SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पतुर्विशति प्रबन्ध सा च सरस्वत्या साध्व्याञ्शोधि । समये श्रीहरिभद्रसूरयोऽपि सोऽपि अनशनेन सुरलोकमवापन् । ॥ इति श्रीहरिभद्रसूरिप्रवन्धः॥ ॥ २८॥ ॥ अथ श्रीवप्पभट्टसूरिप्रवन्धःगुजरदेशे पाटलापुरनगरे जितशत्रू राजा राज्यं करोति स्म । तत्र श्रीसिद्धसेननामा सूरीश्वरोऽस्ति स्म। स मोढेरपुरे महास्थाने श्रीमहावीरनमस्करणाय गतः। श्रीमहावीरं नत्वा तीर्थोपवासं कृत्वा रात्रावात्मारामरतो योगनिद्रया स्थितः सन्स्वप्नं ददर्श । यथा-"केसरिकिशोरको देवगृहे परिक्रीडति।" स्वप्नं लब्ध्वाऽजागरीत्। माङ्गल्यस्तवनान्यपाठीत् । प्रातश्चैत्यं गतः। तत्र षड्वार्षिको बाल एको बालांशुमालिसमद्युतिराजगाम । सरिणा पृष्टः-“भो ! अर्भक ! कस्त्वम् ? कुत आगत:?” तेनोक्तम्-पश्चालदेशे डुबाउधीग्रामे बप्पाख्यः क्षत्रियः। तस्य भधिर्नाम सधर्मचारिणी । तयोः सुरपालनामपुत्रोऽहम् । मत्तातस्य बहवो भुजवलगर्विताः प्रचुरपरिच्छदाः शत्रवः सन्ति। तान्सर्वान्हन्तुमहं सन्नह्य चलनासम् । पित्रा निषिद्धः-"वत्स! पालस्त्वम्, नास्मै कर्मणे प्रगल्भसे। अलमुयोगेन।" ततोऽहं क्रुद्धः। किमनेन निरभिमानेन पित्रापि? यः ॥२८॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy