SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गङ्गातीरे सुगुरुदत्तं चिन्तामणिमन्त्रं वर्षमप्रमतः साधयामास । प्रत्यक्षा त्रिपुराऽभूत् । अमोघादेशत्वादिवराप्तिः । तदादि राजगोष्टीषु भ्रमति । अलौकिकोल्लेखशिखरितं जल्पं करोति । यं कोऽपि न बुध्यते ततोतिविद्ययाऽपि लोकागोचरभूतया खिन्नः पुनर्भारतीं प्रत्यक्षीकृत्याभणत्-" मातर् ! अतिप्रज्ञाऽपि दोषाय | मे जाता । बुध्यमानवचनं मां कुरु । ” ततो देव्योक्तम् - " तर्हि मध्यरात्रेऽम्भः क्लिन्ने शिरसि दधि पिब । पश्चात्स्वपिहि । कफांशावताराज्जडतालेशमाप्नुहि । " तथैव कृतम् । बोध्यवागासीत् । खण्डनादिग्रन्थान् परःशताञ्जग्रन्थ । कृतकृत्यीभूय कासीमायासीत् । नगरतटे स्थितः । जयन्तचन्द्रमजिज्ञपत्-" अहमधीत्यागतोऽस्मि । " राजाऽपि गुणस्नेहलो हीरजेतृपण्डितेन सह सचातुर्वर्ण्यः पुरीपरिसरमसरत । श्रीहर्षो नमस्कृतः । तेनापि यथार्हमुचितं लोकाय कृतं राजानं त्वेवं तुष्टाव गोविन्दनन्दनतया च वपुः श्रिया च माऽस्मिन्नृपे कुरुत कामधियं तरुण्यः । अस्त्रीकरोति जगतां विजये स्मरः स्त्रीरस्त्रीजनः पुनरनेन विधीयते स्त्री ॥ १ ॥ व्याचख्यौ च तारखरं सरसविस्तरम् । तुष्टा सभा राजा च । पितृवैरिणं तु वादिनं दृष्ट्वा सकटाक्षमाचष्टेसाहित्ये सुकुमारवस्तुनि दृढन्यायग्रहग्रन्थिले तर्फे वा मयि संविधातरि समं लीलायते भारती । शय्या वास्तु मृदूत्तरच्छदवती दर्भाङ्कुरैरास्तृता भूमिर्वा हृदयंगमो यदि पतिस्तुल्या रतिर्योषिताम् ॥ १॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy