________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इति लजिरे पण्डिताः । सर्वे गृहं नीत्वा सत्कृत्यानुनीय राज्ञा च सत्कार्यज्ञैः प्रहितः श्रीहर्षः कासीम् ।। मिलितो जयन्तचन्द्राय। उक्तं सर्वम् । तुष्टः सः। प्रमृतं नैषधं लोके । अत्रान्तरे जयन्तचन्द्रस्य पद्माकरनामा प्रधाननरः श्रीअणहिलपत्तनं गतः। तत्र सरस्तटे रजकक्षालितायां शाटिकायां केतक्यामिव मधुकरकुलं निलीयमानं दृष्ट्वा विस्मितः । अप्राक्षद्रजकम्-“यस्या युवतेरियं शाटी तां मे दर्शय ।” तस्य हि मन्त्रिणस्तत्पद्मिनीत्वे निर्णयस्थं मनः । रजकेन सायं गत्वा तस्मै तद्गृहं नीत्वा तामर्पयित्वा तत्वामिनी सूहवदेवी नाम्नी शालापतिपत्नी विधवा यौवनस्था सुरूपा दर्शिता | तां कुमारपालराजपार्थादुपरोध्य तद्गृहान्नीत्वा सोमनाथयात्रां कृत्वा कासीं गतः। पद्मिनी जयन्तचन्द्रभोगिनीमकरोत् । 'सहवदेविः' इति ख्यातिमगात्। सा च सगर्वा विदुषीति कृत्वा कलाभारतीति पाठयति लोके । श्रीहर्षोऽपि नरभारतीति पाठते । तस्य तन्न सहते सा मत्सरिणी । एकदा ससत्कारमाकारितः श्रीहर्षः । भणितश्च-"त्वं कः?" श्रीहर्ष:-"कलासर्व-||A ज्ञोऽहम् ।" राज्याऽभाणि-"तर्हि मामुपानही परिधापय ।" को भावः यद्ययं न वेद्मि, इति भणति द्विजत्वात्तर्हि अज्ञः। श्रीहर्षेणाङ्गीकृतम् । गतो निलयम् । तरुवल्कलैस्तथा तथा परिकर्मितैः सायं लोलाक्षः सन् दूरस्थः स्वामिनीमाजूहवत्। चर्मकारविधिनोपानही पर्यदीधपत् । अभ्युक्षणं निक्षिपेध्वं चर्मकारोऽहमिति वदन्। रामपि तत्कृतां कुचेष्टां ज्ञापयित्वा खिन्नो गङ्गातीरे संन्यासमग्रहीत् । सा च सूहवदेविः साम्राज्येशा
For Private And Personal