________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२१
चतुर्विशति
॥९८॥
वाराः परितः पुरं भ्रमन्तो बीटकानि ददते लोकाय। कपूरैलिपर्वादयः। रात्रौ विपणीन् वणिजोन संवृणन्ति | उद्घाटान् विमुञ्चन्ति । प्रातरागत्योपविशति । एवं नीतिः । व्यवसायोऽप्याचारमात्रेणैव । तत्र देशे लोहवानिवत्सुवर्णरूप्यखानीर्वहन्ति तेन सर्वः कोऽपि सिद्धार्थत्वात् । राजा तु कीगप्यास्ते मया स न दृष्टः। इदं श्रुतं स नारीकुञ्जरः सभायां कदापि नोपदिशति । केवलं हसितललितानि नेति प्रत्यक्ष इन्द्रः।" ा एवं वचः श्रुत्वा सिद्धराजो महता सैन्येन महोबकं प्रति प्रतस्थे । क्रमेण गच्छन् तस्थौ तदासन्ने भूप्रदेशे कोशाच्टकेन । क्षुभितो देशः। स्थानाचलितं महोरकम् । प्रधानर्मदनवर्मा दिव्योद्यानस्थः स्त्रीसहस्रसमावृत्तः एत्योचे-"स्वामिन् ! सिद्धराजो गोर्जरः उपनगरमागतोऽस्ति, स कथं पश्चानिवर्तनीयः ?" मदनवर्मणा स्मित्वा भणितम्-"सिद्धराजः सोऽयं यद्धारायां द्वादश वर्षाणि विग्रहाय अस्थात् । स कथाडी राजा वाच्यो भवद्भिः । यदि नः पुरं भुवं च जिघृक्षसि । तर्हि युद्धं करिष्यामः । अथार्थेन तृप्यति तदाऽयं गृहाणेति । ततो यद्याचते सवराकस्तद्देयं भवद्भिःन वयं धने दत्ते त्रुट्यामः। सोऽपि जीवतु चिरम् , यो वित्तार्थ कृच्छकर्माणि कुर्वाणोऽस्ति ।" राज्ञो यचोऽनुगृहीत्वा मन्त्रिणः परचक्रमगुः । मन्त्रिभिर्राजवाक्यं दूतमुखेन भाणितम्-"यदि अर्थमीहसे तदाऽर्थ लाहि । भूमि चेत्तर्हि युद्धामहे वयम् । मदनवर्मदेवाय ज्ञापितं अत्र भवदागमनम् । तेन अस्मत्प्रभुणा उक्तम् , कवाडी राजाऽर्थेन तर्पणीयः सः।" सिद्धराजस्तल्लीलया विस्मितः
९८॥
For Private And Personal