________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
राज्ञा स्वर्णपालनकं जल्पितम् । तदपि कथामाह-"कस्मिन्नपि ग्रामे कश्चित्कुल पुत्रः स परिणीतोऽन्यग्रामे। परं तत्परनी श्वसुरगृहे नागच्छति । स स्वजननिर्गुण इति हस्यते । एकदा सर्वजनप्रेरितो मित्रयुतो तत्र गतः । मागें यक्षस्य शिरो नामितम् । तत्प्रभावात्सादरा जाना, आगन्तुं प्रवृत्ता । यक्षभत्रने सप्तीपमागते स एकाकी यक्ष नन्तुमागच्छत् । यक्षेण स्त्रीलोभेन तस्य शिरश्छेदितम् । महत्यां बेलायां मित्रमारानम्। तदवस्थो जातो धनिको दृष्टः। चिन्तितं च तेन-"जनप्रवादो भविष्यति यथा-अनेन स्त्रीतोहनः ।" तर्हि ममापि मर्तुं युक्तम् । इति विचिन्त्य तेनापि स्खशिरः छिन्नम् । महतिवेलायां साप्यागता। द्वावपि तदवस्थौ प्रेक्ष्य चिन्तितं तया-"जनोऽग्रेऽपि द्वेषिणी कश्यास्ति, सम्प्रति पतिनीमिति कथयिष्यन्ति । तर्हि |ब्रियेऽहं ।" इति ध्यात्वा गले शधिका लगापिता । तावता यक्षेण करे धृता। मा साहसं कुरु । तयोक्तम्"द्वावपि जीवय ।" यक्षेणोक्तम्-"शिरसी निजनिजकबन्धे योजय!" तयोत्सुकयाऽन्यान्यकबन्धयोय॑स्ते। तयोभीर्याविवादो जात:-"एको वदति पदीया द्वितीयोऽपि तथा ।" तर्हि कस्य सा?। राज्ञोक्तं-“यस्य कधन्धे शिरः स भर्ता, सर्वस्य गात्रस्य शिरः प्रधानमिति वचनात् ॥"
'क'रसमुद्गोपि कथामाह-"कुतोऽपि ग्रामात्स्वस्वकलाविदश्चत्वारः सुहृदो देशान्तरं चेलुः, एकः काष्टसुन्नधारः द्वितीयः स्वर्णकारः तृतीयः शालापतिः तुर्यो विप्रः । कापि वने रात्रावुषिताः। प्रथमयासे सूत्र
For Private And Personal