________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kcbatrth.org
-
| "सीसं कहषि न फुह जम्मस्स पालित्तयं हरंतस्स । जस्स मुहनिज्मराओ तरङ्गालोला नई बूढा ॥१॥"
पुनरजीवत्प्रभुः । वेश्ययाऽभाणि-"मृत्वाऽऽत्माऽस्तावि?।" सरिराह स्म-" मृत्वाऽपि पञ्चमो गेय इति किंन श्रुतम् ।।" अथ प्रभुः शत्रुनये रदनसंख्योपदासानशनेन इशानेन्द्रसामानिकत्वेनोदपद्यत ।
॥ इति श्रीपादलिप्ताचार्यप्रयन्धः॥
॥ अथ श्रीवृद्धवादिसिद्धसेनयोः प्रवन्धः॥ विद्याधरेन्द्रगच्छे श्रीपादलिप्तसूरिसन्ताने स्कन्दिलाचार्याः साधितजैनकार्याः पुस्कुरुः । ते यतनया विहरन्तो गौडदेशं ययुः । तत्र कोशलाख्यग्रामवासी मुकन्दो नाम वित्रः। स तेषां सूरीणां मिलित इत्थं देशनामश्रौषीत्भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भय, दास्ये स्वामिभपं गुणे खलभयं वंशे कुयोषिद्भयम् । स्नेहे वैरभयं नयेऽनयभयं काये कृतान्ताद्यं, सर्व नाम भयं भवे यदि परं वैराग्यमेवाभयम् ॥१॥
For Private And Personal