SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्ध चतुर्विशति ॥१७॥ श्रीवस्तुपाल ! तव भालतले जिनाज्ञा, वाणी मुखे हृदि कृपा करपल्लवे श्रीः।। देहे युतिर्विलसतीति रुषेव कीर्तिः, पैतामहं सपदि धाम जगाम नाम ॥१॥ अपरस्तु अनिःसरन्तीमपि गेहगीत् कात्ति परेषामसती वदन्ति । स्वैरं भ्रमन्तीमपि वस्तुपाल ! त्वत्कीर्तिमाहुः कवयः सतीं तु ॥२॥ पुनः कश्चिदूचुः क्रमेण मन्दीकृतकर्णशक्तिः प्रकाशयन्ती च यलिस्वभावं। कैर्नानुभूता सशिरःप्रकम्पं जरेव दत्तिस्तव वस्तुपालः॥ ३॥ तेभ्यः कविभ्यः सहस्रलक्षाणि ददिरे। एवं गायनभद्दादिभ्योऽपि । यावज्जातं प्रातरेव तदा मल्लवादिभिः। स्वसेवकाश्चैत्यद्वारद्वयेऽपि नियुक्ताः । एकं द्वारं अन्यं दिशि एकं च मठदिशि । उक्तं चास्ति तेभ्यः-“मन्त्री चैत्यान्निःसरन् ज्ञापनीयः।"क्षणेन वस्तुपालो मठद्वारान्निर्गच्छति यावत् तावता सेवकज्ञापिताः सूरयः समागत्य सम्मुखा स्थिताः । मन्त्रिणा रीढया प्रभुप्रणाम इव कृतः, आचार्यैरभिहितम् For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy