SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विंशति तावल्लीला कवलितसरित्तावदभ्रं लिहोर्मिस्तावत्तीवध्वनितमुखरस्तावदज्ञातसीमा । तावत्प्रवत्कमठमकरव्यूहबन्धुः ससिन्धुलोपामुद्रासहचरक्रोडवर्ती न यांवत् ॥१॥ सतश्चोक्षवाटिनौवित्तिकवाद्योः पार्थक्यं कृतम् । मन्त्रिणा आ महाराष्ट्रभ्यः साधिता भूः । वेलाकूलीयनरेन्द्राणां नरेन्द्रान्तराक्रम्यमाणानां मन्त्री प्रतिग्रहप्रेषणेन सान्निध्यं कृत्वा जयश्रियं अर्पयति । इति कारणात्ते तुष्टाः बोहित्थानि सारवस्तुपूर्णानि प्राभृते प्रहिण्वन्ति । अम्बिकाकपर्दिनौ निधानभुवं रात्री समागत्य कथयतः। ते निधयो मन्त्रिणा खातं खातं गृह्यन्ते । तद्भाग्यात् दुर्भिक्षस्य नामापि नाभूत् । विड्वराणि दूरे नष्टानि । मुद्गलबलानि वारं वारमागच्छन्ति जनिरे एकदा । पुन ययुः । पल्लीवनेषु दुकूलानि नागोदराणि च बद्धानि । ग्रहीता कोऽपि न । ग्रामे ग्रामे मण्डितानि सत्राणि । सत्रे सने मिष्टान्नानि । उपरि ताम्बूलानि च । तत्र ग्लानार्थं वैद्या विविधाः प्रस्थापिताः। मन्त्रिव्यवस्थया दर्शनद्वेषो न । वर्णद्वेषो न । प्रतिवर्ष स्वदेशे सर्वनगरेषु वारतिस्रस्तिस्रः श्वेताम्बरेभ्यः प्रतिलाभना शेषदर्शनानामप्यर्चा। मन्त्रिवस्तुपालस्य पत्नी द्वे ललतादेविसोपूनाम्न्यौ कल्पवल्लिकामधेनू इव । ललितादेव्याः सुतो मन्त्रिजयन्तसिंहः सूहवदेविजानिः प्रत्यक्षचिन्तामणिः। तेजःपालदयिताऽनुपमाऽनुपमैव । पठितं च कविनालक्ष्मीश्चला शिवा चण्डी, शची सापत्न्यदूषिता। गङ्गा न्यग्गामिनी वाणी, वाक्साराऽनुपमा ततः ॥१॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy