________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रवन्धः
चतुर्विशति ॥१२२ ।।
कार्यमेव न ।" इत्युक्तं च । अहो दर्शनभक्तिरिति ध्वनितं सर्वम् । एकदा मन्त्रीश्वरो नाभयपुरआरात्रिके स्थितोऽस्ति दिव्यधवलवासाश्चान्दनतिलको दिव्यपदकहारभूषितोरस्थलः। सूरीणां कवीनां श्रावकश्राविकाणां |च नतिः । तिलकं तिलकोपरि । पुष्पसपुष्पस्रगुपरि । तदा सूत्रधारेणैकेन दारवी कुमरादेव्या मातुर्मूर्तिमहन्तकायनवीनघटिता दृष्टौ कृता । उक्तं च तेन-" मातुर्मूर्तिरियम् । तदा मन्त्रीश्वरेणाशिवानखं दृष्टा मूर्तिः। दृष्ट्वा च रुदितम् । प्रथममश्रुमात्रं ततोऽव्यक्तइतरो ध्वनिः । ततो व्यक्ततरः। सर्वे तटस्थाः पृच्छन्ति-" देव ! किं कारणं रुद्यते ?। हर्षस्थाने को विषादः। यथा श्रुतशील इव नलस्य । उद्धव श्व विष्णोः । अभय इव श्रेणिकस्य । कल्पक इव नन्दस्य । जम्बक इव कनराजस्य । विद्याधर इव जयन्तराजस्य । आलिग इव सिद्धराजस्य । उदयन इव कुमारपालस्य । तथा त्वं मन्त्री वीरधवलस्य । विपट्टीताः पर्वता इव सागरं तथा त्वामाश्रयन्ति भूपाः । तायेणेव पन्नगास्तथा त्वया हताः सपत्नाः पृथिवीपालाः । चन्द्राय इव चकोरास्तथा तुभ्यं स्पृहयन्ति स्वजनाः। हिमवत इच गङ्गा तथा त्वत्प्रभवति राजनीतिः। भानोरिव पद्मास्तथा तवोदयमीहन्ते सूरयः। विष्णाविव त्वयि रमते श्री। तन्नास्ति यन्नास्ति ते । एवं सति किमर्थं दुःखं धियते।" ततो मन्त्रिणोक्तम्- “इदं दुःखं यन्मे भाग्य सङ्घनधिपत्यादिविभूतिर्मातृमरणादनन्तरं सम्पन्नाः । यदि तु सा मे माता इदानीं स्यात् । तदा स्वहस्तेन मङ्गलानि कुर्वत्यास्तस्या मम च मङ्गलानि कारयतः पश्यतश्च
॥॥१२२॥
For Private And Personal