SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir लक्ष्मी चलां त्यागफलां चकार, सार्थिश्रिता कीर्तिमसूत नन्दिनीम् । साऽपीच्छया क्रीडति विष्टपाग्रतस्तद्वातयाऽसौ त्रपते यतो महान् ॥ ४॥ तेषां कवीनां भूरि दानं दत्तम् । अथ कदाचन मन्त्रिणा श्रुतं यथा-"रैवतकासन्नं गच्छतां लोकानां पार्श्वतो भरटकाः पूर्वनरेन्द्रदत्तं करमुग्राद्यन्ति । पोहलिकेभ्यः कणमाणकमेकं १ कूपकात्कर्ष एकः। एवं उपद्यते लोकः।" तत आयतिदशिना सचिवेन ते भरटकाः कुहाडीनामानं ग्रामं दत्त्वा तं करमुग्राहयन्तो निषिद्धाः। अङ्कवालियाख्यो ग्रामस्तु ऋषभनेमियात्रिकाणां क्षीणधनानां स्वगृहाप्तियोग्यपाथेयद्रम्मपदे दत्तः। शत्रुञ्जयरैवतकतल्लहट्टिकानगरयोः सुखासनानि कृत्वा मुक्तानि अन्धज्वरितादीनां यात्रिकाणां तीर्थारोहणार्थम् । तदुत्पाटकनराणां तु ग्रासपदे शालिक्षेत्राणि प्रतिष्टितानि । तीर्थेषु सर्वेषु देवेभ्यो रत्नखचितानि हैमभूषणानि कारितानि । विदेशायातसूरिसुश्रूषार्थ सर्वदेशग्रामण्यो नियुक्ताः । कृतं लौकिकतीर्थकरणमपि स्वस्वामिरञ्जनार्थम् , न भक्त्या स्वयं तु सम्यग्दृष्टित्वात् । एवं तस्योपकाराः कियन्त्युच्यन्ते विवेकशिरोमणेः । एकदा स्तम्भतीर्थपुरं गतो मन्त्री धवलक्ककात् ।तत्र समुद्रतीरे यानपात्रात्तुरङ्गा उत्तरन्तः सन्ति । तदा सोमेश्वरः कवीन्द्रः आसन्नवी । मन्त्रिणा समस्या पृष्टा For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy