SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir ॥ अथ अमरप्रबन्धः -- श्रीअणहिल्लपत्तनासन्नं बायटं नाम महास्थानमास्ते, चतुरशीतिमहास्थानानामन्यतमत् । तत्र परकायप्रवेशविद्यासम्पन्नश्रीजीवदेवसूरिसन्ताने श्रीजिनदत्तसूरयो जगर्जुः। तेषां शिष्योऽमरो नाम प्रज्ञाचूडामणिः । स श्रीजिनदत्तसूरिभक्तात् कबिराजअरिसिंहात् सिद्धसारस्वतं मन्त्रमग्रहीत् । तद्गच्छमहाभक्तस्य विवेकनिधेः कोष्टागारिकस्य पद्मस्य विशालतमसदनैकदेशे विजने एकविंशत्याचाम्लर्निद्राजयासरजयकषा| यजयादिदत्तावधानस्तं मन्त्रमजपत् । विस्तरेण होमं चक्रे । एकविंशतितम्या रात्री मध्यप्राप्तायां नभस्युभ्यु| दिताच्चन्द्रबिम्बान्निर्गत्य स्वरूपेणागत्यामरे भारती करकमण्डलुजलममलमपीप्यत् । वरं च प्राक्षीत्-"सिद्धकविर्भव । निःशेषनरपतिपूजागौरवताश्चैधि ।" इति वरं दत्त्वा गता भगवती । जातः कविपरिरमरः। रचिता काव्यकल्पलता नाम कविशिक्षा, छन्दोरत्नावली, सूक्तावली च । कलाकलापाख्यं च शास्त्रं निबद्धं, बालहाभारतं च बालभारते प्रभातवर्णने "दधिमथनविलोलल्लोलदृग्वेणिदम्भादद्यमदयमनको विश्वविश्वकता। भवपरिभवकोपत्यक्तबाणः कृपाणः श्रममिव दिवसादी व्यक्तशक्तिपनक्ति ॥१॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy