________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विशति
प्रबन्धः
। लल्ला अचिन्त्यत प्रारिभिस्ते
सैानं दः। अधिष्ठात्री देव्याययौ। तयोक्तम्-"कन्यकुब्जराजसुताऽहं महणी नाम्नी पूर्व गूर्जरदेशे वसन्ती म्लेच्छसैन्ये समागते पलायमाना तेषु प्रष्टापतितेषु भियाऽत्र कूपेऽपतम् । मृत्वा व्यन्तरी जाता। अतः स्वाङ्गास्थिशल्याकर्षणं नानुमन्ये । प्रतोया मामधिष्ठात्री त्वं कुरु । यथा ऋद्धिं वृद्धिं कुर्वे ।" गुरुभिः प्रतिपन्नं तत् । तहत्तभूमौ तयोग्या देवकुलिका कारिता। तत्र चामितं धनं लब्धम् । लल्लो निष्पतिमल्लसुखभाजनमभवत्। सङ्घश्व तुष्टः। लल्लद्वेषाद्विजैर्मुमूर्षुर्गोंश्चैत्ये क्षिप्ता। सातत्र मृता। श्रावकैविज्ञप्तं तद् गुरवे । गुरुणा विद्याचलाद्गौमभषने क्षिप्ता । 'यचिन्त्यते परस्य तदायाति संमुखमेव'। ब्राह्मणैरनन्योपायत्वाजीवदेवसूरयोऽनुनीताः । जीवदेवसूरे ! तारय नः । श्रीसूरिभिस्ते तर्जिताः, उक्ताश्च-" यदि मच्चैत्ये मत्पट्टसूरेश्च श्रावकवत् सर्वां भक्तिं कुरुध्वे,. मत्सूरेः सूरिपदप्रस्तावे हेममययज्ञोपवीतं दत्थ, तत्सुखासनं स्वयं वहथ, तदा गामिमां ब्रह्मालयादाकृषामि अन्यथा तु न"। तैरपि कार्यातुरैः सर्वमङ्गीकृतम् । अक्षरादिभिः स्थैर्यमुत्पादितम् । ततो गौराकृष्याचाबहिः क्षिप्ता । तुष्टं चातुर्वर्ण्यम् । कालान्तरे मरणासत्तौ सूरिभिस्तस्माद्योगिनो बिभ्यद्भिः स्वकीयाखण्डकपालस्य सर्वसिद्धिहेतोञ्जनं श्रावकाग्रे कथितम् । अन्यथा विद्यासिद्धौ सङ्गोपद्रवं करिष्यति । तथैव तैस्तदा चक्रे । योगी निराशश्चिरमरोदीत् ॥
॥ इति श्रीजीवदेवमरिप्रबन्धः ॥
For Private And Personal