SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विंशति ॥ ११३ ॥ देवः । इमे वयम् । सावधानीभूय रक्षात्मानम् । त्वद्योधा अपि त्वां रक्षन्तु ।" वीरधवलेनाप्युक्तम्-"किमत्र | विकत्थध्वे । क्रिययैव दोः स्थाम प्रकाश्यताम् ।" एवमुक्तिप्रत्युक्तौ लग्नं युद्धम् । यत्नपरेषु तटस्थेषु रक्षत्स्वपि | तैर्भल्लत्रयं वीरधवलस्य भाले लिङ्गितम् । एवं त्वां हन्मः। परं एकं तव बीटकं तदा भक्षितमस्माभिः । इति वदद्भिस्तैरेव श्रीवीरधवलस्य तटस्थाः प्रहरणैः पातिताः। तेऽपि त्रयो मारवाः व्रणशतजर्जराङ्गाः सञ्जाताः। राणश्रीवीरधवलः ऊपरवटाऽश्वात्पातितः। उपरवटस्तैौरवैःस्वोत्तारक बन्धितः प्रच्छन्नः । रजसान्धं जगत् । तदा राणश्रीवीरधवलो भुवि पातितो भट्टैरुत्पाट्य लले। तावता पतिता सन्ध्या । निवृत्तं सैन्यद्वयम् । रात्री भीमसिंहीयाः सुभटाः सर्वेऽपि वदन्ति । अस्माभिर्वीरधवलः पातितः पातितः । ततो मारवैरभिहितं युष्माभिः पातित इति । किमत्राभिज्ञानम् । तैरुक्तम्-"किं भवद्भिःपातितः।” मारवैरभिदधे-“अस्माभिः पातितः। ऊपरवटो वदिष्यति ।" उत्तरकादानीय ऊपरवटो दर्शितः । तुष्टो भीमसिंहः । उक्तवांश्च शुद्धराजपुत्रेभ्यो दत्तं धनं शतधा फलति । इदमेव प्रमाणं रिपुहयहरणं क्षत्रियाणां महान् शृङ्गारः । एवं वार्ताः कुर्वतां |भटानां रात्रिर्गता । प्रातीरधवलो व्रणजर्जरोपि पटूभूयाक्षान् क्रीडितुं प्रवृत्तः। भीमसिंहसैन्यहेरिकैर्गत्वा तज्ज्ञात्वा तत्रोक्तम्-" वीरधवलः कुशली गर्जति । एवं सति यजानीथ तत्कुरुथ ।" अथ भीमसिंहाय तन्मन्त्रिभिर्विज्ञप्तम्-" देव ! अयं बद्धमूलो देशेशः। अनेन विरोधो दुरायतिः तस्मात्सन्धिः श्रेष्टः। भीम For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy