________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
पण्णवतिकोटीः कनकस्यायाचीत् । दत्तास्ताः प्रधानैः। सद्यः देशंः सुखं तस्थौ । तथापि पश्चान्न याति। तदा प्रधानैर्भाणितम्-राजन् ! अर्थो लब्धस्त्वया । कथमथ न प्रतिगच्छसि।" सिद्धेशेनभाणितं मन्त्रिपुर:"तं लीलानिधि भवत्ममुं दर्शयथ ।" तेऽप्येत्य मदनवर्माणमभणत्-"अर्थेन तोषितः स क्लेशी राजा। परं भणति राजेन्द्रं द्रष्टुमी हे।" ततो मदनवर्मणा निगदितम्-"तर्हि एतु सः सैन्यं तथास्थमेव मुक्त्वा ।" ततो मितसैन्यस्तत्रोद्याने आगतः सिद्धराजः । यत्र महाप्राकारस्थे सौधे मदनवर्माऽस्ति । प्राकाराद्वहिर्योध
सास्तिष्ठन्ति । प्रतोली यावदागत्य मध्येऽचीकथद् द्वाःस्थैः, आगतमस्माभिः। महायकप्रभुणा भाणितम्"जनचतुष्केण सहागच्छत ।" आगतो मध्ये सिद्धराजः। यावत्पश्यति काश्चनतोरणानि सप्तप्रवेशद्वाराणि। | अग्रे ददर्श रजतमयीर्वापी, नानादेशभाषाविचक्षणाः शशाङ्कमुखीर्विशालनितम्बस्थलास्तारुण्यपुण्यावयवाः स्त्रीः, पणववेणुवीणामृदङ्गादिकलासक्त परिजनजनम् । स्फीतानि गीतानि शुश्राव । नन्दनोद्यानाधिकमुद्यानं, हिमगृहाणि, हंससारसादीन् खगान् , उपकरणानि हैमानि, कदलीदलकोमलानि वसनानि, जनितानन्तरागान् उत्तुङ्गान् पुष्पकरण्डांश्चैक्षत । एवं पश्यन् पश्यन् पुरः पुरो गच्छन् साक्षादिव मदनं मधुरे वयसि वर्तमानं मितमुक्ताफलप्रायभूषणं सर्वाङ्गलक्षणं काश्चनप्रभं मधुरस्वरं तामरसाक्षं तुङ्गाघ्राणं उपचितगात्रं मदनवर्माणमपश्यत् । मदनवर्माप्यभ्येत्याश्लिले। हेमासनं दत्वा तमभाणीत्-"सिद्धेन्द्र ! पुण्यमद्यास्माकं येन
For Private And Personal