________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रबन्ध
चतुर्विशति ॥३१॥
गोपालगिरिं प्राप । राजा सबलवाहनः संमुखमगात् । प्रवेशमहमकार्षीत् । सौधमानैषीत् । अवोचत च- " भगवन् ! अर्द्धराज्यं गृहाण ।" तेनोक्तम्-अस्माकं निर्ग्रन्थानां सावद्येन राज्येन किं कार्यन् ? यतः
अनेकयोनिसम्पाताऽनन्तबाधा विधायिनी । अभिमानफलैवेयं राज्यश्रीः सापि नश्वरी ॥१॥
ततो राज्ञाऽसौ तुङ्गधवलगृहे स्थापितः । प्रातः सभामागताय बप्पभट्टये नृपेण सिंहासनं मण्डापितम् ।। तेन गदितम्-"ऊर्वीपते! आचार्यपदं विना सिंहासनं न युक्तम् । गुर्वाशतना भवेत्। ततो राज्ञा बप्पभहिः प्रधानसचिवैः सह गुर्वन्तिके प्रहितः। विज्ञप्तिका दत्ता-“यदि मम प्राणैः कार्य तदा प्रसद्य सद्योऽयं महर्षिः सूरिपदे स्थाप्यः । 'योग्यं सुतं च शिष्यं च नयन्ति गुरवः श्रियम् ।' स्थापितमात्रश्चात्र शिघ्रं प्रेषणीयः ।। अन्यथाऽहं न भवामि । मा विलम्ब्यतामिति ।" अखण्डप्रयाणकैर्मोढेरकं प्राप्तो बप्पभट्टिः। सचिवैः सूरयो विज्ञप्ताः-" प्रभो ! राजविज्ञप्त्यर्थोऽनुसार्यः । उचितज्ञा हि भवादृशाः।"
अथ श्रीसिद्धसेनाचार्यबप्पभहिः सूरिपदे स्थापितः। तदङ्गे श्रीः साक्षादिव संक्रामन्ती दृष्टा । रहश्च शिक्षा दत्ता-" वत्स ! तव राजसत्कारो भृशं भावी । ततश्च लक्ष्मीः प्रवर्त्यति । तत इन्द्रियजयो दुष्करः। त्वं महाब्रह्मचारी भवः।
For Private And Personal