________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दानं आगारस्थापनं वर्णाश्रमव्यवस्था गुरुभक्तिस्तथा सर्वमारब्धम् । ततोऽभिनयो राम इत्यात्मानं पाठयति । तद् दृष्ट्वा मन्त्रिभिश्चिन्त्यते स्म-" अनुचितकारी अस्मत्प्रभुः । यो गर्वादात्मानं तद्वन्मन्यते । अयं गर्वोsस्योपायेनोत्तारयितव्यः प्रस्तावे।" इतश्च त्वपित्रा विक्रमादित्येन पृष्टम्-"लोके स कोपि काप्यास्ते पोऽश्रुतपूर्व रामस्याचरणं ज्ञापयति नः।” तत एकेन ज्यायसा मन्त्रिणाऽपरमन्त्रिप्रेरितेन कथितम्-"राजेन्द्र ! कोशलायां विप्र एको वृद्धोऽस्ति। स काश्चित् श्रीरामस्य वार्ताः पारम्पर्यायाताः सम्यग् विवेद । आहूय पृच्छयते।" | राज्ञा आहूतः सः। सगौरवमायातः पूजितः पृष्टश्च-"वृद्ध ! वद काश्चिद्रामकथां नव्याम् ।" विप्रो बभाण"पृथ्वीनाथ ! यदि कोशलायामागच्छसि । तदा रामस्य कमपि प्रबन्धं साक्षाद्दर्शयामि । इह स्थितस्तु वक्तुं न पारयामि ।" तदा राज्ञा राज्यभारो मन्त्रिषु न्यस्तः । स्वयं महाचमूसहितो वृद्धद्विजयुक् अयोध्योपशल्यां ययौ । स्कन्धावारे तस्थौ । तदानीं स एव सर्वदिगीश इत्यभीः विप्रो भाषितः क्षमापालेन-"दर्शय रामदेवचरित्रम् ।" ततो विप्रः स्थानमेकं दर्शयित्वा भूपालमालपत्-"इदं भूखण्डं खानयत ।” ततः खानयति क्षमापालः । खनयत्सु खनकेषु प्रथमं हेमकलशः। ततो हैमी मण्डपिका प्रकटीवभूव । उपरितनं रजोपसारितम् । पश्चानुपूा प्रथमद्वितीयतृतीयक्षणा हैमा दृष्टा महीभुजा । चतुर्थे क्षणे नीरजे कृते विपुला उपानदेका हैम| सूत्रकृता ज्योतिर्जालजटामाणिक्यखचिता दृष्टा । भूपेन विस्मितेन गृहीत्वा हृदि शिरसि निहिता। अहो !
For Private And Personal