SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विंशति ॥११॥ तथा कुर्षन् गच्छेन ज्ञातो निषिद्धो न निवर्तते, रसनेन्द्रियपरवशत्वात् । ततः सङ्घन हक्कितः । क्रुद्धवा गत्वा बौद्धानां मिलितः । तदाचार्य इव जातः । बोद्धानां पात्राणि मठात्वेन गृहमेधिनां गृहेषु नयति । ततो भक्त| पूर्णानि तानि खेनैव मठमायान्ति । तथा दृष्ट्वा लोको बौद्धभक्तोभवन्नास्ते । यदुचितं तत्कुरुध्वम् । तदवधाफर्यखपटदेवा भृगुपुरमगुः । प्रच्छन्नाः स्थिताः । बौद्धानां पान्नाणि अन्नपूर्णान्यागच्छन्ति । शिलाविकुर्वणेन खे बभञ्जः। पतन्ति पात्रेभ्यः शालिमण्डकमोदकाचंशाच लोकस्य मस्तकेषु । चेलकः सूरीणां समागमनं संभाव्य भीतो नष्टो वराकः । सूरयः ससङ्घा बौद्धानां प्रासादमगमन् । वुद्ध उपलमूर्तिः सम्मुख उत्थितः 'जय जय महर्षिकुलशेखरः' इत्यादि स्तुतीरतनिष्ट । पुनर्जिनपतिशासनस्य प्रभावः प्रदिदीपे । आर्यखपटा अन्यत्र विजहुः। इतश्च पाटलीपुत्रपत्तने दाहडो नाम नृपो विप्रभक्तो जैनयतीनाह्वयत् , अवोचच्च-"विप्रान्नमस्कुरुत, इति ।” जैनरुक्तम्-" राजन् ! नेदं युक्तम् , गृहिणोऽमी, वयं च यतयो वन्द्याः "। दाहडेनोक्तम्"न वन्दध्वे चेच्छिरांसि वः कृन्तामि । " जैनयतिभिः सप्तदिनी याचिता। राज्ञा दत्ता। दैवादार्यखपट-| शिष्य उपाध्यायो महेन्द्रनामा भृगुकच्छात्तत्रायातः । तद्ने यतिभिः स्वदुःखं कथितम् । तेन संधीरितास्ते । प्रातः करवीरकम्बे द्वे रक्तश्वेते लात्वा माहेन्द्र उपदाइडमगात् । तदाऽष्टमदिनप्रत्यूषं वर्तते । राज्ञोक्तम् For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy