________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शम्भुर्मानससन्निधौ सुरधुनी मूर्ना दधानः स्थितः श्रीकान्तश्चरणस्थितामपि पहनेता निलीनोऽम्बुधौ। मग्नः पङ्कहे कमण्डलुगतामेनां धन्नाभिभूर्मन्ये वीर ! तव प्रतापदहनं ज्ञात्वोल्बणं भाविनम् ॥१॥ दृष्टस्तेन शरान्किरन्नभिमुखः क्षत्रक्षये भार्गवो दृष्टस्तेन निशाचरेश्वरबधव्यग्रो रघुग्रामणोः। दृष्टस्तेन जयद्रथप्रमथनोन्निद्रसुभद्रापतिः दृष्टो येन रणाङ्गणे सरभसश्चौलुक्यचूडामणिः ॥२॥
बटुः पृष्टः पण्डितेन-" अत्र सदसि सोमेश्वरोऽस्ति न वा।" बटुराह-"स क्रोधानागतः।" पण्डितो। ज्ञात्वाऽस्थात् । जातः प्रवेशः। राणकेन दत्तं सौध-धन-कुप्य-वसन-परिजन-तुरगादि चमुत्कारकम् । अथ मन्त्रिगृहं गतोऽसी । गुर्वी सभा। मध्यभ्युत्थानं चक्रे । उचे च
मुधा मधु मुभा सीधु मुधा सोऽपि सुधारसः । आस्वादितं मनोहारि यदि हारिहरं वचः ॥१॥
पण्डितस्तूचे-“देव ! लघुभोजराज ! विचारचतुर्मुख ! सरस्वतीकण्ठाभरण ! अवधारय । वयं पण्डिताः। अस्माकं माता भारती । सा च त्रिभुवनचारिणी। एकदा भारत्या सह महेन्द्रस्य सभामममाम । सा च सुधर्मा नाम । इन्द्रः श्रीमान् । ३ कोट्यः सुराङ्गनाः । ८४ सहस्राणि सामानिकाः तथा
द्वादशार्का वासवोऽष्टौ विश्वे देवा त्रयोदश । पत्रिंशत् तुषिताश्चैव षष्टिराभास्वरा अपि ॥१॥
For Private And Personal