________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव वीराः। अनेन महाव्रतेन महत्तरः स्फुरिष्यसि ।
एकादशाधिके तत्र जाते वर्षशताष्टके । विक्रमात्सोऽभवत्सूरिः कृष्णचैत्राष्टमीदिने ॥१॥ गुरुणा आमराजसमीपे प्रेषितः । तत्र प्राप्तः। गोपगिरेः प्राशुकवनोद्देशे स्थितः। राजा अभ्यागत्य महामहेन तं पुरी प्रावीविशत् । श्रीवप्पभद्दसूरिणा तत्र देशना क्लेशनाशिनी दत्ता
श्रीरियं प्रायशः पुंसामुपस्कारैककारणम् । तामुपस्कुर्वते ये तु रत्नसूस्तैरसौ रसा ॥१॥ आमेन गुरूपदेशादेकोत्तरहस्तशतप्रमाणः प्रासादः कारयामास गोपगिरौ। अष्टादशभारप्रमाणं श्री वर्द्धमानविम्बं तत्र निवेशयांबभूवे । प्रतिष्ठां विधापयांचके । तत्र चैये मूलमण्डपः सपादलक्षण सौवर्ण कैर्निष्पन्न इति बुधाः प्राहुः । आमः कुञ्जरारूढः सर्वा चैत्यवन्दनाय याति । मिथ्यादृशां दृशौ सैन्धवेन पूर्येते सम्यग्दृशां त्वमृतेनेव । एवं प्रभावनाः। प्रातर्नृपो मौलमनर्घ्य स्वं सिंहासनं सूरये निवेशापयति। तद्दृष्ट्वा विप्रैः क्रुधा ज्वलितैर्भूपो विज्ञप्तः-"देव! श्वेताम्बरा अमी शूद्राः। एभ्यः सिंहासनं किम् । अथास्तां तत् । परं हस्वीयो भवतु न महत् । मुहुर्मुहुस्तैरित्थं विज्ञप्त्या कदर्थ्यमानः पार्थिवो मौलसिंहासनं कोशगं कारयित्वाऽन्यल्लघ्वारूरुपत् । प्रत्यूषे सूरीन्द्रेण तद् दृष्ट्वा रुष्टेनेव राज्ञोऽग्रे पठितम्
For Private And Personal