SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति निजविभूतिपरिभूतवस्त्वौकसाराभिधानं धवलगृह-देवगृह-हहपति-राजपथ-प्राकार-परिवादिभिः सुनिविष्ट प्रबन्धः मजनिष्ट पत्तनम् । सातवाहनोऽपि क्रमेण दक्षणापथमनृणं विधाय तापीतीरपर्यन्तं चोतरापथं साधयित्वा | स्वकीयसंवत्सरं प्रावीवृतत् । जैनश्च समजनि । अचीकरच्च जनितजननयनशैत्यानि चैत्यानि । पञ्चाशद्वारा अपि । प्रत्येक स्वस्वनामाङ्कितानि अन्तर्नगरं कारयांबभूवुर्जिनभवनानि । परसमयलोकप्रसिद्धं सातवाहनचरित्रं शेषमपि किश्चिदुच्यते-" श्रीसातवाहने क्षितिरक्षति सति पश्चाशद्वीराः प्रतिष्ठाननगरान्तस्तदावसन्ति स्म पश्चाशनगराहहिः । इतश्च तत्रैव पुरे एकस्य द्विजस्थ सूनुर्दप्पोबुरः शूद्रकाख्यः समजनि । सके च युद्धश्रमं दर्पात् कुर्वाणः पित्रा स्वकुलानुचितमिदमिति प्रतिषिद्धोऽपि नास्थात् । अन्येयुः सातवाहननृपतिर्वापलादलादिपुरान्तर्वर्तिवीरपश्चाशदन्वितो द्विपञ्चाशद्धस्तप्रमाणां शिलां श्रमार्थमुत्पाटयन् दृष्टः पित्रा समं गच्छता द्वादशाब्ददेशीयेन शुद्रकेण । केनापि बीरेणाङ्गलीचतुष्टयं केनचित्षडङ्गलान्यपरेणत्व|ङ्गलान्यष्टौ शिलाभूमित उत्पाटिता महीपतिना त्वाजानु नीता । इत्यवलोक्य शूद्रकः स्फूर्जदूर्जितमवादीत्"भोः ! भोः भवत्सु मध्ये किं शिलामिमा मस्तकं यावन्न कश्चिदुद्धत्तुं समर्थः । तेऽपि सेय॑मवादिषुयथा-" त्वमेवोत्पाटय यदि समर्थमन्योऽसि ।" शुद्रकस्तदाकर्ण्य तां शिलां वियति तथोच्छालयांचकार । यथा दूरमुर्ध्वमगमत् । पुनरवादिशकेण-" यो भवत्सु अलंभूष्णुः स खलु इमां निपतन्तीं स्तनातु ।" For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy