________________
Shri Mahavir Jain Aradhana Kendra
चतुर्विंशति ।। ६२ ।।
ॐॐ
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्चिरमुक्तिप्रत्युक्तिरभूत् । शीर्षाणि स्फुटितानि घातप्रतिघातैः । गते राजकुलम् । राजा साक्षिणं गवेषयति । उक्ते ते - " अत्र कलहे कोऽपि साक्षी विद्यते नवा ।" ताभ्यां जगदे - "विप्र एकस्तत्रास्ते जपतत्परः ।" गता राजकीयाः । आनीतः श्रीहर्षः पृष्टस्तयोर्नयानयौ । श्रीहर्षण गीर्वाणवाण्योक्तम्- "देव ! वैदेशिकोऽहम् । न | वेद्मि । किमप्येते प्राकृतवादिन्यौ ब्रूतः । केवलं तान्शब्दान्वीि ।" राज्ञोक्तम्- "ब्रूहि ।" तत्क्रमस्थमेव तद्| भाषितप्रतिभाषितशतमभिहितमनेन । राजा चमुत्कृतः । अहो ! प्रज्ञा अहो ! अवधारणा । दास्योर्वादं निff यथासंभव निग्रहानुग्रहौ कृत्वा प्रहित्य श्रीहर्वमपृच्छद् राजा- "कस्त्वमेवं मेधिरशिरोमणिः ? । " श्रीहणोक्तं सर्वं कथानकं स्वम् । राजन् ! पण्डितकृतदौर्जन्यात्तव पुरे दुःखी तिष्ठामि । सम्यकूपारं पर्यज्ञो राजा' पण्डितानाहृयावादीत् - " धिग् मूढाः ! इदृशेऽपि रत्ने न स्निह्यथ ।
वरं प्रज्वलिते बहावहाय निहितं वपुः । न पुनर्गुणसम्पन्ने कृतः स्वल्पोऽपि मत्सरः ॥ १ ॥ वरं सा निर्गुणाऽवस्था यस्यां कोऽपि न मत्सरी । गुणयोगे तु वैमुख्यं प्रायः सुमनसामपि ॥ २ ॥ तस्मात्खला यूथम् । गच्छत एतं महात्मानं प्रत्येकं खगृहेषु सत्कुरुत ।" तदा श्रीहर्षः प्रागदीत्यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तः करणहरणं केव कुरुते । मदुक्तिश्चेतश्चेन्मदयति सुधीभूय सुधियः किमस्या नाम स्यादरसपुरुषाराधनरसैः ॥ १ ॥
For Private And Personal
प्रबन्धः
११
॥ ६२ ॥