SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्धः श्वेताम्बरान्निन्दन्ति । ततो वयं बादाय त्वत्सदः संप्राप्ताः । आस्फालय तान्मया सह, एकदा भवतु श्रोतृणां कर्णकौतुकम्"। ततो राज्ञा ते आइताः। चतुरङ्गसभायां वादं कारिताः। भुवनमुनिपश्चाननतर्कचपेटाताडिताः फेरण्डा इव तूष्णीकाः समजनिषत । राजादिभिर्घोषितः-जयः श्वेताम्बरशासनस्य । वर्तन्ते चैत्येषु महोत्सवाः । बौद्धास्तु हिमहतपद्मवनाभा जाताः । तं बौद्धापमानं श्रुत्वा बौद्धाचार्यों गुडशस्त्रपुरा वृद्धकराख्यो महातार्किको भृगुपुरमगात् । राजानमवोचत्-" श्वेताम्बरैः सह वादं कारापय" राज्ञा भुवनप्रज्ञास्फूर्तिज्ञेन पारितोऽपि नास्थात्। बादेजित एव सोऽपि भुवनेन जितः। न खलु यमो भूतानां धीयते। सभ्याः प्रभाषिताः भो ! भो ! शृणुतयदृड्को दृषदो यदुष्णकिरणो ध्वान्तस्य यच्छीतगुः, शेफालिकुसुमोत्करस्य च दशा कर्षः पतङ्गस्य यत् । अद्रेर्यत्कुलिशः प्रचण्डपवनो मेघस्य यद्यत्तरोः, पर्यत्करिणो हरिः प्रकुरुते तद्वादिनोऽसावहम् ॥ १॥ सभ्याश्च चमत्कृता उज्जुघुषुः-" जयति धवलाम्बरशासनम्"। वृद्धकरोऽपमानाशनितप्तोऽनशनं कृत्वा गुडशस्त्रपुरे वृद्धकराख्यो यक्ष उत्पन्नः। प्राग्वैरेण जैनानुपद्रवति, व्याधिवर्द्धनमापनधनहरणादिप्रकारैः। | गुडशस्त्रपुरसङ्घन आर्यखपटास्तद्विज्ञप्ताः, तत्र गताः। तत्र च यक्षायतनं प्रविश्य यक्षस्य कर्णयोरुपानही | प्रबन्धुः । वक्षसि पादौ ददुः। लोको मिलितः। राजा तत्रत्यस्तत्रागतः। राज्ञि तत्रागते आचार्याः श्वेत For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy