________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वंशति
यत्ताऽऽगमशुद्धधीजकबलादद्यापि तत्वाभिधाः
लभ्यन्ते निधयो बुधैर्भरतभुव्यस्यां स वीरः श्रिये ॥४॥ देयासुर्वाङ्मयं मे जिनपगणभृतो भारती सारतीबा
भारत्याः सौम्यदृष्ट्या विलसतु मम सा सन्तु सन्तः प्रसन्नाः। मरिमें सदगुरुः श्रीतिलक इति कलाः स्फोरयत्वस्तविघ्नः
शिष्याः स्फूर्जन्तु गर्जन्त्वविरलसुकृतश्रेणयः श्रावकौघाः ॥५॥ इह किल शिष्येण विनीतविनयेन श्रुतजलधिपारङ्गमस्य क्रियापरस्य गुरोः समीपे विधिना सर्वमध्येसव्यम् । ततो भव्योपकाराय देशना क्लेशनाशिनी विस्तार्या । तद्विधिश्चायम्-अस्खलितम् , अमिलितम् , | अहीनाक्षरं सूत्रम् , अग्राम्यललितभङ्गयार्थः कथ्यः, कायगुप्तेन परितः सभ्येषु दत्तदृष्टिना यावदर्थयोधं वक्तव्यम् । वक्तुः प्रायेण चरितैः प्रबन्धैश्च कार्यम् । तत्र श्री ऋषभादिवर्धमानान्तानां जिनानाम् , चबधादीनां राज्ञाम् , ऋषीणां चार्यरक्षितान्तानां वृत्तानि चरितानि उच्यन्ते । तत्पश्चात्कालभाविनां तु नराणां वृत्तानि प्रबन्धा इति।
इदानी वयं गुरुमुखश्रुतानां विस्तीर्णानां रसाख्यानां प्रबन्धानां सङ्घहं कुर्वाणाः स्म । तत्र सूरिप्रवन्धा
For Private And Personal