________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विशति
प्रबन्ध
॥ अथ मदनवर्मप्रबन्धःचौलुक्यवंश्यो मूलराजचामुण्डराजदुर्लभराजभीमान्वये कर्णदेवजन्मा मयणल्लदेविकुक्षिभूद्वादशों रुद्र | इति विदितबिरुदः श्रीजयसिंहदेवनामा महीपतिरभूत् । स अणहिल्लपत्तनान्निर्मत्यामितैः सैन्यैर्मालवदेशराजधानी धारां द्वादशभिर्वर्जग्राह । प्रतोलीत्रयं स्फोटयित्वा यशपटहकुचरेण लोहीमर्गलामन्वभञ्जत् । साऽद्यापि देवपत्तने सोमनाथाग्रे दृश्यते । यशःपटहो मृत्वा व्यन्तरोऽभूत् । जयसिंहो मध्ये पुरं प्रविष्टो नरवर्माणं भूमौ पातयामास । वितस्तमात्रं चाहिसत्कमुदतीतारत् । अत्रान्तरे प्रधानैर्विज्ञप्तम्-"राजन् ! राजाऽवध्य एवेति नीतिवचः । तस्मान्मोक्तमोऽयम् ।" ततो मुक्तः सः काष्ठपिञ्जरे क्षिप्तः। नरवर्मचाऽन्यचर्मभ्यां सिद्धराजेन निजकृपाणे प्रत्याकार: कारितः। ततः कवीश्वरैर्विविधं स्तूयते सः
एकधारापतिस्तेऽद्य द्विधारणासिना जितः। किं चित्रं यदसौ जेतुं शतधारमपि क्षमः॥१॥ __ ततो दक्षिणापथे महाराष्ट्र-तिलङ्ग-कर्णाट-पाण्ड्वादिराष्ट्राण्यसाधयत् । अनन्तं धनं सङ्घटितम् । ततो गुर्जरधरां प्रतिव्याघुटत् । यावद्देशसीमसन्धौ सैन्यनिवेशं कृत्वा स्थितस्तावत् सायं एकदा महा सभायामुपविष्टोऽस्ति प्रत्यक्ष इव सुर परिवृतः। तावत्कश्चिद्वैदेशिको भद्रः एत्याशीर्वादं भणित्वा सभां दृष्ट्वाऽवद
॥९७॥
For Private And Personal