SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विंशति ॥८९॥ धारः प्राहरके स्थितः। तेन काष्ठपुत्रिका तरुणीसदृशी कृता समग्राऽपि । द्वितीयाहरे स्वर्णकारो यामिकः। तेनाभरणैर्विभूषिता । तृतीये शालापतिः । तेन क्षौमाणि परिधापिता। चतुर्थे विप्रेण सजीवा कृता। प्रातः सजीवां दृष्ट्वा सर्वेऽपि तजिघृक्षया मिथो विवदन्ते । तर्हि कस्य सा भो ! विक्रमादित्यनरेन्द्र ! ?। सा नाम श्रुत्वा चुक्षोभ। राज्ञोक्तम्-"तदहं न वच्मि ।" तयोरकथयन्तोश्च तया जल्पितम्-" भो राजन् ! कस्य सा?" राज्ञोक्तम्-" स्वर्णकारस्य । अधुनापि यः स्वर्ण चटापयति स एव भर्ती भवति ४॥" सा पप्रच्छ-" के यूयम् ।" दीपस्थेन वेतालेनोक्तम्-" असौ स विक्रमादित्यः।" सा हृष्टा व्यूढा च । तां गृहीत्वाऽवन्तीमागमत् । यदीदृग् तत्समकः, आधिक्ये तु का कषेति हसितम् । विक्रमसेनेन गर्वस्त्यक्तः ॥ ततो विक्रमसेनः पुरोधसमप्राक्षीत्-" यदि किल एताः काष्टपुत्रिका मम पितरमभुतगुणं वर्णयन्ति । तर्हि स एव लोके तत्प्रथमतयोत्तमत्वेनावती! भविष्यति । ततः प्राक् तु न कोऽपि ताहगुत्तमोऽभूदिति ब्रूमः।” पुरोधाः प्राह-"राजन् ! अनादिरियं रत्नगर्भा। अनादिश्चतुर्युगी । युगे युगे नररत्नानि जायन्ते । अहमेव प्रधानमिति गर्वो न हितकारी न च निर्वहते। यतस्त्वत्पितुर्विक्रमादित्यस्य मनस्येकदा एवमभूत्। यथा रामेण व्यवहृत्य लोकः सुखीकृतः । तथाऽहमपि करिष्ये । ततो रामायणं व्याख्यापितम् । तत्र यथा रामस्य । For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy