________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कुटीभिः । लक्षणावतीलोको विस्मितो इष्टश्च । लक्षणसनेम कुमारदेवः पृष्टः-"किमितिगती जयन्तचन्द्रः?" मन्त्रिणोक्तम्-देव ! स्वां युद्धोद्यतं श्रुत्वा काशीन्द्रः सभीतः प्राणत्राणार्थ गतः। काश्यधिपोऽपि काश्यासन्नं गतः सन् विद्याधरमादिशत्-"लक्षणावतीशदण्डधनचतुर्दिग्मिलितेभ्योऽर्थिभ्यो देहि । येन यशांसि प्रैधते।" विद्याधरोऽपि स्वामिनं स्माह-"देव ! कुमारदेवेन मह्यं रनमेकं दण्डपदे दत्तमस्ति । तेन सथः कथं हम निष्पद्यते?" राजोचे-"तहि रत्नं दर्शय।" अथ तेम पत्रीगतः श्लोकोऽदर्शि, कुमारदेवागमनवृत्तान्तश्च प्रोक्तः। विचाघरमुखाच तदवधार्य जयन्तचन्द्रो जजल्प अनल्पधी:-"मन्त्रिन ! तदैव किं नेयं पत्री दर्शिता । येन तेभ्यो विशिष्टां कृपां कुर्मस्तदैव । त्वया स्वधनार्पणाङ्गीकारेणैव वगं तत उत्थापिताः। प्रापितो दण्डोऽस्मभ्यं किल तेन । अथ हेमाष्टादशलक्षाणि कोशादाकृष्यार्थिभ्यो देहि । अष्टादशहेमलक्षास्तु कृपाप्रसादपदे लक्षणसेनाय, अष्टौ हेमलक्षाः कुमारदेवाय प्रेषय।" तथैव कृतं विद्याधरेण । प्रविष्टौ काशी तौ। स्फीतराज्यं भुखः। षड्विंशतिहेमलक्षेषु तत्र गतेषु लक्षणसेनेन कुमारदेवः पृष्टः किमिदं ।। कुमारः स्मितपूर्वकमाचष्ट-"त्वां विरोध्य कः सुखी तिष्ठेत् । ततोऽरिणा दण्डस्तेर्पितः। पिप्रिये पृथ्वीपतिः। मुमुद्दे प्रजाः। ववृते महोत्सवः । एवं मन्त्रिणः कालज्ञाः सुगूढाशयाः लाकभूपयो कार्य कुर्युरिति॥
॥इति लक्षणसेनकुमारदेवप्रबन्धः ॥
For Private And Personal