SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandit चतुर्विशति १९ ॥९३॥ मृगाक्षी मृगावती नाम तयोर्नन्दन: उदयनः । यः किलं नादसमुद्रो विख्यातः। यो गीतशक्त्या उज्जयिन्यां प्रवन्धः अनलगिरीभं विन्ध्याभिमुखं गच्छन्तं पुनरालाने निवेश्य चण्डप्रद्योतराज्यमद्योतयत्। स सुखेन राज्यं शास्ति यौवनस्थो भोगी कलासक्तो धीरः ललिती नायकः । इतश्च पाताले क्रौश्चहरणं नाम पत्तनम् । तत्र | वासुकिः सर्पराजः श्वेतो नीलसरोजलाञ्छितफणः। तस्य नामलदेवी नाम दयिता। विपुलो देशः। सक्षको नाम तस्य प्रतीहारो विषमादेविप्रियः । यस्य फणामण्डपे त्रयोदशभारकोव्यः विषस्य वसन्तीति श्रुतिः। वासुके पुत्री दिव्यरूपा कनी वसुदत्तिनामा। तस्याः सख्यश्चतुर्दश तद्यथा-" धारू १ वारू २ चम्पकसेना ३ वसन्तवल्ली ४ मोहमाया ५ मदनमूछो ६ रम्भा ७ विमलानना ८ तारा सारा १० चन्दनवल्ली ११ | लक्ष्मी १२ लीलावती १३ कलावती १४।" साताभिः सह वीणामृदङ्वंशसूक्तादिभिः क्रीडति । एकदा | तासां मध्यादेकया उक्तम्-“ खामिनि ! वसुदत्तिके! अहं खपरिच्छदा सधीची नरलोके कौशाम्ब्यां दिव्यरूपं महोधानं क्रीडितुमगाम् । दृष्टा तत्र बकुलविचकिलदमनकचम्पकविरहकादिद्रुमाणां सारणीनां द्रुमालवालानां वाटीकोदृस्य श्रीः । यदि खामिनी तत्कलि काम्यति, तदा तत्र पादमवधारयतु । इदं श्रुत्वा | सा वसुदत्तिका ताभिः सर्वाभिः सहेच्छासिद्ध्या सहसा तद्नं प्राप्ता । तत्र केलिं कुर्वन्ति ताः-" कुसु-ला॥3॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy