________________
Shri Mahavir Jain Aradhana Kendra
चतुर्विंशति
॥ २७ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पञ्चाशत् षोडशक- अष्टक- पञ्चलिङ्गी अनेकान्तजयपताका- न्यायावतारवृत्ति पश्चवस्तुक-पञ्चसूत्रक-श्रावकप्रज्ञि नाणायत्तकप्रभृतीनि हारिभद्राणि ।
अत्रान्तरे श्रीमालपुरे कोऽपि धनी श्रेष्ठी जैनश्चतुर्मास के सपरिकरो देवतायतनं व्रजन् सिद्धाख्यं राजपुत्रं द्यूतकारयुवानं देयकनकपदे निर्देयैर्युतकारैर्गतायां निक्षिप्तं कृपया तद्देयं दत्त्वा अमोचयत् । गृहमानीयाभोजयत् । अपाठयत् । सर्वकार्याध्यक्षमकरोत् । पर्यणाययत् । माता प्रागप्यासीत् । पृथग् गृहेऽस्थात् । मात्रा प्रियया च समं स गृहमण्डनिका । श्रेष्ठिप्रसादाद्धनं बभूव । सिद्धो रात्रावतिकाले एति, लेख्यक लेख लेखनपरवशत्वात् । श्वश्रूस्नुषे अतिनिर्विण्णे अतिजागरणात् । वध्वा श्वश्रूरुक्ता - " मातर् ! पुत्रं तथा बोधय । यथा निशि सकाले एति । " मात्रा उक्तः सः - " वत्स ! निशि शिघ्रमेहि । यः कालज्ञः स सर्वज्ञः । " सिद्धः प्राह - "मातर् ! येन स्वामिनाऽहं सर्वस्वदानेन जीवितव्यदानेन च समुद्धृतस्तदादेशं कथं न कुर्वे । " तौष्णीक्येन स्थिता माता । अन्यदाऽऽलोचितं श्वश्रूस्नुषाभ्याम् - " अस्य चिरादागतस्य निशि द्वारं नोदघाटयिष्यावः । " द्वितीयरात्रावतिचिराद् द्वारमागतः स कटकं खटखटापयति । ते तु न ब्रूतः । तेन क्रुद्धेन गदितम् - " किमिति द्वारं नोद्घाटयेथे ? । " ताभ्यां मन्त्रित पूर्विणीभ्यामुक्तम् - " यत्रेदानीं द्वाराणि उद्घाटितानि भवन्ति, तत्र व्रज । ” तच्छ्रुत्वा क्रुद्धचतुष्पथं गतः । तत्रोघाटे हट्टे उपविष्टान् सूरिमन्त्र
For Private And Personal
प्रबन्धः
८
॥ २७ ॥