________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shei Kailashsagarsuri Gyanmandit
कस्यापि प्राक्तनः कनकपूर्णः शौल्वः कलशो निरगात् । तमादाय श्रीवस्तुपालः तेजपालजायां अनुपदेवी मान्यतया अपृच्छत्-"क्व एतनिधीयते ? । तयोक्तम्-"गिरिशिखरे एतदुच्चैः स्थाप्यते । यथा प्रस्तुतनिधिवन्नान्यसाद् भवति ।” तत् श्रुत्वा श्रीवस्तुपालः तव्यं श्रीशत्रुञ्जयोज्जयन्तादी अव्ययत् । कृतयात्रो व्यावृत्तो धवलकपुरमगात् । अत्रान्तरे महणलदेवी नामा कन्यकुब्जेश्वरसुला जनकात् प्रसन्नात् गुजरधरां कधुलिकापदे लब्धा सुचिरं भुक्त्वा कालेन मृत्वा तस्यैव गुर्जरदेशस्य अधिष्ठात्री महर्द्धिय॑न्तरी जाता। सा धवलकके शय्यायां सुखविश्रान्तं राणकश्रीवीरधवलं प्रत्यक्षीभूय जगाद-"राणक ! इयं गुजरधरा बनराजप्रभृतिभिर्नरेन्द्रः सप्तभिश्चापोत्कऽवश्यः षण्णवत्यधिकं शर्त वर्षाणां भुक्ता, तदनु मूलराज-चामुण्डराज-वल्लभराज-दुर्लभराज-भीम-कर्ण-जयसिंहदेव-कुमारपाल-अजयपाल-लघुभीम-अर्णोराज-एवं चौलुक्यैः सनाथीकृताः । सम्प्रति युवां पितापुत्रौ लवणप्रसादवीरधवलौ स्तः । इयं गुर्जरधरा कालवशादन्यायपरैः पापेः स्वाम्यभावान्मात्स्यन्यायेन कदर्थ्यमानास्ते म्लेच्छरिव गौः। यदि युवां वस्तुपालतंजःपाली मन्त्रिणौ कुर्वीथे । तदा राज्यप्रतापधर्मवृद्धिर्भवति । अहं महणदेवी सर्वव्यापिभिर्भवत्पुण्यैराकृष्टा बदन्त्यस्म ।" इति वदन्त्यव दिशुदिव सहसादृश्या बभूव । राणकश्रीवीरधवलः पद्मासनस्थस्तल्पोपविष्टश्चिन्तपति-"अहो देव्युपदेशः साक्षात्कर्तव्यमेव । तत्मन्त्रिदयं यद्देव्योक्तम् यतः--
For Private And Personal