुर्ग्रहं राजा महाचमूसमूहसम्पन्नः।" तां बार्तामवधार्य काशीपतिः प्रतिज्ञां सभासमक्षमग्रहीत-"इतश्चलित्वाऽस्माभिलक्षणावतीदुर्ग ग्रहीतव्यम् । अथ न गृह्णामि तदा यावन्ति दिनानि दुर्गतटे तिष्ठामे, तावन्ति हेमलक्षाणि दण्ड गृह्णामि । अन्यथा न निवत्त ।" इति सन्धां निर्माय प्रयाणढक्कामदापयत् । मिलितः समकालं राज़लोकः । जाता गजमयीय सृष्टिः । भूपालमालामयी च भूमिः । अश्वमयमिव जगत् । निर्गतं सैन्यं बहिः। अखण्डितः प्रयाणभन् परबलान् , शोषक्न सरांसि, पङ्कयन्नदीः, समीकुर्वन् विषमाणि, चूर्णयम् शिवराणि, लेखयन शासनानि, जीवयन् साधुलोकान् , लक्षणावती प्राप्तः। दुर्गालातिदुरासन्ने भूभागे आपासान् दापयामास । लक्षणसेनस्तु द्वाराणि पिधाय धर्मध्ये एव तस्थौ । क्षुभिता पुरी। सङ्कीर्णत्वमापनसन्नपाधोघृततैलवसनताम्बू ॥९ ॥ For Private And Personal Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir लादिवस्तूनाम् । स्थान स्थान बात आती प्रवर्ती-"काशीपतिस्तु मुत्कलं परदेशं ग्रसते । सार्था एहिरे याहिरे कुर्वन्ति । सुभक्षमक्षामम् । नव्यानि कूपादीनि खनितानि । विचरन्ति स्वैरं सैनिकाः । वर्द्धन्ते व्यवसायाद् रिद्धयः । लुट्यन्ते ग्रामाः। द्वयोपयोरूर्ध्वमुखैरधोमुखैः शरैयुद्धानि । नतानि दिनान्यष्टादश।" तस्मिन् दिने सायं लक्षणसेनेन कुमारदेवो मन्त्री न्यगादि-" मन्त्रिन् ! इदमस्माभिरनुचितमाचरितम् । यदयं रिपुर्दशं प्रविशन्नेव न प्रतिस्खलितः। अधुना दुर्गरोधे लोको दुःखी मानग्लानिनः । तस्मात्प्रातर्योद्धव्यम् । दण्डं न ददामि । आह्वय सामन्तअमात्यादीन् ।" कुमारदेवः प्राह-“देव ! युक्तमेवेदम् । मृगेन्द्रं वा मृगारिं वा द्वयं व्याहरतां जनः । तस्य द्वयमपि वीडा क्रीडादलितदन्तिनः ॥१॥ त्वयि धृतायुधे वज्रायुधोपि कातर एव तत्कालं मिलिताः प्रधानयोद्धाः। उक्तो युद्धाभिप्रायः। प्रीतास्ते पीतामृता इय ! उत्तम्भिवास्तन वैजयन्त्यः । निष्पना वीरकरम्बकाः। सम्पन्नाचि पत्न्यामुत्कलापनानि । एवं सति कुमारदेवो राजान्तिकाद् गृहं गत्वा मन्त्रयतेस्म-"अस्माकं प्रभुयुद्धार्थी जयन्तचन्द्रस्तु बली। अस्थाने बलमारम्भो निदानं क्षयसम्पदः॥१॥ तस्मात् किं कर्त्तव्यम् ?। आः! ज्ञातम्-"जयन्तचन्द्रमन्त्री विद्याधरोऽनुसरणीयः। स हि प्रतिपन्नशूरः सकृपो निष्पापो दानी।" इति विमृश्य एनीमेकां स्वलिखितां सहाद्वाय प्राकारानगरपोतोद्वारेणैकाकी For Private And Personal Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailashsagarsuri Gyanmandit चतुशात प्रमजि. निर्गत्य मध्यरात्रे बहिः सैन्ये मन्त्रिगृहद्वारेऽस्थात् । तत्र द्वाःस्थैमध्ये मन्त्रिणं विद्याधरं आत्मानमायान्तमजिज्ञपत् । सद्यराहतस्तेन । आसितः स्वसमीपे, पृष्टश्च-" किं भवन्तः ।” मन्त्रिाणोक्तम्-" अहं लक्षणसेनाऽमात्यः कुमारदेवस्त्वां द्रष्टुमायासिषम् । किश्चिद्वक्तव्यमस्ति । तत्तु वक्तुं न शक्यते । पत्री तु लिखिता वक्षति । इत्युक्त्वा विद्याधरहस्ते तामार्पिपत् । तत्र श्लोको दृष्टः उपकारसमर्थस्य तिष्ठन् कार्यातुरः पुरः । मूर्त्या यामातिमाचष्टे न तां कृपणया गिरा ॥१॥ अस्य श्लोकस्यार्थ चिरं परिभाव्य विद्याधरोचिन्तयत्-" अयं महीयान् मदन्तिकमागतः। जयन्तचन्द्रापसारणमीहते। दण्डं च न दिसते । मय्येव भारमारोपयति । तस्मानिस्तार्योऽसौ व्यसनसागरात् । स एव पुरुषो लोके स एव श्लाध्यतामिह । निर्भयं सर्वभूतानि यस्मिन् विश्रम्य शेरते ॥१॥ इति ध्यात्वा कुमारदेवं जगाद-"मा भैषीः। दण्डं मा दाः । प्रातरत्रास्यत्सैन्यं न स्थास्यत्येव । गच्छ।" इत्युक्त्वा कुमारदेवं सत्कृत्य व्यस्राक्षीत् । गतः स स्वस्थाने। इतय विद्याधरो जयन्तचन्द्रान्तिकं गत्वा विज्ञ प्तवान्-"राजेन्द्र ! अद्य देवस्यात्रागतस्य दिनाष्टादशकं गतम् । कुमारदेकेन खयमेत्य ममाष्टादश हेमलक्षाणि प्रवेशितानि अतोऽभयं देहि ! प्रसीद । स्वस्थानं गच्छ । काश्यामपि मुक्तायां निर्वाहो नास्ति । दुर्घहं च | दुर्ग।” इति श्रुत्वा काशोन्द्रः सयो रात्रायेव चलितः । दशकोशी गत्वा स्थितः स्थनगर्यभिमुखीनिः पट For Private And Personal Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कुटीभिः । लक्षणावतीलोको विस्मितो इष्टश्च । लक्षणसनेम कुमारदेवः पृष्टः-"किमितिगती जयन्तचन्द्रः?" मन्त्रिणोक्तम्-देव ! स्वां युद्धोद्यतं श्रुत्वा काशीन्द्रः सभीतः प्राणत्राणार्थ गतः। काश्यधिपोऽपि काश्यासन्नं गतः सन् विद्याधरमादिशत्-"लक्षणावतीशदण्डधनचतुर्दिग्मिलितेभ्योऽर्थिभ्यो देहि । येन यशांसि प्रैधते।" विद्याधरोऽपि स्वामिनं स्माह-"देव ! कुमारदेवेन मह्यं रनमेकं दण्डपदे दत्तमस्ति । तेन सथः कथं हम निष्पद्यते?" राजोचे-"तहि रत्नं दर्शय।" अथ तेम पत्रीगतः श्लोकोऽदर्शि, कुमारदेवागमनवृत्तान्तश्च प्रोक्तः। विचाघरमुखाच तदवधार्य जयन्तचन्द्रो जजल्प अनल्पधी:-"मन्त्रिन ! तदैव किं नेयं पत्री दर्शिता । येन तेभ्यो विशिष्टां कृपां कुर्मस्तदैव । त्वया स्वधनार्पणाङ्गीकारेणैव वगं तत उत्थापिताः। प्रापितो दण्डोऽस्मभ्यं किल तेन । अथ हेमाष्टादशलक्षाणि कोशादाकृष्यार्थिभ्यो देहि । अष्टादशहेमलक्षास्तु कृपाप्रसादपदे लक्षणसेनाय, अष्टौ हेमलक्षाः कुमारदेवाय प्रेषय।" तथैव कृतं विद्याधरेण । प्रविष्टौ काशी तौ। स्फीतराज्यं भुखः। षड्विंशतिहेमलक्षेषु तत्र गतेषु लक्षणसेनेन कुमारदेवः पृष्टः किमिदं ।। कुमारः स्मितपूर्वकमाचष्ट-"त्वां विरोध्य कः सुखी तिष्ठेत् । ततोऽरिणा दण्डस्तेर्पितः। पिप्रिये पृथ्वीपतिः। मुमुद्दे प्रजाः। ववृते महोत्सवः । एवं मन्त्रिणः कालज्ञाः सुगूढाशयाः लाकभूपयो कार्य कुर्युरिति॥ ॥इति लक्षणसेनकुमारदेवप्रबन्धः ॥ For Private And Personal Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्ध ॥ अथ मदनवर्मप्रबन्धःचौलुक्यवंश्यो मूलराजचामुण्डराजदुर्लभराजभीमान्वये कर्णदेवजन्मा मयणल्लदेविकुक्षिभूद्वादशों रुद्र | इति विदितबिरुदः श्रीजयसिंहदेवनामा महीपतिरभूत् । स अणहिल्लपत्तनान्निर्मत्यामितैः सैन्यैर्मालवदेशराजधानी धारां द्वादशभिर्वर्जग्राह । प्रतोलीत्रयं स्फोटयित्वा यशपटहकुचरेण लोहीमर्गलामन्वभञ्जत् । साऽद्यापि देवपत्तने सोमनाथाग्रे दृश्यते । यशःपटहो मृत्वा व्यन्तरोऽभूत् । जयसिंहो मध्ये पुरं प्रविष्टो नरवर्माणं भूमौ पातयामास । वितस्तमात्रं चाहिसत्कमुदतीतारत् । अत्रान्तरे प्रधानैर्विज्ञप्तम्-"राजन् ! राजाऽवध्य एवेति नीतिवचः । तस्मान्मोक्तमोऽयम् ।" ततो मुक्तः सः काष्ठपिञ्जरे क्षिप्तः। नरवर्मचाऽन्यचर्मभ्यां सिद्धराजेन निजकृपाणे प्रत्याकार: कारितः। ततः कवीश्वरैर्विविधं स्तूयते सः एकधारापतिस्तेऽद्य द्विधारणासिना जितः। किं चित्रं यदसौ जेतुं शतधारमपि क्षमः॥१॥ __ ततो दक्षिणापथे महाराष्ट्र-तिलङ्ग-कर्णाट-पाण्ड्वादिराष्ट्राण्यसाधयत् । अनन्तं धनं सङ्घटितम् । ततो गुर्जरधरां प्रतिव्याघुटत् । यावद्देशसीमसन्धौ सैन्यनिवेशं कृत्वा स्थितस्तावत् सायं एकदा महा सभायामुपविष्टोऽस्ति प्रत्यक्ष इव सुर परिवृतः। तावत्कश्चिद्वैदेशिको भद्रः एत्याशीर्वादं भणित्वा सभां दृष्ट्वाऽवद ॥९७॥ For Private And Personal Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandie mami | दिदं यथा-" अहो! परमारवंशधूमकेतोः श्रीसिद्धराजस्य सभा मदनवर्मण इव मनोविस्मयजननी।"| तदाकर्ण्य सिद्धेन्द्रस्तमेव भद्रं पुरः उपवेश्य पप्रच्छ-"भद्र! कोऽसौ मदनवर्मा? क्व नगरे राज्यं करोनि?" भद्रः प्राह-"देव! पूर्वस्यां महोबकं नाम पत्तनं स्फारम् । तत्र मदनवर्मा नाम पृथ्वीपालः प्राज्ञस्त्यागी भोगी धर्मी नयी नल इव पुरुषोत्तम इव वत्सराज इव पुनरवतीर्णः पृथिव्याम् । तं राजानं तच्च पुरं यः खलु नित्यं पश्यति सोऽपि वर्णयितुंन पारयति । केवलं पश्यन्नन्तर्मनसं मूक इव स्वादं तद्गुणं जानाति । अस्माकं वचसि प्रायो लोकस्य विश्वासो नास्ति वावदूकत्वात् । परं प्रेषय किश्चित्परमाप्तं निजं मन्त्रिणं ज्ञम् । येन स तामृद्धिं दृष्ट्वाऽत्रागत्य देवपादेभ्यो निवेदयति ।" एवं भाद्रीं वाचमवधार्य सिद्धराजो मन्त्रिणमेकं कतिपयजनयुतं द्रष्टुं तत्र तेनैव भद्रेण सह प्रादेषीत् । गतौ तौ भद्रमन्त्रिणौ । महोबकपत्तनं दर्शितं भद्रेण मन्त्रिणा । दृष्ट्वा निर्विलंयं उपराजमेत्य यथास्थितमभाणीत्-"अवधारय स्वामिन् । गतस्तत्राहम् । दर्शितं भद्रेण तत्पत्तनम् । तदा वसन्तोत्सवस्तत्र प्रवर्तते । गीयन्ते वसन्तान्दोलकादिरागैर्गीतानि । भ्रमन्ति दिव्यशृङ्गारा नार्यः । मकरध्वजलक्षभ्रान्तिमुत्पादयन्तो विलसन्ति युवानः । क्रियन्ते प्रतिरथ्यं छण्टनानि पक्षकर्डमैः। प्रासाद प्रासादे सङ्गीतकानि । देवे देवे महापूजर । भोजनवारासाराः प्रतिसदनम् । राजकीयसत्राकारे तु दालिकूरावस्रावणानि मुत्कलानि न मुच्यन्ते । किन्तु गायां नियन्त्र्यते, तदा सघण्टो हस्ती निमज्जति । राजाऽश्व For Private And Personal Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१ चतुर्विशति ॥९८॥ वाराः परितः पुरं भ्रमन्तो बीटकानि ददते लोकाय। कपूरैलिपर्वादयः। रात्रौ विपणीन् वणिजोन संवृणन्ति | उद्घाटान् विमुञ्चन्ति । प्रातरागत्योपविशति । एवं नीतिः । व्यवसायोऽप्याचारमात्रेणैव । तत्र देशे लोहवानिवत्सुवर्णरूप्यखानीर्वहन्ति तेन सर्वः कोऽपि सिद्धार्थत्वात् । राजा तु कीगप्यास्ते मया स न दृष्टः। इदं श्रुतं स नारीकुञ्जरः सभायां कदापि नोपदिशति । केवलं हसितललितानि नेति प्रत्यक्ष इन्द्रः।" ा एवं वचः श्रुत्वा सिद्धराजो महता सैन्येन महोबकं प्रति प्रतस्थे । क्रमेण गच्छन् तस्थौ तदासन्ने भूप्रदेशे कोशाच्टकेन । क्षुभितो देशः। स्थानाचलितं महोरकम् । प्रधानर्मदनवर्मा दिव्योद्यानस्थः स्त्रीसहस्रसमावृत्तः एत्योचे-"स्वामिन् ! सिद्धराजो गोर्जरः उपनगरमागतोऽस्ति, स कथं पश्चानिवर्तनीयः ?" मदनवर्मणा स्मित्वा भणितम्-"सिद्धराजः सोऽयं यद्धारायां द्वादश वर्षाणि विग्रहाय अस्थात् । स कथाडी राजा वाच्यो भवद्भिः । यदि नः पुरं भुवं च जिघृक्षसि । तर्हि युद्धं करिष्यामः । अथार्थेन तृप्यति तदाऽयं गृहाणेति । ततो यद्याचते सवराकस्तद्देयं भवद्भिःन वयं धने दत्ते त्रुट्यामः। सोऽपि जीवतु चिरम् , यो वित्तार्थ कृच्छकर्माणि कुर्वाणोऽस्ति ।" राज्ञो यचोऽनुगृहीत्वा मन्त्रिणः परचक्रमगुः । मन्त्रिभिर्राजवाक्यं दूतमुखेन भाणितम्-"यदि अर्थमीहसे तदाऽर्थ लाहि । भूमि चेत्तर्हि युद्धामहे वयम् । मदनवर्मदेवाय ज्ञापितं अत्र भवदागमनम् । तेन अस्मत्प्रभुणा उक्तम् , कवाडी राजाऽर्थेन तर्पणीयः सः।" सिद्धराजस्तल्लीलया विस्मितः ९८॥ For Private And Personal Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir पण्णवतिकोटीः कनकस्यायाचीत् । दत्तास्ताः प्रधानैः। सद्यः देशंः सुखं तस्थौ । तथापि पश्चान्न याति। तदा प्रधानैर्भाणितम्-राजन् ! अर्थो लब्धस्त्वया । कथमथ न प्रतिगच्छसि।" सिद्धेशेनभाणितं मन्त्रिपुर:"तं लीलानिधि भवत्ममुं दर्शयथ ।" तेऽप्येत्य मदनवर्माणमभणत्-"अर्थेन तोषितः स क्लेशी राजा। परं भणति राजेन्द्रं द्रष्टुमी हे।" ततो मदनवर्मणा निगदितम्-"तर्हि एतु सः सैन्यं तथास्थमेव मुक्त्वा ।" ततो मितसैन्यस्तत्रोद्याने आगतः सिद्धराजः । यत्र महाप्राकारस्थे सौधे मदनवर्माऽस्ति । प्राकाराद्वहिर्योध सास्तिष्ठन्ति । प्रतोली यावदागत्य मध्येऽचीकथद् द्वाःस्थैः, आगतमस्माभिः। महायकप्रभुणा भाणितम्"जनचतुष्केण सहागच्छत ।" आगतो मध्ये सिद्धराजः। यावत्पश्यति काश्चनतोरणानि सप्तप्रवेशद्वाराणि। | अग्रे ददर्श रजतमयीर्वापी, नानादेशभाषाविचक्षणाः शशाङ्कमुखीर्विशालनितम्बस्थलास्तारुण्यपुण्यावयवाः स्त्रीः, पणववेणुवीणामृदङ्गादिकलासक्त परिजनजनम् । स्फीतानि गीतानि शुश्राव । नन्दनोद्यानाधिकमुद्यानं, हिमगृहाणि, हंससारसादीन् खगान् , उपकरणानि हैमानि, कदलीदलकोमलानि वसनानि, जनितानन्तरागान् उत्तुङ्गान् पुष्पकरण्डांश्चैक्षत । एवं पश्यन् पश्यन् पुरः पुरो गच्छन् साक्षादिव मदनं मधुरे वयसि वर्तमानं मितमुक्ताफलप्रायभूषणं सर्वाङ्गलक्षणं काश्चनप्रभं मधुरस्वरं तामरसाक्षं तुङ्गाघ्राणं उपचितगात्रं मदनवर्माणमपश्यत् । मदनवर्माप्यभ्येत्याश्लिले। हेमासनं दत्वा तमभाणीत्-"सिद्धेन्द्र ! पुण्यमद्यास्माकं येन For Private And Personal Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्धः ॥ ९९॥ २१ त्वमतिथिः सम्पन्नोऽसि।" सिद्धराजः प्राह-"राजन् ! आवर्जनावचनमिदं मिथ्या। यत्तु त्वन्मन्त्रिणामने कबाडी इत्युक्तं तत्सत्यम् ।" मदनवर्मा जहास। सिद्धेश! केन वा विज्ञप्तमिदम् । सिद्धेशः प्राह-"तैरेव मन्त्रिभिस्तावकैः । कोऽभिप्रायो मानिन्दाभणने देवस्य।" मदनवर्मा आह-"देव ! कलिरयम् , अल्पं जीवि-|| तम् , मिता राज्यश्रीः, तुच्छ बलम् , तत्रापि पुण्यः स्फीनं राज्यं लभ्यते, तदपि चेत् न भुज्यते, रुल्यते विदेशेषु, तत्कथं न कवाडिकस्त्वम् ।" सिद्धेशेनोक्नं-"सत्यम्," तादृशः काटिक एवाहम् । त्वमेवायं धन्यो यस्येत्थं शर्माणि । त्वयि दृष्टेऽस्माकं जीवितं सफलम । चिरं राज्यं भुइक्ष्व।" इत्युक्त्वा तस्थौ । मदनवर्मणात्थाय निजपरिजनकोशदवनावसरादि सर्व दर्शिनम् । प्रेमावृधत् । विंशत्युत्तरं पात्रशतं स्वाङ्गसेवकं सिद्धराजाय व्यतरत् । तेन प्रीतों जयसिंहदेवः सैन्यं गृहीत्वा धारामध्ये भूत्वा पत्तनं अणहिल्लपुरं प्रविष्टः। तेषां १२० मध्यादई पथि मृतं माईवात्, शेषं पत्तने प्रविष्टम् । पत्तनप्रवेशोत्सवे श्रीपालकविना सिद्धराजा वर्णितः मानं मुश्च सरस्वति त्रिपथगे सौभाग्यभनीं त्यज रे कालिन्दि तवाफला कुटिलना रेवे रयस्त्यज्यतां। श्रीसिद्धेशकृपाणपाटितरिपुस्कन्धोच्छलच्छोणितश्रोतोजालनदीनवीनवनितारक्तोऽम्बुधिर्वर्तते ॥१॥ एवमन्यैरपि कविभिभणितानि । ॥ इति मदनवर्मप्रवन्धः॥: For Private And Personal Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथ रत्नश्रावकप्रबन्धःउत्तरस्यां दिशि काश्मीरेषु देशेषु नवहुल्लं नाम महर्द्धिमत्पत्तनम् । तत्र विक्रमाकान्तभूचक्रो नवहंसो नाम भूपालः। तस्य राज्ञी रूपश्रीहसितरम्भाग विजयादेविनानी सत्रैव पत्तने पूर्णचन्द्रः श्रेष्ठिराजो. ऽभूत् । मन्नन्दनास्त्रयः। रत्नो मदनःपूर्णसिंहश्च त्रयोऽपि जैनाः श्रीमन्तः प्रियंवदाः सात्त्विकाः प्राज्ञाः राजपूज्याः पारम्भसिद्धाः । रत्नस्य पत्नी पउमिणोरिति ख्याता । पुत्रस्तु कोमल इति नाम थालो वर्त्तते । तदा श्रीनेमिनाथनिर्वाणादष्टसहस्त्री वर्षाणां व्यतीताऽस्ति । अस्मिन्नवसरेऽतिशयज्ञामी पहमहादेवनामा नवहुल्लपत्तनपरिसरे समकासात् । देवभूमिः शोधिता। उदश्छोटिता। कनकपा मण्डितम् । तत्र पट्टमहादव उपविष्टः । मध्य नगरम्य तदागमनं ज्ञापितमुद्यानपाम लोकाय पाय च । प्रथममामतो पासान्त:पुरमरित्रदः । सरत्नमदनपूर्णसिंहः । अपरोऽपि लोकस्तथैव । श्रेष्टिनी पउमिणिरपि सपुत्रा तत्रागता । एवं सभायां बदम्बम्मनकमुन्दरायां गुरुर्देशनां मारेभे-- यास्यामीति जिनालये सालभते ध्याश्चतुर्थ फलं षष्ठं चोस्थितुमुद्यतोऽष्टममयो गन्तुं प्रवृत्तोऽभवनि। श्रद्धालईशम बहिर्जिनगृहात प्राप्तस्तता द्वादशं मध्ये पाक्षिकमीक्षिते जिनकतो मासोपवासं फलम् ॥१॥ For Private And Personal Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्ध ॥१० ॥ and सयं समजणे पुनं सहस्सं च विलेवणे । सयसाहस्सीया माला अणंतं गीअवाइअं॥२॥ पूजा कोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः ॥ ३ ॥ ___ इदं सामान्यतः सर्वजिनसेवाफलम् । शत्रुञ्जये तु सविशेषं तदेव असंख्यानां यतीनां सिद्धत्वेन सिद्धा क्षेत्रत्वात्। धूवे एक्खो वासो मासक्तवर्ण पूरध्वस्मि । कत्तिअमासक्खवणं साहपडिलाभिए लहइ ॥१॥ इति वचनात् । शत्रुञ्जयादपि रैवतसेवा महाफला । रैवतो हि शत्रुञ्जयैकदेशत्वात् शत्रुञ्जय एव, श्रीनेमिकल्याणकत्रयभावादतिशायितमप्रभावश्च । नेमिनाथस्य माहात्म्यं मिथ्यादृशोऽपि प्रभासपुराणे एवं प्रवदन्तः श्रूयन्ते पद्मासनसमासीनः श्याममूर्तिदिगम्बरः नेमिनाथः शिवेत्याख्यो नाम चक्रेस्य वामनः ॥१॥ वामनावतारे हि वामनेन रैवते नेमिनाथाऽग्रे बलिवन्धसामर्थ्यार्थ तपस्तेपे इति तत्र कथा। कलिकाले महाघोरे सर्वकल्मषनाशनः दर्शनास्पर्शनादेवि कोटियज्ञफलप्रदः ॥२॥ ईश्वरोक्तमिदं प्रभासपुराणे एवम्-"तमानेन नेमिनाथो वन्दितो रैवतगिरिमारुह्य तेन किल परमपदं IN॥१०॥ For Private And Personal Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रद्धालुना गृहीतमेवेति तत्त्वम् ।” इत्येतां देशनां श्रुत्वा रत्नः आवक उत्थाय गुरोरग्रे प्रतिज्ञा चक्रे-"मया ससङ्केन यदा रैवते नेमिः प्रणतो भविष्यति। तदा द्वितीया विक्रतिग्रहीतव्या। तदैव एकभक्तं भोक्तव्यम्। तावन्तं च कालं यावद् ध्रुवं भूमिशय्याब्रह्मचर्य धार्ये । वरं प्राणांस्त्यजामि परं नेमिनाथं नमाम्येवेति ।" ततः स्वगृहमायातो राजा लोकश्च । रत्नश्रावकोपरोधात् पट्टमहादेवस्तत्रास्थात् । रत्नस्तूपायनं दत्त्वा राजानमूचे-" राजन् ! मां नेमियात्रायै रैवतगमनाय विसृज।" राज्ञोक्तम्-" स्वैरं धर्मः समाचर्यताम् । अस्माकं मतमेतत् । यद्विलोक्यते तद् गृहाण ।” रत्नो जहर्ष । सङ्घममेलयत् । गजरथतुरगपदातिरूपं महः । त्तम सैन्यं नृपालेभे । यस्य यन्न्यूनं तस्य तत्पूरयामास । अमारिचैत्यपरिपाटीशान्तिकभोजनवारापतिलाभनाबन्दिमोक्षलोकसत्कारांश्चकार । गणितं मुहूर्त्तम् । चलितो देवालयः । राजा महोत्सवकरः परमसखा करभशतर्धनानि चेलुः। श्रेष्ठिनी पउमिणिर्नुपपत्नी विजयदेवीं यालवयस्यां भेटायितुं जग्मुषी पादयोस्तस्याः पेतुषी आपपृच्छे-"स्वामिनि ! यात्रायै यान्त्यस्मि । भवद्वियोगदुःखं दिनकतिपयानि धर्मलोभतः सोदुमीहेऽहम्।" राज्ञी अपि शास्तुमूचे-" सखि ! तत्र गता धनकृच्छतया कार्पण्यं कृत्वा मां लज्जापात्रं मा कृथाः। बैरं ददीथाः । अमूनि धनानि भूषणानि वसनानि यथेच्छं गृहाण ।" इत्युक्त्वा भूरि ददे । पदानि कतिपयानि सम्प्रेषयत् । निवृत्ता राज्ञी । श्रेष्ठिनी सङ्घमध्यमध्यास्त । श्रीपट्टमहादेवो गुरुः सह व्यवहरत् । तेन सनाथः For Private And Personal Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir RI प्रबन्ध चतुर्विशति समित्यं धनस्य स्वैरं व्ययः। कोटीश्वराः साधर्मिका:-परसहस्राः। चन्द्रहासनगमका भटाः शतसहस्राःलेन क्व भीः । एवं पथि तीर्थानि वन्दमानो रत्नः सङ्कपतिर्वान्धवद्ययुतः सपुत्रः सपत्नीकस्तावद् ययौ । यावद् रोलातोलाख्यौ द्वौ पर्वतौ स्तः। तत्र प्राप्तः । इह किल शत्रुञ्जयमध्ये भूत्वा रैवतं गच्छतां लोकानां रोलातोलौ गिरी न स्तः। परं भद्रेश्वरपथे गच्छतां स्तः। तत्र रोलातोलयोरयामुखे मिलित्वा तोडुकद्वयमिव जातमास्ते । तत्र परिसरे सत्र आवासिनः। दिनं सर्व स्नात्रचत्यवन्दनानादपूजाभोजनादीनि स्वैरं ववृनिरे । रात्री सुखं स्थितं । प्रातः पुरो गमनाय संनह्याचलरसङ्घः। यावदग्रयानं गिरिमुखसङ्कटपथेन चलितुं प्रवृत्तम् । तावता कश्चिदेको मषीश्यामो व्यात्तवक्त्रो नरसिंहयपुरहहासी बहुगम्यूतोचो दंष्ट्राकरालास्यो नखरैलोकं दारयितुं प्रववृते । भक्षयामि भक्षयामि च ऊचे । तद् दृष्ट्वा भीतो लोकः पश्चानिवृत्य गच्छति । तद्राजपुत्रैतिम् । नैर्गत्वा स कालरूपः प्रवभाषे-" कस्त्वं कथं जनमुपद्रवसि ? । देवो वा दैत्यों या राक्षसो वा येन तन्नामा पूजयामः।" स कालमूर्तिर्वदति-"किं रे! बादं वदथ । यदि पुरः पदमकं ब्रजिष्यथ । तदा सर्वान् एकैकशययिष्याम्येव ।" इति गदति सति तस्मिन् सङ्घरक्षपालैर्भटेव्याघुट्य रत्नो विज्ञान:-" देव! एव|मवं वृत्तान्तः । पुरो गन्तुं न लभ्यतेऽभाग्यात् । एवं तदंष्ट्राचार्यता लोकाः पुरः पतिताः प्रेक्ष्यन्ताम् । नदाकपर्य कर्णकटुकं विषण्णो रत्नः । क उपायः १ का गतिः १ का मतिः ? इति कलकालतः सङ्घः । विशेषतः For Private And Personal Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir योजनः । स्थाने स्थाने घृन्दशो यातः केचिद्वदन्ति-" पश्चान्नित्य गम्यने । अयं सर्वमक्षयिष्यत्येव ।' जीवन्नरो भद्रशतानि पश्यतीति।" अपरे स्व.हु:-"प्रियते च म्रियताम् । गम्यते पुरः, नेमिरव शरणम्।" केचिद् द्रुमलनान्तरिनास्तस्थुः। अन्ये ज्योतिषमपश्यन् । इतरे सङ्घसस्थानमुहूर्त्तदातारमनिन्दिषुः । इत्येवं. विषमे वर्तमाने सङ्घपतिरत्नेन भटाः प्रभाषिता:-" गत्वा पृच्छत तं घोरं नरम् । त्वं कथं प्रसीदसि । येन नत्कुर्मः। पुरा व्रजःमः।" गता भष्टाः। भाषितं रत्नवचनं तदने। लेनोक्तम्-" अहमेतस्या गिरिभुवो विष्टस्ता। एक सङ्घप्रधानमनुषं भक्षयामि । ततस्तृप्यामि । अन्येषां नोपद्रवामि, प्रतिज्ञा च न लड़े।" ते मा भवास्तत्सम्यग्निीय तदालापं रत्नाय ऊचुः । रत्नेनैकत्रोपवेशिताः सर्व लोकास्तथा सन्नद्रा एव भणिताच ने लोका:-" पुण्यं मे महद् , येनासो कोपि घोरपुरुषः एक मानुषं जिक्षति । तद्भागात् तृप्तश्वेच्छेषं न P क्षयति । तस्मादू यूर्य याता नेमि वन्दध्वम्। मयाऽस्मै स्थान देयम् । अहा ! लाभोदयः । इयत्काल विविधa यत्नपालितं देहं सङ्घार्थे उपकृतम् ।" एवमुक्त्वा तूष्णीके सङ्केश राजपुत्राः प्रभणन्ति-" नररत्न ! रत्न ! त्वं चिरं जीव । अस्माकं मध्ये एकतरेण स धायतु । वयं हि संवकाः । सेवकानां च धर्मोऽयम् । यन्मृत्वाऽपि प्रभुरुदरणीयः। अन्यथा धर्मयशोवृत्तिक्षयात् ।" ने मुग्गडा हराविया ये परिविद्धाताई। अवरपरजोयं तह सामिउगं जिजाई ॥१॥ For Private And Personal Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रबन्धः ॥१०२॥ - सङ्घप्रधानसाधर्मिका ऊचुः-"हेरत्न ! त्वं चिरं जीव । युवाऽसि राजपूज्योऽसि सहस्रलक्षजनपोषकोसि पवयं विनश्वरकलेवरव्ययेन स्थिरं धर्म जघृक्षामहे । जइ रविवजइ तो कुहइ, अह डज्झइ तउ च्छारं । एयह दुट्ठकलेवरह जं वाहियइ तं सार ॥१॥ मदनपूर्णसिंहभ्रातरौ जगदतुः-" आवयोस्त्वं ज्येष्ठो भ्राता । ज्येष्ठो भ्राता पिता यथा। पितरायत्तश्च पुत्रप्रायो लघुभ्राता। किं रामाग्रे युवा लक्ष्मणेन न प्राणास्तृणीकृताः। लेहोन ज्ञायते देव ! प्रणामान मृदूक्तितः । ज्ञायते तु क्वचित्कार्ये सद्यः प्राणप्रदानतः॥१॥ पउमिणि—ने-“कुलस्त्रियायाः पत्याधीनाः प्राणाः । पत्यौ लोकान्तरिते जीवन्त्यपि मृताः शृङ्गाराधभावात् । ग्रथा| शशिना सह याति कौमुदी सह मेघेन तडिद् विलीयते। प्रमदाः पतिवम॑गा इति प्रतिपन्न हि विचेतनैरपि ॥१॥ __ भर्तरि मृते नार्याऽनुमर्तव्यम् । तावद्यदि मयि मृतायां त्वं जीवसि। तदा किं न लब्धं मया।" कोमल: माह तात! एकदेहविनिर्माणादधमर्णीकृतैः सुतः । यशोधर्ममयं देहद्वयं पित्रोर्थिनिर्यते ॥ १ ॥ For Private And Personal Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandit इत्येवं वदतस्तान् सर्वान् युक्तिभिर्याढं निषेध्य स्वयं मत्तुं स्थितः। सो वहन् कृतः। कालपुरुषेणोपद्रवों न कृतः । गते तु सङ्घ रत्नःश्रीनमिपरायणः स्थिरः तस्थौ । पउमिणि ग्रे गता । परत्र स्थित्वा कायोत्सर्गमधात् । कोमलो पि तथैव । कालपुरुषेण रत्नो गिरिगुहायामेकस्यां क्षिप्तः । द्वारि शिलां दत्त्वा पुच्छं आच्छोटयति। सिंहनादैः खं बधिरयति। तथापि रत्नो न बिभेति । हृदि स्थितजिनरागः। अत्रान्तरे कूष्माण्डी वन्दितुं रैवतशिखर क्षेत्रपतयः सप्त कालमेघ १ मेघनाद २ गिरिविदारण ३ कपाट ४ सिंहनाद ५ खोटिक ६| रैवत ७ नामानो मिलिताः। ते देवीं वन्दित्वा ऊचु:-" देवि! कापि पर्वतो धडहडायते । ईदृशं क्वापि पूर्व न जातम् । याहगधुना वर्तते । ततः पश्य किमिदं ? । कापि पुरुषो महानेक उपद्रयमाणोऽस्ति केनापि रेण ।" अम्बया ज्ञातं ज्ञानेन । तैः सह सत्र गता । पउमिणिकोमलौ दृष्टौ तथा कायोत्सर्गस्थौ । कृपाभक्ती जाते । गुहाद्वारं गत्वा स आक्षिप्तः क्रूरः । रे। किमिदं करोषि । युध्यस्व चेत्समर्थोऽसि । रत्वं रक्षामो वयं क्षेत्रपालाः। अहं अम्बा जगदम्बा। तथोक्तेघुघुरितः सः। युद्धं ववृते। यावता सोऽम्बया पादे धृतः शिरः परितो भ्रमयित्वा स्फालयिष्यते ग्रावण्युग्रे तावत्प्रत्यक्षो दिव्यमूर्तिः पुरतो नरो ददृशे। रत्नश्च पुरः दिव्याभरणाङ्गरागी सप्रियः सपुत्रः सुखी । उचे च स-दिव्याङ्ग:-" अम्बे ! क्षेत्रपाः श्रीरत्नश्च शृणुत । यदा रैवतमहिमानं गुरुजगी । तदाऽनेन रत्नेन प्रतिज्ञा कृता । मया प्राणव्ययेनापि नेमिर्वन्दनीय एवेति । तदाऽहं For Private And Personal Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir N A . . .. प्रपन्य: चतुर्विशति वैमानिकः सुरः शङ्करो नाम। तत्र उपगुरु निषण्ण आसम् । मथा न सोढा साऽस्य सन्धा। तेनात्रागत्य एव॥१०३॥ LTDमुपद्रुतोऽयं रन: महासत्वः । धन्याऽस्य जाया पुण्यवानगजः श्लाघ्या यूयं सङ्कभक्ताः साहाय्यकराश्च । अहं | यदि सत्येनैव युध्येयम् । तदा भवद्भिर्न जीयेय । परं क्रीडामात्रमेतदमलिनमनसा कृतमिति । रत्नदृष्ट्वा रत्नमालिङ्गय सङ्घमध्ये मुक्त्वा वयं यां ययौ । अम्बाथा गिरिमगुः । सङ्घो रैवतकमारोह । नेमि ननाम । लेप्यमूत्तौ नेमो तथा लानं जलस्तेने । यथा बिम्बं घटीद्वयेन गलित्वा मृद्भूय भूम्या सह मिलितम् । विषण्णाः सर्वेऽपि । विशेषतस्तु रत्नः । अचिन्तयच धिग्मां आशातनाकारिणम् । येन एवंविधतीर्थविध्वंसजिनभाजनं जातोऽस्मि । अथ तदा भोक्तव्यम् । यदा तीर्थ पुनः स्थापितं भविष्यति । इत्युक्त्वा बन्धवो सहरक्षायै नियुज्य अम्बां ध्यात्वा तपस्तेपे। षष्ट्युपवासान्तेऽम्बा प्रत्यक्षीभूय तं काश्चनबलानाख्ये इन्द्रनिर्मिते निश निनाय । तत्र तीर्थे द्वासप्ततिजिनबिम्बानि महाकायान्यदीहशत् । तत्राष्टादश हैमानि अष्टादश रत्नानि अष्टादश राजतानि अष्टादश शैलमयानि एवं द्वासप्ततिः । तत्रैकस्मिन् रत्नमये बिम्बे रत्नः खनामसाम्यादिव तुष्टो विलग्नः । इदमर्पय मे स्वामिनि !। येन तत्र स्थाने रोग्यामीयम्बामूचे । अम्बाऽप्याह स्म"वत्सक ! तीर्थमिदं महत् । आगमिष्यति शनैः शनैः कलिः । तत्र लोको होनसत्त्वोऽर्थलुब्धः पापकारी सर्चधर्मबाह्यो भावी । तदग्रतो रत्नं बिम्बं न छुटिष्यति । महत्याशातना भाविनी। तस्मादिदं आश्मनं For Private And Personal Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - गृहाण ।” रत्नेन तथेत्यूरीकृतम् । उदितं च-" मातः ! कथमिदं महन्मयाऽऽनेयम् ।" देव्योक्तम्-"आमसूत्रतन्त्रुभिरेभिर्वेष्टय । इतश्चलमाने यत्र तु पश्चाद्विलोकयिष्यासि तत्रैव स्थास्यति ।" इत्यम्बिकागिरा चलितो रत्नो विम्यं गृहीत्वा । यावत्कियतीमपि भुवं पुरो याति तावद् विस्मितः पश्चादालुलोके । अम्बा आगच्छति नवेति । तत्रैव तस्थौ बिम्बमुदम्बरोपरि । न चलति स्थानान्मनुष्यलक्षैरपि। ततः परावृत्त्य द्वारस्य प्रासादस्य रचना कृता । साऽद्यापि तथैव तत्रास्ते । एवं प्रतिज्ञां सम्पूर्य रत्नः ससको रैवताद व्याघुल्य शत्रुञ्जये ऋषभं प्रणम्य अन्यान्यपि तीर्थानि वन्दित्वा नवहुल्लपत्तनं प्रविष्टः। राजा स्वयमभ्या| गतः । गृहे गृहे मङ्गलानि साधर्मिकवात्सल्यानि च प्रवृत्तानि। आचन्द्रार्कस्थाधियशो लली। रत्नस्थापित नेमिबिम्बमिदं यद्वन्द्यमानमास्तेऽधुना । तस्य तु स्तुतिरेवं प्राक् कविकृता। न खानिमध्यादुदखानि सूत्रै मूत्रि टवेरुदति नैव अधोति न द्योतनकैनवाहरवाहि योऽमन्त्रि न सिद्धमन्त्रैः। अनादिरव्यक्ततनूरभेद्यः प्रभामयोऽनन्तयलः सुसिद्धः तरीस्तरीतुं भविनां भवाब्धि स नेमिनाथः कृपयाऽऽऽविरासीत् ॥१॥ ॥ इति रत्नश्रावकमयन्धः ॥ - -- For Private And Personal Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः २३ चतुर्विंशति ।। अथ आभड प्रयन्धःअणहिल्लपुरे श्रीमालचंश्यः श्रेष्ठी नृपनागः। तत्पनी सुन्दरी । तयः श्रीआभडः । तस्मिन् दशवर्ष-11 देश्ये मातापितरौ द्यां गता। श्रीनष्टा । तथाऽप्यामडः सुजनाश्रितो व्यवसायज्ञ इति यवृधे । पूर्वजका कन्या लब्धा । परिणीतः । वृत्त्यर्थ मणिकारकारकाणां गृहे घुघुरान घर्षयति । लोष्टिकान् पञ्चोपार्जयति । तेषां मध्ये लोष्टिकमेकं धर्मे व्ययति । द्वौ कुटुम्बवृत्तिकार्ये । द्वौ सञ्चये विधत्ते । चतुदशेऽब्दे पुत्रो जातः। तस्याः स्तन्यप्राप्तिरल्पा । अतः छागीगवेषणाय आभडो बहिर्गामं गतः। तत्र आवाहे प्रातर्दन्तपावनं कुरुते । अत्रान्तरे आगतं अजायूथम् । ताः आवाहे सर्वाः पयः पातुं लग्नाः। पयः कम्बुधवलमपि सहसा नागवल्लीदलच्छायं जातम् । विस्मित आभडः । छागीषु पयः पीत्वा निवृत्तासु यावद् गवेषयति तावदेकस्याः कण्ठे | टोकरकं तन्मरकतरत्नगर्भ ज्ञात्वा-तेन सहसा क्रीता । बालोऽजीवत् रत्नं तु शिराणे उद्योतितं महातेजःपुञ्जमयम् । परीक्षकानां दर्शितम् । तैरमूल्यं भणितम् । तदनु जेसिङ्गदेवनृपाय अर्पितम् । तुष्टेन राज्ञा एका वर्णकोटी दापिता। नखपृष्टमात्रं हि तल्लक्षं लभते । आभडोपि तेन महर्द्धिर्जातः।सुभिक्षं च तदा। जयसिंहराज्यं तदा ऋद्धम् । आभडस्य वहिकास्तिस्रः। एका रोक्यवही, अपरा बिलम्बवही, तृतीया पारलौकिकवही। ॥१० ॥ For Private And Personal Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एतावता को भावः धरणबन्धनयातनाः कस्यापि न करोति कृपाम्बोधिः। ३६ वेलातटेषु धनर्द्धिः महालाभाः। पूगहट्टिका १ निजसदनं २ श्रीहे नमूरिपौषधशाला ३ माषपिष्टकइष्टकचिताऽकारि । अमारिकारकश्रीकुमारपालदेवसमये महाव्यापस्तस्य । एकदा श्रीहेममूरिभिः साधर्मिकवात्सल्यं महाफलमिति राज्ञे व्याख्यातम् ।। राज्ञा आभड उक्त:-"त्रुटितधनं श्रावककुलं दीनारसहस्रं दत्त्वोद्धार्यम् । वर्षान्त लेख्यकं वयमवधाराप्याः।" आभडेन वर्षान्त राज्ञे लेख्यकं दर्शितम् । एका कोटिरायाता । राजा यावद्दापयति । तावदाभडेन विज्ञप्तम्"देव ! भूभुजां कोशो द्विधा स्थावरो जङ्गमश्च । तत्र स्थावरो हेमादिभाण्डागारः । जङ्गमो वणिग्जनः । वणिग्धनमपि स्वामिधन मेवेति ।" राजोवाच-“ एवं मावादीः। लोभपिशाचो मां छलयति । तावन्मानं तत्कालमेवानाय्य दापितम् । राजा तुष्टः । एवं व्रजति काले राजा कुमारपालदेवः श्रीहेमश्च वृद्धी जाती। श्रीहेमसरिगच्छे विरोधः । रामचन्द्रगुणचन्द्रादिवृन्दमेकतः । एकतो बालचन्द्रः । तस्य च बालचन्द्रस्य राजभ्रातृजेन अजयपालेन सह मैत्री। एकदा प्रस्तावे राज्ञो गुरूणामाभडस्य च रात्री मन्त्रारम्भः। राजा पृच्छनि-"भगवन्नहमपुत्रः। कं स्थपदे रोपयामि । गुरवो अवन्ति-"प्रतापमल्लदौहित्रं राजानं कुरु धर्मस्थैर्याय अजयपालात्तु त्वत्स्थापितधर्मक्षयो भावि । अत्रान्तरे आभडः प्राह-“भगवन् ! यादशस्तादशः आत्मीयो भव्यः । पुनः श्रीहेमः अजयपालं राजानं मा कृथाः सर्वथैव । एवं मन्त्रं कृत्वोत्थितात्रयः। स For Private And Personal Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्ध चतुर्विशति २३ मन्त्रो बालचन्द्रेण श्रुतः। अजयपालाय च कथितः। अतो हैमगच्छीयरामचन्द्रादिषु द्वेषः। आमडे तु प्रीतिः। श्रीहेमसूरेः स्वर्गगमनं जातम् । ततो दिनद्वात्रिंशता राजा कुमारपाला अजयपालदत्तविषेण परलोकमगमत् । अजयपालो राज्ये निषण्णः । श्रीमद्वेषाद् रामचन्द्रादिशिष्याणां तप्तलोहविष्टरासनयातनया मारणं कृतम् । राजविहाराणां बहूनां पातनम् । लघुक्षुल्लकानाहाय्य प्रातः प्रातदृगयां कर्तुं अभ्यासयति । पूर्वमेते | चैत्यपरिपाटीमकार्षुरित्युपहासात्।बालचन्द्रोऽपि स्वगोत्रहत्याकारापक इति ब्रुवद्भिाह्मणैर्नृपमनस उत्तारितः।। लजितो मालवान् गत्वा मृतः। पापं पच्यते हि सद्यः। प्रासादपातनं दृष्ट्वा श्रावकलोकः विद्यते। आभडः पूर्वप्रतिपन्नत्वान्मान्योऽपि वक्तुं न शक्नोति, उग्रत्वाद्राज्ञः । परं तेन प्रपश्वेन तु रक्षा कारापिता तदा हा कथं? एकदा आभडेन नृपवल्लभः कौतुकी सीलणो नामा भूरिहेमदानेन प्रार्थितः-'तथा कुरु, यथा शेषप्रासादा उगरन्ति।" तेनोक्तम्-"निश्चिन्तःस्थेयम् , रक्षिप्यास्येव ।” सीलणेन सांटकसौधमेकं कृतम्। धवलितं चित्रितंच! पुत्राः पञ्च कणे एवमेवमुपराजं कर्त्तव्यं इति शिक्षिताःगतोशान्तिकं सीलणो वदति-"देव ! जरा मे शिरति स्थिताः । पुम्रपौत्रवान् जातः । अधुना तीर्थयात्रायै विदेशान् यामि यधादेशः स्यात् ।” राज्ञोक्तम्-"यथारुचि तथा चेष्टस्व ।” तदनु तत्सौधं पुत्रांश्चादाय महासभास्थे नृपे आगात् । पुत्रा भलापिना: क्षितिपतये। पुत्राश्च भाषिता राज्ञि पश्यति सति-"एतन्मे सौधं यत्नतो रक्ष्यम् । मम यशःशरीरमेतत् । बहु यतानिया For Private And Personal Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandit दितमिति।" तैस्तथेति प्रतिपेदे। कृपादि सर्व आपच्छच पुरस्तात् कियतीमपि भुवं यावत् सीलणो याति किल | तापत्तैस्तत् सौधं लकुटेरास्फाल्य सद्यो भनम् । स्वटस्कारं श्रुत्वा सीलणो व्याधुटितो वदति-"रे हताशा अस्मादपि कुनृपात्कुपुत्रा यूयम् । अनेनात्मीये पितरि मृते सति तद्धर्मस्थानानि पातितानि। भवद्भिः पुनः अहं | पदशतकमपि गच्छन् न प्रतीक्षितः।" राजा ललजे । चैत्यानामपातनमादिशति स्म । तस्य कुत्सितस्य राज्ञो| मातापुत्रयोर्वलाद्विप्लवं कारयितुं रुचिरुत्पन्ना । वंठांस्तथाकारयति । एकदा एकेन वंठेन च्छन्नधृतहस्वकंकलोहकर्तृकया जप्ने । दिनकनिपयानि कीर्तिपालनामा राजपुत्रो गुर्जरधराया लोकरक्षामकरोत् छत्रचामरादि न तस्य । तस्मिन् मालवसैन्ये मृते गुर्जरधरायां भीमदेवो राजा मासीत् । स दीर्घजीवी परं विकल: | पुण्याधिकः । तस्य सोढू मोढू द्वे गडरिके। ते द्वे लपयति । सर्वांगावयवविभूषिते कारयति । सुखासने | उपवेशयति । ग्रामेषु ससैन्यो भ्रमयति । ग्रामाः सैन्यकैर्भक्ष्यन्ते । एवं बहुकालो गतः । एकदा देशापालैः संभूय राजा विज्ञप्त:-"देव ! निरर्थक किमिति स्वदेशं भक्षापयसि । अन्नघूतवसनादिव्ययो वृथाऽयम् ।" तदा राजा आह-"कथामेकां शृणुन । कचिठूलाकूले पूर्व जलवेगाशहतो एको मीनस्तटे लग्नः। तत्र दुर्मि घोरम् । अन्नाभावे क्षुधाों लोकः। अतः सर्वोऽपि जनो कुठाराचैश्छेदं छेदं तं मीनं भक्षयितुं गृह्णाति । तथापि स न म्रियते, महाकायत्वात् । अनावसरे क्षुधितः पत्नीप्रेरितः कोऽपि For Private And Personal Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्ध चतुर्विंशति ॥१०६ ॥ विप्रस्तन्मीनमासं ग्रहीतुमगमत् । अपरलोकैः छिद्यमानं पश्यतस्तस्य स्वभावदयालोर्विप्रस्य दया आसीत् ।। तेन न छिनत्ति । तदा व्यन्तरानुप्रवेशात् स मत्स्यो विप्रमाह-" भो छिन्डूि माम् । अन्येऽपि वादन्तः सन्ति । तवोपकृतो भव्यः।" विप्रःप्रोचे-“दया मे, न छिनादि ।" मीनो बदति-"तहि शृणु अयं पापी लोको मां म्रियमाणं मारयति । अहं तु मृत्वाऽत्र तटे राजा भविष्यामि पुरन्दरो नाम । राजकुलेऽवतरिष्यामि । त्वं ममोपाध्यायो भविष्यसि । अहं प्राग् वैरादमुं लोकं नवनवभङ्गिभिः कदर्थयिष्यामि । त्वया | कस्याप्यर्थे विज्ञप्ति व करणीया । त्वां तु सत्पुरुषं अहं गुरुबुद्ध्या पूजयिष्यामि ।" इति जल्पन् मृतः स| मीनः यथोक्तो राजा पुरन्दरो नाम समभूत् । विप्रस्तु गुरुः । तं लोकं कृतपरमागसं स राजापोपिडत् । विप्रस्तु तदुक्तं स्मरन् न ऊचे किश्चित् । तस्माद् भो ग्रामण्योऽह प्रपि तद्विधः कोऽप्यवतीर्णोऽस्मि । फोडया पीडयामि लोकम् । तस्माद् भवद्भिर्न वाच्यम् । वक्ष्यथ चेद् तदा रसनां छेत्स्यामि । एवं श्रुत्वा स्थित स्लू ज्गों लोकः । देशोऽपचीयते । एवं राज्ये आभडस्तथैव ऋद्धिमान् । आभडस्य च चाम्पलदे नानी बालविवा। वाग्मिनी उचितज्ञा सर्वशास्त्रविदुरा तनया गृहव्यापारान् करोति । एकदा लोभात्किञ्चिच्चोरयन् भाण्डागारिको रुष्ठेनाभडेन निष्काशितः। स कोपादुपभोमभूपं गतः। ऊचे च-"राजन् ! आभडस्य अनता ऋद्धिः। एवमेवं तां गृहाण।" राजाह-" कोऽप्यस्याप्यन्यायोऽस्ति । भाण्डागारिक उचे-नास्ति' तर्हि परधनं ॥१०६ For Private And Personal Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कथं वृथा गृह्यते ?।" भाण्डागारिकः प्राह-"छले किमपि क्रियते।"राजाह-"सथाहं करिष्यामि।" इति विचार्य भाण्डागारिकं स्वसौधे एव स्थापयित्वा छगीमासं दासशिरसि स्थालस्यं कृत्वा प्रदिपीत् । आगता सा दासी मध्याहे आभडसदनद्वारम् । तदा आभडो ध्यानेन जिनमर्चयनि । चाम्पलदेव्या स्वयं द्वारमुदघाटि । दासी मध्यमागता । स्थालं दर्शितम् । चाम्पलदेव्या मांसं दृष्ट्वा तदैव भाण्डागारकामा इयमिति जहांचक्रे । मध्ये आनीता सगौरवम् । सा पृष्टा किमेतत् ?। दास्याह-"राज्ञा महिणिमात्सवे गौरवाय वः प्रस्थापितमदः।" एतन्मांसं चाम्पलदेव्या स्थालान्तरे लातम्। सपादलक्षमूलहरो राज्ञेऽर्पितः। दास्यै कण्ठाभरणम् । स्थालं मौक्तिकैर्वञपितम् । दासी हृष्टा उपराजं ववाज । भोजनादनु आभडःपुच्या जगाद-"तात ! निष्कासितभाण्डागारिकरितनृपकर्तव्यमनत् । मया दास्य रीढा न कृता। यास्यति श्रीः।। परं उपायं कुरु। सर्व स्वधनं टिप्पयित्वा राज्ञे दर्शय कथय च । गृहाण स्वामिन् याद ते रुचिरस्ति।" तथैव चक्रे सः । नृपो विस्मितो लज्जितो हृष्टश्च । भाण्डागारिकं तटे धृत्वा राजीचे-" रे मूढ ! यस्मै विधिद्रव्य दत्ते, तस्मै तद्रक्षोपायबुद्धिमपि दत्ते । ततो मात्र वृथा मत्सरा स्याः।" पुनरंवाभडपादयोलगितः सः।। तृणमपि तत्सत्कं राज्ञा न गृहोतमेव । एवं धनी अखण्डभारायः चिरायुः नोरुम् आभडः मरणावसरे पुनोपकाराय स्वसदने चतुष्कोण्यां निधिचतुष्कं न्यास्थत् । मृतः स्वयं समाधिना। चाम्पलदेव्यपि द्यां गता। For Private And Personal Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः prastra पुत्रैधे धने गते सति ते निधयः सम्भालिताः। परं न लभ्यन्ते । अञ्जनं च दापितम् । अञ्जनी भणति"कंऽपि श्यामाका मुद्गरपाणयोऽधोऽधो धनं नयन्ति । किं मुधा क्लिश्यध्वे ।" जाता निराशाः सामान्यवणिजोऽभवत् । तस्मात्पुरुपाणां पुण्योदय एव धनवृद्धिनिवन्धनं न कुलम् । ॥ इत्याभडप्रवन्धः॥ चतुर्विंशति u ॥१०७॥ Syr ॥ अथ श्रीवस्तुपालप्रवन्धःश्रीवस्तुपालतेजपाली मन्त्रीश्वरौ उभी आस्ताम् । यो भ्रातरौ प्रसिद्धी, कीर्तनसंख्यान्तयोमः। पूर्व गुर्जरधरित्रीमण्डनायां मण्डलीमहानगर्या श्रीवस्तुपालतेजपालाद्याः वसन्ति स्म । एकदा श्रीमत्पत्तनवास्तव्यप्राग्वारऽन्वयठक्कुर श्रीचण्डपस्तदात्मजठक्कुरश्रीचन्डप्रसादस्तदङ्गजमन्त्रिश्रीसोमस्तस्कुलावतसमंत्रिश्रीअसराजः तन्नन्दनी कुमरादेवीकुक्षिसरोवरराजहंसौ श्रीवस्तुपालतेजःपाली श्रीशत्रुञ्जयगिरिनारादितीर्थया-| ब्रायै प्रस्थिती । हडालकग्रामं गत्वा यावत्वां भूतिं चिन्तयन्तस्तावल्लक्षत्रयं जातं सर्व स्वम् । ततः सुराष्ट्रास्वं सीस्थ्यमाकलय्य लक्षमेकमवन्यां निधातुं निशीथे महाऽश्वस्थतलं खानयामासतुः। तयोः खानपतोः For Private And Personal Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shei Kailashsagarsuri Gyanmandit कस्यापि प्राक्तनः कनकपूर्णः शौल्वः कलशो निरगात् । तमादाय श्रीवस्तुपालः तेजपालजायां अनुपदेवी मान्यतया अपृच्छत्-"क्व एतनिधीयते ? । तयोक्तम्-"गिरिशिखरे एतदुच्चैः स्थाप्यते । यथा प्रस्तुतनिधिवन्नान्यसाद् भवति ।” तत् श्रुत्वा श्रीवस्तुपालः तव्यं श्रीशत्रुञ्जयोज्जयन्तादी अव्ययत् । कृतयात्रो व्यावृत्तो धवलकपुरमगात् । अत्रान्तरे महणलदेवी नामा कन्यकुब्जेश्वरसुला जनकात् प्रसन्नात् गुजरधरां कधुलिकापदे लब्धा सुचिरं भुक्त्वा कालेन मृत्वा तस्यैव गुर्जरदेशस्य अधिष्ठात्री महर्द्धिय॑न्तरी जाता। सा धवलकके शय्यायां सुखविश्रान्तं राणकश्रीवीरधवलं प्रत्यक्षीभूय जगाद-"राणक ! इयं गुजरधरा बनराजप्रभृतिभिर्नरेन्द्रः सप्तभिश्चापोत्कऽवश्यः षण्णवत्यधिकं शर्त वर्षाणां भुक्ता, तदनु मूलराज-चामुण्डराज-वल्लभराज-दुर्लभराज-भीम-कर्ण-जयसिंहदेव-कुमारपाल-अजयपाल-लघुभीम-अर्णोराज-एवं चौलुक्यैः सनाथीकृताः । सम्प्रति युवां पितापुत्रौ लवणप्रसादवीरधवलौ स्तः । इयं गुर्जरधरा कालवशादन्यायपरैः पापेः स्वाम्यभावान्मात्स्यन्यायेन कदर्थ्यमानास्ते म्लेच्छरिव गौः। यदि युवां वस्तुपालतंजःपाली मन्त्रिणौ कुर्वीथे । तदा राज्यप्रतापधर्मवृद्धिर्भवति । अहं महणदेवी सर्वव्यापिभिर्भवत्पुण्यैराकृष्टा बदन्त्यस्म ।" इति वदन्त्यव दिशुदिव सहसादृश्या बभूव । राणकश्रीवीरधवलः पद्मासनस्थस्तल्पोपविष्टश्चिन्तपति-"अहो देव्युपदेशः साक्षात्कर्तव्यमेव । तत्मन्त्रिदयं यद्देव्योक्तम् यतः-- For Private And Personal Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति ॥१०८॥ का प्रबन्ध दृप्यभुजाः क्षितिभुजः श्रियमर्जयन्ति नीत्या समुन्नयति मन्त्रिजनः पुनस्ताम् । रत्नावली जलधयो जनयन्ति किन्तु संस्कारमन्त्रमागेकारगणः करोति ॥१॥" इत्यादि चिन्तयन् प्रातरुत्थितः। पूर्वोक्तमेवोपदेशं महादेवी श्रीलवणप्रसादावाप्यदत्त । कृतप्रातःकृत्यौ । मिलितो पितापुत्रावेकत्र । कथितं रात्रिवृत्तमन्योन्यम् । तुष्टी द्वावपि । तदैव च तेषां कुल गुरुः पुरुषसरस्वती सोमश्वरदेवा द्विजः स्वस्त्ययनयोगात् । ज्ञापितोऽसौ तवृत्तान्त ताभ्याम् । सोप्युवाच-" देवी युवयोः प्राचीन पुग्यप्रेरिता देवता अपि साक्षात् । तस्मात्तदुक्तमाचरताम् । मन्त्रिबलं विना न किञ्चिद्राज्यपरिकभणां । मन्त्रिणी च यौ भवतोरने प्रतिपादितौ देव्या। तावत्रागतो तः। मम मिलितौ राजसेवार्थिनी द्वासप्ततिकलाविदुरौ न्यायनिष्टौ जैनधर्मज्ञौ स्तः। यद्यादेशः स्यात् तदाऽऽनीयते ।"राणकादेशात्पुरोहितेन हि तेन सद्य आनीतौ नमस्कारितौ। आसनादिप्रतिपत्या गौरवितो। उक्तौ च श्रीलवणप्रसादादेशाद्वारधवलेन खयम् आकृतिगुणसमृद्धिशंसिनी नम्रता कुलविशुद्धिसूचिका । वाक्क्रमः कथति शास्त्रसङ्गमः संयमश्च युवयोर्वयोऽधिकः॥१॥ For Private And Personal Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्लाघ्यतां कुलमुपैति पैतृकं, स्यान्मनोरथतरुः फलेग्रहिः। उन्नमन्ति यशसा सह श्रियः स्वामिनां च पुरुषैर्भवादृशैः॥२॥ यौवनेऽपि मदनान्न विक्रिया, नो धनेऽपि विनयव्यतिक्रमः। दुर्जनेऽपि न मनागनार्जवं, केन वामिति नवाकृतिः कृता ॥३॥ आवयोश्च पितृपुत्रयोमहानाहितः क्षितिभरः परद्रुहा । तद् युवां सचिवपुङ्गवावहं योक्तुमत्र युगपत्समुत्सहे ॥४॥ येन केन न च धर्मकर्मणा भूतलेऽत्र सुलभा विभूतयः। दुर्लभानि सुकृतानि तानि यैर्लभ्यते पुरुषरत्नमुत्तमम् ॥५॥ अथ वस्तुपालः प्राह देव ! सेवकजनः स गण्यते पुण्यवत्सु गुणवत्सु चाग्रणीः। यः प्रसन्नवदनाम्बुजन्मना स्वामिना मधुरमेवमुच्यते ॥६॥ नास्ति तीर्थमिहं पार्थिवात्परं यन्मुखाम्बुजविलोकनादपि । नश्यति दुतमपायपातक सम्पदेति च समीहिता सेताम् ॥७॥ For Private And Personal Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पतुर्विंशति ॥१०९॥ सप्रसादवदनस्य भूपतेर्यत्र यत्र विलसन्ति रष्टयः। तत्र तत्र शुचिता कुलीनता दक्षता सुभगताच गच्छति॥८॥ किन्तु विज्ञपयितास्मि किश्चन स्वामिना तदवधार्यतां हृदि। न्यायनिष्ठुरतरा गिरः सतां श्रोतुमप्यधिकृतिस्तवेव यत् ॥ ९॥ सा गता शुभमयी युगत्रयी देव । सम्प्रति युगं कलिः पुनः। सेवकेषु न कृतं कृतज्ञता, नापि भूपतिषु यत्र दृश्यते ॥१०॥ रष्टिनेष्टा भूपतीनां तमोभिस्ते लोभान्धान साम्प्रतं कुर्वतेऽग्रे। तैीयन्ते वर्त्मना तेन यत्र अश्यन्त्याशु व्याकुलास्तेऽपि तेऽपि ॥ ११॥ न सर्वथा कश्चन लोभवर्जितः करोनि सेवामनुवासरं विभोः। तथापि कार्यः स तथा मनीषिभिः परत्र बाधा न यथाऽत्र बाध्यता ॥ १२॥ किश-सम्प्रति आवां मण्डलीनगरात् सेवार्थिनो यः समीपमागतौ स्तः सकुटुम्बौ । लक्षत्रयी द्रव्यस्य नौ गृहेऽस्ति । यदा देवौ पिशुनवचने लगतः। तदा एतन्मात्रस्वापतेयसहितौ दिव्यं कारयित्वा आवां मोक्तव्याविति । अत्र काहलिक मर्यादीकृत्य परिग्रहस्य धीरादेवयोश्च भवतु । इति राणकाभ्यां धीरां दवा दाप For Private And Personal Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir यित्वा प्रधानमुद्रानिवेशस्तेजःपालस्य करे कृतः। स्तम्भतीर्थधवलकयोस्त्बाधिपत्यं वस्तुपालस्य निवेशितम्।। एवं श्रीकरणमुद्रायां लब्धायां अन्यैव तयोः स्फुर्तिरुदलासीत् , देवता सान्निध्यात् सहजवुदिपलोदयाच । स्वगृहमायातो वस्तुपालः श्रीजिनराजं पूजयामास । अथ तत्त्वं क्षणमचिन्तयत् उच्चैर्गर्व समारोप्य नरं श्रीराशु नश्यति । दैन्यदत्ताऽवलम्योऽय स तस्मादवरोहति ॥१॥ अन्धा एव धनान्धाः स्युरिति सत्यं तथाहि ते । अन्योक्तेनाध्वना गच्छन्त्यन्ये हस्तावलम्बिनः॥२॥ धनी धनाऽत्यये जाते दूरं दुखेन दूयते । दीपहस्तः प्रदीपेऽस्ने तमसा बाध्यतेऽधिकम् ॥ ३ ॥ छत्रच्छायाच्छलेनामी धात्रा चक्रे निवेशिताः । भ्रमन्तोऽपि स्वमात्मानं मन्यन्ते स्थिरमीश्वराः ॥ ४॥ कालेन सौनिकेनेव नीयमानो जनः पशुः। क्षिपत्येष धिगासन्ने मुखं विषयशाड्वले ॥५॥ कायः कर्मकरोऽयं तन्नात्र कार्याऽतिलालना । भृतिमात्रोचितो वंष प्रपुष्टो विचिकीर्षति ।। ६ ।। प्रयोजकान्यकार्येषु नश्यन्त्याशु महापदि । दुर्मित्राणीव खान्येषु बन्धुवुद्धिरधीमताम् ॥ ७॥ विषयामिषमुत्सृज्य दण्डमादाय ये स्थिताः संसारसारमेयोऽसौ बिभ्यत्तेभ्यः पलायते ॥८॥ दुःखानिर्वा स्मराग्निर्वा क्रोधाग्निर्वा हृदि ज्वलन् । न हन्त शान्तिमायान्ति देहिनामविवेकिनाम् ॥२॥ विधौ विध्यति सक्रोघे धर्म धर्मः शरीरिणाम् । स एव केवलं तस्मादस्माकंजायतां गतिः॥१॥ For Private And Personal Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विशति इत्यादि ध्यात्वा वस्त्राणि परावृत्त्य श्रीवस्तुपालः सपरिजनो वुभुजे। गृहीतताम्बूलो राजकुलमगमत् । एवं दिनसप्तके गते प्रथमं तद्राज्यजीर्णाधिकारी एको एकविंशतिलक्षाणि बृहद्रम्माणां दण्डितः। पूर्वमधिनीतोऽभूत् । तदनु विनयं प्राहितः। तैव्यैः कियदपि इयपत्तिलक्षणं सारं सैन्यं कृतं तेजःपालन । पश्चात्सैन्यबलेन धवलकतिबद्धग्रामपञ्चशतीग्रामण्यश्चिरसनित्तं धनं हवयैव दण्डिताः । जीर्णव्यापारिणो निश्योतिताः। एवं मिलितं प्रभूतं स्वम् । ततः सबलसैन्यसंग्रहपटुतेजसं श्रीवीरधवलं सहैवादाय सर्वत्र देशमध्येऽभ्रमन मंत्री। अदण्डयत्सर्वम्। ततोऽभुतरिद्धिीरधवलःनेजःपालेन जगदे-"देव! सुराष्ट्रराष्ट्रेऽत्यन्तपनिनः ठेकुरास्ते दण्ज्यन्ते । ” ततोऽचलदयम् । 'लन्धास्वादः पुमान् यत्र तत्रासक्तिंन मुश्चति ।' अथ वर्धमानपुरगोहिलवाट्यादिप्रभून दण्डयन्तो प्रभुमन्त्रिणौ वामनस्थली आगाताम् । तटे चतुरकान दत्वा स्थितो वीरधवलः । वामनस्थल्यां तदानीं यो प्रभू सहोदरौ तौ साङ्गणचामुण्डराजनामानौ उद्दामस्थामानौ राणश्रीवीरधवलस्य शालको । इति सौजन्यमर्यादां पालयंस्तद्भगिनी निजजायां नाना जयतलदेवी बहुपरिजनपरिवृतां मध्ये प्राहषीत् । सा गत्वा सहोदरी अभाषिष्ट-“भ्रातरौ भवतां भगिनीपतिः अदण्ड| दण्डनः अभङ्गभानः गुर्जरधरायां प्रतिग्रामं प्रतिपुरं दण्डयन् भवतोर्दण्डनायात्रागतोऽस्ति । दीयतां धनाश्वादिसारम् ।” एतद् भगिनीवचः श्रुत्वा मदोद्ध्मातौ तौ पोचतु:-" मन्ये स्वसस्त्वं ततः समायाता ॥११. ॥ For Private And Personal Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandit सन्ध्यर्थम् । यतो माऽस्मद बान्धवयोः समरारूपयोरर निर्धवाऽभूवम् । एतां मा स्म चिन्तां कृथाः। अमुं त्वत्पतिं हत्वापि ते चारुगृहान्तरं करिष्यावः । न च निषिद्धोऽसौ विधिः राजपुत्रकुले दश्यमानत्वात् ।" ततो जयतलदेव्याह-" समानोदयों नाहं पतिवधभीता वः समीपमागाम्, किन्तु निप्पितृगृहत्वभीता। सहि नास्ति वो मध्ये यस्तं जगदेकवीरं ऊपरवटाख्यायारू नाराचान क्षिपन्तं कुन्तं वेल्लयन्तं खड्गं खेलयन्तं | वा द्रष्टुमीशिष्यते । कालः साक्षादरीणां सः। अदृष्टपरशक्तिः सर्वोऽपि भवति बलपान्।" इत्येवं वदन्त्येव ततो निर्गस्य सा सती पतिसविधं गत्वा तां वार्तामुचैरकथयत् । तनिशम्य वीरधवलः क्रोधकरालाक्षो भ्रकुटीभङ्गभीषणभालानुकृतभीमः सन् सङ्घामममण्डयत् । तौ द्रावपि वीराधिवीरौ ससैन्यौ आगतौ । सङ्घटितो रणः । पतितानि योधसहस्राणि पक्षद्वयेऽपि। रजसाच्छादितं गगनं । गतः स्वपरविभागः । वीरधवलो हत इति सैन्यद्ये व्याचक्षे । क्षणार्द्धन वीरधवलो दिव्याश्वाधिरूढः सारसुभटयुक् साङ्गणचामुण्डराजयोमेलापके गत्वा प्रसृतः । उचे च-" रे सौराष्ट्री गृहीतः करे शस्त्रं यद्यस्ति तेजः" इत्युक्त्वा तचक्रे यवैदिवि शिरो नितं कुर्वद्भिर्दशे । हतौ सालणचामुण्डराजौ । असिमुखैः शोधितं रणक्षेत्रम् । पालिताः स्वे परे च पालनार्हाः । प्रविष्टो वीरधवलो वामनस्थलीमध्यम् । गृहीतं शालकयोः कोटिसवं पूर्वजशतसश्चितं कनकम् , चतुर्दश शतानि दिव्यातुरामीणाम् , पञ्चसहस्राणि तेजस्वितुरामाणाम् , अन्यपि मणिमुक्ता For Private And Personal Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रLINE पतुर्विधति ॥१११॥ फलादि । जितं जितमित्युद्घोषः समुच्छलितः। स्थितस्तत्र मासमेकम् । ततो वाजामानगजेन्द्रचूडासमावालाकादिस्वामिनः प्रत्येकं गृहीतधनाः कृताः। द्वीपवंटपत्तनेषु प्रत्येक बनाम । धनमकृशं मिलितम् । एवं सौराष्ट्रजयं कृत्वा समन्त्री राणो बबलकं प्राविक्षत् । उत्सवा उत्सवोपर्यपुस्फुरन् । तत्र प्रस्ताचे पारणेन दोधकपादयं पठितम् । "जीतहिं जणेहिं, सांभलिसमहरिवाजलइ। एतावदेव पुनः पुनोऽपाठीत् नोत्तरार्द्धम् । गतश्चारणः स्वस्थानम् । तत्र राजवंश्याः षण्णां जनानां मध्ये आत्मीयं नाम न्यासयितुं रात्री तस्मै प्रत्येकं लशामदुः। सोऽपि समग्रहीत् । एवं ग्राइं ग्राहं परिपारिते एकदा प्रातःसभायां बहुजनाकीर्णायां राणकाग्रे उत्तरार्द्धमप्यपाठीत् । बिहुं भुजिवीरतणेहिं चिहुं पगिऊपरवटतणे ॥१॥" | इति श्रुत्वा सर्वेऽपि चमत्कृता राजन्यकाः। अहो प्रपश्चनानेनास्मान् वश्चयित्वा निर्यासे तत्वमेवोक्तम् । | पुनः सविशेषं ददुः स्वामिभक्तत्वात् । तदा भद्रेश्वरवेलाकूले भीमसिंहो नाम प्रतीहारस्तिष्ठति । स आत्मबली कस्याप्याज्ञां न मन्यते । धनीचतस्मै बीरधवलो राजा आदेशमदीदपत्-" सेवको भव।"|| For Private And Personal Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सोऽपि प्रत्यदीदपत्-" सेवको भव । यद्दीयते तल्लभ्यते, इति न्यायः।" वीरधवलस्तद्विग्रहाय गुर्जरधराराजपुत्रानमेलयत् बहुसैन्यं च । भीमसिंहोऽपि बलेन प्रबलः। उभयपक्षेपि बलवत्ता । अत्रान्तरे जावालिपुरे चाहमानकुलतिलकः श्रीउदयसिंहो नाम राजकुलो राज्यं भुनक्ति । तस्य दायादास्त्रयः सहोदराः सामन्तपाल-अनन्तपाल-त्रिलोकसिंहनामानो दाताराः शूराः तद्दत्तग्रासेन तृप्तिमदधतो धवलक्कमागत्य श्रीवीरधवलं द्वास्थेनाबभाणत्-"देव ! वयं अमुकवंश्यास्त्रयः क्षत्रियाः सेवार्थिनरा आगताः स्मः। यद्यादेशः स्यात् तदा आगच्छामः।" राणकेनाहृतास्ते । तेजआकृतिश्रमादिभिः शोभनाः । रुचितास्ते तस्य । परं पृष्टा:-" को ग्रासो वः कल्पते ।" ते प्रोचु:-"देव ! प्रतिपुरुषं लूणसापुरीयद्रम्माणां लक्षं लक्षं ग्रासः।" राणकेनोक्तम्"इयता धनेन शतानि भटानां सङ्गच्छन्ते । किमधिकं यूयं करिष्यथ । न दास्यामीयत् ।" इति कथयित्वा ते बीटकदानपूर्व विसृष्टाः। तदा मन्त्रिवस्तुपालतेजःपालाभ्यां विज्ञप्तम्-" स्वामिन् ! न एते मुच्यन्ते । पुरुषसङ्ग्रहाद् धनं न बहु मन्तव्यम् । वाजिवारणलोहानां काष्टपाषाणवाससाम् । नारीपुरुषतोयानां अन्तरं महदन्तरम् ॥ १॥ एवं विज्ञप्तमपि राणकेन नावधारितम् । मुक्ता एव ते गताः प्रति भटतटम् । श्रीभीमसिंहप्रतीहारेण भेटितास्ते । उक्तो वीरधवलकृतः कार्पण्यव्यवहारः। तुष्टो भीमसिंहः । कृतं तदिष्टवृत्तिद्वैगुण्यम् । तैश्चो For Private And Personal Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्ध चतुर्विशति ॥११२॥ क्तस्-" देव ! शीघ्रमेव कथापय वीरधवलाय अस्मद्वलेन । यथा-" यदि क्षत्रियोसि । तदा शीघ्रं युद्धायागच्छेः। अन्यथा अस्मदीयो भूत्वा जीवेः।" प्रेषितो भीमसिंहेन भट्टः । उक्तः समेत्य वीरधवलस्तत् । एवं श्रुत्वा वीरधवलः ससैन्यश्चलितः। भदं पुरः प्राहैषीत् । पञ्चग्रामाग्रे युद्धमावयोः। तत्र क्षेत्रं कारयन्नस्मि । | शीघमागच्छरित्याद्याख्यापयत् । सोऽपि तत्र ग्रामे समेतः सैन्येन सवलः । सङ्घटितं सैन्यद्वयम् । वर्तन्ते भटानां सिंहनादाः । नृत्यन्ति पात्राणि । दीयन्ते धनानि । पूज्यन्ते शस्त्राणि । बद्ध्यन्ते महावीराणां टोडराणि। त्रिदिनांते युद्धं प्रतिष्ठितम् । उत्कण्ठिता योद्धाः। बाहुजानामाहवो हि महामहः । सङ्ग्रामदिनादर्वाग् मन्त्रि| वस्तुपालतेजःपालाभ्यां स्वामी विज्ञप्त:-"देव! त्रयो मारवाः सुभटास्त्वया न संगृहीतास्ते परवले मिलिताः। तहलेन भीमसिंहो नि गर्जति । इति अवधार्यम् । चरैरपि निवेदितमेतन्नौ ।” राणकेनोक्तम्-यदस्ति तदस्तु। किं भयम् । जयो वा मृत्यु युधि भुजभृतां कः परिभवः।" मन्त्रिणा ज्यायसोक्तम्-"स्वामिन् ! कार्मुककर देवे के परे परोलक्षा अपि । यदुक्तम् कालः केलिमलङ्करोतु करिणः क्रीडन्तु कान्तासखाः कासारे वत कासराः सरभसं गर्जन्त्विह स्वेच्छया। ११२॥ For Private And Personal Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . अभ्यस्यन्तु भयोज्झिताश्च हरिणा भूयोऽपि झम्पागति __कान्तारान्तरसञ्चरव्यसनवान् यावन्न कण्ठीरवः॥१॥ कण्ठीरवे तु दृष्टे कुण्ठाः सर्वे वन्याः । अन्यच्च प्रभो! अस्मदीयसैन्ये डोडीयावंशीयो जहुल: चौलुक्यः सोमबागुलकुल्यः क्षेत्रबर्माऽस्ति । देवस्तु किं वर्ण्यते कल्यर्जुनः। एवं वार्तासु वर्तमानासुद्वाःस्थ एत्य व्यजिझपद्राणकम्-" देव! पुरुष एको द्वारि वोऽस्ति । कस्तस्यादेशः।” भूसंज्ञया राणकस्तममोचयत् । मध्यममागत्य स उवाच-देव ! सामन्तपालअनन्तपालत्रिलोकसिंहस्त्यक्तीमसिंहमाश्रितैः कथापितमस्ति"देव ! त्रिभिलक्षैर्ये भटास्त्वया स्थापिता भवन्ति । तैरात्मानं सम्यग् रक्षेः। प्रातः कुमार्या आरेण्यां त्वामेव प्रथमतममेष्यामः।" इति श्रुत्वा हृष्टेन राणेन ससत्कारं स प्रैषि । कथापितं च-एते वयमागता एवं प्रातर्भवद्भिरपि ढौक्यम् । सर्वेषामपि तत्रैव ज्ञास्यते भुजसौष्टवम् ।” गतः स तत्र । प्रातर्मिलितं च बलद्वयम् । वादितानि रणतूर्याणि । अंगेषु भटानां वर्माणि न ममुः। दत्तानि दानानि । तैस्तु त्रिभिर्मारवैरात्मीयं वर्षलभ्यं द्रव्यलक्षत्रयं भीमसिंहात्सद्यो लात्वाऽर्थिभ्यो ददे । स्वयमश्वेष्वारूढाः। प्रवर्तन्ते महाराः । उत्थितमान्ध्यं शस्त्रैः । पतन्ति शराः कृतान्तदूताभाः। आरूढं प्रहरमात्रमहः। सावधानो वीरधवलः। दत्ताव|धाना मन्त्र्यादयस्तद्रक्षकाः । अत्रान्तरे आगतास्ते त्रयो मरुवीराः। भाषितः स्वमुखेन तैीरधवल:-"अयं For Private And Personal Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विंशति ॥ ११३ ॥ देवः । इमे वयम् । सावधानीभूय रक्षात्मानम् । त्वद्योधा अपि त्वां रक्षन्तु ।" वीरधवलेनाप्युक्तम्-"किमत्र | विकत्थध्वे । क्रिययैव दोः स्थाम प्रकाश्यताम् ।" एवमुक्तिप्रत्युक्तौ लग्नं युद्धम् । यत्नपरेषु तटस्थेषु रक्षत्स्वपि | तैर्भल्लत्रयं वीरधवलस्य भाले लिङ्गितम् । एवं त्वां हन्मः। परं एकं तव बीटकं तदा भक्षितमस्माभिः । इति वदद्भिस्तैरेव श्रीवीरधवलस्य तटस्थाः प्रहरणैः पातिताः। तेऽपि त्रयो मारवाः व्रणशतजर्जराङ्गाः सञ्जाताः। राणश्रीवीरधवलः ऊपरवटाऽश्वात्पातितः। उपरवटस्तैौरवैःस्वोत्तारक बन्धितः प्रच्छन्नः । रजसान्धं जगत् । तदा राणश्रीवीरधवलो भुवि पातितो भट्टैरुत्पाट्य लले। तावता पतिता सन्ध्या । निवृत्तं सैन्यद्वयम् । रात्री भीमसिंहीयाः सुभटाः सर्वेऽपि वदन्ति । अस्माभिर्वीरधवलः पातितः पातितः । ततो मारवैरभिहितं युष्माभिः पातित इति । किमत्राभिज्ञानम् । तैरुक्तम्-"किं भवद्भिःपातितः।” मारवैरभिदधे-“अस्माभिः पातितः। ऊपरवटो वदिष्यति ।" उत्तरकादानीय ऊपरवटो दर्शितः । तुष्टो भीमसिंहः । उक्तवांश्च शुद्धराजपुत्रेभ्यो दत्तं धनं शतधा फलति । इदमेव प्रमाणं रिपुहयहरणं क्षत्रियाणां महान् शृङ्गारः । एवं वार्ताः कुर्वतां |भटानां रात्रिर्गता । प्रातीरधवलो व्रणजर्जरोपि पटूभूयाक्षान् क्रीडितुं प्रवृत्तः। भीमसिंहसैन्यहेरिकैर्गत्वा तज्ज्ञात्वा तत्रोक्तम्-" वीरधवलः कुशली गर्जति । एवं सति यजानीथ तत्कुरुथ ।" अथ भीमसिंहाय तन्मन्त्रिभिर्विज्ञप्तम्-" देव ! अयं बद्धमूलो देशेशः। अनेन विरोधो दुरायतिः तस्मात्सन्धिः श्रेष्टः। भीम For Private And Personal Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सिंहेन मानितं तद्वचनम् । परं सङ्ग्रामाडम्बरः कृतः । अन्योऽयमपि यावद् मिलितौ द्वौ । तावद् भट्टैरन्तरा प्रविश्य मेलः कृतः । ऊपरवटाश्वो राणाय दापितः । भीमसिंहेन भद्रेश्वरमात्रेण धृतिर्धरणीया। बिरुदानि न पाठनीयानि । इति व्यवस्थाऽऽसीत् । एवं कृत्वा श्रीवीरधवलो दानं तन्वन् श्रीधवलक्ककमागात् । शनैः शनैः प्रासपरमप्राणो भीमसिंहमपराध्यं तं मूलादुच्छेद्य एकवीरां धरित्रीमकरोत् । एवं धवलकके राज्यं कुर्वतस्तस्य क्षुभितः प्रभूतैः परराष्टपतिभिः स्वं दत्तम् । तेन स्वेन सैन्यमेव मिलितम् । चतुर्दशशतानि महाकुलानि राजवंश्यानां राजपुत्राणां मेलिनानि । तानि समभोजनभोगवसनवाहनानि श्रीतेजःपालस्य सहचारीणि छायावत् समजीवितमरणत्वेन स्थितानि । तहलेन सैन्यबलेन च खभुजाबलेन च सर्व जीयते । इतश्च महीतटाख्यदेशे गोधिरानाम नगरं वर्तते । तत्र घूघुलो नाम मण्डलीकः। स गुर्जरधरासमागन्तुकसान गृह्णाति । राणश्रीवीरधवलस्याज्ञां न मन्यते । तस्मै मन्त्रिभ्यां वस्तुपालतेजःपालाभ्यां भहः प्रेषितः । अस्मत्प्रभोराज्ञां मन्यस्व । अन्यथा साङ्गणचामुण्डराजादीनां मध्ये मिल, इति कथापितम् । तच्छवणात् क्रुद्धेन तेन तेनैव भट्टेन सह स्वभट्टः प्रस्थापितः । तेनागत्य राणश्रीवीरधवलाय कज्जलगृहं शाटिका चेति दत्तं द्वयम् । उक्तं च-" ममान्तःपुरं सर्वोऽपि राजलोकः । इति नः प्रभुणा ख्यापितमस्ति ।" राणेन स भहः सत्कृत्य प्रहितः स्वस्थानम् । राणेन भाषिताः सर्वे निजभदाः। उक्तं च-"घूघुलविग्रहाय पीटकं For Private And Personal Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 'प्रबन्ध चतुर्विशति ॥११४॥ को ग्रहीष्यति ।” परं कोऽपि नाद्रियते । तदा तेजःपालेन गृहीतम् । चलितः प्रौढसैन्यपरिच्छदः । गतस्तद्वेशादर्वाग्भागे । कियत्यामपि भुवि स्थित्वा सैन्यं कियदपि स्वल्पमग्रे प्रास्थापयत् । स्वयं महति मेलापके गुप्तस्तस्थौ । अल्पेन सैन्येनाग्रे गत्वा गोध्रगोकुलानि वालितानि । गोपालाः शरैस्ताडिताः । तैरन्तगोंधक पूत्कृतम्-" गावो ह्रियन्त कैश्चित् । क्षात्रं धर्म पुरस्कृत्य ततो धावत धावत ।" इति शब्दे श्रुते घूघुलो व्यचिन्तयत्-" नवीनमिदम् । केनास्मत्पद्रमागत्य गावो ह्रियन्ते । वृत्तिच्छेदविधौ द्विजातिमरणे स्वामिग्रहे गोग्रहे सम्प्राप्ते शरणे कलत्रहरणे मित्रापदां वारणे । आर्त्तत्राणपरायणैकमनसां येषां न शस्त्रग्रहस्तानालोक्य विलोकितुं मृगयते सूर्योऽपि सूर्यान्तरम् ॥१॥ इति वदन्नेव ससेनस्तुरङ्गममारूढो गतोऽनुपदं गोहतणाम् । गोहारोऽपि घुघुलाय दर्शनं ददते शरान् सन्दधते । न च स्थित्वा युद्ध्यन्ते । इत्येवं खेदयद्भिस्तैस्तावन्नीतो घूघुलः यावन्मन्त्रिणो महति वृन्दे प्रविष्टः। ततो ज्ञातमीदृशं छद्मदं मन्त्रिणः । भवतु तावत् घूघुलोऽस्मि । निजाः सुभटाः समराय प्रेरिताः । स्वयं सविशेषमभियोगं दधौ । ततो लग्नः संहर्तुम् । मन्त्रिकटकेनापि डुढाके । चिरं रणरसरभसोऽभूत् । भग्नं घूधुलेन मन्त्रिकटकं कान्दिशीकं दिशोर्दिशं गच्छति। तदा मन्त्रितेजःपालेन स्थिरं अश्वस्थितेन तटस्थाः सप्तकुलीनाः शुद्धराजपुत्राः भाषिता:-" अरिस्तावली। आत्मीयं तु भग्नं सकलं बलम् । नष्टानामस्माकं का गतिः। For Private And Personal Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir किं यशः। यशो विना जीवितव्यमपि नास्त्येव । तस्मात् कुर्मः समुचितम् ।” तैरपि सप्तभिस्तद्वचोऽभिमतम् । व्याघुटिताऽष्टौ नन्ति नाराचादिभिः परसेनाम् । तावन्मात्रं स्ववृन्दं सङ्घटितं दृष्ट्वा अपरेऽपि सत्त्वं | धृत्वा वलिताः। तदा तेजःपाल: एकत्र निजांसेऽम्बिकादेवीं अपरत्र कपर्दियक्षं पश्यति । अतो जयं निश्चित्य प्रहरंस्तावद्ययौ यावद् घूघुलः । गत्वा भाषितः-" हे मण्डलिक ? येनास्मन्नाथाय कज्जलगृहादि प्रहीयते । तद्भुजायलं दर्शय ।” घुघूलोऽपि प्रत्याह-" इदं तद्भुजा बलं पश्य" इत्युक्त्वा निबिडं युयुधे। द्वन्द्वयुद्धं मन्त्रिमण्डलीकयोः सञ्जातम् । अथ मन्त्री सहसा दैवतबलभुजावलाभ्यां तमश्वादपीपतत् । जीवन्तं बद्ध्वा | काष्टपञ्जरेऽचिक्षिपत् । स्वसेनान्तर्निनाय । स्वयं बहुपरिच्छदो गोध्रानगरं प्रविवेश । अश्वसहस्राणि चत्वारि, || अष्टादश कोटीहेम्नां कोशं, मूटकं शुद्धमुक्ताफलानां, दिव्यास्राणि, दिव्यवस्त्राणि, इत्यादि सर्व जग्राह । घूघुलस्थाने आत्मीयं सेवकं न्यास्थत् । चलितो मन्त्री गतो धवलक्कके । श्रीवीरधवलेन महत्यां सभायामाकार्य श्रीतेजःपालः परिधापितः। प्रसादपदे स्वर्ण भूरि ददे। तदवसरे कवीश्वरसोमेश्वरे च हक सञ्चारिता श्रीवीरधवलेन । ततः सोमेश्वरदेवः प्राह मार्गे कईमदुस्तरे जलभृते गर्ताशतैराकुले खिन्ने शाकटिके भरेऽतिविषमे दूरं गते रोधसि। शब्देनेतदहं ब्रवीमि महता कृत्त्वोच्छितां तर्जनीमीदृक्षे गहने विहाय धवले वोढुं भरं कः क्षमः? ॥१॥ For Private And Personal Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shei Kailashesgarsuri Gyanmandit | प्रबन्ध चतुर्विशति ॥११५॥ विसृष्टा सभा। मिलितौ वस्तुपालतेजःपालावेकत्र । कृताः कथाश्चिरम् । तुष्टौ द्वौ मन्त्रयेते स्म। धम्में एव धनमिदं पुण्यलब्धं व्ययनीयम् । ततः सविशेषं तथैव कुरुतः । ततः कविना केनाप्युक्तम् पन्थानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरन्तौ । तौ भ्रातरौ संसृतिमोहचौरे संभूय धर्मेऽध्वनि सम्प्रवृत्तौ ॥१॥ "अथ श्रीवस्तुपालः शुभे मुहत्तं स्तम्भतीर्थ गतः। तत्र मिलितं चातुर्वर्ण्यम् । दानेन तोषितं सर्वम् । तत्र |च सैदनामा नौवित्तिको बसति । स च सर्ववेलाकूलेषु प्रसरमाणविभवो महाधनाख्यः बद्धमूलः अधिकारिणं नन्तुं नायाति । प्रत्युत तत्पार्थेऽधिकारिणा गतव्यम् । एवं बहुकालो गतः । पूर्व मन्त्रीन्द्रस्तं भनोवाच" अस्मान्नंतु किमिति नागच्छसि।" स प्रतिवक्ति-"तव नवेयं रीतिः । प्रागपि नागच्छामि। यतु स्यान्न्यूनं तव, तदा तत्पूरयामि स्थानस्थः।" तत् श्रुत्वा मन्त्री रुष्टः कथापयामास-" पुरुषो भूत्वा तिष्ठेः । शास्मि | त्वां दुर्विनीतम् ।।" ततस्तेन बहूआख्यवेलाकूलस्वामी राजपुत्रः पश्चाशद्वंशमध्यस्थखादिरमुशलस्य एकखड्गप्रहारेण छेदने प्रभुः प्रभूतसैन्यत्वात्साहणसमुद्र इति ख्यातः शंखाख्य उत्थापितः । तेन भाणितं मन्त्रिणे-"मत्रिन्मदीयमेकं नौवित्तिकं न सहसे । मदीयं मित्रमसौ ज्ञेयः ।" तस्माद्वचनात् क्रुद्धो मन्त्री तं प्रत्यवोचत्-"श्मशानवासी भूतेभ्यो न विभेति । त्वमेव प्रगुणो भूत्वा युधि तिष्ठेः" इति श्रुत्वा सन्नद्ध For Private And Personal Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | बद्धो भूत्वा सोऽप्यागतः । मन्त्रिणा वस्तुपालेनापि धवलककाद् भूरि सैन्यमानाय्याभ्यषेणयत् । रणक्षेत्रे मिलितौ द्वौ । प्रारब्धं रणम् । शङ्खन निर्दलितं मन्त्रिसैन्यं पलायिष्ट दिशोदिशि । तदा श्रीवस्तुपलेन सत्य राजपुत्रो माहचकनामा भाषितः-" इदं अस्मन्मूलघटं त्वमेव वर्तसे । अथ तत्कुरु यन श्रीवीरधवलो न लज्जते ।” ततोऽसौ राजपुत्रः स्वैरेव कतिपयैर्मित्रराजपुत्रैः सह तमभिगम्योवाच-“हे श! नेयं वडूआख्य! तब ग्रामसीमआखेटकक्रीडा किन्तु क्षत्रियाणां सङ्ग्रामोऽयम् ।" शङ्खोऽप्याह-"सुष्टु वक्तुं वेत्सि। नायं तव प्रभोः पट्टः, किल परिपन्थिनः प्रदेशः । किन्तु सुभटस्य क्रीडाक्षेत्रमिदम् । इत्यवं बादे जाते द्वन्द्वरणे माहेचकेन मन्त्रिणि पश्यति मन्त्रिप्रतापाच्छङ्खः पातितः । समरे जातो जयजयकारः । मन्त्रिणा तद्राज्य गृहीतम् । वेलाकूलनृपद्धीनां क्व संख्याः। ततः स्तम्भतीर्थमुत्तोरणमुत्पताकमविशत् । ततो मन्त्री प्रविष्टः सैदसदनम् । तस्य भवान् सप्तद्विगुणितशतानि सन्नद्धानि हत्वा तं जीवग्राहं जग्राह । विलवाणं तं कृपाणेन जघान। ततो गृहं तदीयमामूलचूलं खानितं पातितं च । हेमेष्टिकानां संख्या न | तथा मणिमुक्ताफलपदकानां प्रमाणं केनापि न ज्ञातम् । केचिद् वृद्धा वदन्ति-"तत्र तेजनतूरिकायाः करण्डश्चटितः श्रीमन्त्रीश्वरस्य । आयातो मन्त्री स्वधवलगृहम् । तोषितः स्वस्वामी वीरः परिग्रहलोकश्च । ततः कवीश्वराणां स्तुतिः श्रीवस्तुपाल प्रतिपक्षकाल ! त्वया प्रपेदे पुरुषोत्तमत्वम् । सीरपि वाद्वैरकृतेऽपि मात्स्ये रूपे पराजीयत येन शङ्खम् ॥ १॥ For Private And Personal Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विंशति तावल्लीला कवलितसरित्तावदभ्रं लिहोर्मिस्तावत्तीवध्वनितमुखरस्तावदज्ञातसीमा । तावत्प्रवत्कमठमकरव्यूहबन्धुः ससिन्धुलोपामुद्रासहचरक्रोडवर्ती न यांवत् ॥१॥ सतश्चोक्षवाटिनौवित्तिकवाद्योः पार्थक्यं कृतम् । मन्त्रिणा आ महाराष्ट्रभ्यः साधिता भूः । वेलाकूलीयनरेन्द्राणां नरेन्द्रान्तराक्रम्यमाणानां मन्त्री प्रतिग्रहप्रेषणेन सान्निध्यं कृत्वा जयश्रियं अर्पयति । इति कारणात्ते तुष्टाः बोहित्थानि सारवस्तुपूर्णानि प्राभृते प्रहिण्वन्ति । अम्बिकाकपर्दिनौ निधानभुवं रात्री समागत्य कथयतः। ते निधयो मन्त्रिणा खातं खातं गृह्यन्ते । तद्भाग्यात् दुर्भिक्षस्य नामापि नाभूत् । विड्वराणि दूरे नष्टानि । मुद्गलबलानि वारं वारमागच्छन्ति जनिरे एकदा । पुन ययुः । पल्लीवनेषु दुकूलानि नागोदराणि च बद्धानि । ग्रहीता कोऽपि न । ग्रामे ग्रामे मण्डितानि सत्राणि । सत्रे सने मिष्टान्नानि । उपरि ताम्बूलानि च । तत्र ग्लानार्थं वैद्या विविधाः प्रस्थापिताः। मन्त्रिव्यवस्थया दर्शनद्वेषो न । वर्णद्वेषो न । प्रतिवर्ष स्वदेशे सर्वनगरेषु वारतिस्रस्तिस्रः श्वेताम्बरेभ्यः प्रतिलाभना शेषदर्शनानामप्यर्चा। मन्त्रिवस्तुपालस्य पत्नी द्वे ललतादेविसोपूनाम्न्यौ कल्पवल्लिकामधेनू इव । ललितादेव्याः सुतो मन्त्रिजयन्तसिंहः सूहवदेविजानिः प्रत्यक्षचिन्तामणिः। तेजःपालदयिताऽनुपमाऽनुपमैव । पठितं च कविनालक्ष्मीश्चला शिवा चण्डी, शची सापत्न्यदूषिता। गङ्गा न्यग्गामिनी वाणी, वाक्साराऽनुपमा ततः ॥१॥ For Private And Personal Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रीशत्रुक्षयादिषु नन्दीश्वरेन्द्रनण्डपप्रभृतिकर्मस्थायाः प्रारम्भिवता आरासणादिदलिकानि स्थलपथेन जलपथेन च तत्र तत्र प्राप्यन्ते । एकदा तौ भ्रातरौ द्वावपि मन्त्रिपुरन्दरौ महर्द्धिसङ्घोपेतो श्रीपार्श्व नन्तु स्तम्भनकपुरमीयतुः। प्रथमदिने ससङ्घौ तौ श्रीपार्श्वस्य पुरः श्रावकश्रेणिपुरःसरौ स्थिती । तदा गीतगानरासादिमहारसः प्रवर्त्तते । तदवसरे तत्रत्यसङ्घोपरोधात् तत्रत्याध्यक्षाः सूरयो मल्लवादिनः समाकारिताः। ते यावद्देवगृहं प्रविशन्ति । तावत्तैरेव पठितम् अस्मिन्नसारे संसारे सारं सारङ्गलोचनाः। मन्त्रिभ्यां श्रुतं चिन्तितं च-" अहो मठपतिहबद्देवगृहेऽपि शृङ्गाराङ्गारगर्भ पदद्वयं कथयन्नस्तीति।" देवनमस्कारादिकमुचितमिह तत्कि नाधीते । तस्माददृष्टव्योऽसौ। उपविष्टः सूरिः सः। अन्येऽपि सूरयः शतशः पनौ निषण्णाः । मङ्गलप्रदीपान्तेऽपरसूरिभिर्मल्लवादिन एवाऽशीर्वादाय प्रेरिताः। मन्त्री पुरस्तिष्ठति। 'अस्मिन्नसारे संसारे सारं' इत्यादि पादद्वयं भणितम् । तैः व्याख्यातं च तदेव । मन्त्री हस्तेन वन्दित्वा विरक्तो गतः स्वोत्तारकम् । एवं दिनाः ८ स एव पद्यार्द्धपाठश्चक्रे नवनवभङ्गया व्याख्यातः। अष्टम्यां रात्री मन्त्री मुत्कलापनिकां कर्तुं देवरङ्गमण्डप निविष्टः । पुरो धनयदरकाणां राशयः । कोऽपि कविराह For Private And Personal Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्ध चतुर्विशति ॥१७॥ श्रीवस्तुपाल ! तव भालतले जिनाज्ञा, वाणी मुखे हृदि कृपा करपल्लवे श्रीः।। देहे युतिर्विलसतीति रुषेव कीर्तिः, पैतामहं सपदि धाम जगाम नाम ॥१॥ अपरस्तु अनिःसरन्तीमपि गेहगीत् कात्ति परेषामसती वदन्ति । स्वैरं भ्रमन्तीमपि वस्तुपाल ! त्वत्कीर्तिमाहुः कवयः सतीं तु ॥२॥ पुनः कश्चिदूचुः क्रमेण मन्दीकृतकर्णशक्तिः प्रकाशयन्ती च यलिस्वभावं। कैर्नानुभूता सशिरःप्रकम्पं जरेव दत्तिस्तव वस्तुपालः॥ ३॥ तेभ्यः कविभ्यः सहस्रलक्षाणि ददिरे। एवं गायनभद्दादिभ्योऽपि । यावज्जातं प्रातरेव तदा मल्लवादिभिः। स्वसेवकाश्चैत्यद्वारद्वयेऽपि नियुक्ताः । एकं द्वारं अन्यं दिशि एकं च मठदिशि । उक्तं चास्ति तेभ्यः-“मन्त्री चैत्यान्निःसरन् ज्ञापनीयः।"क्षणेन वस्तुपालो मठद्वारान्निर्गच्छति यावत् तावता सेवकज्ञापिताः सूरयः समागत्य सम्मुखा स्थिताः । मन्त्रिणा रीढया प्रभुप्रणाम इव कृतः, आचार्यैरभिहितम् For Private And Personal Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandi दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति । विजीयताम् । तीर्थानि पूज्यन्तां । मन्त्री कौतुकात्तथैव तस्थौ । किं पर्यवसाने प्रस्तावनेत्ति ध्यानात्, ऊचे च-" न विद्मः परमार्थ किमेतदभिदधे ।” आचार्यैरुक्तम्-"पुरो गम्यतां गम्यताम् । भवतां कार्याणि भूयांसि ।” मन्त्री सविशेषं पृच्छति । सूरयो वदन्ति सचिवेन्द्र श्रूयताम मरुग्रामे कचित् ग्रामाराः स्थूलबहुला लोमशापशवो वसन्ति । पर्षदि निषीदन्ति । कपोलझल्लरी वादयन्ति । तत्रैकदा वेलाकूलीयचरः पान्थ आगमत् । नवीन इति कृत्वा ग्राम्यैराहतः। पृष्टः-" त्वं कः ? क्वत्यः ।" तेनोक्तम्-"हं समुद्रतटेऽवात्सम् ।” पान्थ:-पुरो यामि । तैः पृष्टम्-"समुद्रः केन खानितः।" | तेनोचे-" स्वयंभूः।” पुनस्तैः पृष्टम्-" कियान् सः।” पान्थेनोक्तम्-" अलब्धपारः।” किं तत्रास्तिः इति | पृष्टे पुनस्तेनाचख्येग्रावाणो मणयो हरिजलचरो लक्ष्मीः पयो मानुषी मुक्तौघाः सिकताः प्रवाललतिकाः सेवालमंभः सुधा। तीरे कल्पमहीरुहाः किमपरं नानापि रत्नाकर For Private And Personal Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्धः ॥११८॥ इति पादत्रयं पठित्या व्याख्याय पुरो गतः पान्थः। तेषु ग्राम्येष्वेकः सकौतुकः पृच्छं पृच्छं समुत- मगात् । दृष्टः कल्लोलमालाचुम्बितगगनायः समुद्रः। तुष्टः सः। अचिन्तयच-"इतो ऋद्धयः सर्वा लप्स्यन्ते।। प्रथमं तृषितः सलिलं पिबामि।" इति मत्वा पीतं तत् । दग्धकोष्टः । तेन पठति इति दूरे कर्णरसायनं निकटस्ष्तृणापि न शाम्यति । ___ वरवियराजिहिं जणु पियइ घट्ट घटुजलुएहिं सायरिअस्थिबहुतजलु छइ खारं किं तेण ॥१॥ तैरेव पदैनष्टः स्वास्पदं गतः। तथा वयमपि स्मः । मन्त्रिणोक्तम्-"कथं तथा यूयं यथा स प्राभ्यः । | सूरयस्तारमूचुः-"महामात्य ! वयमत्र श्रीपार्श्वनाथसेवकाः विद्यविदः, सर्वर्द्धयः । अवस्थाः शृणुनः। यथा| धवलकके श्रीवस्तुपालो मन्त्री सरस्वतीकण्ठाभरणो भारतीप्रतिपन्नपुत्रो विद्वजनमधुकरसहकारः सारासारविचारवेद्यास्ते इति । तदुत्कण्ठितास्तत्रागन्तुम् । इश्वरत्वाच न गच्छामः कापि । पुनश्चिन्तितं च-कदाचिद् तीर्थनत्यै एतात्र मन्त्री। तस्य पुरो वक्ष्यामः स्वैरं सूक्तानि । इति ध्यायतामस्माकं मन्त्रिमित्राः अत्रागताः। यावत्पठ्यते किमपि तावदसत्सम्भावनयाऽवज्ञापरा यूयं स्थिताः । ततः किं पठ्यते गच्छत. गच्छत उत्सूरं भवति ।" मन्त्री प्राह-" ममापराधः क्षम्यतां किमेतत्पठितुमारेभे भवद्भिः।" आचार्या जगदु:-“देव ! यदा युवां सपान्धवी श्रादक श्रेण्यऽग्रे राजराजेश्वरी दिव्यभूषणी, श्रावकाश्च धनाढ्या दृष्टाः, गीताचुच्छ्यश्च । |॥ ११८॥ For Private And Personal Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तदा एतनश्चित्ते कभूच-जगति स्त्रीजातिरेच धन्या । यद्गर्भ जिनचक्रवर्द्धचफ्रिमल-कर्ण-युधिष्ठिर-विक्रम सातवाहनादयो जाताः । सम्प्रत्यपि ईदृशाः सन्ति । तस्मात् श्रीसाम्बश्रीशान्ति ब्रह्मनागआम-दत्तनागडवंश्यश्रीआभूनन्दिनी कुमरा देवी श्लाघ्या। यया एतौ कलियुगमहान्धकारमज्जजिनधर्मप्रकाशनप्रदीपौ ईदृशौ नन्दनौ जाती । इत्येवं चिन्तयतामस्माकं पद्यपादद्वयं वदनादुद्गतम् । जिननमस्कारादि विस्मृतं । पश्चाई तु शृणुत। यत्कुक्षिप्रभवा एते वस्तुपालभवादृशाः॥१॥ सविस्तरतरं व्यारव्यानं कृतम् । लजितः सचिवेन्द्रः । पादोलगित्वा सूरीन क्षमयित्वा चलितः । कोशान्ते ग्राम एक आगात् । तत्र स्नातभुक्तविलिप्तः । तदनु स्वभृत्यं सचिवभेकमाकार्य आदिक्षत् । इयं वाहिनी हेमसहस्रदशवदरकयुक् सूरिभ्यो मठे देयाःगतो मन्त्रिसेवकस्तत्र । भाषिताः सूरयः। मन्त्रिदत्तमिदमवधार्यतां । आचार्टष्टम् । अश्वमारुह्य भटशतोल्लालितकृपाणजलप्लावितरवास्तत्र गताः, यत्र श्रीवस्तुपालः। उदितश्च तैः-"मन्त्रिन् ! किमहमुचितभाषी चारणः ? । किं वा बन्दी ?। किन्तु सर्वसिद्धान्तपारगः तम्या जैनमूरिः। मया मनःप्रमोदन यद् वः उपश्लोकनमुक्तं तन्मूल्यभूतामिमां वो दत्तिं कथं गृहामि । न मयेदं वित्तायाभिहितम् । किन्त्विदं अन्तर्मनसं ध्यात्वा भणितम् । यथाऽद्यापि जयति जिनपतिमनं तीर्थकृतारक For Private And Personal Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्ध पतुर्विंशति सदृशं एवंविधः पुरुषरत्नैः। धनं न गृह्णाम्येव।" मन्त्री प्राह-भवन्तो निस्पृहत्वान्न गृह्णन्ति । वयं तु दत्तत्वात प्रतिगृह्णीमः। तर्हि कथमनेन हेम्ना भवितव्यमिति । शिक्षा दत्त ।" ततः सूरिभिर्जगदे-"जगदेकदानवीर ! मन्त्रिन् ? खगृहाय सम्प्रति गंस्यते भवद्भिस्तीर्थाय कस्मै चिद्वा।" मन्त्रीआह-"प्रभो! श्रीसुव्रततीर्थवन्द. नार्थ गच्छन्तः स्मः।" आचार्याः प्राहु:-"तर्हि लब्धः इदं हेमव्ययोपायः। तत्र लेप्यमयी प्रतिमास्ते । तत्र लात्रसुखासिका न पूर्यते श्रावकाणाम् । तस्मादनेन हेममयी स्नात्रप्रतिमा निर्मापयत ।" मन्त्रिणोर्ध्वनितं मनः। तत्तथैव कृतम् । ततः समायातः स्वसदनं गूर्जरमन्त्री। अन्येधुरादर्श प्रातर्वदनं पश्यता सचिवेन पलितमेकमालोकि अपाठि च । अधीता न कला काचित् न च किञ्चित्कृतं तपः । दत्तं न किञ्चित्पात्रेभ्यो गतं च मधुरं वयः ॥१॥ आयुर्योवनवित्तेषु स्मृतिशेषेषु या मतिः सैच चेज्जायते पूर्व न दूरे परमं पदम् ॥ २॥ आरोहन्ती शिरश्स्वान्तादौन्नत्यं तनुते जरा । शिरसः स्वान्तमायान्ती दिशते नीचतां पुनः ॥ ३ ॥ लोक पृच्छति मेवातर्ता शरीरे कुशलं तव । कुतः कुशलमस्माकमायुर्याति दिने दिने ॥ ४ ॥ १९॥ For Private And Personal Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ततोऽधिकं जिनधर्म रेमे । अथैकदा द्वायपि भ्रातरौ राणश्रीवीरधवलं व्यजिज्ञपताम्-" देव ! देवपादैरियं गुर्जरधरा साधिता । राष्ट्रान्तराणि करदानि कृतानि । यद्यादेशः स्यात् तदा राज्याभिषेकोत्सवः | क्रियते ।"राणकेनोक्तम्-मन्त्रिणी ऋजू भक्तिजडौ युवां । ___ अजित्वा सार्णवामुर्वीमनिष्ट्वा विविधैर्मखैः । अदत्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ॥ १॥ ततो राणकमात्रत्वमेवास्तु । इत्युक्त्वा व्यसृजत्तौ । एकदा मन्त्रिभ्यां श्रीसोमेश्वरादिकविभ्यो विपुला वृत्तिः कृता भूम्यादिदानैः । ततः पठितं सोमेश्वरेण सूत्रे वृत्तिः कृता पूर्व दुर्गसिंहन धीमता । विसूत्रे तु कृताऽस्माकं वस्तुपालेन मन्त्रिणा ॥१॥ श्रीवीरधवलोऽपि सेवकान् सुष्टु पदवीमारोपयन् जगत्प्रियोऽभूत् । किमुच्यते तस्य । पश्यत पश्यत श्रीवीरधवलो ग्रीष्मे चन्द्रशालायां सुसोस्ति । वण्ठश्चरणो चम्पयत्येकः । राणकः पटीपिहितवदनो जाग्रदपि वण्ठेन सुप्तो मेने । ततश्चरणाङ्गलिस्था रत्नाङ्कामुद्रा जगृहे । मुखे च चिक्षिपे। राणकेन किमपि नोक्तम् । उत्थितो राणः । भाण्डागारिकपााद् गृहीत्वान्या मुद्रा तागेव पादाङ्गलौ स्थापिता। द्वितीयदिने | पुनः राणकस्तत्रैव शालायां प्रसुप्तः। वण्श्चरणौ स एव चम्पयति । राणस्तथैव पदीस्थगितवदनोऽस्ति । For Private And Personal Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailashsagarsuri Gyanmandir प्रशन्धा चतुर्विंशति जा ॥१२०॥ वण्ठः पुनः पुनः मुद्रामालोकते । अहो प्राक्तनी चेयम् । ततो राणेन्द्रः प्राह-"भो बंठ ! इमां तु मुद्रा ग्रहीः । या कल्ये गृहीता सा गृहीता । एतद्वचनाकर्णन एव वण्ठो भीत्या वजाहत इवास्थात् । यतो-हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः । स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः ॥१॥ तां तस्य दीनतां दृष्ट्वा राणकेन भणितम्-" वत्स ! मा भैषीः। अस्माकमेवायं कार्पण्यजो दोषः। येन तेऽल्पा वृत्तिः । इच्छा न पूर्यते । ततो यह्वपाये चौर्ये बुद्धिः । अतः परं हय आरोहाय दीयमानोऽस्ति | लक्षार्द्ध वृत्तौ ।” इत्याश्वासितः सः । । अतो वीरधवलः क्षमापरत्वाजगद्वल्लभः सेवकसदाफलत्वेन प्रपथे। स सहजदया इति कारणान्मन्त्रि| भ्यां इह कथान्तरे शान्तिपर्वणि द्वैपायनोक्तभीष्मयुधिष्ठिरोपदेशद्वारायातं द्वैपायनोक्तद्वात्रिंशदधिकारमयेतिहासशास्त्रीयाष्टाविंशाधिकारस्थं शिवपुराणमध्यगतं च मांसपरिहारं व्यस्ख्याय व्याख्याय प्रायो मांसमद्यमृगयाविमुखकृतः पुनर्मलधारिश्रीदेवप्रभसरिसविधे व्याख्यां श्रावं श्रावं सविशेष तेन तत्वपरिमलितमतिर्विरचितः। अन्येद्युवस्तुपालो ब्राम्ये मुहर्ते विमृशति-"यह यात्रा विस्तरेण क्रियते तदा श्रीफलवती भवेत् । श्रीणां स्त्रीणां च ये वश्यास्तेऽवश्यं पुरुषाऽधमाः । स्त्रियः त्रियश्च यदश्यास्तेऽवश्यं पुरुषोत्तमाः ॥१॥ ॥१२० ॥ For Private And Personal Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailashsagarsuri Gyanmandir कृपव्यापारपापेभ्यः सुकृतं स्वीकृतं न यैः। तान धूलिधावकेभ्योऽपि मन्ये मूखतरान नरान् ॥ २॥" इत्यादि विमृश्य तेजःपालेन नित्यभक्तेन सांमत्यं कृत्वा मलधारिश्रीनरचन्द्रमूरिपादानपृच्छत्| " भगवन् ! या मे चिन्ताऽधुना वर्तते सा निष्पत्यूह सेत्स्यति?" प्रभुभिः शास्त्रज्ञकिरीटैरुक्तम्-"जिन| यात्राचिन्ता वर्तते, सा सेत्स्यति ।" वस्तुपालेन गदितम्-" तर्हि देवालये वासक्षेपः क्रियताम् ।” तदा श्रीनरचन्द्रसूरयः प्राहु:-“मन्त्रीश ! वयं ते मातृपक्षे गुरवो न पितृपक्षे। पितृपक्षे तु नागेन्द्रगच्छीयाः श्रीविजयसेनसूरयः उदयप्रभसूरिसंज्ञकशिष्ययुजो विशालगच्छा पीलूआईदेशे वर्तन्ते । ते वासनिक्षेपं कुवन्तु परं न वयं । यदुक्तम् जा जस्स ठिई जा जस्स संतइ पुठ्यपुरिसकयमेरा कंठठिए वि जीए सा केण न लंघियवत्ति ॥१॥" अथ मन्याह-" अस्माभिर्भवदन्तिके त्रैविद्यषडावश्यककर्मप्रकृत्यायधीतम् । यूयमेव गुरवः ।" प्रभुभिरुक्तम्-" नैवं वाच्यम् , लोभपिशाचप्रवेशप्रसङ्गात् ।" ततो मन्त्रिभ्यां मरुदेशाद् गुरवः शीघ्रमानायिताः। मुहूर्नप्रतिष्ठादेवालयप्रस्थापनं वासनिक्षेपणं कुलगुरुभिः कृतम् । साधर्मिकवात्सल्यं शान्तिकं मारिवारणं स्वामिपूजनं लोकरञ्जनं चैत्यपरिपाटीपर्यटनं च विहितम् । अथ प्रतिलाभना तत्र मिलिताः कवीश्वराः For Private And Personal Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandit प्रबन्ध चतुर्विशती ॥१२१ ॥ २४ नरेश्वराः सवेश्वराः। दत्तानि कौशयकटककुण्डलहारादीनि लोकेभ्यः। यतिपतिभ्यस्तु तदुनितानि वस्रकम्बलभोज्यादीनि । तदा श्रीनरचन्द्रसूरिभिः सानुज्ञातव्याख्या कृता। चौलुक्यः परमाईनो नृपशतस्वामी जिनेन्द्राज्ञया निग्रन्थाय जनाय दानननन प्राप जाननपि।। स प्राप्तस्त्रिदिवं स्वचारुचरितैः सत्पात्रदानेच्छया त्वदपोऽवततार गुर्जरभुबि श्रीवस्तुपालो ध्रुवम् ॥१॥ "ध्वनितः सङ्घः। अथ चलितः सुशकुनैः ससको मन्त्री । मार्ग सप्तक्षेत्राण्युद्धरन् श्रीवर्द्धमानपुरासन्नमावासितः। तदा बर्द्धमानपुरमध्ये बहुजनमान्यः श्रीमान् रत्ननामा श्रावको वलाते । तद्गेहे दक्षिणावर्तः शहः पूज्यते । स रात्री करण्डान्नित्य स्निग्धगम्भीरं घुनघुनायते नृत्यति च। तत्तभावात्तस्य गृह चतुरङ्गा लक्ष्मीः । शङ्खन रात्रौ रत्न आलेपे-“तव गृहेऽहं चिरमस्थाम् । इदानीं तव पुण्यमल्पम् । मां श्रीवस्तुगलपुरुषोत्तमकरपङ्कजप्रणयिनं कुरु । सत्पात्रे मद्दानात् त्वमपीह परत्र च सुखी भव।" तस्माभिमायं व्यक्तं तज्ज्ञात्वा रत्नो विपुलसामच्याऽभिमुखो गत्वा मन्त्रीशं समई निमन्व्य स्वगृहे बहुपरिकर भोजयित्वा परिधाप्योचे-" एवमेवं शङ्खादेशो मे । गृहाणेमम् । " मध्याह-" न वयं परधनार्थिनः। पिशुनाच्छ असत्तां ज्ञात्वा तं ग्रहीष्यति स्वयं मन्त्री । तस्मात् स्वयमेव ददामि । इत्यपि मा शतिष्ठाः, निर्लोभत्यादस्माकममप्रभूणां च ।" इत्युक्त्वा विरते मन्त्रिणि रत्नेन गदितम्-"देव ! मगृहावस्थानमस्मै न रोचले । ततः किं For Private And Personal Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir क्रियते. गृहाणैव ।” ततो गृहीतो मन्त्रिणा शङ्खः । तत्प्रभावोऽनन्तः । शनैः शनैः सङ्घः श्रीशत्रु जयतलह-|| टिकां प्राप्तः। तत्र ललितामरः प्रासादादिकीर्तनानि पश्यन् अनुदितः ससद्धः सचिवः । अ.रूढः शत्रुक्षयाद्रिं वियेकं च भावं च । सत्र मन्त्री प्रथनं ऋषभं वन्दनं । तदा काव्यपाठ: आस्यं कस्य न वीक्षितं क न कृता सेवा न के वा सुना, तृण.पूरपराहतेन विहिता केषां च नाभ्यर्थना ।। तत्तातर्विमलाद्रिनन्दनवना कल्यैककल्पद्रुम, त्वामासाद्य कदा कदर्थमिदं भूयोऽपि नाहं सह ॥ १॥ अथावारितसत्रमेरुध्वजारोपणेन्द्रपदार्थरजमादीनि कर्तव्यानि विहितानि । देवेभ्यो नानि आभरणानि तिलकादीनि दत्तानि । कुङ्कमकर्पूरागुरुमगनदचन्दनकुसुमपरिमलमिलदलिकुलझङ्कारभारपूरितमिव गगनमभवत् । गीतरासध्वनिभिर्दिक्कुहराणि अभियन्त । पूर्व मन्त्रिीउदयनदत्ता देवदायाः सऽपि सविशेषाः कृताः। देवद्रव्यनाश निषेधार्थ चत्वारि श्रावककुलानि अद्री मुक्तानि । अनुपमा दानाधिकारिणी कृताऽस्ति । तस्याः साधुभ्यो दानानि ददत्याः किल महति वृन्दे पतता घृतकडहटकेन क्षामाण्यभ्युक्तानि तदा याष्टीकेन कडहभृते साधये यष्टिप्रहारलेशो दत्तः। मन्त्रिण्या देशनिर्वासनं समादिष्टम् । भणितंच" रे न वेत्सि ! यद्यहं तैलिकपत्नी कान्दविकपत्नी चाऽभविष्यम् । तदा प्रतिपदं तैलवृताभिष्वङ्गान्मलिनान्येव वासांस्यभविष्यन् । एवं तु वस्त्राभ्यनो भाग्यलभ्यः दर्शनप्रसादादेव स्यात् । य इदं न मन्यते तन नः For Private And Personal Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रवन्धः चतुर्विशति ॥१२२ ।। कार्यमेव न ।" इत्युक्तं च । अहो दर्शनभक्तिरिति ध्वनितं सर्वम् । एकदा मन्त्रीश्वरो नाभयपुरआरात्रिके स्थितोऽस्ति दिव्यधवलवासाश्चान्दनतिलको दिव्यपदकहारभूषितोरस्थलः। सूरीणां कवीनां श्रावकश्राविकाणां |च नतिः । तिलकं तिलकोपरि । पुष्पसपुष्पस्रगुपरि । तदा सूत्रधारेणैकेन दारवी कुमरादेव्या मातुर्मूर्तिमहन्तकायनवीनघटिता दृष्टौ कृता । उक्तं च तेन-" मातुर्मूर्तिरियम् । तदा मन्त्रीश्वरेणाशिवानखं दृष्टा मूर्तिः। दृष्ट्वा च रुदितम् । प्रथममश्रुमात्रं ततोऽव्यक्तइतरो ध्वनिः । ततो व्यक्ततरः। सर्वे तटस्थाः पृच्छन्ति-" देव ! किं कारणं रुद्यते ?। हर्षस्थाने को विषादः। यथा श्रुतशील इव नलस्य । उद्धव श्व विष्णोः । अभय इव श्रेणिकस्य । कल्पक इव नन्दस्य । जम्बक इव कनराजस्य । विद्याधर इव जयन्तराजस्य । आलिग इव सिद्धराजस्य । उदयन इव कुमारपालस्य । तथा त्वं मन्त्री वीरधवलस्य । विपट्टीताः पर्वता इव सागरं तथा त्वामाश्रयन्ति भूपाः । तायेणेव पन्नगास्तथा त्वया हताः सपत्नाः पृथिवीपालाः । चन्द्राय इव चकोरास्तथा तुभ्यं स्पृहयन्ति स्वजनाः। हिमवत इच गङ्गा तथा त्वत्प्रभवति राजनीतिः। भानोरिव पद्मास्तथा तवोदयमीहन्ते सूरयः। विष्णाविव त्वयि रमते श्री। तन्नास्ति यन्नास्ति ते । एवं सति किमर्थं दुःखं धियते।" ततो मन्त्रिणोक्तम्- “इदं दुःखं यन्मे भाग्य सङ्घनधिपत्यादिविभूतिर्मातृमरणादनन्तरं सम्पन्नाः । यदि तु सा मे माता इदानीं स्यात् । तदा स्वहस्तेन मङ्गलानि कुर्वत्यास्तस्या मम च मङ्गलानि कारयतः पश्यतश्च ॥॥१२२॥ For Private And Personal Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir लोकस्य कियत्सुखं भवेत् । परं किं कुर्मों धात्रा हताः स्मः एकैकन्यूनीकरणेन ।" तदा श्रीनरचन्द्रसूरिभि| मलधारिभिरभिहतम्-"मन्त्रीश्वर ! यथा त्वं सचिवेषु तथाऽत्र देशे प्रधानराजसु सिद्धराजो व्यजीयत । स मालवेन्द्र जित्वा पत्ततमागतो मङ्गलेषु क्रियमाणेष्वपाठीद यथा माऽस्म सीमन्तिनी कापि, जनयेत् सुतमीहशम् । बृहद्भाग्यफलं यस्य, मृतमातुरनन्तरम् ॥१॥ तस्मात् हृदयं अधःकृत्वा स्थीयते विवेकिभिः । न सर्वेऽपि नृणां मनोरथाः प्रपूर्यन्ते ।” इत्यायुक्त्वा मन्त्री बलादारात्रिकमङ्गलदीपादि कारितः। ततो चैत्यवन्दना गुरुवन्दनं च। तदा श्रीनरचन्द्रसूरिभिराशीदत्ता तवोपकुर्वतो धर्म तस्य त्वामुपकुर्वते । वस्तुपाल द्वयोरस्तु युक्त एव समागमः ॥ १ ॥ इत्यादि । अथ रात्रौ तन्मयतया नाभेयपूजाध्यानदानः । तदा कवयः पठन्ति । एकः कश्चित्ये पापप्रवणाः स्वभावकृपणा! स्वामिप्रसादोल्यणास्तेऽपि द्रव्यकणाय मर्त्यभषणा जिह्वे भवत्या स्तुताः। तस्मात् त्वं तदधापघातविधये बद्धादरा सम्प्रति श्रेयास्थानविधानधिकृतकलिं श्रीवस्तुपालं स्तुहि ॥१॥ For Private And Personal Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्धः अपरस्तु शूरो रणेषु चरणप्रणतेषु सोमो, वक्रोऽतिवक्रचरितेषु बुधोऽर्थयोधे । नीती गुरुः कविजने कविरक्रियासु मन्दोपि च ग्रह नया नहि वस्तुपालः ॥२॥ अन्यस्तुश्रीभोजवदनाम्भोजवियोगविधुरं मनः । श्रीवस्तुपालवक्त्रेन्दौ विनोदयति भारती ।। ३ ।। इतरस्तुश्रीवासाम्बुजमाननं परिणितं पश्चाङ्गलिछद्मतो, जग्मुईक्षिणपश्चशाखमयां पञ्चापि देवदुमाः। वाञ्छापूरणकारणं प्रणयिनां जिलैव चिन्तामणिजीता यस्य किमस्य शस्त्रपरं श्रीरामालस तत् ॥४॥ सर्वत्र लक्षदानम् । अष्टाहिकायां गतायां ऋषभदेवं गदगदोक्त्या मन्त्री अपृच्छत्" त्वत्प्रासादकृते नीडे, वसन् शृण्वन् गुणां स्तव । सङ्घदर्शनतुष्टात्मा भूयांस विहगोऽप्यहम् ॥५॥ यद्दाये द्यूतकारस्य यत्प्रियायां वियोगिनः । यद्राधावेधिनो लक्षे नयानं मेस्तुते मते ॥६॥ इत्याद्यकथयत् । एवं सङ्घोऽपि चलितः । ससङ्घः सचियः मरुदेवाशिखरादग्रे यावत् कियदपि याति । । तावत् श्रमवशविगलत्स्वेदक्लिन्नगात्रवसनान कत्यपि मालिकान् पुष्पकरण्डकभारितशिरसोऽपश्यत्। पृष्टास्ते- ॥१२३ ॥ For Private And Personal Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir |" कथमुत्सुका इव यूयम् ।” तैर्विज्ञप्तम्-" देव ! वयं दूरात् पुष्पाण्याहार्मः । सङ्घः किल शत्रुचयशिखरे ऽस्ति । प्रकृष्ट मूल्यं लप्स्यामहे । तत्पुनरन्यथा जातम् । सङ्घश्चलितः । तस्मादभाग्या वयमिति ।” तेषां | दैन्यं दृष्ट्वा मन्त्रिणाऽभाणि-" अत्रैव स्थीयतामृध्वैः क्षणम् ।” तावता पाश्चात्यं सर्वमायातं । श्रीवस्तुपालेन स्वकुटुम्ब सङ्घश्चाभाण्यतां । यथा-" भो धन्या ! सर्वेषां पूर्णस्तीर्थवन्दनपूजाभिलाषः।” लोकेनोक्तम्" भवत्प्रसादात्पूर्णः।” मन्त्र्याह-" किमपि तीर्थमपूजितं स्थितमस्ति ।” लोकः प्राह-"प्रत्येकं सर्वाणि तीर्थानि पूजितानि ध्यातानि ।” मन्त्रिमहेन्द्रः प्राह-" यद्विस्मृतं तन्न जानीथ यूयम् । वयं स्मारयामः।" सङ्को वदति-"किं विस्मृतं, तत्कथयन्तु ।" मन्त्री वदति-" भो लोकाः! पूर्व तीर्थमयं पर्वतः । यत्र स्वयमृषभदेवः समवासार्षीत् । ततो नेमिवर्जितात्रयोविंशतिर्जिनाः समवासार्षुः । असङ्ख्याः सिद्धाश्च यत्र । सादिः कथं न तीर्थम् ? । लोकोऽप्याह-"सत्यं तीर्थमयं पर्वतः।" तर्हि पूज्यताम् । पुष्पादीनि क्वेति चेद कथयिष्यन् नदा इमे मालिका इमानि पुष्पाणि वः पुण्यरुपास्थिषतेति।" तप्तः सङ्ग्रेन तानि पुष्पाणि गृहीत्वाऽद्रिपूजा कृता । द्रम्मेण पुष्पं जातम् । नालिकेरास्फालनवस्त्रदानादिकेलयश्च । तुष्टा मालिकाः। एवं पराशाभङ्गपराङ्मुखः आसराजभूः । ततः शनैः शनैः पशुतुरङ्गशिश्वाद्यपीडया सङ्घो रैवतकमारोह च । नेमिनि दृष्टे मन्त्री ननत । पपाठ च आनन्दाश्रुनिझरिताक्षः For Private And Personal Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशती प्रबन्ध कल्पमतररसी तरवस्तथाऽन्ये, चिन्तामणिर्मणिरसौ मणयस्तथाऽन्ये । धिग्जातिमेव ददृशे बत यत्र नेमिः, श्रीरैवते स दिवसो दिवसास्तथाऽन्ये ॥१॥ अभगवैराग्यतरङ्गरने, चित्ते त्वदीये यदुवंशरत कथं कृशाजयोऽपि हि मान्तु हन्त, यस्मादनोऽपि पदं न लेभे ॥२॥ तत्राप्यष्टाहिकादिविधिः प्रागिव । नाभेयभक्मकल्याणत्रयगजेन्द्रपदण्डान्तिकप्रासादअम्बिकाशा|म्बप्रद्युम्नशिखरतोरणादिकीर्तनदर्शनैर्मन्त्री सङ्घस्य जयनयो स्वादुफलमार्पिपताम् । आरात्रिकेर्थिनां ससम्भ्रमं मन्त्रि मध्ये झम्पापनं दृष्टा श्रीसोमेश्वरकविः प्राहइच्छासिद्धिसमुन्नते सुरगणे कल्पद्रुमैः स्थीयते पाताले पचमानभोजनजने कटं प्रनष्टो बलिः। नारायानगमन मुनीन् सुरभयश्चिन्तामणिः काप्यगात् तस्मादर्थिकदर्थनां विषहतां श्रीवस्तुपालः क्षितौ ॥१॥ लक्षासपादोऽस्य दत्ती मन्त्रिणः दानमण्डपिकायां निषण्णो निरर्गलं दानं ददत् एवं स्तुतः केनापि कविनापीयूषादपि पेशलाः शशधरज्योत्स्नाकलापादपि, स्वस्था नूतनचूतमञ्जरिभरादप्युल्लसत्सौरभाः। बाग्देवीमुखसाममूक्तविशदोद्गारादपि माञ्जलाः, केषां न प्रथयन्ति चेतसि मुदं श्रीवस्नुपालोक्तयः॥१॥ For Private And Personal Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वस्तुपाल! तव पर्वशर्वरीगवितेन्दुकरजिस्वरं यशः। क्षीरनीरनिधिवाससः क्षितेरुत्तरीयतुलनां विगाहते ॥२॥ एवं भावं सम्पूर्य देवोत्तमं श्रीनेमिमापृच्छय सर्वासां तीर्थचिन्ताकृतां निर्माल्यपदं दत्वा पर्वतादुदतारीत् , न सतां हृदयात् नापि महत्त्वात् । अथ खङ्गारदुर्गाद्रिदेवपत्तनादिषु देवान् ववन्दे । तेजपालं खङ्गारदुर्गे स्थापयित्वा स्वयं ससङ्घो वस्तुपाल: श्रीधवलकके श्रीवीरधवलमयमत् । स्वागतप्रश्नः स्वामिना कृतः। आरम्भसिद्धिप्रश्नश्च । ततो मन्त्र्याहकामं खामिप्रसादेन प्रेष्याः कर्मसु कर्मठाः । तद् धैभवं बृहनोः कचिदृष्मा जोति यत् ॥ १॥ . राणकेन ससङ्घः सचिवः स्वसदने भोजितः परिधापितः स्तुतश्च । तेजःपालोऽपि खङ्गारदुर्गस्थो भूमि विलोक्य तेजलपुरममण्डयत् , सत्रारामपुरप्रपाजिनगृहादिरम्यं । प्राकारश्च तेजलपुरं परितः कारितः पापाणबद्धस्तुङ्गः। अथ वस्तुपाल: श्रीवीरधवलपार्श्वे सेवां विधत्ते । देशः सुस्थः धर्मों वर्तते । एवं सत्येकदा दिल्लीनगरादेत्य चरपुरुषैः श्रीवस्तुपालो विज्ञप्त:-“देव! दिल्लीतः श्रीमोजदीनसुरत्राणस्य सैन्यं पश्चिमां दिशमुद्दिश्य मलितम् । चत्वारि प्रयाणानि व्यूढं । तस्मात्सावधानः स्थेयम् । मन्ये अर्बुदमध्ये भूत्वा गुर्जरधरां प्रवेष्टा ।” मन्त्रिणा सत्कृत्य ते चरा राणपाव नीताः कथापितः स प्रपन्धः । ततो राणकेनाभाणि For Private And Personal Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandit प्रबन्ध पतुर्विशति | " वस्तुपाल! म्लेच्छैर्गर्दभल्लो गईभीविद्यासिद्धोऽप्यभिभूतः। नित्यं सूर्यबिम्बनिधतुरङ्गप्रकृतराजपाटीका शिलादित्योऽपि पीडितः । सप्तशतयोजनभूनाथो जयन्तचन्द्रोऽपि क्षयं नीतः। विंशतिवारबद्धसहावदीन तु रत्राणमोक्ता पृथिवीराजोऽपि बद्धः । तस्माद् दुर्जया अमी। किं कर्ताऽसि ?।" वस्तुपाल उवाच-"खामिन् ! प्रेषय माम् यदुचितं तत्करिष्यामि ।” ततः साराश्वलक्षेण सह चलितो मन्त्री । तृतीयप्रयाणे महणलदेवीं कर्पूरादिमहापूजापूर्व सस्मार । सा तद्भाग्यात्प्रत्यक्षीभूयोवाच-"वत्सक!मा भैषीः। अबुंदगिरिदिशा यवनाः प्रवेक्ष्यन्ति । तव देशं यदाऽमी पविशन्ति तदैव तल्लविता घण्टिकाः स्वराजन्यै रोधयेथाः । तेऽथ यत्रावासान् गृह्णन्ति । तत्र स्थिरचित्तः ससैन्यो युद्धाय सरभसं दौकेथाः । जयश्रीस्तव करपङ्कजे एव ।" इदं श्रुत्वा धारावर्षायाऽर्बुदगिरिनायकाय स्वसेवकाय नरान् प्रेषयत् । अकथापयञ्च-" म्लेच्छसैन्यमबुंदमध्ये भूत्वा आजिगमिषदास्ते । त्वयैतानागच्छतो मुक्त्वा पश्चाद् घंट्टिका रुन्ध्याः ।" तेन तथैव कृतम् । प्रविधा यवनाः । यावदावासान् गृहीष्यन्ति तावत्पतितो वस्तुपालः कालः। हन्यन्ते यवनाः । उच्छलि तो बुम्बारवः। केविदन्तान्तरं अङ्गुली गृह्णन्ति । अपरे तोबां कुर्वन्ति । तथापि न च्छुटन्ति । एवं तान् हत्वा तच्छविलक्षैः शकटानि भृत्वा धवलक्कमेत्य मन्त्री स्वस्वामिनं प्रत्यदर्शयत् । श्लाधितश्च तेनायम् । For Private And Personal Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न ध्वानं तनुषे न यासि विकटं नोचैर्वहस्थाननं दोन्नोल्लिखसि क्षितिं खरपुटै वज्ञया वीक्ष्यसे । किन्तु त्वं वसुधातलैकधवलस्कन्धाधिरूढे भरे तीर्थान्युच्चतटीविटङ्कविषमाण्युल्लङ्घयन् लक्ष्यसे ॥१॥ ततः परिधापितः । विसृष्टः स्वगृहाय । तत्र मङ्गलकरणाय लोकागमः। द्रम्मेण पुष्पं लभ्यते तदवसरेऽपि। एवं पुष्पस्रव्ययो लोकैः कृतः। इतश्च नागपुरे साधुदेल्हासुतः सा० पूनडः श्रीमोजदीनसुरत्राणपत्नीबोबीप्रेमकमलाप्रतिपन्नबन्धवो अश्वपतिगजपतिनरपतिमान्यो विजयते । तेन प्रथम श्रीशत्रुञ्जये यात्रा त्रिसप्तत्यधिकद्वादशशतवर्षे विक्रमात् १२७३ वर्षे बिम्बरपुरात् कृता । द्वितीया सुरत्राणादेशात् षडशीत्याधिके द्वादशशतसङ्ख्ये १२८६ वर्ष नागपुरात्कत्तुमारब्धा । तत्सद्वेऽष्टादशशतानि शकटानि । बहवो महाधराः । तदनुसारेण शेषः परिवारः । माण्डलिग्रामासन्नो यावदायातः ससङ्घः। तावत्सम्मुखमागत्य तेजःपालमन्त्रिणा धवलककमानीतः। श्रीवस्तुपालः सम्मुखमागात् । सङ्घस्य धूली पवनानुकूल्याद् यां यां दिशमनुधावति । तत्र तत्र स गच्छति । तटस्थैर्नरैर्भणितम्-“मन्त्रीश ! इतो रजः । इतः पादोऽवधार्यतां।" ततः सचिवेन बभणे-"इदं रजः स्प्रष्टुं पुण्यैर्लभ्यते । अनेन रजसा स्पृष्टेन पापरजांसि दूरे नश्यन्ति । यतः For Private And Personal Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति ॥१२६ ॥ श्रीतीर्थपान्धरजसा विरजीभवन्ति तीर्थेषु पम्भ्रमतो न भवे भ्रमन्ति । द्रव्यव्ययादिह नराः स्थिरसम्पदः स्युः पूज्या भवन्ति जमदीशमथार्चयन्तः ॥१॥ ततः सङ्कपतिपूनडमन्त्रिणोढमालिङ्गनप्रियालापौ संवृत्तौ । सरस्तीरे स्थितः सङ्कः। रात्री श्रीवस्नुपालेन कथापितं पूनडाय पुण्यात्मने-"प्रातः सर्वसङ्ग्रेनास्मदावासे भोक्तव्यम् । धूमो न कार्यः।" पूनडेन तथेति प्रतिपन्नम् । रात्री मण्डपो द्विद्वारो रसवतीप्रकारश्च । सर्व निष्पन्नम् । भोजनमण्डपे प्रातरायान्ति नागपुरीयाः । सर्वेषां चरणक्षालनं तिलकरचनां च श्रीवस्तुपाला स्वहस्तेन करोति । एवं लग्ना द्विप्रहरी। मन्त्री तु तथैवानिर्विणः । तदा तेजःपालेन विज्ञप्तम्-"देव ! अन्यैरपि सङ्घभक्तिः कारयिष्यते । यूयं मुग्ध्वम् । तापो भावी ।” मन्त्री भणति-"मैवं वादी । पुण्यैरयमवसरो लभ्यते।" गुरुभिरपि कथापितम् यस्मिन् कुले यः पुरुषः प्रधानः स एव यक्षेन हि रक्षणीयः। सस्मिन् विनष्टे हि कुलं विनष्टं न नाभिभने स्वरका वहन्ति ॥१॥ तस्माद् भोक्तव्यं भवद्भिः।" मन्त्रिणा गुरून प्रति पुनरिदं काव्यं प्रहितम् “अद्य मे फलवती पितुराशा मातुराशिखशिखां कुरुताय । यदु युगादिजिनयात्रिकलोकं, पूजयाम्यहमशेषमखिन्नः॥२॥ For Private And Personal Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भोजयता मन्त्रिणा नागपुरीयाणामेकपङ्कित्वं दृष्ट्वा शिरो धूनितम् । अहो ! शुद्धा लोका एते । एवं भोजयित्वा परिधाप्य च रञ्जितो नागपुरसङ्घः । गती वस्तुपालपूनडी श्रीशत्रुञ्जयं ससङ्घौ । वन्दितः श्रीषभः । एकदा लाने सति देवार्चको देवस्य नासां पिधत्ते पुष्पैः। किल कलसेन नासां मापीडीदित्याशयतः। तदा मन्त्रिणा चिन्तितम्-"कदाचिदैवाद् देवाधिदेवस्य कलशादिना परचक्रेण वाऽवक्तव्यममङ्गलं भवेत् तदा का गतिः सङ्घस्य ।" इति चिन्तयित्वा पूनड आलेपे-" भ्रातः! सङ्कल्पोऽयमेवं मे संवृत्तः। यदि बिम्बान्तरमझममम्माणीमयं क्रियते तदा सुन्दरम् । तत्तु सुरत्राणमोजदीनमित्रे त्वयि यतमाने स्यानान्यथा ।" पूनडेनोक्तम्-"ततः गतैश्चिन्तयिष्यतेऽदः।” इत्यादि वन्दतौरैवतादितीर्थान् वन्दित्वा व्यावृत्ती तो । गतः पूनडो नागपुरम् । मन्त्री स्तम्भतीर्थे राज्यं शास्ति । एवं स्थितेऽन्येयुः सुरत्राणमोजदीनमाता वृद्धा हजयात्रार्थिनी स्तम्भपुरमागता। नौवित्तगृहेऽतिथित्वेना|| स्थात् । सा समागता सचिवेन चरेभ्यो ज्ञाता । चराः प्रोक्ताः श्रीमन्त्रिणा-" रे ! यदा इयं जलपथेन याति | तदा मे ज्ञाप्या।" तैस्तथा कृतम् । गच्छन्ती ज्ञापिता। मन्त्रिणा निजकोलिकान् प्रेष्य तस्याः सर्व कोटीम्बकस्थं वस्तु ग्राहितम् । सुष्टु रक्षापितं च क्वचित् । तदा नौवित्तैः पूत्कृतं उपमन्त्रि-“देव ! जरत्येकाऽस्मदयूथ्या हजयात्रायै गच्छन्ती त्वत्पद्रे तस्करैलुण्टिता।" मन्त्रिणा पृष्टम्-"का सा जरती?" तैरुक्तम् For Private And Personal Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशती "देव! किं पृच्छसि ? मा मोजदीन उरवागमाता पूज्या।" मन्त्रिणा भतिं मायगा-"अरे! वस्तु विलो-|| कयत विलोकयन।" दिनदयं विलम्ब्यानीयार्पित सवम् । जरती तु स्वगृह निन्ये । विविधा भक्तिः क्रियते। पृष्टा च-" किं हजयात्रेच्छा वः।" तयाक्तम्-" अंनिति।" तर्हि दिनकतिपयान् प्रतीक्षध्वम् । प्रतीक्षा चक्रे सा। तावतारासणे आश्मीयं तोरणं घटापितम् , आनायितं च । भेलयित्वा विलोकित च । पुनर्विघटित ।। रूतन बद्धम् । सूत्रधाराः सह प्रगुणिताः । मन्त्रिणव मार्गश्चान्तरे त्रिविधोऽस्ति । एको जलमार्गः। अपरः करभगभ्यः । इनरस्तु अश्वलयः । यत्र ये राजानोऽयोध्वा यथाल्लयन्तं तथा सूत्रं कृतम् । राज्ञां उपदायै द्रव्याणि प्रगुणीकृतानि । एवं सामय्या स्वयं सह भूत्वा सा महिना तत्र । रचितं तोरणं मसतिद्वारे । तत्र दीपनेलादिपूजाचिन्ता तद्राजपाचीत् शाश्वती कारिता । दत्तं भूरि भूरि तत्र । उदभूत् भूरि यशः। व्यावृत्ता जरती । आनीता स्तम्भपुरम् । प्रवेशमहः कारितः। स्वयं नदेहिक्षालचके । एवं भक्त्या दिनदशक स्थापिता स्वगृहे । तावता धवलकिशोरशनपञ्चक अन्यदारे दुकू गन्धराजारादि गृहीतम् । वृद्धा प्रोक्ता-11 “मातश्चलसि । यद्यादिशसि तत्र मानं च दापयास तदाऽह वयागच्छामि तव सम्प्रेषणार्थम् ।” नया भणितम्-"तत्राह व प्रभुः। स्वैरमेहि । पूजा ते नत्र यहुपरी।" श्री वीरधवलऽनुप्रत्या चलितो मन्त्रिमहेन्द्रः। गतो दिल्लीतट राजमातृवचनात् । कोशदूयंाम् तस्थौ । सुरत्राणः सम्नुखमागान्मातुः । मा IN॥ १२७॥ For Private And Personal Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रणता पृष्टा च सुखयात्रां । जरत्या प्रोक्तम्- "कथं न मे भद्रम् । यस्याः ढिल्ल्या त्वं पुत्रः। मूरिधरायां तु वस्तुपालः।" राज्ञा पृष्टम्- "कोऽसौ?" जात्या वृत्तान्तःप्रोमाननियरूपातिगभः। राजाह:-"स किमिनि नात्रानीतः।" वृद्धाह-"आनीतोऽस्ति।" दृश्यतांनाह ? । अश्ववारान् प्रहित्य आनाय्य दर्शिनो वस्तुपाल: । दत्तापदा मन्त्रिणा । आलापितश्च राज्ञा-" मात्रा मदधिकस्त्वं पुत्रो मतः। तेन मम बान्धवस्त्वम् । अस्मन्माता त्वां स्तौति।" एवं सुखवार्ता कृत्वा महोत्सर्वन स्वमातुरग्रसरः कृत्वा श्रीवस्तुपालो दिल्लीपुरं नोन: आवासितश्च . साधुवूनडस्यावासे । स्वमु वन सुरत्राणन निनन्य साधुपूनडसदने भोजयित्वा निजधवलगृहे आकारिता सचिवेन्द्रः। सविनयं सत्कृत्य परिधापितः। सुवर्णकोर्टिमेकां प्रसादपदे दवा उक्तश्चेति-"किश्चिद्याचस्व ।" वस्तुपालेनाभिहिनम्-"देव ! गुजर घरया सह देवस्य याव| जीवं सन्धिः स्तात् । उपलपश्चकं ममाणीखनीतो दापय ।" राज्ञा मां तत् । दत्ता धीरा । नत्फलहांपञ्चक नृपादेशात् पूनडेन प्रेषितं शत्रुञ्जयाद्री । तत्रैका ऋषभफलहो । द्वितीया पुण्डरीकालहो । तृतीया कपर्दिनः । चतुर्थी चक्रेश्वर्याः । पञ्चमी तेजलपुरे श्रीपार्श्वफल हो । वलितः पश्चान्मन्त्रीश्वरः स्वपुर गतः। प्रणतः स्वस्वामी तेन चिरदर्शनोत्कण्ठाविह्वलेन । पूर्वमपि कर्णाकर्णिकया श्रुतं ढिलोगभनवृत्तान्तम् । पुनः सविश मन्त्रिण पप्रच्छ । सोऽपि निरवशेषमगर्वपरः प्राचख्यौ । तुष्टो वीरधवलः । दत्ता दशलक्षी हेम्नां प्रसादपदे । सा तु For Private And Personal Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः २४ चतुर्विशति ॥ १२८ ॥ गृहादागेव दत्ता बहुमिलितयाचकेभ्यः । मिलितो मन्त्रिगृहे साऽपि लोकः । स सत्कृत्य प्रेषितः। कवयस्तु पठन्ति। श्रीमन्ति दृष्ट्वा द्विजराजमेकं पद्मानि सङ्कोचमहो भजन्ति ।। समागतेऽपि द्विजराजलक्षे सदा विकासि तव पाणिपद्मः ॥१॥ उच्चाटने विद्विषतां रमाणामाकर्षणे स्वामिहृदश्च वश्य । एकोपि मन्त्रीश्वरवस्तुपाल ! सिद्धस्तव स्फूर्तिमियर्ति मन्त्रः॥२॥ ___ एवं स्तूयमान उत्तमत्वात्लजमानो वस्तुपालोऽधो विलोकयामास । ततो महानगरवासिना नानककविना भणितम्एकस्त्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितं, लज्जानम्रशिराः स्थिरातलमिदं यदीक्षसे वेनि तत्। वाग्देवीवदनारविन्दतिलक श्रीवस्तुपाल ! ध्रुवम् , पातालालिमुद्दिधीर्षुरसकृन्मार्ग भवान्मार्गति ॥३॥ तदैव कृष्णनगरीयकविकमलादित्येन भड्यन्तरमुक्तम् ॥ १२८॥ For Private And Personal Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir लक्ष्मी चलां त्यागफलां चकार, सार्थिश्रिता कीर्तिमसूत नन्दिनीम् । साऽपीच्छया क्रीडति विष्टपाग्रतस्तद्वातयाऽसौ त्रपते यतो महान् ॥ ४॥ तेषां कवीनां भूरि दानं दत्तम् । अथ कदाचन मन्त्रिणा श्रुतं यथा-"रैवतकासन्नं गच्छतां लोकानां पार्श्वतो भरटकाः पूर्वनरेन्द्रदत्तं करमुग्राद्यन्ति । पोहलिकेभ्यः कणमाणकमेकं १ कूपकात्कर्ष एकः। एवं उपद्यते लोकः।" तत आयतिदशिना सचिवेन ते भरटकाः कुहाडीनामानं ग्रामं दत्त्वा तं करमुग्राहयन्तो निषिद्धाः। अङ्कवालियाख्यो ग्रामस्तु ऋषभनेमियात्रिकाणां क्षीणधनानां स्वगृहाप्तियोग्यपाथेयद्रम्मपदे दत्तः। शत्रुञ्जयरैवतकतल्लहट्टिकानगरयोः सुखासनानि कृत्वा मुक्तानि अन्धज्वरितादीनां यात्रिकाणां तीर्थारोहणार्थम् । तदुत्पाटकनराणां तु ग्रासपदे शालिक्षेत्राणि प्रतिष्टितानि । तीर्थेषु सर्वेषु देवेभ्यो रत्नखचितानि हैमभूषणानि कारितानि । विदेशायातसूरिसुश्रूषार्थ सर्वदेशग्रामण्यो नियुक्ताः । कृतं लौकिकतीर्थकरणमपि स्वस्वामिरञ्जनार्थम् , न भक्त्या स्वयं तु सम्यग्दृष्टित्वात् । एवं तस्योपकाराः कियन्त्युच्यन्ते विवेकशिरोमणेः । एकदा स्तम्भतीर्थपुरं गतो मन्त्री धवलक्ककात् ।तत्र समुद्रतीरे यानपात्रात्तुरङ्गा उत्तरन्तः सन्ति । तदा सोमेश्वरः कवीन्द्रः आसन्नवी । मन्त्रिणा समस्या पृष्टा For Private And Personal Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुवंशात " प्रादृट्काले पयोराशि : कस्माद् गर्जितवर्जितः ।" प्रबन्धा सोमेश्वरः पूरपति स्म “अन्तः सुष्तजगन्नाथनिद्राभङ्ग भयादिय ॥१॥" तुरङ्गमषोडशकनुचितदानेऽत्र दत्तम् । पुनः कदाचिन्मंत्रिगोतर-"काका किंवा क्रमेलकः।” सोमेश्वरेण पूरित पद्यम् येनागच्छन्ममाख्यातो येनानीतश्च मत्पतिः। प्रथम सखि कः पूज्यः काकः किंवा क्रमेलकः ॥२॥ अत्रापि पोडशसहस्रा द्रम्माणां दत्तिः। एवं लीला तस्य । एकदा वृद्धभ्यः श्रुतमेवंविधम् । यथा-"प्राग्वाट्वंशे श्रीविमलो दण्डनायकोऽभवत् । स चिरमर्बुदाधिपत्यमभुनक्, गुर्जरेश्वरप्रसत्तेः । तस्य धिमलस्य विमलमतर्वाञ्छाद्वयमभूत् । पुत्रवान्छा प्रासादवाञ्छा च । तत्सिद्ध्ये स्वर्ग त्रदेव्यां अम्बिकामुपवासत्रयेणारराध । प्रत्यक्षीभूय सा माह-"वत्स ! वाग्छां हि।" विमला जगौ-"पुत्रेच्छा प्रासादनिपत्तीच्छा चाबुदभृङ्ग में वर्तते ।" अम्बया प्रोक्तम्-" द्वे प्राप्ती न स्नः । एकां ब्रूहि ।” ततो भार्याश्रीदव्या बचसा विमलन संसारद्धिमात्रफलामसारां पुत्रेच्छां मुक्त्वा प्रासादेच्छैव सफल कर्तुमिष्टा । अम्बयोक्तम्-17॥ १२९॥ For Private And Personal Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir संत्स्यति तवेयम् । परं क्षणं प्रतीक्षस्व । यावताहं गिरिवराऽर्बुदाधिष्ठान्याः सख्याः श्रीमातुर्मतं गृहामि।" इत्युक्त्वा गता देवी । तावद् विमलो ध्यानेन तस्थौ । श्रीमातृमतं लात्वा देव्यायाता अभाणीच पुष्पस्रगदामरुचिरं, दृष्ट्वा गोमयगोमुखम् । प्रासादाई भुवं विधाः, श्रीमातुर्भवनान्तिके ॥१॥ तत्तथैव दृष्ट्वा चम्पकदुमसन्निधौ तीर्थमस्थापयत् । पैत्तलप्रतिमा तत्र महती विक्रमादित्यात् सहस्रोपरि। वर्षाणामष्टाशीती गतायां चतुर्भिः सूरिभिरादिनाथं प्रत्यतिष्ठिपत् । 'विमलवसतिः' इति मासादस्य मामदत्तं । तस्मिन् दृष्ठे जन्म सफलं कथ्यते । एतत्कथाश्रवणानमन्त्री दध्यौ "वयं चत्वारो प्रातरोऽभूम । तन्मध्ये दोस्तादौतुमालदेवलूणिगावल्पवयसौ दिवमगानाम् । मालदेवमाना कीर्तनानि प्रागपि अकारिषत । कियन्स्यपि लूणिगश्रेयसे तु लूणिगवसनिरर्बुदे काराच्या" एतत्तेजःपालाय प्रकाशितम् । तेन विनीतेन सुतरां मेरे । अथ तेजःपालो धवला कादर्बुइगिरिभूषणं चन्द्रावतीं पुरी मत्वा धारावर्षराणकगृहमगात् । तेनास्यर्थ पूजितः। किं कार्य भादिश्यतामित्युक्तं च । मन्त्रिणोक्तम्-" अर्बुद शिखराग्रे प्रासादं कारयामहे । यदि यूयं साहाय्या: स्यात।" धारावर्षण भणितम्-" तव सेवकोऽस्मि । अहं सर्वकार्येषु धुरि योज्य:।" ततो राष्ट्रिकमौर्गलिकादयो महादानेशीकृतास्तथा, यथा निरुपद्यमानचैत्योपरि प्रद्वेषं न भजन्ते । वालेन भूतानि पशीभवन्तीतिवचनात् । तत For Private And Personal Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशती प्रपन्या चक्रप्रवेशो नो भवेत् । श्चन्द्रावतीमहाजनमुख्यं श्रावकं चाम्पलनामानं गृहं गत्वाऽऽललाप-"वयं चैत्यमबुदे कारयामहे यदि पूजासान्निध्धं कुरुध्वे । " चाम्पलेनापि स्वस्य कुटुम्बान्तराणामपि देवपूजार्थं नित्यधनविता कृता । ततो मन्त्री आरासपां गत्वा चैत्यनिष्पत्तियोग्य दलवाटकं निरवकाशयति । तद्युग्यैरहकलैश्चाधुंदोपत्यकामानीनयत् । अर्द्धक्रोशार्द्धकोशान्तरे हद्दानि मण्डापितानि । तत्र सर्व लभ्यते । पशूनां नराणां क्षुदादि कृच्छं माभूदिति | कारणात् । उम्बरिपीपथेन प्रासादनिष्पत्तियोग्यं दलं द्विगुणमुपरि गिरेः प्रवेशयामास । पुनस्तां पद्यां विषमाञ्चकार। यथा परचक्रप्रवेशो नो भवेत् । एवं सिद्धे पूर्वकर्मणि शोभनदेवं सूत्रधारमाहूय कर्मस्थाये न्ययुक्त। ऊदलाख्यं आत्मशालकं उपरि स्थायिनमकरोत् । अर्थव्यये स्वैरितां च समादिशत् । एवं सूत्रं कृत्वा तेज:|पालो धवलककमागमत् । निष्पद्यले प्रासादः । श्रीनेमिबिम्बं कषोपलमयं सजीकृतं विद्यते । सूत्रधाराणां सप्तशती घटयति घाटम् । ते तु दुःशीलाः पुरः पुरोऽथ गृह्णन्ति । कार्यकाले पुनः याचन्ते । तत ऊदलो मन्त्रितेजःपालाय लिखति-"देव ! द्रम्माः विनश्यन्ति । सूत्रधारा कर्मस्थायात् प्रथमं प्रथमं गृह्णन्ति।" | ततस्तेजःपालेन कथापितम्-"द्रम्मा विनष्टा इति किं ब्रूषे ?। विनष्टाः किं कुथिताः । न तावत् कुथिताः। किन्तु मनुष्याणामुपकृताः। उपकृताश्चेद्विनष्टाः कथं कथ्यन्ते ? | माता मे वन्ध्येति वाक्यवत्परस्परं विरुद्धं ब्रुषे । तस्मात् तत्त्वमिदम्-सूत्रधाराणामिच्छाच्छेदो न कार्यः, देयमेवेति ।" ततो दत्ते ऊदलः। तावन्नि अव्यये स्वैरितां च स विद्यते । सूर For Private And Personal Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir प्पन्नं यावद्गर्भगृहमध्ये श्रीनेमिनाथयिम्य स्थापितम् । एतच्च कृतं श्रीतेजःपालाय विज्ञप्लम् । तुष्टौ द्वौ मन्त्रिणौ । श्रीवस्तुपालादेशात् तेजःपालोऽनुपया सहानल्पपरिच्छदोऽधंदगिरि प्राप्तः । प्रासादं निष्पन्नवार्य ददर्श तुतोष । स्नात्वा सदननावरणः सपत्नीको मन्त्री नेमि पूजयति स्म । अथ कायोत्सर्गे ध्यानेनोलस्तस्थौ चिरम् । क्षणार्द्धनानुपमा पलिं तथास्थं मुक्त्वा प्रासादनिष्पत्तिकुतूहलेन बहिरागात् । तत्र सूत्रधारः शोभनदेवो मण्डपचतुःस्तम्भी ऊर्ध्वयितुमुपक्रमते । तदा मन्त्रिण्या उक्तम्-"सूत्रधार! मम पश्यन्त्याधिर बभूव । अद्यापि स्तम्भा मोत्तम्भ्यन्ते।" शोभनदेवेनोक्तम्-"स्वामिनि गिरिपरिसरोऽयम् । शीतं स्फनिम् । प्रातर्घटनं विषमम् । मध्यान्हे गृहाय गम्यते। स्नायते। पच्यते। भुज्यते एवं विलम्बः स्यात् । अथ विलम्यात् किं भयम् ?, श्रीमन्त्रिपादाश्चिरं राज्यमुपभुञानाः सन्तीह तावत् ।” ततोऽनुपमया जगदे-" सूत्रधार ! चाटुमात्रमेतत् । कोऽपि क्षणः कीदृग्भवेत् को वेत्ति ।" सूत्रधारो मौनं कृत्वा स्थितः। पत्नीवचनमाकार्य सचिवेन्द्रो बहिनिःमृत्य सूत्रधारमवोचत्-" अनुपमा किं वावदति।" सुन्नधारी व्याहापात-" यद्देवेन अवधारितम् ।" मन्त्री दयितामाह-"किं त्वयोक्तम् ।" अनुपमाह-"देव ! बदन्त्यस्मि । कालस्य को विश्वासः । कापि कालबेला कीदृशी भवति । न सर्वदापि पुरुषाणां तजस्तथा । यथा नियोर्वा स्वस्य वा नाशो येनावश्यं विनश्यति। श्रीसम्पन्धे वुधाः स्थैयबुद्धिबध्नन्ति तत्र किं॥१॥ For Private And Personal Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandie प्रसन्या चतुर्विशति २४ ॥१३१॥ वृद्धामाराधयन्तोऽपि तर्पयन्तोऽपि पूर्वजान् । पश्यन्तोऽपि गतश्रीकान् अहो मुह्यन्ति जन्तवः ॥२॥ भूपाल्लवप्रान्ते, निरालम्याऽविलम्पनीम् । स्वल्पावस्थायिनी लक्ष्मी, मन्यन्ते मन्त्रिणो बुधाः ॥३॥ इति वियदितो मृत्युरितो व्याधिरितो जरा । जन्तवो हन्त पीज्यन्ते, चतुर्भिरपि सन्ततम् ॥ ४॥ एतत्तत्ववचः श्रुत्वा मन्त्रिवरः माह-"अयि! कमलदलदीर्घलांचने । त्वां विना कोऽन्यः एवं वक्तुं | जानाति, ताम्रपतिष्टोत्पन्नमौक्तिकैरिक्षुकुक्षिजैः । षधस्पर्द्धभरा वर्णाः, प्रसन्नाः स्वादवस्तव ॥५॥ गृहचिन्ताभरहरणं मतिवितरणमखिलपात्रसत्करणम् । किं किं न फलति कृतिनां गृहिणी गृहकल्पवल्लीव ॥ ६॥ राज्यस्वामिनि पद केनोपायेन शीघ्नं प्रासादा निष्पत्सन्ते।" देव्याह-नाथ ! रात्रीयसूत्रधाराः पृथक् | | दिनीयसूत्रधाराः पृथक् व्यवस्थाप्यन्ते । कटाहिश्वदाप्यन्ते । अमृतानि भोज्यन्ते । सूत्रधाराणां च विश्रामलाभाद्रोगो न प्रभवति । एवं चैत्यसिद्धिः शीघा । आयुर्यात्येव श्रीरस्थिरव । यतः गृहीत इव केशेषु मृत्युना धर्ममाचरेत् । अजरामरवत् प्राज्ञो विद्यामर्थ च चिन्तयेत् ॥७॥ For Private And Personal Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir " इत्यादि सरस्वतीवीणाक्वणितकोमलया गिरोकरवा निवृता सुलक्षणा सा!" मन्त्रिमा सर्वदेशकमस्थायेषु सैव रोतिः प्रारब्धाः । निष्पन्नं च सर्व स्तोकैरेच दिनैः। गतो मन्त्री धवलकम् । दिनैः कतिपर्वर्दापनिकानर आयातः। देव! अर्बुदाद्रौ नेमिचैत्यं निष्पन्नम् । हृष्टौ द्वौ बान्धवो। पुनः प्रासादप्रतिष्ठानती ससङ्घौ तत्र । तत्र च जालहुरपुरात् श्रीयशोवीरो नाम भाण्डागारिक: सरस्वतीकण्ठाभरणत्वेन रूपातः। स आहूत आगात् । मिलिता वस्तुपालतेजःपालयशोवीरा एकत्र न्यायधिकमविनया इव साक्षात् । चतुरशीतीराणाः । द्वादश मण्डलीकाः । चत्वारो महाधराः । चतुरशीतिर्महाजनाः। एवं सभा। तद्वा वस्तुपालेन यशोवीरःप्रोचे-"भाण्डागारिक! त्वं नृपउदयसिंइस्य मन्त्री। पौगन्धरायण इव वत्सराजस्य । तब स्नुतीः स्वस्थानस्थाः शृणुमः । यथा पिन्दवः श्रीयशोवीर ! मध्यशून्या निरर्थकाः । सङ्ख्यावन्तो विधीयन्ते त्वयैकेन पुरस्कृता ॥१॥ पशोवीर ! लिखत्याख्यां यावचन्द्रविधिस्तव । न माति भुवने तावदाद्यमप्यक्षरद्वयम् ॥ २॥ अत एव नः सदा भवद्दर्शनरणरणकाक्रान्तमेव स्वान्तमासीत् । इदानी चारुसम्पन्नं भवदीवसानत्यम् । |तदपि विशेषतः श्रीमान्नेमिष्ट्रौ।" ततो यशोवीरो व्याहरति For Private And Personal Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्ध चतुर्विशति ॥१३२॥ श्रीमत्कर्णपरम्परागतभवत्कल्याणकीर्तिश्रुतेः, प्रोताना भवदीयदर्शनविधावस्माकमुत्कं मनः। श्रुत्वा प्रत्ययिनी सदा ऋजुतया स्वालोकायस्रम्भणी, दाक्षिण्यैकनिधानकवलमियं दृष्टिः समुत्कण्ठते॥१॥" इत्याद्याः संकथाः प्रपथिरे । प्रासादबिम्बप्रतिष्टोत्सवाः संवृत्ताः। श्रीवस्तुपालेन एकदा चैत्यस्य दूषणभूषणानि पृष्टो यशोवीरः प्रोचे-“देव ! शोभनदेवः सूत्रधारः शोभनः। ततोऽपि न युक्तं एतदम्बा कीर्तिस्तम्भोपरिस्थिता एकामङ्गलीमूर्वीकृत्य वर्तमाना घटिता । स तु कर्मकर एव द्रव्यलोलुपः। अत्र तव मातुर्मूर्तिर्विलोक्यते । येन दाता दुर्लभः । शतेषु जायते शूरः सहस्रेषु च पण्डितः वक्ता शतसहस्रेषु दाता भवति या न वा ॥१॥ इत्यादि किमुच्यते । प्रासादः परमतमः । परं दोषा अपि सन्ति । प्रासादापेक्षया सोपानानि ह्रस्वानि ? स्तम्भे विम्बान्याशातनाभाजनं स्युः २ द्वारप्रदेशे व्याघ्ररूपाणि पूजाइल्पत्याय स्युः ३ जिनपृष्टं पूर्वजारोपणा त्पाश्चात्यानामृद्धिनाशो भविता ४ आकाशे जैनमुनिमूर्तिरोपणाचत्परं दर्शनपूजाऽल्पत्याप ५ मूहलाकृष्णा न मङ्गलाय ६ भारपदाः द्वादशहस्तप्रलम्बाः कालेन स कोऽप्येवंविधो न भविष्यति यः धिनाश ईदशः प्रक्षेपयिष्यति ॥” इत्यादि श्रुत्वा सत्यं मत्वा न चुकोप कोऽपि । भवितव्यतां चाप्रतिकारां निश्चिक्ये विवि ॥ १३२ ॥ For Private And Personal Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir धदानैविक्रमादित्य इव प्रकाश्य महिमानं विमृज्य स्वस्थाने लोकं सपरिजनो धवलकं गत्वा प्रभु नत्वा सुखं तस्थौ। इतश्च श्रीवीरधवलस्य द्वौ पुत्रौ स्तः। एको वीरमः । अपरो वीसलः । तत्र वीरमो यौवनस्थः शरेषु रेखां प्राप्तः । यो वर्षाकालेऽकस्मादुपरि पतन्त्या विद्युत उद्देशेन कृपाणीमाकृषत् । स एकदा कचिदेकादशीपर्वणि धवलक्षकमध्ये तरुतलमगमत् । तत्र पर्वण्यसौ रीतिः-'वैष्णवैः सर्वैरष्टोत्तरशतं बदराणां वा आमलकानां द्रम्माणां वा मोक्तव्यं तरोरधः।' वीरमेनाऽष्टोत्तरं शतं द्रम्मा मुक्ताः । एकेन तु वणिजा तत्र स्थितेनाष्टोत्त| रशत दुःकृता मुक्ता । वीरमेण तस्योपरि कृपाणिका कृष्टा । रे ! अस्मत्तः किमधिकं करोषीति वदन्नसी वणिजं हन्तुमन्वधावत् । वणिग् नष्टो वीरधवलाध्यासितां सभामाविशत् । जातः कलकलः । ज्ञातं पारंपर्यं वीरधवलेन । वणिजि पश्यति वीरमो आकार्य हकित:-"का ते चर्चा | यद्ययं त्वदधिकं करोति । अस्माकं न्यायं न वेत्सि । दूरे भव पुनर्मदृष्टौ नागन्तव्यम् । वणिजो मम जङ्गमः कोशः । मयि जीवति सति केनाभिभूयन्ते।" इत्युक्त्वा तं वीरमग्रामाख्ये आसन्नग्रामेऽतिष्ठिपत् । स तु कोणिककुमारवत् कंसवत् पितारे द्विष्टो जीवन्मृतंमन्योऽस्थात् । वीसलस्तु राणश्रीवीरधवलस्य वल्लभः श्रीवस्तुपालस्य च । अत्रान्तरे श्रीवीरधवलोऽचिकित्स्येन व्याधिना जग्रसे। तदा वीरमः स्वसहायैर्बलवान् भूत्वा राज्यार्थं राणकमिलनमिषेण 'धवलक्क For Private And Personal Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशती प्रबन्ध मागात् । तदैव श्रीवस्तुपालेन ते दुराशयें ज्ञात्वा प्रत्युत्पन्नमतित्वादश्वगजहेमादिषु परमात्ममानुः परमो यत्नः कृतः। वीरमः प्रभवितुं न शशाक । धवलक्क एव स्वसौधे विपुलेऽवतस्थौ । दिनैस्त्रिभिर्वीरधवलो दिवं गतः । लोकः शोकसमुद्रे पतितः। बहुभिश्चिन्तारोहणं कृतम् । मन्त्री तु सपरिजनः काष्ठानि भलायन्नपरापरैर्मन्त्रिभिनिषिद्धः । उक्तंच-"देव ! त्वयि सति राणपादाः स्वयं जीवन्तीव लक्षन्ते। त्वयि तु लोमान्तरिते परिपूर्णाः पिशुनानां मनोरथाः। गता गुर्जरधरा इति ज्ञेयम् ।" ततो न मृतो मन्त्री । उत्थापनरिने मन्त्री |श्रीवस्तुपालः सभासमक्षं पठति आयान्ति यान्ति च परे ऋतवः क्रमेण सञ्जातमेतदृतुयुग्ममगत्वरं तु। वीरेण वीरधवलेन विना जनानां वर्षा विलोचनयुगे हृदये निदाघः॥१॥ अतीव निश्वस्य गताः सर्वेऽपि खस्थानं । ततश्च मृते वीरधवले तद्राज्यलिप्सुऊरमः सन्नय गृहानिर्गमिष्यति यावता तावता श्रीवस्तुपालेन वीसला कुमारो राज्ये विनिवेशिनः। वीसलदेव इति नाम प्रख्यापितम्। सर्वराज्याङ्गेष्वाप्सनरैः रक्षा कारिता । स्वयं पीसलं गृहीत्वा साराऽश्वखुरपुटक्षणक्षमापीठोलदरजः पुञ्जस्थगितव्योमा राजन्यकक्रूरकरवालशल्लभल्लाकिरणद्विगुणधोतितरविकिरणो वीरमसम्मुखं ययौ । दारुणः समरो जज्ञे । वीरमः स्वस्य तेजसोऽनवकाशं मन्यमानो नंष्ट्रा श्वसुरेण राजकुलेन उदयसिंहनाधिछितं जाल For Private And Personal Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हुरपुरं प्रति अचालीत् । मन्त्री तस्याशयं दक्षतया ज्ञात्वा षोडश योजनिकानरानुदयसिंहान्तिके प्रैपीत् आख्यापयत् । यथा-" अमुं राजद्विष्टकारकं जामातृसम्बन्धेन यदि स्वान्तिके स्थापयिष्यसि । तदा ते न राज्य न जीवितं च । हन्यानम् ।" ततो यदा वरिमो जाबालिपुरोधानं प्रातस्तदा विश्राम्यन्नंगरक्षिकागुत्तारयअलसायमान उदयसिंहनियुक्तैर्धनुर्द्धरैः शरैः शतमितैर्जर्जरचालनीयप्रायकायः कृतः मृतस्तत्र । तस्य शिरो बीसलदेवाय प्रहितं उदयसिंहेन । तदनु जातं निष्कण्टकं बीसलदेवराज्यम् । यावन्मात्रं वीरधवलेन साधितं तावन्मात्रान्न किमपि न्यूनमासीत् । केवलं लब्धप्रसरेण वीसलेन श्रीवस्तुपाला लघुतया दृष्टः। पुरुषः सम्पदामग्रमारोहति यथा यथा । गुरूनपि लघुत्येन स पश्यति तथा तथा ॥१॥ राज्ञा वृद्धनगरीयनागडनामा विप्रः प्रधानीकृतः। मन्त्रिणोः पुनर्लघुश्रीकरणमानं दत्तम् । अस्मिन् प्रस्तावे एकः समराकनामा प्रतीहारो राज्ञोऽस्ति । स प्रकृत्या नीचः पूर्वमन्यायं कुर्वाणो मन्निश्रीवस्तुपालेन पीडितोऽभूत् । स लब्धावकाश उपराजं ब्रूते-“देव ! अनयोः पार्थेऽनन्तं धनमास्नेतद्याच्यताम्।" कृतघ्नेन राज्ञान तावाहयावादीत् “ अर्थो दीयताम् ।" ताभ्यामुक्तम्-" अर्थः शत्रुञ्जयाद्रिषु व्ययितत्वान्नास्ति नः पान्धै।" राज्ञोक्तम्-"तर्हि दिव्यं दीयताम् ।” मन्त्रिभ्यामभिहितम्-" यदिव्यं भवद्भयो रोचते तदादिश्यताम् ।" राज्ञा घटसर्पः पुरस्कृतः । लवणप्रसादो तदा जीवनभूत् । स निषेधयति तदकृत्यम् । नतु तद्वचनं राजा शृणोति अभिनवदुर्पवशात् । तदा सोमेश्वरेणोक्तं काव्यमेकं वीसलं प्रति For Private And Personal Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पतुर्विशति ॥ १३४॥ मासान्मांसलपाटलापरिमलव्यालोलरोलम्बतः प्राप्य प्रोदिमिमां समीरमहतीं हन्त त्वया किं कृतम् । सूर्याचन्द्रमसौ निरस्ततमसौ दूरं तिरस्कृत्य यत् पादस्पर्शसहं विहायसि रजः स्थाने तयोः स्थापितम् ॥१॥ निवर्तितं दिव्यं राज्ञा। अथ कदाचिद् धवलकके मन्त्रिणि वसति सति पौषधशाला एका आस्ते। तस्या उपरितनं पुञ्जकं क्षुल्लकोऽधः क्षिपन्नासीत्। तस्याज्ञानात् स पुञ्जको वीसलदेवमातुलस्य सिंहनानो यानाधिरूढस्याधो रथ्यायां गच्छतः शिरसि पतितः । क्रुद्धः सः मध्ये आगत्य क्षुल्लक दीर्घया तर्जनकेन पृष्टे दृढमाहत्य रे मां जेआकं सिंहनामानं राजमातुलं न जानासीति वदन स्वगृहे गतः । तं वृत्तान्तं मध्याह्ने मन्त्रिवस्तुपालं भोजगारम्भे उत्क्षिप्तप्रथमकवलं आगत्य रुदन्नुघाटितपृष्टोऽभिजिज्ञपत् क्षुल्लकः। मन्त्रिणाऽभुक्तेनैव उत्थाय क्षुल्लकः सन्धार्य प्रस्थापितः, शालायां प्रेषितश्च । तदनु स्वयं स्वकीयः परिग्रहो भाषित:-" भोः क्षत्रियाः ! स कोऽप्यस्ति युष्मासु मध्ये यो मम मनोदाहमुपशमयति ।" तन्मध्ये एकेन राजपुत्रेण भूणपालाख्येनोक्तम्| "देव ! ममादेशं देहि । अहं तु प्राणदानेऽपि तव प्रसादानां नाऽनृणीभवामः।" स एकान्ते नीत्वा मन्त्रिणा छन्नं कर्णे प्रविश्य समादिष्टम्-"याहि जेठुआवंशस्य राजमातुलस्य सिंहस्य दक्षिणं पाणिं छिस्वा मे ढोकय।" | स राजपुत्रस्तथेत्युक्त्वा एकाकी मध्याहे सिंहावासद्वारे तस्थौ। तावता राजकुलात् सिंह आगात् । राजपु ॥१४॥ For Private And Personal Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailashsagarsuri Gyanmandit त्रेणाग्रे भूत्वा प्रणिपत्य सिंहाय उक्तम्-" मन्त्रिणा श्रीवस्तुपालदेवेनाहं वः समीपं केनापि गूढकार्येण प्रेषि तोऽस्मि । तेन इतो भूत्वा प्रसद्याऽवधार्यताम् ।" इत्युक्ते स किश्चिद्गत्वा पराङ्मुखो भूत्वा यावद् वार्ता श्रोतुं यतते तावन् मन्त्रिभृत्येन सिंहस्य करः स्वकरे कृत्य सहसा कंकलोहछुर्या छिन्नः। छिन्नं तं करं गृहीत्वा रे ! वस्तुपालस्य भृत्योऽस्मि । पुनः श्वेताम्बरं परिभवेरिति वदंश्चरणबलेन पलाय्य भूणपालो मन्यन्तिकमगमत् , करमदीदृशत् । मन्त्रिणा श्लाघेऽसौ । स करः स्वसौधाऽग्रे बद्धः। स्वमानुषाणि परमाप्तनरगृहे | मुक्तानि । आत्मीयपरिग्रहो भाषितः-“यस्य जीविताशा स स्वगृहं यातु जीवतु चिरम् । अस्माभिर्बलवता सह वैरमुपार्जितम् । मरणं करस्थमेव जीविते सन्देहः।" तैः सर्वैरप्युक्तम्-"देवेन सह मरणं जीवितं च । स्थिताः स्मो वयं । एतदर्थे निश्चयो ज्ञातव्यः।” ततो गोपुराणि दत्त्वा गृहं नरैः स्वावृत्तं कृत्वा स्वयं स्वसौधोपरि सज्जीभूय तस्थौ निषङ्गी कवची धनुष्मान् । ततः सिंहस्यापि परिच्छदो मिलितो बान्धवादिभूयान्। तैः सर्वैरभाणि-" गत्वा वस्तुपालं सपुत्रपशुवान्धवं हनिष्यामः इति प्रतिजज्ञे ।" चलितं जेट्ठआकसैन्यम् । यावद्राजमन्दिराने आयातं कलकलायमानं तत् । तावदेकेन ज्यायसोक्तम्-" एवंविधं व्यतिकरं यदि | राजा विज्ञप्यते तदा वरम् । माऽस्मत्सहसाकारित्वे तस्य कोपोऽभूत् ।" ततो विज्ञसं राज्ञे । राज्ञा वाता | ज्ञात्वा विमृश्य भणितम्-" अनपराधे केषामपि वस्तुपालो न पीडयति किश्चित् । युष्माभिरन्याय्यं कृतं For Private And Personal Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रवन्धर चतुर्विंशति ॥१३५॥ भावि।" तैरुक्तम्-" मन्त्रिणो गुरुःपीडितः।" राजा प्राह-" यदीत्थं कृतं तस्मात्तिष्ठतामत्रैव । वयं स्वयं करिष्यामो यदचितम् ।” ततः सोमेश्वरदेवः पृष्टः-" हे गुरो ! किमत्र युक्तं स्यात् ।" गुरुप्पोक्तम्-" मां तत्पाचे प्रहिणुत । आयतिपथ्यं करिष्ये।" प्रहितः सः। प्राप्तो मन्त्रिसौधेयद्वारम् । प्राप्तो मन्यनुज्ञया मन्त्रिपार्श्व पुरोहित आह-" मन्त्रिन् ! किमेतदल्पे कार्य कियत्कृतं भवद्भिः। जेट्ठअका मिलिताः सन्ति । राजापि तदागिनेयः । तेन क्रोधः शम्यताम् । येन सन्धि कारयामि ।” अथ मन्त्रीशः प्राह-"मरणात किं भयं। जिते च लभ्यते लक्ष्मीर्मुते चापि सुराङ्गना क्षणविध्वंसिनी काया, का चिन्ता मरणे रणे ॥१॥ परं गुरुपरिभवो दुःसहः । अथ किं व्यापृतं जग्धं पीतं दत्तं गृहीतं विलसितं यथा तथा यदा तदा मर्त्तव्यमेव । इदमेकं मरणमित्थं भवतु । जीवितैकफलमाघमार्जितम् लुण्टितं पुरत एव यद् यशः। से शरीरकपलालपालनं कुर्वते बत कथं मनस्विनः॥१॥" इत्यादि गीर्भितिकृतनिश्चयं मन्त्रिणं ज्ञात्वा गुरुर्गत्वा राजानमूचे-" राजेन्द्र ! म्रियत एवाऽत्र झग| टके मन्त्री । स अग्रेऽपि शुद्धशरः तेषु तेषु स्थानेषु जयश्रीवरो जातः । तत्र वक्तुं न पार्यते । अपि च तृणं| For Private And Personal Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | शरस्य जीवितमिति वचनात् । ईदृशो योधः कचिद्विषमे कार्येऽग्रे धृत्वा घात्यते नैवं वृथा । बहुधा भवतामुपकारी। अन्यच स किं प्रभुर्यो जीर्णभृत्यानां द्वित्रानपराधान्न सहते । अस्मदादीनामपि मनसि देवस्य कीशी आशा भाविनी।" इत्यादि दृढं मृदुसारं निगद्य हस्ते कृतो राजा । यदुक्तम् वल्लीनरिन्दचित्तं वक्खाणं पाणियं च महिलाओ। तत्थय वचंति सया जत्थय धुत्तेहिं निजंति ॥१॥ राजा प्रोवाच-" मन्त्री धीरां दत्त्वा सम्मान्य समानीयताम् ।” गतो गुरुस्तत्र । राज्ञोक्तमुक्त्वा नीतो मन्त्री । परं सन्नद्धबद्ध एव मिलितः। राजा विविधतदुपकृतिस्मृत्या आर्द्रनयनमनसा पितृवदुपशमितो मन्त्री। मातुलाः पादयोलगापिताः। स मन्त्रिच्छेदितः सिंहहस्तो लोके दर्शितः। बहुराजलोकसमक्षं शब्दः प्रलापित:-"यो मन्त्रिदेवगुरुहन्ता तस्य प्राणान् हनिष्यामः।" इत्युक्त्वा जिनमतस्य मन्त्रिणश्च गौरवमवीवृध. द्वीसलदेवः । एवं काले गच्छति विक्रमादित्यात् १२९८ वर्ष प्राप्तम् । श्रीवस्तुपालो ज्वररुक क्लेशेन पीडितः तदा तेजःपालं सपुत्रपौत्रं च जयन्तसिंहमभाषत-" वत्स ! श्रीनरचन्द्रसूरिभिर्मल्लधारिभिः संवत्त १२८७ वर्षे भाद्रपदवदि १० दिने तेषां देवगमनसमये वयमेवमुक्ताः - मन्त्रिन् ! भवतां १२९८ वर्षे स्वर्गारोहो | भविष्यति ।” तेषां वचांसि च न चलन्ति गी:सिद्धिसम्पन्नत्वात् । ततो वयं श्रीशत्रुञ्जयं गमिष्याम एव । ___ गुरुर्भिषग् युगादीशप्रणिधानं रसायनम् । सर्वभूतदयापथ्यं सन्तु मे भवरुग्भिदे ॥१॥ For Private And Personal Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्ध चतुर्विंशती ॥१३६॥ लब्धाः श्रियः सुखं स्पृष्टं मुखं दृष्टं तनूरुहाम् । पूजितं दर्शनं जैनं न मृत्योर्भयमस्ति मे ॥२॥" कुटुम्बन तन्मानितम् । शत्रुञ्जयगमनसामग्री निष्पन्ना । वीसलदेवो मन्त्रिणा साश्रुलोचनः समापृष्टः मुत्कलापितश्च कतिपयपदानि सम्प्रेषणायायातः। ततो नागडप्रधानगृहं मन्त्री खयमगात्। तेनऽऽसनादिभिः सत्कृत्य पृष्टो कार्यविशेष मन्त्री बभाषे-" वयं भवान्तरशुद्धाय विमलगिरिं प्रति प्रतिष्ठामहे । भवद्भिजैनमुनयोऽमी ऋजवः सम्यररक्षणीयाः क्लिष्टलोकात् । यतः गौर्जराणामिदं राज्यं वनराजात् प्रभृत्यपि । स्थापितं जैनमन्त्रीस्तु तद्वेषी नैव नन्दति ॥१॥ इति ज्ञातव्यम् । मन्त्रिनागडेनोक्तम्-"श्वेताम्बरान भक्त्या गौरवयिष्यामि । चिन्ता एषा न कार्या। खस्त्यस्तु वः।" इति तद्वचसा समतुषत् । अथ चचाल वस्तुपालः । अङ्केवालिआग्राम यावत्पाप । तत्र शरीरं बाढमसहं दृष्ट्वा तस्थौ । तत्र सहायाताः सूरयो निर्यामणां कुर्वन्ति । मन्त्रीश्वरोऽपि समाना सर्व | शृणोति, श्रद्दधाति च । अनशनं प्रतिपद्य यामे मते स्वयं भणति न कृतं सुकृतं किश्चित् , सतां स्मरणोचितम् । मनोरथैकसाराणामेवमेव गतं वयः॥१॥ यन्मयोपार्जितं पुण्यं जिनशासनसेवया। जिनशासनसेवैव तेन मेऽस्तु भवे भवे ॥२॥ For Private And Personal Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir या रागिणि विरागिण्यः स्त्रियस्ताः कामयेत कः । तामहं कामये मुक्ति या विरागिणि रागिणी ॥३॥ शास्त्राभ्यासो जिनपतिनुतिः सङ्गतिः सर्वदाऽऽयः, सद्वृत्तानां गुणगणकथा दोषवादे च मौतम् । सर्वस्यापि प्रियहितवचो भावना चात्मतत्त्वे, सम्पद्यन्तां मम भवभवे यावदाप्तोपवर्गः ॥४॥ इति भणन्नेवास्तमितो जैनशासनगगनमण्डनमृगाङ्कः श्रीवस्तुपालः। तदा निग्रन्थैरपि तारपूत्कारमरोदि। का कथा सोदरादीनाम् । मन्त्रिणि दिवं गते श्रीवर्द्धमानसूरयो वैराग्यादाम्बिलवर्द्धमानतपः कर्तुं नारेभुः। मृत्वा शंखेश्वराधिष्ठायकतया जाताः । तैमन्त्रिणो गतिर्विलोकिता, परं न ज्ञाता। ततो महाविदेहे गत्वा श्रीसीमन्धरो नत्वा पृष्टः। स्वाम्याह-"अत्रैव विदेहे पुष्कलावत्यां पुण्डरीकिण्यां पुरि कुरुचन्द्रराजा संजातः। स तृतीये भवे सेत्स्यति । अनुपमदेजीवस्तु अत्रैव श्रेष्ठिसुताऽष्टवार्षिकी मया दीक्षिता पूर्वकोट्यायुः। प्रान्ते केवलं मोक्षश्च ।” सा एषा साध्वी व्यन्तरस्य दर्शिता । तदनु तेन व्यन्तरेणात्रागत्य तयोर्गतिः प्रकटिता। तत्र तेजःपालो विलपति आल्हादं कुमुदाकरस्य जलधेवृद्धिः सुधास्यन्दिभिः, प्रद्योतैर्नितरां चकोरवनितानेत्राम्बुजप्रीणनम् । एतत्सर्वमनाइरादहृदयोऽनादृत्य राहुहहा, कष्टं चन्द्रमसं ललाटतिलकं त्रैलोक्यलण्याः पपी ॥१॥ For Private And Personal Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति ॥१३७॥ जयन्तसिंहो वदति प्रिवन्धः खद्योलमात्रतरला गगनान्तरालमुच्चावचाः कति न दन्तुरयंति ताराः।। २४ एकेन तेन रजनीपतिना विनाऽद्य सर्वाः दिशो मलिनमाननमुद्वहन्ति ॥ २॥ कवयः प्राहु:मन्ये मन्दधियां विधे ! त्वमवधिवैराय सेवार्थिनां, यद्वैरोचनसातवाहनबलिश्चैताजभोजादयः । कल्पान्तं चिरजीविनोन विहितास्ते विश्वजीवातवो, मार्कण्डध्रुवलोमशाश्च मुनयः तृप्ताः प्रभूतायुषः ॥३॥ | लोकास्तु वदन्तिकिं कुर्मः कमुपालभेमहि किमु ध्यायाम कं वा स्तुमः कस्याने स्वमुखं स्वदुःखमलिनं सन्दर्शयामोऽधुना। शुष्कः कल्पतरुयंदङ्गणगतश्चिन्तामणिश्चाजरन् क्षीणा कामगवी च कामकलशो भग्नो हहा ! दैवतः॥४॥ __ततस्तेजःपालजयन्तसिंहाभ्यां मन्त्रिदेहस्य शत्रुञ्जयैकदेशे संस्कारः कृतः। संस्कारभूम्यासन्नः स्वर्गारोहणनामा प्रासादो नमिविनमियुतऋषभसनाथः कारितः। मन्त्रिण्यौ ललितादेवी सोषू अनशनेन ममृतुः। श्रीतेजःपालस्त्वनुपमासहितो मध्यमव्यापार भोगभाग लेशतोऽपि तथैव दानं तन्वानः १३०८वर्षे धामगमत्॥ १३७॥ For Private And Personal Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ततः श्रीजयन्तसिंहोऽपि परलोकमभजत् । श्रीअनुपमापि तपसा स्वर्गमसाधयदिति भद्रम् । एतयोश्च श्रीवस्तुपालतेजःपालयोधर्मस्थानसङ्ख्यां कर्तुं क ईश्वरः । परं गुरुमुखश्रुतं किञ्चिल्लिख्यते-“लक्षमेकं सपादं जिनबिम्बानां विधापितम् । अष्टादश कोट्यः षण्णवतिर्लक्षाः श्रीशत्रुञ्जयतीर्थे द्रविणं व्ययितम् । द्वादश कोट्योऽशीतिलक्षाः श्रीउज्जयन्ते। द्वादशकोट्यस्त्रिपंवाशल्लक्षाः अर्बुदगिरिशिखरे लूणिगवसत्याम् । नवशतानि चतुरशीतिश्च पौषधशालाः कारिताः । पञ्चशतानि दन्तमयसिंहासनानां कारापणम् । सूरीणां प्रत्येकमुपवेशनार्थमर्पणम् । पञ्चशतानि पश्चोत्तराणि समवसरणानां जादरमयानां कारणं श्रीकल्पवाचनाक्षणे मण्डनार्थम् । ब्रह्मशालाः सप्तशतानि । सप्तशतानि सत्रागाराणाम् । सप्तशती तपस्विकापालिकमठानाम् । तेषां सर्वेषां भोजननिर्वापादि दानं कृतं । पञ्चविंशतिशतानि हरिहरब्रह्मादिमहेश्वरायतनानाम् । त्रयोदशशतानि चतुरुत्तराणि शिखरबद्धजैनप्रासादानाम् । त्रयोविंशतिःशतानि जीर्णचैत्योद्धाराणाम् अष्टादश कोटिव्ययेन सरस्वतीभाण्डागाराणां त्रयाणां स्थानत्रये करणं धवलकस्तम्भतीर्थपत्तनादौ । पञ्चशती ब्राह्मणानां नित्यं वेदपाठं कारयति स्म । तेषां गृहमानुषाणां निर्वाहकरणम् । वर्षमध्ये सङ्घपूजात्रितयं सर्वदर्शनिनाम् ।। पञ्चदशशती श्रमणानां नित्यं गृहे विहरति स्म । बटुककटिककार्यटिकानां सहस्रं समधिकं प्रत्यहमभुक्त। त्रयोदशयात्राः सङ्घपतीभूय कारिताः लोकानां । तन्त्र प्रथमयात्रायां चत्वारि सहस्राणि पश्चशतानि शकटा For Private And Personal Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kalashsagarsuri Gyanmandir प्रबन्ध चतुर्विशति ॥ १३८ । नां सशय्यापालकानाम् । सप्तशती सुखासनानाम् , अष्टादशशती वाहिनीनाम् । एकोनविंशतिशतानि श्रीकरीणाम् । एकविंशतिः शतानि श्वेताम्बराणाम् । एकादशशती दिगम्बराणाम् । चत्वारि शतानि सा भनि जैनगायनानाम् । त्रयस्त्रिंशच्छती बन्दिजनानाम् । चतुःसहस्रतुरगाः। द्विसहस्रोष्टाः । चतुश्चत्वारिंश| दधिकशतं देवार्याः । सप्तलक्षमनुष्याः । इदं प्रथमयात्राप्रमाणम् । अग्रेतना तदधिका ज्ञेया। तथा चतुरशी-2 तिस्तडागाः सुबद्धाः । चतुः शती चतुःषष्ठयधिका वापीनाम् । पाषाणमयानि द्वात्रिंशद् दुर्गाणि । चतुः षष्ठिर्मशीतयः। एवं लौकिकमपि कृतं मनो विनापि । तथा दन्तमयजनरथानां चतुर्विंशतिः। विंशतिशतं शाकघटितानां । एकविंशत्याचार्यपदानि कारितानि । सरस्वतीकण्ठाभरणादीनि चतुर्विंशतिविरुदानि भाषितानि कविजनैः। श्रीवस्तुपालस्य दक्षिणस्यां दिशि श्रीपर्वतं यावत् , उत्तरस्यां केदारपर्वतं यावत् , पूर्वस्यां वाणारसी यावत् , पश्चिमायां पञ्चनदं यावत् , तयोः कीर्तनानि श्रूयन्ते । सर्वाग्रेण त्रीणि कोटिशतानि चतुर्दशलक्षा अष्टादशसहस्राणि अष्टशतानि द्रव्यव्ययः पुण्यस्थाने । त्रिषष्टिवारान् सङ्ग्रामे जैत्रपदं गृहीतम् । अष्टादश वर्षाणि तयोावृतिः॥" इति श्रीवस्तुपालप्रवन्धः।। ॥ १३८॥ For Private And Personal Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति श्रीप्रश्नवाहनकुले कोटिकनामनि गणे जगद्विदिते श्रीमध्यमशाग्वायां हर्षपुरीयाभिधे गच्छे ॥१॥ मलधारिविरुदविदितश्रीअभयोपपदसूरिसन्ताने श्रीतिलकसूरिशिष्यः सरिः श्रीराजशेखरो जयति ॥२॥ तेनायं मृदुगद्यमुग्धो मुग्धावबोधकामेन । रचितः प्रबन्धकोशी जयताजिनपतिमतं यावत् ॥ ३॥ तथा कहारवीरदुस्साघवंशमुकुटो नृपौघगीतगुणः । बब्बूलीपूरकारितजिनपतिसदनोच्छलत्कीर्तिः ॥४॥ बप्पकसाधोस्तनयो गणदेवोऽजनि सपादलक्षभुवि । तदनकनामा तत्पुत्रः साहको दृढधीः ॥५॥ तत्सूनुः सामन्तस्तत्कुलतिलकोऽभवजगत्सिंहः दुर्भिक्षदुःखदलनः श्रीमहमदसाहिगौरवितः॥६॥ तज्जो जयति सिरिभवः षट्दर्शनपोषणो महणसिंहः ढिल्ल्यां स्वदत्तवसतौ ग्रन्थमिमं कारयामास ॥७॥ शरगगनमनुमिताब्दे(१४०५)ज्येष्ठामूलीयधवलसप्तम्याम निष्पन्नमिदं शाम्नं श्रोत्रध्येत्रोः सुखं तन्यात् ॥ इति चतुर्विंशतिप्रबन्धाः सम्पूर्णाः ॥ [श्रीमत्तपागच्छे पं० सागरधर्मगणयः तच्छिष्यपं० कुलमारगणयस्तेनैषा प्रतिः सम्पूर्णाकृता स्वपरोपकारार्थम् ॥ मणूंद्रगाम लिखिता, एषा प्रतिर्वाच्यमानाविचलकालं नन्दतात् ] For Private And Personal Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal