SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्धः ॥ ९९॥ २१ त्वमतिथिः सम्पन्नोऽसि।" सिद्धराजः प्राह-"राजन् ! आवर्जनावचनमिदं मिथ्या। यत्तु त्वन्मन्त्रिणामने कबाडी इत्युक्तं तत्सत्यम् ।" मदनवर्मा जहास। सिद्धेश! केन वा विज्ञप्तमिदम् । सिद्धेशः प्राह-"तैरेव मन्त्रिभिस्तावकैः । कोऽभिप्रायो मानिन्दाभणने देवस्य।" मदनवर्मा आह-"देव ! कलिरयम् , अल्पं जीवि-|| तम् , मिता राज्यश्रीः, तुच्छ बलम् , तत्रापि पुण्यः स्फीनं राज्यं लभ्यते, तदपि चेत् न भुज्यते, रुल्यते विदेशेषु, तत्कथं न कवाडिकस्त्वम् ।" सिद्धेशेनोक्नं-"सत्यम्," तादृशः काटिक एवाहम् । त्वमेवायं धन्यो यस्येत्थं शर्माणि । त्वयि दृष्टेऽस्माकं जीवितं सफलम । चिरं राज्यं भुइक्ष्व।" इत्युक्त्वा तस्थौ । मदनवर्मणात्थाय निजपरिजनकोशदवनावसरादि सर्व दर्शिनम् । प्रेमावृधत् । विंशत्युत्तरं पात्रशतं स्वाङ्गसेवकं सिद्धराजाय व्यतरत् । तेन प्रीतों जयसिंहदेवः सैन्यं गृहीत्वा धारामध्ये भूत्वा पत्तनं अणहिल्लपुरं प्रविष्टः। तेषां १२० मध्यादई पथि मृतं माईवात्, शेषं पत्तने प्रविष्टम् । पत्तनप्रवेशोत्सवे श्रीपालकविना सिद्धराजा वर्णितः मानं मुश्च सरस्वति त्रिपथगे सौभाग्यभनीं त्यज रे कालिन्दि तवाफला कुटिलना रेवे रयस्त्यज्यतां। श्रीसिद्धेशकृपाणपाटितरिपुस्कन्धोच्छलच्छोणितश्रोतोजालनदीनवीनवनितारक्तोऽम्बुधिर्वर्तते ॥१॥ एवमन्यैरपि कविभिभणितानि । ॥ इति मदनवर्मप्रवन्धः॥: For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy