________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shui Kailashsagarsuri Gyanmandit
चतुर्विंशति
प्रबन्ध
॥
४॥
॥ अथ हरिहरप्रबन्धः
श्रीहर्षवंशे हरिहरः गौडदेश्यः सिद्धसारस्वतः । स गूजरधरां प्रत्यचालीत् । अश्वशतद्वयं मानवानां शतपञ्चकं करभाः पश्चाशत् । अनिवारमादानं धवलक्कतटग्राममागात् । राणश्रीवीरधवल-श्रीवस्तुपालश्रीसोमेश्वरदेवेभ्यः पृथक पृथक् आशिर्वाद प्रगल्भवटुहस्तेन प्राहैषीत् । श्रीवस्तुपालो जहर्ष । उत्थाय बटुं सह नीत्वा श्रीवीरधवलाय पण्डितस्याशीर्वादमदीदृशत् । तद्गुणांश्चावर्णयत् । राणकेनोक्तम्-" किमत्र युक्तम् ?।” मन्त्र्याह-" देव ! विस्तरेण प्रातः पण्डितस्य प्रवेशमहोत्सवः क्रियते । विपुलं देयं दीयते।" राणकेनोक्तम्-" न्याय्यम् ।" ततो निवृत्ती मन्त्रिराजश्च बटुश्च । बटुना तृतीयाशिर्वादः पण्डितसोमेश्वरदेवायादर्शि। कवितया तस्य मात्सर्यमदीपिष्ट । स निश्वासमधोऽद्राक्षीत् । बटुमालापीदपि न । आगत उत्थाय बटुर्हरिहरान्तिकम्। उक्तं राणकमन्त्रिणोः सौमनस्यं सोमेश्वरस्य तु दौर्मनस्यम् । कुपितः सोमेश्वरदेवे हरिहरः। जातं प्रातः । राणकः समन्त्रिक: सचातुर्वर्ण्यः सर्वर्या संमुखो गतः। मिलितो हरिहरः। तत्र वीरधवलं प्रति
॥६४।
For Private And Personal