SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रीशत्रुक्षयादिषु नन्दीश्वरेन्द्रनण्डपप्रभृतिकर्मस्थायाः प्रारम्भिवता आरासणादिदलिकानि स्थलपथेन जलपथेन च तत्र तत्र प्राप्यन्ते । एकदा तौ भ्रातरौ द्वावपि मन्त्रिपुरन्दरौ महर्द्धिसङ्घोपेतो श्रीपार्श्व नन्तु स्तम्भनकपुरमीयतुः। प्रथमदिने ससङ्घौ तौ श्रीपार्श्वस्य पुरः श्रावकश्रेणिपुरःसरौ स्थिती । तदा गीतगानरासादिमहारसः प्रवर्त्तते । तदवसरे तत्रत्यसङ्घोपरोधात् तत्रत्याध्यक्षाः सूरयो मल्लवादिनः समाकारिताः। ते यावद्देवगृहं प्रविशन्ति । तावत्तैरेव पठितम् अस्मिन्नसारे संसारे सारं सारङ्गलोचनाः। मन्त्रिभ्यां श्रुतं चिन्तितं च-" अहो मठपतिहबद्देवगृहेऽपि शृङ्गाराङ्गारगर्भ पदद्वयं कथयन्नस्तीति।" देवनमस्कारादिकमुचितमिह तत्कि नाधीते । तस्माददृष्टव्योऽसौ। उपविष्टः सूरिः सः। अन्येऽपि सूरयः शतशः पनौ निषण्णाः । मङ्गलप्रदीपान्तेऽपरसूरिभिर्मल्लवादिन एवाऽशीर्वादाय प्रेरिताः। मन्त्री पुरस्तिष्ठति। 'अस्मिन्नसारे संसारे सारं' इत्यादि पादद्वयं भणितम् । तैः व्याख्यातं च तदेव । मन्त्री हस्तेन वन्दित्वा विरक्तो गतः स्वोत्तारकम् । एवं दिनाः ८ स एव पद्यार्द्धपाठश्चक्रे नवनवभङ्गया व्याख्यातः। अष्टम्यां रात्री मन्त्री मुत्कलापनिकां कर्तुं देवरङ्गमण्डप निविष्टः । पुरो धनयदरकाणां राशयः । कोऽपि कविराह For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy