SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पतः-आरंभगुर्षी क्षयिणी क्रमेण हस्वा पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्द्धपरार्द्धभिन्ना च्छायैव मैत्री खलसज्जनानाम् ॥१॥ कियस्यपि काले यशोवर्मनृपेणासाध्यव्याधितेन पट्टाभिषेकार्थमामकुमाराकारणाय प्रधानपुरुषाः प्रेषिताः। अनिच्छन्नपि तैस्तत्र नीतः। पितुर्मेलितः । पित्राऽऽलिङ्गितः सवाष्पगदगदमुपालन्धश्च धिग्वृत्तवृत्तमुचितां शुचितां धिगेतां धिक् कुन्दसुन्दरगुणग्रहणाग्रहित्वम् । चक्रेऽङ्कसीम्नि तव मौक्तिक येन वृद्धिर्वार्द्धन तस्य कथमप्युपयुज्यसे यत् ॥ २॥ (2) अभिषिक्तः स्वराज्ये । शिक्षितश्च प्रजापालनादौ । एतत्कृत्वा यशोधर्मा अर्हन्तं विधा शुद्ध्या शरणं श्रयन् यां गतः। आमराजा पितुरौर्द्धदेहिकं कृतवान् । द्विजादिदीनलोकाय वित्तं दत्तवान् । लक्षद्वितयमश्वानां हस्तिनां रथानां च । प्रत्येकं चतुर्दशशती एका कोटी पदातीनाम् । एवं राज्यश्रीः श्रीआमस्य न्यायरामस्य । तथापि वप्पभट्टिमित्रं विना पलालपूलप्रायं मन्यते स्म । ततो मित्रानयनाय प्रधानपुरुषान् प्रेषीत् । तैस्तत्र गत्वा विज्ञप्तम्-"हे! श्रीपप्पभद्दे ! आमराजः समुत्कण्ठयाऽऽयति । आगम्यताम् ।" बप्पमहिना गुरूणां बदनकमलमवलोकितम् । तैः समानमत्या गीतार्थयतिभिः समं बरपभहिमानिः प्रहितः । आमस्य पुरं For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy