________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स्मरणपरान् श्रीहरिभद्रान्दृष्टवान् । सान्द्रचन्द्रिक नभसि देशना । बोधः । व्रतं जगृहे । सर्वविद्यता । दिव्यं कवित्वम् । हंसपरमहंसवद विशेषतर्का जिघृक्षुबौद्धान्तिकं जिगमिषुर्गुरुमवादीत्-"प्रेषयत बौद्धपाश्चे।" गुरुभिर्गदितम्-" तत्र मागाः। मनःपरावर्ती भावी ।" स ऊचे-“युगान्तेऽपि नैवं स्यात् ।" पुनर्गुरवा प्रोचुः-" तत्र गतः परावर्त्यसे चेत् तदा अस्मद्दत्तं वेषमन्त्रागत्यास्मभ्यं ददीथाः।" ऊरीचक्रे सः। गतस्तत्र पठितुं लग्नः । सुघटितैस्तत्कुतर्कैः परावर्तितं मनः । तद्दीक्षा ललौ । वेषं दातुमुपश्रीहरिभद्रं ययौ । तैरप्यागच्छन्नावर्जितः वादं कुर्वन्वादेन जितः। बौद्धाचार्यस्य बौद्धवेषं दातुं गतः। तेनापि बोधितः। पुनरागत उपश्रीहरीभद्रं श्वेताम्बरवेषं दातुम् । पुनर्वादेन जितः। एवं वेषद्वयप्रदानेन एहि रे! याहिराः २१ कृताः। द्वाविंशवेलायां गुरुभिश्चिन्तितम्-" माऽस्य वराकस्य आयुःक्षयेण मिथ्यादृष्टित्वे मृतस्य दीर्घभवभ्रमणं भूत्।" पुराऽपि २१ वारान् वादे जितोऽसौ। अधुना वादेनालम् । ललितविस्तराख्या चैत्यवन्दनावृत्तिः | सतो कृता । तदागमे पुस्तिकां पादपीठे मुक्त्वा गुरवो बहिरगुः। तत्पुस्तिकापरामर्शाद्वोध: समजनि । ततस्तुष्टो निश्चलमनाः प्राह
__ नमोऽस्तु हरिभद्राय तस्मै प्रवरसूरये। मदर्थ निर्मिता येन वृत्तिललितविस्तरा ॥१॥ ततो मिथ्यात्वनिर्विण्णेन सिद्धर्षिणा १६ सहस्रा उपमित अवप्रपञ्चा कथाऽरचि श्रीमाले सिद्धिमण्डपे।
For Private And Personal