________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौरी त्वाञ दृष्टीर्जितनखनवभू(१९२०)स्तद्विशेषात्तदित्थं
शीर्षाणां सैव वन्ध्या मम नवतिरभूल्लोचनानामशितिः॥१॥ अत्र शिरोऽक्षणामिति शिरसा युक्तानामक्षणामिति मध्यपदलोपी समासः कार्यः । द्वन्द्वे तु प्राण्यङ्गत्वादेकत्वं प्रामोति । ततो वामनस्थलीयकविसोमादित्येन समस्या दत्ता
'धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः'. अमरेणोक्तम्
भवस्याभूभाले हिमकरकलाग्रे गिरिसुता ललाटस्याश्लेषे हरिणमदपुण्ड्रप्रतिकृतिः।
कपईस्तत्प्रान्ते यदमरसरित्तत्र तदहो धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः॥२॥ ततः कृष्णनगरवास्तव्येन कमलादित्येन समस्या वितीर्णा
_ 'मशकगलरन्ध्र हस्तियूथं प्रविष्टम्' अमरेण पुपूरे
तटविपिनविहारोच्छृङ्खलं यत्र यादोमशकगलरन्ध्र हस्तियूथं प्रविष्टम् । बत बक न कदाचित्किं श्रुतोऽप्येष वार्द्धि: प्रतनुतिमिनितल्ले कापि गच्छ क्षणेन ॥ ३॥
For Private And Personal