SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie विकलासि ?। यन्मदुक्तमपि प्रबन्धमितरप्रबन्धमिव मन्यसे।" भारत्याह-"भोः! परमर्मभाषकः न स्मरसि ? यदत्रोक्तं त्वया एकादशे सर्गे चतुःषष्टितमे काव्ये देवी पवित्रितचतुर्भुजवामभागा बागालपत्पुनरिमां गरिमाभिरामाम् । अस्थारिनिष्कृपकृपाणसनाथपाणेः पाणिग्रहादनुगृहाण गणं गुणानाम् ॥१॥ एवं मां विष्णुपत्नीत्वेन प्रकाश्य लोके रूढं कन्यात्वं लुप्तवानसि । ततो मया पुस्तकं क्षिप्तम् । याचको वञ्चको व्याधिः पञ्चत्वं मर्मभाषकः । योगिनामप्यमी पञ्च प्रायेणोडेगहेतवः॥१॥" इति वाग्देवीवाचं श्रुत्वा श्रीहर्षों बदति-"किमर्थमेकस्मिन्नवतारे नारायणं पति च पुषी, त्वं पुराणेष्यपि विष्णुपत्नीति पठ्यसे । ततः सत्यं किमिति कुप्यासि? । कुपितैः किं छुट्यते कलात् ? ।” इति श्रुत्वा खयं गृहीत्वा पुस्तकं हस्ते धारितम् । ग्रन्थश्च श्लाघितः सभासमक्षम् । श्रीहर्षेण पण्डिता उक्तास्तत्रत्याः-"ग्रन्थमत्रत्याय राज्ञे माधवदेवनाम्ने दर्शयत । श्रीजयन्तचन्द्राय च शुद्धोऽयं ग्रन्थ इति लेखं प्रदत्त ।” इति श्रुतेऽपि ग्रन्थे भारत्यभिमते ज्ञातेऽपि ते न लेखं ददते, न भूपं दर्शयन्ति । स्थितः श्रीहर्षी बहून्मासान् । जग्धं पाथेयम् । विक्रीतं वृषभादि । मितीभूतः परिच्छदः। एकदा नद्यासन्नदेशे कूपतटासन्नतमे देवकुले रुद्रजपं रहः करोति । तत्रागते कयोश्चिद्गृहिणोरुल्लण्ठे चेट्यौ । जलप्रथमपश्चाद्ग्रहणघटभरणविषये वादे लग्ने । तयो For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy