SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandie mami | दिदं यथा-" अहो! परमारवंशधूमकेतोः श्रीसिद्धराजस्य सभा मदनवर्मण इव मनोविस्मयजननी।"| तदाकर्ण्य सिद्धेन्द्रस्तमेव भद्रं पुरः उपवेश्य पप्रच्छ-"भद्र! कोऽसौ मदनवर्मा? क्व नगरे राज्यं करोनि?" भद्रः प्राह-"देव! पूर्वस्यां महोबकं नाम पत्तनं स्फारम् । तत्र मदनवर्मा नाम पृथ्वीपालः प्राज्ञस्त्यागी भोगी धर्मी नयी नल इव पुरुषोत्तम इव वत्सराज इव पुनरवतीर्णः पृथिव्याम् । तं राजानं तच्च पुरं यः खलु नित्यं पश्यति सोऽपि वर्णयितुंन पारयति । केवलं पश्यन्नन्तर्मनसं मूक इव स्वादं तद्गुणं जानाति । अस्माकं वचसि प्रायो लोकस्य विश्वासो नास्ति वावदूकत्वात् । परं प्रेषय किश्चित्परमाप्तं निजं मन्त्रिणं ज्ञम् । येन स तामृद्धिं दृष्ट्वाऽत्रागत्य देवपादेभ्यो निवेदयति ।" एवं भाद्रीं वाचमवधार्य सिद्धराजो मन्त्रिणमेकं कतिपयजनयुतं द्रष्टुं तत्र तेनैव भद्रेण सह प्रादेषीत् । गतौ तौ भद्रमन्त्रिणौ । महोबकपत्तनं दर्शितं भद्रेण मन्त्रिणा । दृष्ट्वा निर्विलंयं उपराजमेत्य यथास्थितमभाणीत्-"अवधारय स्वामिन् । गतस्तत्राहम् । दर्शितं भद्रेण तत्पत्तनम् । तदा वसन्तोत्सवस्तत्र प्रवर्तते । गीयन्ते वसन्तान्दोलकादिरागैर्गीतानि । भ्रमन्ति दिव्यशृङ्गारा नार्यः । मकरध्वजलक्षभ्रान्तिमुत्पादयन्तो विलसन्ति युवानः । क्रियन्ते प्रतिरथ्यं छण्टनानि पक्षकर्डमैः। प्रासाद प्रासादे सङ्गीतकानि । देवे देवे महापूजर । भोजनवारासाराः प्रतिसदनम् । राजकीयसत्राकारे तु दालिकूरावस्रावणानि मुत्कलानि न मुच्यन्ते । किन्तु गायां नियन्त्र्यते, तदा सघण्टो हस्ती निमज्जति । राजाऽश्व For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy