SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सातवाहनादिवीरैर्भयाद् भ्रान्तलोचनैरूचे स एव सानुनयम्-" यथा भो ! महादल ! रक्ष २। अस्माकीनान् प्राणान् इति।" स पुनस्तां पतयालु तथा मुष्टिप्रहारेण प्रहतवान् , यथा ता त्रिखण्टमन्वभूत् । तत्रैकं शकलं योजनत्रयोपरि न्यपतत् । द्वैतीयिकं च खण्डं नागहदे । तृतीयं तु प्रतोलीद्वारे चतुष्पथमध्ये निपतितमद्यापि तथैव वीक्ष्यमाणमास्ते जनः । तहलविलसितचमत्कृतचेताः क्षोणिनेता शूद्रकं सुतरां सत्कृत्य पुरारक्षकमकरोत् । शस्त्रान्तराणि प्रतिषिध्य दण्डधारस्तस्य दण्डमेवायुधमन्वज्ञासीत् । शूद्रको बहिश्वरान् वीरान् पुरमध्ये प्रवेष्टुमपि न दत्तवान् , अनर्थनिवारणार्थ । अन्यदा खसोधस्योपरिसले शयानः सातवाहनक्षितिपतिमध्यरात्रे शरीरचिन्तार्थपुत्थितः। पुरावाहिःपरिसरे करुणं रुदितमा ऊर्य तत्पवृत्तिमुपलब्धुं कृपाणपाणिः परदुःखदुःखितहृदयतया गृहान्निरगात् । अन्तराले शूद्रकेणावलोक्य सप्रश्रयं प्रणतः पृष्टश्च महानिशायां निर्गनाकारणम् । धरणीरतिरबदल-"यदयं पहिःपुरपरिसरे करुणक्रन्दितध्वनिः श्रवणाध्वनि पथिकभावमनुभवन्नस्ति । तत्कारणावृति ज्ञाणु बजास्मि ।" इति सोक्ते शूद्रको व्यजिज्ञपत्-“देव ! प्रतीक्ष्यपादैः स्वसौधालारणाय पादोऽवधार्यताम् । अनपि प्रवृत्तिमानेष्यामि ।" इत्यभिधाय वसुधानायकं व्यावर्त्य स्वयं रुदिनध्वन्यनुसारेण पुरावहिर्गन्तुं प्रवृत्तः। पुरस्ताद व्रजन् दसकी गोदावर्याः स्रोतप्ति कश्चन रुदन्तमौषीत् । ततः परिकरबन्धं विधाय शद्रकस्तीत्वा यावत्सरितो मध्यं प्रयाति । तावत्पयःपूरप्लाव्यमानं For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy