SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन चतुर्विशति ॥७३॥ नरमेकं रुदन्तं वीक्ष्य यभाषे-“भो ! कस्त्वम् ?। किमर्थं च रोदिषि।" इत्यभिहितः स नितरामरुदत् । इति निर्बन्धेन पुनः स्पष्टमाचष्ट-" भो ! साहसिकशिरोमणे ! मामितो निष्कास्य भूपतेः समीपं प्रापय। येन तत्र स्ववृत्तमाचक्षे।" इत्युक्तः शूद्रकस्तमुत्पाटयितुं यावदयतिष्ट तावनोत्पटति स्मः स । ततोऽधस्ताकेनापि यादसा विधृतोऽयं भवेद् । इत्याशङ्कय सद्यः कृपाणिकामधो वाहयामास शूद्रकः। तदनु शिरोमात्रमेव शुद्रकस्योद्धर्तुः करतलमारोहत् । लघुतया शिरःप्रक्षरद्रुधिरधारमवलोक्य शुद्रको विषादमापन्नचिन्तयति सा-" धिग् मामाहर्तरि प्रहर्तारं शरणागतघातकं च ।" इत्यात्मानं निन्दन वजाहत इव क्षणं मूञ्छितस्तस्थौ। तदनु समधिगतचैतन्यश्चिरमचिन्तयत्-" कथमिवैतत्सुदुश्चेष्टितमवनिपतये निवेदयिप्यामि ।" इति लज्जितमनास्तत्रैव काष्टैश्चितां विरचय्य तत्र ज्वलनं प्रज्वाल्येतच्छिरः सह गृहीत्वा यावदुदर्चिषि प्रवेष्टुं प्रववृत्ते । तावत्तेन मस्तकेन निजगादे-" भो महापुरुष ! किमर्थमित्थं करोषि । अहं शिरोमात्रमेवास्मि राहुवत्सदा । तवृथा मा विषीद । प्रसीद । मां राज्ञः समीपमुपनय ।" इति तद्वचनं निशम्य चमत्कृतचित्तःप्राणित्ययमिति प्रहृष्टः शूद्रकस्तच्छिरः पद्यांशूकवेष्टितं विधाय प्रातः सातवाहनमुपागमत् । अपृच्छत् पृथिवीनाथ:-"शुद्रक ! किमिदम् ?।" सोऽप्यवोचत्-" देव ! सोऽयं यस्य ऋन्दितध्वनिदेवेन रात्रौ शुश्रुवे।” इत्युक्त्वा तस्य प्रागुक्तं वृत्तं सकलमावेदयत्। पुना राजा तमेव मस्तकमप्राक्षीत्-"कस्त्वम् । For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy