SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | बद्धो भूत्वा सोऽप्यागतः । मन्त्रिणा वस्तुपालेनापि धवलककाद् भूरि सैन्यमानाय्याभ्यषेणयत् । रणक्षेत्रे मिलितौ द्वौ । प्रारब्धं रणम् । शङ्खन निर्दलितं मन्त्रिसैन्यं पलायिष्ट दिशोदिशि । तदा श्रीवस्तुपलेन सत्य राजपुत्रो माहचकनामा भाषितः-" इदं अस्मन्मूलघटं त्वमेव वर्तसे । अथ तत्कुरु यन श्रीवीरधवलो न लज्जते ।” ततोऽसौ राजपुत्रः स्वैरेव कतिपयैर्मित्रराजपुत्रैः सह तमभिगम्योवाच-“हे श! नेयं वडूआख्य! तब ग्रामसीमआखेटकक्रीडा किन्तु क्षत्रियाणां सङ्ग्रामोऽयम् ।" शङ्खोऽप्याह-"सुष्टु वक्तुं वेत्सि। नायं तव प्रभोः पट्टः, किल परिपन्थिनः प्रदेशः । किन्तु सुभटस्य क्रीडाक्षेत्रमिदम् । इत्यवं बादे जाते द्वन्द्वरणे माहेचकेन मन्त्रिणि पश्यति मन्त्रिप्रतापाच्छङ्खः पातितः । समरे जातो जयजयकारः । मन्त्रिणा तद्राज्य गृहीतम् । वेलाकूलनृपद्धीनां क्व संख्याः। ततः स्तम्भतीर्थमुत्तोरणमुत्पताकमविशत् । ततो मन्त्री प्रविष्टः सैदसदनम् । तस्य भवान् सप्तद्विगुणितशतानि सन्नद्धानि हत्वा तं जीवग्राहं जग्राह । विलवाणं तं कृपाणेन जघान। ततो गृहं तदीयमामूलचूलं खानितं पातितं च । हेमेष्टिकानां संख्या न | तथा मणिमुक्ताफलपदकानां प्रमाणं केनापि न ज्ञातम् । केचिद् वृद्धा वदन्ति-"तत्र तेजनतूरिकायाः करण्डश्चटितः श्रीमन्त्रीश्वरस्य । आयातो मन्त्री स्वधवलगृहम् । तोषितः स्वस्वामी वीरः परिग्रहलोकश्च । ततः कवीश्वराणां स्तुतिः श्रीवस्तुपाल प्रतिपक्षकाल ! त्वया प्रपेदे पुरुषोत्तमत्वम् । सीरपि वाद्वैरकृतेऽपि मात्स्ये रूपे पराजीयत येन शङ्खम् ॥ १॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy