SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सजाक्षो भावी।" तद्वाक्यं लघुर्वृहद्रवे समाख्याय तदाज्ञया शेषामादाय स्कन्धाधारमध्यमेत्य राजामात्यानुवाच-"भो! भो! स्वनाथमस्मत्संमुखमानयध्वम् । यथा सद्यः कमलदलललितं स्वविषयग्रहणक्षमाक्षं कुर्महे ।" ततोऽमात्यनुन्नो राजा तत्रायातः । ऋषिदत्तां शेषामादायाक्ष्णोनिवेश्य सज्जाक्षो ज.तः। प्रीतः भक्त्या ग्रामशतानि शासनेऽदात् । अव च ऑकारे इममुत्तुङ्गं प्रासादमचीकरत् । वयमिह पुरं मामः । जैनः प्रासादः कारयितुं न लभ्यते। मिथ्यादृशो बलिनः । तस्मात्तत्कुरु येन इतोऽधिकं तुझं रम्यं चैत्यं निष्पद्यते । यली त्वमेवेति । तद्वचनं श्रुत्वा बादी अघन्तीमागत्य चतुःश्लोकी हस्ते कृत्वा विक्रमादित्यद्वार| मेत्य द्वास्थेनोपराजं श्लोकमचीक.थत् । स तेन कथिती यथा दिदृक्षुर्भिक्षुरायातस्तिष्ठति द्वारि वारितः । हस्तन्यस्तचतुःश्लोक उतागच्छतु गच्छतु ॥ १॥ तं श्लोकं श्रुत्वा विक्रमादित्येन प्रतिश्लोकः कथापितो यथादत्तानि दशलक्ष्याणि शासनानि चतुर्दश । हस्तन्यस्तचतुःश्लोक उतागच्छतु गच्छतु ॥२॥ वादिना तं श्लोकं श्रुत्वा द्वास्थद्वारेण भाणितं राज्ञे-" दर्शनमेव भिक्षुरीहते नार्थम् ।" ततो राज्ञा स्वदृष्टी आहृतः । उपलक्षितो भाषितश्च-" भगवन् किमिति चिरादूदृश्यध्वे ।" आचार्यरुक्तम्-धर्मकार्यवशाचिरादायाताः। श्लोकचतुष्टयं शृणु । राज्ञि शृण्वति पठितं तत् । यथा For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy