________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सोऽपि प्रत्यदीदपत्-" सेवको भव । यद्दीयते तल्लभ्यते, इति न्यायः।" वीरधवलस्तद्विग्रहाय गुर्जरधराराजपुत्रानमेलयत् बहुसैन्यं च । भीमसिंहोऽपि बलेन प्रबलः। उभयपक्षेपि बलवत्ता । अत्रान्तरे जावालिपुरे चाहमानकुलतिलकः श्रीउदयसिंहो नाम राजकुलो राज्यं भुनक्ति । तस्य दायादास्त्रयः सहोदराः सामन्तपाल-अनन्तपाल-त्रिलोकसिंहनामानो दाताराः शूराः तद्दत्तग्रासेन तृप्तिमदधतो धवलक्कमागत्य श्रीवीरधवलं द्वास्थेनाबभाणत्-"देव ! वयं अमुकवंश्यास्त्रयः क्षत्रियाः सेवार्थिनरा आगताः स्मः। यद्यादेशः स्यात् तदा आगच्छामः।" राणकेनाहृतास्ते । तेजआकृतिश्रमादिभिः शोभनाः । रुचितास्ते तस्य । परं पृष्टा:-" को ग्रासो वः कल्पते ।" ते प्रोचु:-"देव ! प्रतिपुरुषं लूणसापुरीयद्रम्माणां लक्षं लक्षं ग्रासः।" राणकेनोक्तम्"इयता धनेन शतानि भटानां सङ्गच्छन्ते । किमधिकं यूयं करिष्यथ । न दास्यामीयत् ।" इति कथयित्वा ते बीटकदानपूर्व विसृष्टाः। तदा मन्त्रिवस्तुपालतेजःपालाभ्यां विज्ञप्तम्-" स्वामिन् ! न एते मुच्यन्ते । पुरुषसङ्ग्रहाद् धनं न बहु मन्तव्यम् ।
वाजिवारणलोहानां काष्टपाषाणवाससाम् । नारीपुरुषतोयानां अन्तरं महदन्तरम् ॥ १॥
एवं विज्ञप्तमपि राणकेन नावधारितम् । मुक्ता एव ते गताः प्रति भटतटम् । श्रीभीमसिंहप्रतीहारेण भेटितास्ते । उक्तो वीरधवलकृतः कार्पण्यव्यवहारः। तुष्टो भीमसिंहः । कृतं तदिष्टवृत्तिद्वैगुण्यम् । तैश्चो
For Private And Personal