SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मानि चिन्वन्ति । तैः करण्डान्पूरयन्ति । धमिल्लानुत्तङ्गयन्ति । हारान्सारान् स्चयन्ति ।” एवं खेलन्तीनां तासां वने कोकिलकुलकलरवकलः कोलाहल उच्छलितः। तदाऽऽकर्णनादुद्यानपालक एत्य ता अद्राक्षीत् । अहोरूपमहो स्वरोज्हो प्रभेति विसिष्मिये । भक्त्या श्री उदयनं ताः समालोकितुमाह्वातुमगमत् । उदयनोऽपि कुतूहलादल्पपरिच्छदो वनमगात् । वसुदत्तिं ससखीकामालोकिष्ट । अभ्यासीच-"मनोजन्मनः महाव्याधेः परमरसायनमेतत् । अस्याः रूपसम्पत् जिह्वाभिः कोटिभिः ताभिर्वर्णयितुमशक्या। अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो तु कान्तिप्रदः शृङ्गारैकरसः स्वयं नुतनो मासो तु पुष्पाकरः । वेदाभ्यासजडः कथं तु विषयब्यावृत्तकौतुहलो निर्मातुं प्रभवेन्मनोहरभिदं रूपं पुराणो मुनिः ॥१॥ तद्यथायत्पश्यन्ति झगित्यपाङ्गसरणिद्रोणीजुषा चक्षुषा गच्छन्ति कमलोलितोभयभुजं यन्नाम वामभुवः। भाषन्ते च यदुक्तिभिः सचकितं बैदग्ध्यमुद्रात्मभिस्तद्देवस्य रसायनं रसनिधेर्मन्ये मनोजन्मनः ॥१॥ तं दृष्ट्वा सा पलायिष्ट । नृपोऽप्यन्वमाद् दुतं द्रुतम् । क्षणार्द्धन सर्वाः सख्योऽदृश्याः समपत्सत । सापि पातालविवरमाये गत एकस्मिन् प्रविष्टा । राज्ञापि ज्ञातम्-" कामरूपिणी गमिष्यत्येवेति।" तावत्करे धृत्वा तस्या वेणीदण्डो यमुनाजलप्रवाहप्रायः कृपाणिकया छिन्नः। गता सा मृगशावलोचमा । वेणी करेऽस्थात् । For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy