SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir लोकस्य कियत्सुखं भवेत् । परं किं कुर्मों धात्रा हताः स्मः एकैकन्यूनीकरणेन ।" तदा श्रीनरचन्द्रसूरिभि| मलधारिभिरभिहतम्-"मन्त्रीश्वर ! यथा त्वं सचिवेषु तथाऽत्र देशे प्रधानराजसु सिद्धराजो व्यजीयत । स मालवेन्द्र जित्वा पत्ततमागतो मङ्गलेषु क्रियमाणेष्वपाठीद यथा माऽस्म सीमन्तिनी कापि, जनयेत् सुतमीहशम् । बृहद्भाग्यफलं यस्य, मृतमातुरनन्तरम् ॥१॥ तस्मात् हृदयं अधःकृत्वा स्थीयते विवेकिभिः । न सर्वेऽपि नृणां मनोरथाः प्रपूर्यन्ते ।” इत्यायुक्त्वा मन्त्री बलादारात्रिकमङ्गलदीपादि कारितः। ततो चैत्यवन्दना गुरुवन्दनं च। तदा श्रीनरचन्द्रसूरिभिराशीदत्ता तवोपकुर्वतो धर्म तस्य त्वामुपकुर्वते । वस्तुपाल द्वयोरस्तु युक्त एव समागमः ॥ १ ॥ इत्यादि । अथ रात्रौ तन्मयतया नाभेयपूजाध्यानदानः । तदा कवयः पठन्ति । एकः कश्चित्ये पापप्रवणाः स्वभावकृपणा! स्वामिप्रसादोल्यणास्तेऽपि द्रव्यकणाय मर्त्यभषणा जिह्वे भवत्या स्तुताः। तस्मात् त्वं तदधापघातविधये बद्धादरा सम्प्रति श्रेयास्थानविधानधिकृतकलिं श्रीवस्तुपालं स्तुहि ॥१॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy