________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अधार्यखपटाचार्यप्रवन्धःक्वापि गच्छेऽनेकातिशयलब्धिसम्पन्नाः श्रीआर्यखपटा नाम आचार्यसम्राजः । तेषां शिष्यो भागिनेयो भुवनो नाम । ते सूरयो भृगुकच्छं विजहुः । तत्र बलमित्रो नाम बौद्धभक्तो राजा, बौद्धाश्च महाप्रामाणिकास्तादृग्यजमानगर्विताश्च दुर्दान्ताः । 'एक वानरी, अपरं वृश्चिकेन जग्धा' इति न्यायात् श्वेताम्बराणां धर्मस्थानेषु तृणपूलकान्निक्षेपयन्ति, 'यूयं पशवः' इति भावः। अनयाऽवज्ञया खपटाचार्या न चुकुधुः, गुरुत्वात्। यतः
उपद्रवत्सु क्षुद्रेषु न क्रुध्यन्ति महाशयाः । उत्फालैः शरैः किं स्याल्लोलः कल्लोलिनीपतिः॥१॥
भुवनस्तु चुकोप । श्रावकशतसहस्रसङ्कलो राज्ञः पार्च ययौ । श्रीसङ्घगुर्वनुज्ञां गृहीत्वा तत्रोच्चैरुवाचतावडिण्डिमघोषणां विदधतां तावत्प्रशंसन्तु च, स्वात्मानं प्रथयन्तु तावदतुलां रीढां च पूज्ये खलाः। यावत्प्राज्यघृतपतर्पितवृहद्भानुप्ररोहत्पृथुज्वालाजालकरालजल्पनिवहेर्नोत्तिष्ठतेऽयं जनः ॥१॥
राज्ञा बलमित्रेणोक्तम्-" साधो ! किं किमात्थ ?" भुवनो बभाण-"तव गुरवस्तार्किकंमन्या गेहेनर्दिनः
For Private And Personal