________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रबन्धः
२४
चतुर्विशति ॥ १२८ ॥
गृहादागेव दत्ता बहुमिलितयाचकेभ्यः । मिलितो मन्त्रिगृहे साऽपि लोकः । स सत्कृत्य प्रेषितः। कवयस्तु पठन्ति।
श्रीमन्ति दृष्ट्वा द्विजराजमेकं पद्मानि सङ्कोचमहो भजन्ति ।। समागतेऽपि द्विजराजलक्षे सदा विकासि तव पाणिपद्मः ॥१॥ उच्चाटने विद्विषतां रमाणामाकर्षणे स्वामिहृदश्च वश्य ।
एकोपि मन्त्रीश्वरवस्तुपाल ! सिद्धस्तव स्फूर्तिमियर्ति मन्त्रः॥२॥ ___ एवं स्तूयमान उत्तमत्वात्लजमानो वस्तुपालोऽधो विलोकयामास । ततो महानगरवासिना नानककविना भणितम्एकस्त्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितं, लज्जानम्रशिराः स्थिरातलमिदं यदीक्षसे वेनि तत्। वाग्देवीवदनारविन्दतिलक श्रीवस्तुपाल ! ध्रुवम् , पातालालिमुद्दिधीर्षुरसकृन्मार्ग भवान्मार्गति ॥३॥ तदैव कृष्णनगरीयकविकमलादित्येन भड्यन्तरमुक्तम्
॥ १२८॥
For Private And Personal