SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailashsagarsuri Gyanmandit चतुशात प्रमजि. निर्गत्य मध्यरात्रे बहिः सैन्ये मन्त्रिगृहद्वारेऽस्थात् । तत्र द्वाःस्थैमध्ये मन्त्रिणं विद्याधरं आत्मानमायान्तमजिज्ञपत् । सद्यराहतस्तेन । आसितः स्वसमीपे, पृष्टश्च-" किं भवन्तः ।” मन्त्रिाणोक्तम्-" अहं लक्षणसेनाऽमात्यः कुमारदेवस्त्वां द्रष्टुमायासिषम् । किश्चिद्वक्तव्यमस्ति । तत्तु वक्तुं न शक्यते । पत्री तु लिखिता वक्षति । इत्युक्त्वा विद्याधरहस्ते तामार्पिपत् । तत्र श्लोको दृष्टः उपकारसमर्थस्य तिष्ठन् कार्यातुरः पुरः । मूर्त्या यामातिमाचष्टे न तां कृपणया गिरा ॥१॥ अस्य श्लोकस्यार्थ चिरं परिभाव्य विद्याधरोचिन्तयत्-" अयं महीयान् मदन्तिकमागतः। जयन्तचन्द्रापसारणमीहते। दण्डं च न दिसते । मय्येव भारमारोपयति । तस्मानिस्तार्योऽसौ व्यसनसागरात् । स एव पुरुषो लोके स एव श्लाध्यतामिह । निर्भयं सर्वभूतानि यस्मिन् विश्रम्य शेरते ॥१॥ इति ध्यात्वा कुमारदेवं जगाद-"मा भैषीः। दण्डं मा दाः । प्रातरत्रास्यत्सैन्यं न स्थास्यत्येव । गच्छ।" इत्युक्त्वा कुमारदेवं सत्कृत्य व्यस्राक्षीत् । गतः स स्वस्थाने। इतय विद्याधरो जयन्तचन्द्रान्तिकं गत्वा विज्ञ प्तवान्-"राजेन्द्र ! अद्य देवस्यात्रागतस्य दिनाष्टादशकं गतम् । कुमारदेकेन खयमेत्य ममाष्टादश हेमलक्षाणि प्रवेशितानि अतोऽभयं देहि ! प्रसीद । स्वस्थानं गच्छ । काश्यामपि मुक्तायां निर्वाहो नास्ति । दुर्घहं च | दुर्ग।” इति श्रुत्वा काशोन्द्रः सयो रात्रायेव चलितः । दशकोशी गत्वा स्थितः स्थनगर्यभिमुखीनिः पट For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy